p.1 उपोद्घातः नमः श्रीहेवज्राय॥
श्रीमद्धेरुकं नाथं सुखपहलसंकुलं निःस्व भावस्वभावं शान्तं खसमं परं सर्वगं शून्याभिन्नं नैरात्मागर्भस्थितम्।
नूर्तं चतुरानन्दं निर्वाणगतिंगतं विरहितकलुषं शुद्धं द्वेषमुषितं वन्दे डाकिनीनाथं कपालाकुलं प्रभुम्॥
नमामि हेरुकं नाथं नैरात्मासहविग्रहम्।
तत्साधनम् अहं वक्ष्ये मूलतन्त्रानुसारतः॥
अथ श्रीमद्धेवज्रडाकिनीजालमहा तन्त्रराजे यद् उक्तम् आस्ते तस्माद् उद्धृत्यार्यसरोरुहपादैर् अस्तव्यस्तेनाम्नायोगदेशरक्षणार्थं सण्गोप्योक्तम् अभिसमयं मिथ्यागर्वितसत्त्वान् दृष्ट्वा डाकिनीजालभयाच् च। किञ्चिदूष्मप्राप्तिकाले चेद् अभिसमयस्पष्टीकरणहेतोर् मया सरोरुहपादनप्तृसुतपुत्रेण भद्रनाम्ना प्रसिद्धेन कोदाल्याध्ये षितेन वज्रडाकिन्यादेशेन तथा च मूलतन्त्रे यद् उक्तम् आस्ते तद् दृष्ट्वा श्रुत्वा साक्षात्कृत्वा द्वेषवज्रसाधनं वच्मि। ये केचिद् अर्थिनः श्रीमद्धेवज्रडाकिनीजालमहातन्त्रराजेन तद्धेतोः॥
p.2 साधनम् अथ प्रथमं तावत् मन्त्री यथागुर्वाराधनादिपरिपाट्याराध्य गुरोः सम्यग् आम्नायोपदेशान् गृहीत्वा तावच् चरेद् गुप्तेन यावत् किञ्चिद्लाभप्राप्तिर् न भवेत्। प्राप्ते सति यथोक्तां प्रज्ञाम् उत्पाद्यात्मसामर्थ्येन नो वा निमित्तेन लब्ध्वा। श्मशानादौ वनारण्ये वा गच्चेद् योगी यावत् महामुद्रालाभः स्यात्॥
तरेयं भावना गुप्तयोगेन। सुखासन उपविश्य मन्त्री रेफेण सूर्यं स्वहृदये विभाव्य। तदुपरि नीलवर्णहूंकारं पञ्चरश्मिकं दृष्ट्वा। तान् रश्मीन् आकाशे संस्फार्यानन्तलोकधातून् अवभास्य - शीहेरुको ऽयं इति उच्चारणात् - स्वेष्टदेवताचक्रं गुरुबुद्धबोधिसत्त्वादींश् चानीयाग्रे विचिन्त्यार्घपाद्यादिकं दत्त्वा। पुष्पधूपादिभिर् अभ्यर्च्य। तदनु स्वेष्टदेवतां पुरतः -
गौरी मृगलाञ्चनं ध्र्ति चौरी मार्तंडभाजनम्।
वेताली वारिहस्ता च भैषज्यं धर्ति घस्मरी॥
पुक्कसी बलहस्ता च शबरी रसधरी भवेत्।
चण्डाली डमरुकं वादयेत् डोम्ब्य् आलिण्गनं प्रदर्शयेत्॥
एताभिस् तावत् संपूज्य। भगवन्तं स्फुरत्संहारविग्रहं ध्यात्वा। तस्याग्रतः सप्तविधानुत्तरपूजां कुर्यात्॥
p.3 यद् अनादिसंसारे जन्मावर्तविडम्बनैर् यत्र यत्रोपपद्य कृतं मया पापकं कर्म तत् सर्वम् प्रतिदेशयामि भगवदग्रतः पुनरकरणाय। तद् अन्यस्य संसारजन्मजन्मोपपद्य कृतकारितानुमोदितम्। पुण्यं सत्त्वानाम् अनुमोदयामि। आत्मनो ऽपि तत् सर्वं परिणामयामि अनुत्तरायां सम्यक्संबोधौ सत्त्वानां बोधिचित्तोत्पत्त्यर्थम्॥
सर्वगम् महाज्ञानं हेकारवज्रं बुद्धं। तेन यद् उक्तं तन्त्रमन्त्रादि धर्मं। तच्चक्रस्थितदेवतीगणं सण्घम् शरणं गत्वा। भगवन् समन्वाहार्यताम् अक्षयफलं प्राप्नुयाम् इति कृत्वा बोधिचित्तम् उत्पादयेत्॥
पश्चात् सर्वसत्त्वार्थकरणहेतोः सर्वाकारवरोपेतशून्यतायां चित्तं निरूप्यानेन मार्गाश्रयणम्। पुनस् तेभ्य आत्मानम् आत्मना दानं दत्त्वा। पश्चात् साधन चरणम् आरभेत्॥
तदनु प्रथमं भावयेन मैत्रीम् एकपुत्रप्रेमतां सर्वसत्त्वेषु॥
द्वितीये महार्णवदुर्गतौ करुणा॥
तृतीये महच् चित्तम् उत्पाद्य सर्वे संबोधौ मया प्रतिष्ठापयितव्याः हेरुकरूपेणात्मानं सिद्धं बुद्ध्वा हसतीति मुदिता॥
चतुर्थे यशो ऽयशोलाभालाभसु खदुःखस्तुतिनिन्दाग्रहं नास्तीति उपेक्षा॥
