महापण्डितश्रीप्रभाकरगुप्तविरचितम्अध्यात्मसारशतकम्(सटीकम्)ॐ नमः श्रीवज्रसत्त्वाय। एकानेकव्युपरतिसुखैः सिद्धचारैरनेकैःक्षित्यादीनां न मिलति यतो वस्तुसिद्धिः कुहापि। विज्ञानान्तं तदिह सकलं निःस्वभावं समन्ता-न्नैवाकस्मात्स्फुरति नियमाद् देशकालाकृतीनाम्॥१॥
टीकानत्वा देवीमसमसुखदामुग्रतारामजस्त्रम्आ संसारं सुगदचरणं धर्मयुक्तं ससंघम्। शश्वत्पादारविन्दे गुरुमपि च तथाध्यात्मसारस्य चार्थंवक्ष्ये संक्षेपतोऽद्य प्रवरगुणगणं शिष्यवाञ्छानुरोधात्॥
यथा वाञ्छा च बन्धूनां हृत्कीर्तिरूपराजयोः। तथोवाच यथाशक्त्या त्वालापोऽर्थं शिरोमणिः॥
न मिलति न गलति, का ? वस्तुसिद्धि। तेषां क्षित्यादीनाम्। कथम ? कुहापि कुत्रापि कुतोऽपि। यतोऽपि। कैः ? सिद्धचारैः सिद्धविचारैः। कथंभूतैः ? अनेकैः। पुनः कथंभूतैः ? एकानेकव्युपरतिसुखैः। अस्ति। किम् ? तत्सकलम्। कथंभूतम् ? विज्ञानान्तम्। पुनः कथंभूतम् ? निःस्वभावत्वम्। कुतः ? समन्तात् सर्वत्र। नैक(व) स्फुरति न प्रकाशते। किम् ? तत्सकलं विज्ञानान्तम्। कासाम् ? देशकालाकृतीनाम्। कुतः ? अकस्मात् अकारणात्। कस्मात् ? नियमात्। क्व ? इह संसारे॥१॥
तस्मादास्ते सकलजगतां कोऽपि हेतुः प्रसूतेःक्षोणीनील(र)ज्वलनपवनव्योमविज्ञानभिन्नम्। ईशो वाऽसौ विभुरभिमतः शून्यता वाऽन्यथा वासर्वैश्वर्यं यदनुशरणात् तं नमे योगगम्यम्॥२॥
आस्ते अस्ति। कः ? कोऽपि। कथंभूतम् ? हेतुः कारणम्। कस्याः ? प्रसूतेः उत्पत्तेः। केषाम् ? सकलजगताम्। कस्मात् ? तस्मात्। पुनः कथंभूतः ? क्षोणीनील(र)ज्वलनपवनव्योमविज्ञानभिन्नम्। कः ? असौ ईशः। कथंभूतः ? विभुः प्रभुः। पुनः कथंभूतः ? अभिमतः सम्मतः अस्ति। का ? शून्यता वा। कथंभूता ? प्रभुः अस्ति। कथम् ? अन्यथा वा अन्या वा। नमे नमस्करोमि। कः ? अहम्। कम् ? तं विभुम्। कथंभूतम् ? योगगम्यं समाधिप्राप्तम्। भवति किम् ? सर्वैश्वर्यम् ? कस्मात् ? यदनुशरणात्॥२॥
यस्याबोधाद् बहुविधमतं कल्पयित्वा विवादंकुर्वन्तोऽमी सकलुषहृदः पण्डिताः भण्डयमानाः। अप्राप्यैवं सुनिजपदवीं मृत्युध्वस्ता भ्रमान्धाःसंसारेऽस्मिन्नशुभशुभतः सञ्चरन्त्या भवान्तम्॥३॥
संचरन्ति भ्रमन्ति। के ? अमी पण्डिताः। कस्मिन् ? अस्मिन् संसारे। कथम् ? आ भवान्तम् आजन्म। कुतः ? अशुभशुभतः। किं कृत्वा ? अप्राप्य असमवाप्य। एवम् अनेन प्रकारेण। सुनिजपदवीं मोक्षमार्गम्। कथंभूताः पण्डिताः ? भ्रमान्धा मोहान्धाः। पुनः कथंभूताः ? भण्डयमाना विडम्बमानाः। कथंभूताः सन्तः ? कुर्वन्तः। कम् ? विवादं विचारम्। किं कृत्वा ? कल्पयित्वा वितर्कयित्वा। किम् ? बहुविधमतम् अनेकमतम्। कस्मात् ? अबोधात् अपरिचयात्। कस्य ? यस्य सम्यग्ज्ञानस्य। कथंभूताः ? सकलुषहृदः सविकल्पहृदयाः। पुनः कथंभूताः ? मृत्युध्वस्ता मृत्युग्रस्ताः॥३॥
