06 पूजाविधिः

पूजाविधिः परम्परायातपूजाविधिर्लिख्यते। आदौ च भगवत्यहङ्कारमवलम्ब्य ॐ सुम्भ निसुम्भ हूँ हूँ फट्। ॐ गृह्ण गृह्ण हूँ हूँ फट्। ॐ गृह्णापय गृह्णापय हूँ हूँ फट्। ॐ आनय हो भगवन् वज्र हूँ हूँ फडिति चतुर्मुखमन्त्रैर्दिग्बन्धं कृत्वा शुचौ प्रदेशे त्र्यक्षरेण भूमिमधिष्ठाय कुङ्कुमरक्तचन्दनादिसरागसुगन्धिद्रव्यैः ॐ आँ गाँ राँ डेँ माँ काँ प्रेँ त्रिँ काँ कँ रँ कँ हिँ प्रँ गुँ सोँ लुँ मँ कुँ। पूर्वोक्तचतुर्मुखमन्त्राणामेकैकमन्त्रोच्चारणपूर्वकं पूर्वादिषु वामावर्तेन वामहस्तेन चतुरस्रं मण्डलं कारयेत्। पूँ जाँ इत्यादि चतुर्विंशत्यक्षरपीठोपपीठक्षेत्रोपक्षेत्रच्छन्दोहोपच्छन्दोहमेलापकोपमेलापक श्मशानोपश्मशानोच्चारणमपि कर्तव्यमिति केचिदाम्नायविदः। ततो वामकरानामिकाग्रे षट्कोणमण्डलमध्यविलसितवँकारं बहिः पूर्वादिदिक्क्रमेण विनिर्मितचतुः स्वस्तिकं विलिख्य ॐ वज्ररेखे हूँ स्वाहा इति रेखामाकृष्य ॐ सुरेखे सर्वतथागताधितिष्ठन्तु स्वाहेति रेखामधितिष्ठेत्। तत आक्रान्तपादोर्ध्वदृष्टिस्तु मूर्ध्ना फेंकारनादतो ज्वालामुद्रां बद्धवा वामावर्तेन भ्रामयेत्। जः हूँ वँ होः इत्यादि कर्षणादिमन्त्रपुरः सरमकनिष्ठभुवनवर्तिनीं देवीमाकृष्य प्रवेश्य बद्धां कृत्वा परितोषयेत्। ततस्तामेव देवीं षड्योगिनीपरिवृतां रक्तां शृङ्गारादिनवनाट्यरसोपेतामष्टदिक्पतिसहितां नानायोगयोगिनीभूतप्रेतपिशाचडाकडाकिनीसमाबद्धसुविशुद्धसमयमण्डल(म?)स्य श्मशानस्य मध्ये नृत्यन्तीं भावनया अभिमुखीकृत्य मन्त्रोद्धारोत्थितहृदयमन्त्रेणैव देवीं रक्तवर्णकुसुमैरर्चयेत्। ततः ॐ वँ होँ योँ ह्रीँ मोँ हेँ ह्रीँ ह्रँ ह्रँ फट् इति मन्त्रैस्त्र्यक्षरमन्त्रमिलितैः षड्देवीसम्बोधनपादविदर्भितैः षट्कोणेषु षड्देवीरर्चयेत्। ॐ आः नन्द्यावर्त हूँ फट् इति नन्द्यावर्तानपि चतुर्दिक्षु पूजयेत्। डाकिन्यादिचतुर्देवीरपि मध्येषु पूर्वादिषु पूजयेदित्याम्नायान्तरम्। ततः स्तुतिपूजादिकं कृत्वा मुरिति विसर्जयेत्। यथाशक्तितो वस्त्रान्नपानपिष्टकादिभिः कुमारीपूजाऽवश्यं विधेया॥

इति पूजाविधिः॥