एवं चतुर्ब्रह्मविहारभावनापर्यन्ते मृतकाक्रान्तम् आत्मानं विभाव्य। ज्ञानालोकवज्रसमाधियोगेन प्राकृतशरीराभावं p.4 कृत्वा। तदनु झटिति वंकारेण शरच्चन्द्रकराकारं भुजद्वयसुशोभनं धर्ममुद्रया कारयुग्मम् आपन्नं वज्रपर्यण्कोपविष्टं शवोपरि चन्द्रस्थं भासितानन्तलोकधातुकं द्वात्रिंशल्लक्षणधरं व्यञ्जनाशीतिराजितं सहजनाथं प्रभुम् अतिशान्तं पश्येत्॥
तथा च -
अक्षरोद्भवपिण्डस्य हूं-फट्-कारौ न चेष्यते।
इति वचनात्। ततः -
स्वहृदि भावयेद् रेफं तद्भवं सूर्यमण्डलम्।
तरैव हूंकृतिञ् चैव प्रज्ञोपायस्वरूपकम्॥
कृष्णवर्णं महाघोरं हूंकाराद् वज्रम् उद्भवेत्।
वज्रवरटके मध्यस्थं हूंतत्त्वं भावयेत् पुनः॥
एतत् सर्वं परिणम्य यथोपदेशात्। चन्द्रबिम्बं विभाव्य। ततस् तस्मान् निःसृत्योर्ध्वे वज्रिणं महाभीमम् आकाशे दृष्ट्वा वक्ष्यमाणोपदेशतः। आत्मानं प्रवेश्य। स्वेष्टदेवतात्मको भवेत्॥
तथा चोक्तं भगवता मूलतन्त्रे -
हूंकारपरिणतं दृष्ट्वा द्वेषात्मानं विभावयेत्।
इति वचनात्। तस्मात् स्वेष्टदेवतापदं निष्पाद्य स्फारयेत् क्रोधान् सर्वान् ज्वालामालाकुलाकुलान् यथास्थानेषु तान् दृष्ट्वा विकल्पयेत्॥
यमान्तकं महाकृष्णं वज्रमुद्गरधरं सव्ये पूर्वे चिन्तयेत्॥
p.5 प्रज्ञान्तकं महाशुक्लं दक्षिणे सितदण्डधरं याम्यां न्यसेत्॥
पद्मान्तकं महारक्तं वज्राब्जधरं प्रधाने पश्चिमे विभावयेत्॥
विघ्नान्तकं महानीलं करालवज्रधरं सव्ये चिन्तयेद् उत्तरदिशि॥
अचलराजं महाकृष्णं खड्गधरं दक्षिणे ऐशान्यां चिन्तयेत्॥
टाक्किराजं महाकृष्णं प्रधान अण्कुशधरम् आग्नेयां विचिन्तयेत्॥
नीलदण्डं महाकृष्णं नीलदण्डधरं सव्ये नैरृत्यां पश्येत्॥
महाबलं महाकृष्णं त्रिशूलहस्तं प्रधाने वायव्यां न्यसेत्॥
ऊर्ध्व उष्णीषचक्रवर्तिनं पीतवर्णं दक्षिणे चक्रधरं पश्येत्॥
अधरे सुम्भराजं धूम्रवर्णं भयानकं दक्षिणे मुषलधरं चिन्तयेत्॥
एते क्रोधास् त्रिनेत्रा ऊर्ध्वपिण्गलकेशा नानानागोपशोभिता द्विभुजैकमुखः खर्वलम्बोदरा वामे त्रजन्यासक्तवज्रपाशधरा ध्यातव्याः॥
किं तु तन्मध्ये टक्क्यचलौ ललितौ विकृताननौ। पुनः सर्वे विश्वाब्जसूर्ये प्रत्यालाढपदेन संचिन्त्याः॥
ओं सुम्भ निसुम्भ हूं २ फट्॥
ओं गृह्ण २ हूं २ फट्॥
ओं गृह्नापय २ हूं २ फट्॥
ओं आनय हो भगवन् विद्याराज हूं २ फट्॥
इत्यादिनाज्ञाप्य तान् वज्रिणा। आज्ञाम् आदाय। गत्वा। तत्र विनायकान् गृहीत्वा। यथास्थानेषु स्थिता इति विचिन्त्य। कीलम् अधः शूलाग्रम् ऊर्ध्वे। अमृतराजाकारं ज्वालामालाकुलप्रभं संस्थाप्य। आज्ञाप्य मन्त्रिणा। क्रोधान् आज्ञाम् आदाय। कीलयेद् विघ्नसंघातं मन्त्रेणानेन धीमान्॥
p.6
ओं घ घ घातय २ सर्वदुष्टान् फट् कीलय २ सर्वपापान् फट् हूं ३ वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टविघ्नानां कायवाक्चित्तवज्रं कीलय हूं फट्।
कीलयित्वा विघ्नान् सर्वान् क्रोधराजचिह्नेन वज्रमुद्गरं विचिन्त्य। ओं वज्रमुद्गर वज्रकील आकोतय २ हूं फट्। इत्य् अनेनाकोट्य निर्विघ्नीभूय पाश्चात् -
रेफेण सूर्यं पुरतो विभाव्य
तस्मिन् रवौ हूंभवविश्ववज्रम्।
तेनैव वज्रेण विभावयेच् च
प्राकारकं पञ्जरबन्धनञ् च॥
अनेन रक्षाचक्रानन्तरे वक्ष्यमाणोपदेशेन महारक्षां विभावयेत्। तन्मध्ये व्यापकां धर्मोदयं ध्यात्वा। तन्मध्ये यंकारादिपरिणतं चतुर्महाभूतमण्डलम् अष्टश्मशानमण्डितं कूटा गारं च भावयेत्॥
p.7
अत आह -
पूर्वे तिष्ठति चण्डोग्रं तरुशिरीषशोभितम्।