बौद्धे सांख्ये क्षपणकमते वैष्णवे शैवमार्गेजन्मास्तित्वं पुनरभिमतं युक्तिवर्त्मागमाभ्याम्। तच्चार्वाको यदि न मनुते त्वेक एकेन किं स्या -ज्जात्यन्धानामननुभवतो न ह्यबावः सदिन्दोः॥४॥
अस्ति। किम् ? जन्मास्तित्वं जन्मपरिग्रहः। कथंभूतम् ? अभिमतम् अभिलषितम्। कथम् ? पुनः। काभ्याम्। युक्तिवर्त्मागमाभ्याम् शास्त्रागमाभ्याम्। कस्मिन् ? बौद्धे। न केवलं बौद्धे सांख्ये च। न केवलं सांख्ये क्षपणकमते च। न केवलं क्षपणकमते वैष्णवे च। न केवलं वैष्णवे शैवमार्गे च। न मनुते न मन्यते। कः ? चार्वाको नास्तिकः। किं तत् ? जन्मास्तित्वम्। कथं च यदि अस्ति। कः ? चार्वाकः। कथंभूतः एकः। कथम् ? तु पुनः स्यात् भवेत्। कथम् ? किं स्यात्। केन ? एकेन चार्वाकेण। नास्ति। कः अभावः कदर्यत्वम्। कस्य ? सदिन्दोः विद्यमानचन्द्रमसः। कथं हि कथंभूतस्य ? न अनुभवतः अनिरीक्षयतः। केषाम् ? जात्यन्धानां जन्मान्धानाम्॥४॥
भूतान्येव प्रमितिबलतो नैव सिद्धयन्त्यशून्या-न्येकानेकव्यपगमवशाद् यन्न वस्तुत्वसिद्धिः। तत्प्रारब्धं यदिदमवयव्यादि वस्तुस्वरूपंदूराच्छन्नं कुत इह ततो भूतचैतन्यवादः॥५॥
न एव सिद्धयन्ति न सिद्धयन्ति न निष्पन्नीभवन्ति। कानि ? भूतानि पृथिव्यादीनि। कथंभूतानि ? अशून्यानि न सिद्धयन्ति किन्तु शून्यानि सिद्धयन्ति। कुतः ? प्रमितिबलतः प्रमाणबलात्। कथमेव निश्चितं न भवति। किम् ? यत्। कथंभूतम् ? वस्तु[त्व]सिद्धिः। कस्मात् ? एकानेकव्यपगमवशात् एकत्वानेकत्वाभाववशात्। कथम् ? यत् यस्मात् कारणात्। अस्ति। किम् इदम्। कथंभूतम् ? प्रारब्धम् आरहितम्। किम् ? तत्र(त्) कथंभूतम् ? अवयव्यादिवस्तुस्वरूपम्। पुनः कथंभूतम् ? दूराच्छन्नं दूरनष्टम्। कः ? भूतचैतन्यवादः प्रमाणचैतन्यवादः। कुतः ? कः (क्व) इह संसारे॥५॥
यद्यप्यास्ते बहुविधमते स्वीकृतं भूतवृन्दंसर्वेषामप्यनुभवगतं वर्तते सर्वकालम्। नातो ग्राह्यं यदनुभवनात् स्वीकृतेरप्यसत्यंकिं नाकाशं ह्यवनतमिहाभासते सर्वजन्तोः॥६॥
