09 समयपरिपालनविधिः

समयपरिपालनविधिः समयपरिपालकानामेव शीघ्रं सिद्धिर्भवतीति समयाः कतिचिदुच्यन्ते। तथा च शबरपादीयसाधने- वरं प्राणपरित्यागो वरं मृत्युसमागमः।
यदि सिद्धिं परामिच्छन् रक्षयेत्समयं सदा॥

पिशुनेषु च दयाचित्तं न त्याज्यम्। सुशीलानामपराधिनां नाभिचारो विधेयः। लाभसत्काराद्यर्थमात्मगुणोद्भेदः परिहरणीयः। भयमानमदक्रोधलोभमोहादयो निवारणीयाः। वामाचार एव सदा भवेत्। मन्त्रदेवतयोर्न भेदः कार्यः। प्रकृतिपरिशुद्धिमधिमुच्य लोकावध्यानमनुरक्ष्य भक्ष्याभक्ष्यविचारः परिहरणीयः। दुष्करचर्यया नात्यन्तमात्मा खेदयितव्यः। योषितो नावमन्तव्या विशेषतो मुद्राधारिण्यः।
स्त्यानमिद्धमौद्धत्यादिकं च परिहरणीयम्। मूलापत्तयश्चाष्टौ परिहरणीयाः। सर्वदा सत्त्वकार्येषु दक्षो भवेत्। स्नानादिपरिचर्या यत्नतो विधेयाः।
एवमेव परान् स्वकार्ये नियोजयेत्।
सर्वशङ्काविनिर्मुक्तः सर्वद्वन्द्वविवर्जितः॥

सिंहवद्विहरेत् योगी। एते चान्ये च समयास्तत्रोक्ताः परिपालनीयाः। शबरपादीयसाधनोक्ताश्च समयाश्चिन्तनीयाः।
इति समयपरिपालनविधिः।
श्रीमद्विक्रमशीलदेवमहाविहारीयमहापण्डितभिक्षुवीर्यश्रीमित्रविरचिता मर्मकलिकानाम तत्त्वज्ञानसंसिद्धिपञ्जिका समाप्ता।
अनेन यत्कृतं पुण्यं लिखता तत्त्वपञ्जिकाम्।
तेनास्तु निखिलो लोको ज्ञानसंसिद्धिभाजनम्॥

व्यलेखि पुस्तकराजं च्छात्त्रविजयरक्षितेन दिनपञ्चकेन निष्पत्तीयं (न्नेदं)पुस्तकम्।
शशाङ्कबिन्दुविषयगताब्दमाघेऽशिते भूमिसुते दशम्याम्।
आषाढपूर्ववरियानयोगे श्रुतं तदा श्रीरणमेघपालैः॥

श्रीमर्मकलिकासारां तत्त्वज्ञानस्य पञ्जिकाम्।
श्रुतां पञ्चाधिराजेन मेघपालेन धीमता॥