गजाननं यक्षं ख्यातं शक्रं तत्र नियोजयेत्॥
नागं च वासुकीयुक्तं मेघं गर्जितभूषितम्।
मेरुपवतराजं च चैत्यं राजति शाश्वतम्॥
दक्षिणे पुनः करण्कं चूतपादपमण्डितम्।
महिषास्यं यक्षं ख्यातं यमं दिक्पतिसंस्थितम्॥
पद्मं नाम नागं तत्र मेघावर्तकमण्डितम्।
मलयपर्वतराजं च पिशुनचैत्यं योजयेत्॥
पृष्ठे ज्वालाकुलं नाम पादपाशोकमण्डितम्।
मकरास्यं यक्षं तत्र वरुणेन कृतोज्ज्वलम्॥
अहिं कर्कोटकं तत्र घोरमेघं विचिन्तयेत्।
पर्वतं तु कैलासं च संज्ञाचैत्यं नियोजयेत्॥
गह्वरं चोत्तरे देशे अश्वत्थवृक्षभूषितं।
नराननो यक्षस् तत्र कुबेरं च विचिन्तयेत्॥
नागं च तक्षकं ख्यातं मेघं च घूर्णितान्वितम्।
गिरिं मन्दरसंवृत्तं चित्तचैत्यं नियोजयेत्॥
लक्ष्मीवनम् तु ऐशान्यां वटपादपमण्डितम्।
गोमुखो यक्षस् तत्रस्थो महेश्वरं विचिन्तयेत्॥
p.8
शण्खपालम् नागं ख्यातं चण्डमेघेन शोभितम्।
महेन्द्रगिरिम् अत्रापि चैत्यम् अद्वयम् एव च॥
अट्टट्टहासम् आग्नेय्यां तरुर् भाति करञ्जकम्।
अजाननो यक्षः ख्यातो हुताशनेन मण्डितम्॥
नागं पुनर् महापद्मं घनमेघेन भूषितम्।
गन्धमादनम् अत्रस्थं कायचैत्यं विचिन्तयेत्॥
घोरान्धकारं नैरृत्यां लता पर्कटिमण्डितम्।
मृतकास्यं यक्षं प्रोक्तं राक्षसेन्द्रेण राजितम्॥
नागं पुनर् अनन्तं च मेघपूरणमण्डितम्।
हेमपर्वतराजं च रत्नचैत्यं नियोजयेत्॥
किलिकिलारवं वायव्यां वृक्षपार्थिवान्वितम्।
कुरण्गास्यो यक्षः ख्यातो मरुता कृतम् उज्ज्वलम्॥
नागं च कुलिकं प्रोक्तं वर्षंएघेण पूरितम्।
श्रीधरं गिरिराजं च धर्मचैत्यं नियोजयेत्॥
एतानि श्मशानानि महारक्षाचक्रमध्ये वृयदिनामेपचन्वितानि घोरगह्वराणि भयानकानि वेतालभूतसंघैर् यक्षकुम्भाण्डराक्षसैः सर्पव्याघ्रास्थिकपालमालाकुलैः परिपूरितानि शृगालारवोच् - p.9 चलितानि विचिन्त्य। तन्मध्ये “चतुरस्रं चतुर्द्वारं चतुस्तोरण मण्डितम्” अष्टस्तम्भोपशोभितं चतुर्वेदिकासमन्वितं हारार्धहारोपशोभितं पक्षिनीक्रमशीर्षान्वितं कूटागारं भावयेत्॥
प्रभास्वरं चिन्तयित्वा। तत्त्वतः -
भाव्यन्ते हि जगत् सर्वं मनसा यस्मान् न भाव्यते।
सर्वधर्मपरिज्ञानाद् भावना नैव भावना॥
एतेन सर्वत्रैधातुकम् अपि निराभासं दृष्ट्वा महामन्त्रराजं पठेत् - ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम्॥
तदनु हेकारवज्रालम्बनं प्रति पञ्चाकाराभिसंबोधिक्रमं चिन्तयेद् आकाशतः॥
तत्राकाराद्य क्षरपरिणतादर्शज्ञानचन्द्रः। कालिपरिणतः समताज्ञानसूर्यः। अनयोर् मध्ये गतं हेवज्रचिह्नं प्रत्यवेक्षणम् उच्यते। सर्वैर् एकम् अनुष्ठानं बिम्बनिष्पत्तिः शुद्धधर्मता॥
एभिर् एकीभूय निष्पन्नं स्वेष्टदेवं षोडशभुजं षड्भुजं चतुर्भुजं द्विभुजं वा। अर्धपर्यण्कनाट्यावस्थितं षण्मुद्रोपेतम् ऊर्ध्वपिण्गलकेशं मुण्डमालाविराजितं कृष्णवर्णं महाघोरं त्रैलोक्यैकमूर्तिधरं नैरात्म्यायोगसमापन्नं महासुखरतियुक्तं पश्येत्॥
ततो नाण्डलेयान् विकल्पयेत्। पञ्चाकारप्रयोगतः॥
p.10
तत्र पूर्वे गौरीं ध्यायात् चौरीं दक्षिणतो न्यसेत्।
पश्चिमे वेताली ख्याता घस्मरीम् अवसव्यके कल्पयेत्॥
तदनु ऐशान्यादिकोणेषु यथानुक्रमेण पुक्कस्यादिचतुर्देवीर् विन्यस्य वक्ष्यमाणक्रंएण चिन्तयेद् अष्टमात्॥
भूचरी खेचरी नैरात्मा च काय वाक्चित्तपद्मेषु यथाक्रमेणात्र स्वकायमध्ये द्रष्टव्या मूलतन्त्रानुसारतः॥
