जपविधिः
यथाविधिनिष्पादिताक्षसूत्रेण निष्पादिता मन्त्राः सुसिद्धिदा भवन्तीति तद्विधानं किञ्चिदुच्यते। अक्षं ज्ञानमधिमुक्तदेवतारूपमुच्यते। तत्सूचनादक्षसूत्रं तन्त्रेषु परिगीयते।
अक्षराणां च मन्त्राणां सूचनादक्षसूत्रकम्।
पृषोदरादिपाठेन रेफलोपं च दर्शितम्॥
सकलक्लेशजालानां विद्वेषाय निरंशुकैः।
महार्थसाधकः कुर्यात् मालिकां सुखपालिकाम्॥
उक्तञ्च विकल्पराजे-निरंशुके विद्वेषणमिति।
पुत्रजीवं च कथितं संपुटे सार्वकर्मिकम्।
शतेन शान्तिकं ख्यातमष्टाधिकेन पौष्टिकम्॥
वश्यं स्यात् पञ्चविंशत्या पञ्चाशत् सार्वकर्मिकम्।
वैशारद्यादिसद्धर्मरूपो मेरुः प्रकीर्तितः॥
धर्मधातुविशुद्धया तु तदूर्ध्वमपराङ्गुलीः।
इति केचिन्नवैः सूत्रैः कुमारीकर्तितैर्गुणैः॥
मुखान्निसृत्य कमलं प्रविश्य मध्यवर्त्मना।
पुनः पुनर्मुखात्पद्ममिति जापस्य लक्षणम्॥
वँ बीजादेव निर्गच्छेदिति कश्चिद् गुरुर्मम।
अत्र प्रयोजनाभावान्नोक्तैवापरमालिका॥
शान्तिके क्रोधविन्यस्तुः पौष्टिके मध्यतत्त्वतः।
अनामा वश्यमित्युक्तं पर्यन्तमभिचारतः॥
इति वज्रडाककारिकायामङ्गुलीनियमः। इति जपविधिः॥