आस्ते अस्ति समष्टि। किम् ? भूतवृन्दं पृथिव्यादिसमूहः। कथंभूतम् ? स्वीकृतं सम्मतम्। कस्मिन् ? बहुविधमते। कथम् ? यदि कथमपि वर्तते प्रवर्तते। किम् ? भूतवृन्दम्। कथंभूतम् ? अनुभवगतं संवेद्यमानम्। केषाम् ? सर्वेषां मनुष्यादीनाम्। कथम् ? सर्वकालं सर्वदा। कथमपि निश्चितं न भवति। किम् ? असत्यं मिथ्यात्वम्। कथंभूतम् ? ग्राह्यम् ? कस्य ? स्वीकृतेः संमतेः। कस्मात् ? यदनुभवनात् यस्य वेदनत्वात्। कुतोऽविचारणात्। ना[भा]सते न प्रकाशते। किम् ? आकाशम्। कथंभूतम् ? अवनतम् आनतम्। कस्य ? सर्वजन्तोः सर्वप्राणिनः। क्व ? इह संसारे। कथम् ? किम्॥६॥
किञ्चान्यस्य व्युपरममतिर्यावदन्यत्र न स्या-न्नासंकीर्णं व्यवहृतिपथं याति किञ्चिच्च तावत्। सा चान्यस्य व्युपरतिरिहान्यस्य बोधेः समन्तात्तत्स्वीकारे सकलसकलज्ञो भवेदेकवेत्ता॥७॥
न स्यात् न भवेत्। का ? व्युपरममतिः विचरितमतिः। कस्य ? अन्यस्य अपरस्य। कथम् ? किञ्च भूयः पुनरपि। कुत्र ? अन्यत्र। कथं यावत् न याति न व्रजति। किम् ? किञ्चित्। कम ? व्यवहृतिपथं व्यवहारमार्गम्। कथंभूतम् ? असंकीर्णम्। अतीवस्वल्पतरम्। कथं तावत् कथञ्च पुनः भवति। का ? सा व्युपरतिः अभावता। कस्य ? अन्यस्य। क्व ? इह संसारे। कथञ्च ? कस्याः ? बोधेः कस्य अन्यस्य। कुतः ? समन्तात् सर्वत्र। भवेत् भवति। कः ? कश्चित्। एकवेत्ता अद्वयज्ञाने (नी)। पुनः कथंभूतः ? सकलसकलज्ञः सर्वाकारज्ञः। क्व सति ? तत्स्वीकारे सति तत्संमते सति॥७॥
दृश्याभावो यदिह गमकः केवलो न ह्यभावोनिःसम्बन्धो न खलु विदितः क्वापि यस्मान्निषेधः। अन्योन्यापाश्रयणशरणाद् भेदसिद्धेर्वियोगात्सर्वा भ्रान्त्या(न्ता)व्यावहृतिरियं स्वप्नतुल्यैव तस्मात्॥८॥
न भवति। कः ? अभावः। कथंभूतः ? केवलोऽद्वयः। पुनः कथंभूतः ? दृश्याभावो विद्यमानवस्त्वभावः। पुनः कथंभूतः ? गमकः इन्द्रियज्ञानगोचरः। क्व ? इह संसारे। कथम् ? यत् न भवति। कः ? निषेधः परिहारः। कथंभूतः ? निःसम्बन्धः सम्बन्धरहितः। कथंभूतः ? विदितः ज्ञातः। क्वापि कुत्रापि। कस्मात् ? यस्मात्। कथं खलु अस्ति ? का ? इयं व्यवहृतिः व्यवहारः। कथंभूता ? सर्वा। पुनः कथंभूता ? भ्रान्त्या(न्ता) विभ्रमा। पुनः कथंभूता ? स्वप्नतुल्यैव स्वप्नसदृशी। कस्मात् ? तस्मात्कारणात्। कथमेवं निश्चितम्। कस्मात् ? वियोगात् विशेषात्। कस्याः ? भेदसिद्धेः विशेषसिद्धेः। कस्मात् ? अन्योऽन्यापाश्रयणशरणात् परस्पराश्रयणानुशरणात्॥८॥
गत्यागत्यादिकमिह यथा वस्त्वभावेऽपि मोहाद्मायास्वप्नप्रतिममपरं जन्म चास्ते तथैव। तन्मिथ्यादृक्पतितवचनात् संशयं चाप्यपास्यप्राज्ञैर्योगाभ्यसनविधिना जन्मनाशो विधेयः॥९॥