इदं मण्डलचक्रं पुनः साध्यस्य रूपम् उक्तम् एव। स्वेष्टदेवं द्वेषाकृतिं निष्पाद्य डाकिनीचक्रं विचिन्त्य गन्धर्वसत्त्वं प्रवेश्य वज्री सुखानुरागेण स्वविद्यया सह द्रुतापन्नो ऽभूत्॥
अथ पुक्कस्यादिचतुर्देवत्यो ऽतिविषण्णाश् चक्रपतेर् अभावं दृष्ट्वा पुनः स्वचित्तं प्रबोध्य वज्रगीतैः संचोदयन्ति प्रभुम्। प्रभुर् अपि प्रणिधानावेधसामर्थ्येन स्वप्नप्रबोधितवद् वज्रगीतं श्रुत्वोत्तिष्ठेत्। पञ्चज्ञानमयबोधिचित्तोत्थानकिरणैः सचराचरम् आनीय तत्र प्रवेश्य चक्रदेवताश् च गृहीत्वा समरसीभूयोपदेशात् सहजबिम्बं त्रैलोक्यैकमूर्तिं महाशान्तं चन्द्रकान्त मणिप्रभं पश्येत्। अनुयोगं निष्पाद्यैवं। ततः स्कन्धधात्वायतनेषु बीजन्यासं करोति वज्री। वज्रादि खेचर्य-न्तपर्यन्तम्॥
[आंकारं विन्यसेद्] रूपे। इं वेदनायां स्मृतम्। पुनर् ईंकारं संज्ञायाम्। संस्कारे उं न्यसेत्। पुनर् अंकारं p.11 विज्ञाने। पञ्चस्कन्धस्वभावतः॥
उंकारं मांसे [न्यसेत्। रक्ते ] ऋंकारं पुनर् भवेत्। ॠंकारं बोधिचित्ते। मज्जमेदयोर् ळ्ं पुनः॥
ळ्ंकारं रूपभागे च शब्दे [एंकारम् चिन्तयेत्]। ऐंकारं गन्धविषये। रसे तु ओंकारं पुनः। स्पर्शे औंकारं विचिन्त्य। अंकारं धर्मधातुतः॥
अनेनातियोगं निष्पाद्य महायोगं समारभेत्॥
नाभौ हृदि कण्ठे ललाटे पद्मचतुष्टयं [ध्यात्व। अं हूं ओं हं] तत्र विन्यस्य। कायादित्रय धिष्ठानं चिन्तयेत्। अक्षरराजं शुक्लवर्णं ध्यात्वा शिरसि रश्मिं निश्चार्य तस्मात् कायसमूहेन गगनम् आपूर्य संहार्य तत्रैव पूर्वबीजे प्रवेश्य कायवज्रो भवेत्।
ओं कायवज्रधरात्मकाः सर्वधर्माः कायवज्रात्मको ऽहम्॥
आःकारं वाक्पथे ध्यायात्। रक्तवर्णं विभावयेत्। रश्मिं संस्फारयित्वा तस्माद् वाग्वज्रसमूहेन गगनम् आपूर्णं दृष्ट्वा संहार्य तत्रैव प्राग्बीजे प्रविष्टं विचिन्त्य वाग्वज्रधरो भवेत्।
ओं वाग्वज्रधरात्मकाः सर्वधर्मावाग्वज्रस्वभावात्मको ऽहम्॥
त्रैलोक्यबीजं ध्यायात्। चित्तपथे कृष्णवर्णं विभावयेत्। रश्मिं संस्फार्य बीजात् तस्माच् चित्तवज्रसमूहेन गगनम् आपूर्णं दृष्ट्वा तत्रैवान्तर्लीनं विचिन्त्य बीजराजे प्रवेश्य चित्तवज्रधरो भवेत्।
ओं चित्तवज्रधरात्मकाः सर्वधर्माश् चित्तवज्रधरात्मको ऽहम्॥
p.12 तथा च मन्त्रकुलपटले ओं आः हूं कायवाक्चित्ताधिष्ठानं शब्देनोक्तं भगवता इति मे वचनात्॥
कायवाक्चित्तम् अधिष्ठाय द्वेषवज्रपदं ध्यायात्। अनेन महायोगं निष्पाद्य पूर्वोक्तक्रमेण ध्यात्वा द्वेषात्मको भवेत्। कृष्णवर्णं महाघोरं मारचतुष्टयाक्रान्तं षण्मुद्रोपेतं नैरात्मासमोपेतम् आत्मानं पश्येत्॥
एवम् उक्तं कुतः।
सत्त्वबिम्बसंभूतं मण्डलेशं विभावयेत्।
इति वचनात्॥
इदानीं यथाविधियोगेन वर्णचिह्नादिकं ध्यात्वा त्रिसमयात्मको ऽहं इति पठित्वा त्रिसमयात्मको भूत्वा विद्यासाधनम् आरभेत्॥
मनसा यदीप्सिता विद्या चित्तवज्रसंभूता। अन्यापि सर्वलक्षणोपेता च प्रज्ञाधरा अचला गुणशेखरा लोके सल्लज्जा सत्त्ववत्सला साधके भक्तियुक्ता तस्याः साधनं वक्ष्ये यथायोगं प्रयोगतः॥
ओंकारं शिरसि ध्यात्वा। हृदि हूं कारं विन्यसेत्। स्वाकारं चिन्तयेन् नाभौ। ऊरुयुग्मे च आःकारम्। काकारं पादयोर् विन्यस्य भगवदण्गन्यासं यथा कृतं तथा भगवत्याश् च कुर्यात्॥
रूपे वज्रा सदाख्याता गौरी वेदनायां स्मृता।
संज्ञायां वारियोगिनी संस्कारे वज्रडाकिनी॥
p.13 विज्ञानसस्कन्धे नैरात्म्या बीजन्यासेन तत्त्वतः॥
चतुर्धातुषु पुक्कस्यादिचतुर्देवीबीजं न्यसेत्। चक्षुराद्यायतनेषु गौर्यादयः प्रकीर्तिताः॥
एवं भगवतीस्कन्धधात्वायतनेषु न्यासं कृत्वा पद्मवज्राधिष्ठानं कुर्यात्॥
आःकारेण पद्मं ध्यायाद् धर्मोद याकारम् एतन्मध्ये हूंकारजं कमलकोशकिञ्जल्-कसुषिरं विचिन्त्य। तदनु हूंकारसंभवं वज्रं विभाव्य। ओंकारेण तन्मणिसुषिरं ध्यात्वा। मन्त्रेणाधितिष्ठेत्।
ओं पद्म सुखाधार महारागसुखंदद।
चतुरानन्दभाग् विश्व हूं ३ कार्यं कुरुष्व मे॥
ओं वज्र महाद्वेष चतुरानन्ददायक।
खगमुखैकरसो नाथ हूं ३ कार्यं कुरुष्व मे॥
एवं विधियोगेन पद्मवज्रम् अधिष्ठायानुरागयेत्। बाह्ये ऽप्य् एवं कृत्वा सेवयेद् अभिलाषतः। महारतिसुखसमापत्तिपर्यन्तेनादियोगो नाम समाधिः॥
ततस् तेन पञ्चस्कन्धाहंकारं कृत्वा वाग्वज्राद् अनुरागयेत्। समापत्तितो महारागानुरागतः॥
ततो महासुखोद्भवबोधिचित्तं कमलकोषान्तर्गतं दृष्ट्वा संस्काराभिनिवेशेन वज्राब्जसंभूतरसं रसनेन्द्रियेणालोड्यानीय प्रीणयेद् आत्मानम्। यावत् सर्वतथागतवज्रयोगिनीक्रोधादीनाम् अरेना भवेत्॥
p.14 तदनु शेषं यत् किञ्चिल् लवलेशस्थितं बोधिचित्तं तसम्भवं सचक्रभट्टारकं विभाव्य मातृपुरमध्ये हूंवज्रं निश्चार्यानीय वज्रडाकमार्गेण प्रवेश्य पयः पानीयं यथा तथा भगवतीं च अंकारेणोत्सृजेद् इति चिन्तयेत्॥
ततः स्वेष्टदेवं महाकृष्णम् ऊर्ध्वपिण्गलकेशं षण्मुद्रोपेतं शिरसि पञ्चकपालालं कृतमालापट्टबद्धोर्धोर्ध्वजूटम् अर्धपर्यण्कताण्डवधरं नग्नं नवनाट्यरसैर् युतम्॥
शृण्गार १ वीर २ बीभत्स ३ रौद्र ४ हास ५ भयानक ६ करुणा ७ अद्भुत ८ शान्तरस ९॥
मूर्ध्नि विस्ववज्राण्कितं सभ्रूभण्गविकृताननं त्रिनेत्रं महाभीमं प्रलयानलज्वालाकुलं प्रभुं भगवन्तं चतुर्माराक्रान्तं नरशिरोमालालंकृतगात्रं द्विरष्टवर्षाकृतिललितस्व-विद्यायुतं पश्येत्॥
यद्वद् भगवन्तं तद्वद् भगवतीं च भावयेत्। किं च पञ्चमुद्रोपेता शुष्कनरशिरोमालालं कृतगात्रा कर्तिकपालकरव्यग्रा॥
शेषं भगवद्वद् बोद्धव्यम् इति॥
हस्त्यश्वखरगावोष्ट्रमनुजशरभोतुका दक्षिणाष्टकपालेषु क्रमशो ज्ञातव्याः। तथा वामाष्टकपालेषु पृथिवीवरुणवाताग्निचन्द्र-सूर्ययमकुबेरान् ध्यायात्। प्रथमं मुखं कृष्णं। वा - p.15 मं रक्तं। दक्षिणं शुक्लम्। ऊर्ध्वास्यं धूम्रं विकृतं। शेषमुखचतुष्टयं भृण्गसन्निभम्॥
षोडशभुजचतुश्चरणस्य॥
प्रथमवामभुजे त्रिशूलं पुनर् वामभुजे वज्रघण्टाधरं दक्षिणे द्विभुजाभ्यां वज्रकर्तिधरम्। मुखत्रयम्। प्रधानमुखं कृष्णं वामं रक्तं दक्षिणम् अतिशुक्लं मृतकाक्रान्तं शेषद्विभुजाभ्याम् वज्रशृण्खलासमापन्नं पश्येत्॥
षड्भुजस्य॥
वामेन कपालं दक्षिणेन वज्रं शेषद्विभुजाभ्यां वज्रवाराहीसमापन्नम् एकाननं शवाक्रान्तं ध्यायात्। चतुर्भुजस्य॥
वामे कलालखट्वाण्गं दक्षिणे ज्वलद्वज्रं शवाक्रान्तं ध्यायात्॥
द्विभुजस्य॥
सर्वे पूर्वोक्तवर्णालंकृतगात्रा हूंभवाः॥
द्विभुजस्य प्रज्ञा वज्रा सर्वतस् तादृशी नैरात्म्या यथा संज्ञामात्रभिन्ना॥
विहरणकालोपदर्शितं खट्वाण्गम् आलिण्ग्य। इति सर्वे भट्टारकाः प्रज्ञायुक्ता अर्धपर्यण्कनाट्यस्थाः॥