अस्ति। किम् ? गत्यागत्यादिकं गमनागमनादिकम्। क्व ? इह संसारे। कस्मिन् ? वस्त्वभावे द्रव्याभावे। कथमपि कथम् ? यथा। कस्मात् ? मोहात् अविद्यावशात्। आस्ते समस्ति। किं तत् ? अपरम्। अपरं किम् ? जन्म। कथं च कथंभूतम् ? मायास्वप्नप्रतिमं मायास्वप्नसदृशम्। कथम् ? तथैव यथैव। कस्मात् ? मिथ्यादृक्पतितवचनात् नास्तिकमतानुसारात्। विधेयः विधातव्यः कर्त्तव्यः। कः? जन्मनाशो उत्पत्तिनाशः किं कृत्वा ? अपास्य परिहृत्य। कैः ? प्राज्ञैः पण्डितैः। केन ? योगाभ्यसनविधिना। कम् ? संशयं संदेहताम्। कस्मात् ? मिथ्यादृक्पतितवचनात्। कथं च कथमपि॥९॥
मिथ्यात्वेनाप्यखिलजगतां कर्मवैचित्र्ययोगाद्वैशिष्टयस्य स्फुटमनुभवो यद्वदास्ते जनानाम्। योगाभ्यासादपि भवभयत्यागसिद्धेर्विशेषःसिद्धयेत् तद्वत्पृथुतरगुणग्रामलिङ्गेक्षणेन॥१०॥
आस्ते समष्टि(स्ति)। कः ? अनुभवोऽनुभूतिः। केषाम् ? जनानां लोकानाम्। कस्य ? वैशिष्टयस्य विशेषस्य। किंवत् ? यद्वत्। कथम् ? स्फुटम्। कस्मात् ? कर्मवैचित्र्ययोगात् शुभाशुभविचित्रयोगात्। केन ? मिथ्यात्वेन ? केषाम् ? अखिलजगतां सकलसंसाराणाम्। कथमपि निश्चितं सिद्धयेत् सिद्धयति। कः ? विशेषः भेदः। कस्याः ? भवभयत्यागसिद्धेः संसारभीतिपरिहारादनुकथितसिद्धेः। कस्मात् ? योगाभ्यासात् योगसाधनात्। केन ? पृथुतरगुणग्रामलिङ्गेक्षणेन महद्गुणसमूहचिह्नावलोकनेन। किंवत् ? तद्वत् तथैव। कथमपि॥१०॥
कायैश्वर्यं प्रथमत इदं दिव्यकायस्य लाभाद्वागैश्वर्यं तदनुकथिता वक्तृता वाक्यसिद्धेः। चित्तैश्वर्यं स्ववशकरणादिन्द्रियाणां सुखेनप्राणैराद्यैः स्ववशजनितैरित्थमित्यग्रसिद्धेः॥११॥
अस्ति किम् ? इदं कायैश्वर्यं शरीरस्वातन्त्र्यम्। कुतः ? प्रथमतः आदौ। कस्मात् ? लाभात् प्राप्तितः कस्य ? कायस्य दिव्यशरीरस्य। अस्ति। का ? वक्तृता अनुकथितसिद्धेः। कथंभूता ? अनुकथिता किं तु उक्ता। किं तत् ? तत् किं ? वागैश्वर्यम्। कस्याः ? वाक्यसिद्धेः वचनसिद्धेः वचनसिद्धेः। अस्ति। किम् ? चित्तैश्वर्यं चित्तायति। कस्मात् ? स्ववशकरणात् आत्मायतिकरणात्। केषाम् ? इन्द्रियाणां चक्षुरादीनाम्। केन ? सुखेन। भवति। का ? अग्रसिद्धिः। कैः ? प्राणैः आद्यैः कथंभूतैः ? स्ववशजनितैः सद्भिः स्वतन्त्रोत्पन्नैः। कथम् ? इत्थम् अनेन प्रकारेण। कथं इति॥११॥
योगाभ्यासाचरणविरहात् स्थूलसत्कायदृष्टिःक्लिष्टोऽशेषव्यसनवशगः प्राणहानिः क्रमेण। देहत्यागात् पुनरपि भवेद् वासनाबद्धचित्तःस्वप्नप्रख्यो व्रजति पुनरप्येवमित्याद्यनन्तम्॥१२॥