अत एवंभूतं भगवन्तम् आत्मानं दृष्ट्वा स्वेष्टाकारेण तदनु मन्थमन्थानयोगाद् देवीचक्रम् उत्सर्जयेत्। गं चं वं घं पं p.16 शं चं डं इति बीजाक्षरेणोत्सृज्य। पूर्वे गौरीं कृष्णां दक्षिणे कर्तिधरां वामे रोहितकरां ब्रह्माक्रान्तां रूपस्कन्धस्वभावां चिन्तयेत्। दक्षिणे चौरीं रक्तां सव्ये कृपीटम् अवसव्ये वाराहं शवाक्रान्तां वेदनास्कन्धस्वभावां भावयेत्। पश्चिमे वेत्तालीं दक्षिणे कूर्महस्तां वामे करोटकधरां तप्तचामीकरद्युतिवर्णां संज्ञास्कन्धस्वभावां नरसिंहारूढां पश्येत्। उत्तरे घस्मरीं मरक्तमणिनिभां सव्ये सर्पधराम् अवसव्ये योगपात्रिकाधृतिं रुद्रारूढां संस्कारस्कन्धस्वरूपां चिन्तयेत्। ऐशान्यां पुक्कसीं नीलवर्णां दक्षिणे सिंहधरां प्रधाने पर्शुकरां कृतारूढां पृथिवीधातुस्वभावां कल्पयेत्। आग्नेय्यां शबरीं शुक्लां प्रधाने भिक्षुधराम् उत्तरे खिक्खिरिधरां वित्तनायकारूढाम् अब्धातुस्वरूपां सृजेत्। नैरृत्यां चण्डालीं गगनाभां दक्षिणे चक्रधरां वामे लाण्गलहस्तां राक्षसासीनां तेजोधातुस्वभावां स्थापयेत्। वायव्यां डोम्बिनीं विश्ववर्णां। दक्षिणे ज्वलद्वज्रो वामे तर्जनिका स्मृता। वेमचित्रिसमारूढां वायुधातुस्वभावां चिन्तयेद् योगवित्॥
भूचरी खेचरी नैरात्मा च पुनर् भट्टारकोत्सर्गानुप्रवेशात् प्रविष्टा ध्यातव्याः पूर्वोक्तस्थानेषु यथाक्रमेण॥
p.17 एताः सर्वास् त्रिनेत्रा ऊर्ध्वपिण्गलकेशाः पञ्चमुद्रोपेता नग्ना अर्धपर्यण्कताण्डवस्था रौद्रा द्विरष्टवर्षाकृतयश् चन्द्रासनासीना द्रष्टव्याः॥
एवं निष्पाद्य चक्रं तन्मध्यगतो वज्री स्वकायविनिर्गतरश्मि-जालाकिरणैर् अनन्तलोकधातुम् आपूर्णं दृष्ट्वा तन्मध्ये मायानिर्माणवद् आत्मानं चिन्तयित्वा स्वहृद्बीजात् किरणजालैर् अनन्तापर्यन्ताकाशं गत्वा स्वसमयचक्रसदृशं ज्ञानचक्रम् आनीय पुरतो दृष्ट्वार्घपाद्यादिकं दत्त्वा यथाक्रमेण स्वसमयचक्रे प्रवेश्य श्रीमद्धेकाराकारं कुर्यात्॥
तदन्व् एकीकरणसमये स्वकायविनिर्गतकिरणान् निःसृत्य। सर्वतथागतवज्रयोगिनीबो धिसत्त्वक्रोधादीन् संमुखं दृष्ट्वा। अभिषेकं प्रार्थयेत्॥
अभिषिञ्चन्तु मां सर्वतथागता इति कृत्वा तैः पञ्चतथागतैः -
यथा हि जातमात्रेण स्नापिताः सर्वतथागताः।
तथाहं स्नापयिष्यामि शुद्धदिव्येन वारिणा॥
ओं सर्वतथागताभिषेकसमयश्रिये हूं॥
अनेन सनाप्यन्ति ते॥
वज्रडाकिनीभिर् जयजयाकारं कुर्वन्ति। बोधिसत्त्वाः संतुष्टा आत्मानं पश्यन्ति। क्रोधादयो ऽभिवदन्त्य् आकाशात्॥
नानावाद्यशब्दध्वनिकोलाहलान्य् उच्चलन्ति। कुण्कुमचन्दनसुवर्णादिरत्नानि वर्षन्तीति विचिन्त्य शिरसि चित्तेशः स्याद्। भगवत्याश् च। चित्तेशशाश्वतरत्नेशामिताभैर् गौर्यादयो मुद्रयित्वा द्वेष - p.18 मोहपिशुनरागैः पुक्कस्यादीनां शिरस्य् अण्कयेत्॥
ततो हृष्टमानसात्मिका लोचनादयः स्तुवन्ति गीत्या॥
तुहुं परिवेट्टि जोणिसथें तुहुं वरलद्धो अप्पण चित्तेम्। तै जा साल चराचर सोहि करुणाचित्तें सत संबोहि।
मापपञ्चे साहसि कज्ज तुट्ट हो मणे सिरिहेरुरज्ज॥
ततो विद्यागणमध्ये प्रज्ञायुतो वज्री भोजनामृतम् उत्पादयति॥
यंकारेण मरुच्चक्रं धन्वाकारं नीलं तस्योपरि पावकं रविबीजसंभूतं रक्तं त्रिकोणाकारं तदुपरि त्र्यक्षरमध्ये पद्मभाजनं मुण्डत्रयं तदधरे ध्यायात्। भाजनं पुनर् अप्य् आःकाराधिष्ठितम्॥
बुंकारादिमन्त्रं ध्यात्वा। तत्र ओंकारं पुनर् ऊर्ध्वे मत्वा हूं तस्योपरि चिन्तयेत्॥
अनेन ध्यानाग्निना द्रवीकृत्य पञ्चामृतपञ्चप्रदीपं पारदरसाकारं पश्येत्॥
हूंकारकिरणैर् अनन्तापर्यन्तबुद्धबोधिसत्त्वान् अनुराग्य। ज्ञानामृतम् आनीय। एकीकृत्य। हूंभववज्रेणालोड्य। विलीनो वज्रो ऽमृते गतः। ओंकारेणोद्दीप्याःकारेण बोधयित्वातिशीतलं पश्येत्॥
तदनु भुजश्रुवया त्रिकाक्षरेणाकृष्यामृतं कुण्डोदरे जुहोति। तन्माण्डलेयान् तद्वद् ध्यायात्॥
p.19 ततो ऽष्टश्मशानमध्ये भगवन्तं स्फुरत्संहारविग्रहं ध्यात्वानेन विनेयान् विनीय तत्रैवान्तर्लीनं विचिन्त्य॥
इति मण्डलराजाग्री नाम समाधिः॥॥
प्रथमं भावयेत् कृष्णम् यथायोगप्रयोगतः।
षडण्गं भावयित्वा तु पश्चाद् वर्णं विसर्जयेत्॥
षडण्गानन्तरे वक्ष्यमाणसूक्ष्मयोगं ध्यात्वा विसर्जनम् इति। प्रभास्वरं चिन्तयेन् मन्त्री पञ्चस्कन्धस्वरूपतः॥
संहरेन् माण्डलेयान् सत्त्वान्। गृहीत्वा स्कन्धविषयं ततो गौर्यादयो बोधिचित्तविनिर्गता इति विदित्वा।
गौरी स्याद् भगवद्रूपे चौरी वेदनायां गता।
वेत्ताली च संज्ञास्कन्धे संस्कारे घस्मरी पुनः॥
पृथिवी चण्डली तासां वाते च डोम्बिनी स्थिता॥
यथोपदेशात् संहृत्य डाकिनीगणमेलकं पश्चाद् आत्मानं चिन्तयेत्। प्रभास्वरपदं परम्॥
नैरात्म्यां विज्ञाने मत्वा बीजरश्मीन् स्फारयेत् पुनः। तेनैकीकृत्य भगवान् स्वबीजावस्थायां स्थितः॥
तदनु चन्द्रसूर्यबीजान्य् एकीभूय झटिति प्रज्वलितं रश्मिपुञ्जाकारं ध्यात्वा क्रमेण दीपशिखावद् अभूत्। तदनु कदलीगर्भैकाकारं ध्यायात् तावद् यावद् अनुपलम्भो भवेत्॥
अत एव -
p.20
आ ण अन्त ण मज्झ तहिं ण भव ण णिब्बान।
एहु सो परममहासुह ण पर ण अप्पाण॥
प्रभास्वरगतिण्गत उत्थानं च विचिन्तयेत्।
झटित्य् अकारयोगेन चक्रनाथं विभावयेत्॥
किं तु “सत्त्वबिम्बसंभूतं कथितं शाक्यमहामुनिभावकेन भावयेद् एवं यथाक्रमोपदेशतः॥॥
इदानीं मन्त्रजापबलितत्त्वसूक्ष्मयोगा अवतार्यन्ते॥
भगवतीमुखाद् विनिर्गतानि सरश्मिकानि स्वमुखे प्रविश्यावधूतीपथेन गत्वा वज्रमार्गेण भगवतीपद्मे प्रविश्य मन्त्राक्षराणि पुनर् भगवतीमुखात् स्वमुखम् अनेन क्रमेण खेदपर्यन्तं शान्तिकादिभेदेन वर्णयोगाज् जपेत्। दोलाजापः॥
हृत्सूर्ये मण्डलाकारेणोपविष्टानि मन्त्राक्षराण्य् ऊर्ध्वशिरस्कानि चिन्तयेत्। पिण्डजापः॥
दीर्घनादेनोच्चरन्ति सर्वे मन्त्राक्षराणि। इति समयजापः॥
जापं च कर्तव्यं पुनर् महद् धृदयोपदेशतः - ज्ञानमूर्तिधरो वज्री अचिन्त्यं भावयेत् सदा॥
p.21 ओं देव पिचुवज्र हूं ३ फट् स्वाहा। षोडशभुजस्य॥
ओं त्रैलोक्याक्षेप हूं ३ फट् स्वाहा। द्विभुजस्य॥
ओं ज्वल२भ्यो हूं ३ फट् स्वाहा। चतुर्भुजस्य॥
ओं किटि २ वज्र हूं ३ फट् स्वाहा। षड्भुजस्य॥
सर्वेषाम् एवं हृदयम्॥
उपहृदयं पुनः।
ओं वज्रकर्तरिहेवज्राय हूं ३ फट् स्वाहा॥
ओं अष्टाननाय पिण्गलोर्ध्वकेशवर्त्मने चतुर्विंशति नेत्राय षोडशभुजाय कृष्णजीमूतवपुषे कलालमालानेकधारिणे आध्मातक्रूरचित्ताय अर्धेन्दुदंष्ट्रिणे मारय २ कारय २ गर्जय २ तर्जय २ शोषय २ सप्तसागरान् बन्ध २ नागाष्टकान् गृह्ण २ सर्वशत्रून् ह हा हि ही हु हू हे है हो हौ हं हः फट् स्वाहा।
भगवतो मूलमन्त्रः॥
ओं अष्टाननाय हूं २ फट्। ओं पिण्गोर्ध्वकेशवर्त्मने हूं २ फट्।
ओं चतुर्विंशतिनेत्राय हूं २ फट्। ओं षोडशभुजाय हूं २ फट्।
ओं कृष्णजीमूतवपुषे हूं २ फट्। ओं कपालमालानेकधारिणे हूं २ फट्। ओं आध्मातक्रूरचित्ताय हूं २ फट्। ओं अर्धेन्दुदंष्ट्रिणे हूं २ फट्।
भगवतो ऽष्टपदमन्त्रः॥
ओं अं नैरात्म्ये हूं फट्। ओं वज्रडाकिनीये अं हूं फट् स्वाहा।
हृदयोपहृदयौ॥
p.22
ओं अं आं इं ईं उं ऊं ऋं ॠं ळ्ं ळ्ं एं ऐं ओं औं अं फट् स्वाहा।
भगवतीमूलमन्त्रः॥
ओं अं आं हूं २ फट्। ओं इं ईं हूं २ फट्। ओं उं ऊं हूं २ फट्। ओं ऋं ॠं हूं २ फट्। ओं ल्ं ळ्ं हूं २ फट्। ओं एं ऐं हूं २ फट्। ओं ओं औं हूं २ फट्। ओं अं हूं २ फट्।
भगवत्यष्टपदमन्त्रः॥
ओं गं वज्रगौरीयै हूं २ फट्॥
ओं चं वज्रचौरीयै हूं २ फट्॥
ओं वं वज्रवेत्तालीयै हूं २ फट्॥
ओं घं वज्रघस्मरीयै हूम् २ फट्॥
ओं पुं वज्रपुक्कसीयै हूं २ फट्॥
ओं शं वज्रशबरीयै हूं २ फट्॥
ओं चं वज्रचण्डालीयै हूं २ फट्॥
ओं डं वज्रडोम्बिनीयै हूं २ फट्॥
एवं यथेच्चया मन्त्रं जपेत् पुर्वोक्तक्रमेण॥
किं तु तन्मध्ये भगवतो मूलमन्त्रं जपेच् च स्तुतिकाले स्तुतिम्॥
तथागतैः स्तुतिं कुर्यात्॥
तदनु ज्ञानालोकवज्रसमाधिक्रमेण द्वेषवज्रपदे स्थित्वा यथानुरूपतः। आज्ञाय क्रोधान्। त्रैधातु कगतान् विनायकान् आनीय -
ओं इन्द जम जल जक्ख भुद वह्नि वा रक्ख।
चन्द सुज्ज मद बप्प तलपाताल अद्धसप्प साहा॥
p.23
इत्य् अनेना भिमन्त्र्य महामोक्षपुरत्रयेषु प्रवेश्य पुर्वोक्तक्रमेण शून्यम् उत्पाद्य त्र्यक्षरेण तान् निष्पाद्य कायवाक्चित्ताकारेणा-धिष्ठायात्मनं तद्भुजमु खाकारेण दृष्ट्वा पुष्पधूपगन्धा-दिबल्युपहारकाले परमसमयगीतिकां काकलिकया गातव्यां सर्वसिद्धिसांनिध्यकरेणार्थं यथोपदेशतो वज्रघण्टाधरेण मन्त्रिणा। तदनन्तरे -
इदं बलिं भुञ्ज जिंघ फुल्लधूप मांस विंघ।
अम्ह कज्ज सव्व साध खन्ति खुणि फेड गाद॥
इत्य् अनेन बल्युपहारं दद्यात्। तान् भुञ्जयेद् आत्मानं च प्रीणयेत्॥
ओं अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात्। ओं आः हूं फट् स्वाहा॥
अनेन संतोष्य मूलमन्त्रेण स्तुत्वा शताक्षरं पठेत्॥
तदनु “ओं वज्र मुः” वारत्रयेन विसर्जयित्वा संध्यागीता च गातव्या पुनः॥
एतेन कर्मराजाग्री नाम समाधिः॥॥
ततो भावनाशक्त्या वातगृहीतो यदा तदा प्रथमं वक्तव्यं तस्य प्रतीकारहेतोः। शिरस्य् ओंकारजेन्दुं ध्यात्वा महामृतवृष्ट्यात्मानं पुष्टं पश्येद् यावत् स्वास्थ्यं प्राप्नोति॥
p.24 अथ स्वचिह्नं धर्मे विचिन्त्य। तन्मध्यपद्मे सचक्रचक्रवर्तिनं विभाव्य। चिह्नप्रमाणं सर्षपस्थूलमात्रं तत्र निरूप्य। एवम् अत्र समाधिनाथं सचक्रात्मकं प्रभुम् एव मत्वा। सूक्ष्मात् सूक्ष्मतरं सदा भवेत्। तत्र नियोजयेच् चित्तं यदा तत्र नित्यं स्थिरीभवति निश्चितम्। चक्रेश्वरं फरेन् नित्यं स्यात् डाकिनिजालकुलाकुल। गगनम् आपूर्णं पश्येद् अचिन्त्यत्वं सर्वभावतः॥
इत्यनन्तरं सन्नाहद्वयं वक्ष्ये धर्मपादप्रसादतः।
अक्षोभ्यश् चक्रिरूपेणामिताभः कुण्डलात्मकः।
रत्नेशः कण्ठमालायां हस्ते वैरोचनः स्थितः।
मेखलायां स्थितो ऽमोघः सर्वाण्गे वज्रधृक्पश्येत्॥
चक्षुषोर् मोहवज्री स्यात् श्रोत्रयोर् द्वेषवज्रिका।
घ्राणे मात्सर्यकी ख्याता वक्त्रे च रागवज्रिका।
काये ईर्ष्यावज्री च मनो नैरात्म्ययोगिनी॥
एतद् अर्थं यथोपदेशतो बुद्ध्वा महासन्नाहसन्नद्धीभूय हरेद् योगी त्रैलोक्यागारमध्ये सहजहेवज्रयोगतः॥
p.25
अवसानम्
गोपितं यत्नाद् राहुलपादस्य मत्पादगुरोर् गुरूणां सत्त्वा भविष्यन्ति सत्त्वाशेषचित्ततैर् उक्तम् एव सत्यम्।
स्पष्टीकृतं भावकसुखहेतवे यत्नात् तन् मया क्रमम्
आनन्दन्तु योगिनीनयाधिमुक्ताः सुखेन भद्रनाम्ना॥
इति॥
॥॥
द्वेषवज्रसाधनं समाप्तम्॥
कृतिर् इयं सिद्धाचार्यश्रीमद्भद्रपादानाम् इति॥॥