भवति। कः ? लोकः। कथंभूतः स्थूलसत्कायदृष्टिः कस्मात् ? योगाभ्यासाचरणविरहात्। भवति। कः ? योगी। अशेषव्यसनवशगः अनन्तदुःखप्राप्तः। कथंभूतः ? क्लिष्टः रोगयुक्तः। भवति। काः ? प्राणहानिः केन ? क्रमेण क्रमशः। भवेत् भवति। कः ? लोकः। कथंभूतः वासनाबद्धचित्तः। कस्मात् ? देहत्यागात् देहविनाशात्। कथम् ? पुनरपि। व्रजति गच्छति। कः लोकः। कम् ? आद्यनन्तं जन्मानन्तम्। कथम् ? पुनः अपि। एवम् अमुना प्रकारेण॥१२॥
यस्मात्सर्वा बहिरिह मरुन्मण्डलानां प्रवाहात्स्वाङ्गाभोगो रविशशभृतो रुद्रसंख्यः सपादः। षट्पञ्चाशदिषुगुणितसंक्रमात् स्यात् सपादःनाडीच्छेदः प्रतिदिनमितः स द्विसंख्याक्रमेण॥१३॥
भवति। क ? स्वाङ्गाभोगः। कयोः ? रविशशभृतोः सूर्यचन्द्रयोः। कस्मात् ? प्रवाहात् वहनात्। केषाम् ? मण्डलानां वायुमण्डलानाम्। क्व ? इह शरीरे। कथंभूतः स्वाङ्गाभोगः ? सर्वाबहिः सर्वान्तर्गतः कस्मात् ? यस्मात् कारणात्। पुनः कथंभूतः ? रुद्रसंख्यः एकादशगण्यः। कथंभूतः ? सपादः सैकः। स्यात् भवेत्। कः ? सः स्वाङ्गाभोगः। कथंभूतः ? सपादः चतु[र्थांश सहितः]। कस्मात् ? इषुगुणितसंक्रमात् बाणगुणितसंक्रान्तितः। कस्मात् ? षट्पञ्चाशत् षडुत्तरपञ्चाशत्। भवति। कः ? सः नाडीच्छेदो नाडिकानाशः। केन ? द्विसंख्याक्रमेण द्वित्वगणनानुक्रमेण। कथम् ? प्रतिदिनं प्रतिवासरम्। कुतः ? इतः संक्रान्तितः॥१३॥
द्वासप्तत्याख्यमिह सकलं नाडिकानां सहस्रंकालग्रस्तं तदपसरणाभावतः स्याच्छताब्दात्। तेन श्रुत्यादिषु च पुरुषो वर्णितोऽसौ शतायुःस्वैः स्वैर्मासैरसुरसुरमर्त्यादिभिन्नः समस्तः॥१४॥
भवति। किम् ? सहस्रम्। कासाम् ? नाडिकानां नाडीनाम्। कियत् ? द्वासप्तत्याख्यम्। क्व ? इह देहे। कथंभूतम् ? सकलं समष्टं (स्तं)। पुनः कथंभूतम् ? कालग्रस्तं मृत्युग्रस्तं स्यात् भवेत्। कः ? असौ पुरुषः। कथंभूतः ? वर्णितः समुच्चारितः। कस्मात् ? शताब्दात् शतवर्षात्। केषु ? श्रुत्यादिषु वेदादिषु। कथं च केन ? तेन कारणेन। कस्मात् ? तदपसरणतः नाडीविनाशाभावात्। कथंभूतः पुरुषः ? शतायुः शतवर्षायुः। कैः ? स्वैः स्वैः आत्मगतैः वर्षैः। कथंभूतः सन् ? असुरसुरमर्त्त्यादिभिन्नः दैत्यदेवमनुष्यादिभिन्नः। पुनः कथंभूतः ? समस्तः॥१४॥
यद्वदृक्षं तरणिरखिलं नैव चन्द्रं तिथिं चप्रौढ भोक्तुं वहनपरिपाटयैव सर्वत्र राशौ। कालोऽशेषं भ्रमति तदिदं राशिचक्रं क्रमेणप्रायो देहे रविशशधरौ वातचक्रं तथैव॥१५॥
न भवति। कः ? तरणिः आदित्यः। कथंभूतः ? प्रौढः समर्थः। किं कर्त्तुम् ? भोक्तुमत्तुं भक्षितुम्। किम् ऋक्षं न क्षत्रम्। न केवलमृक्षं चन्द्रं च। न केवलं चन्द्रं तिथिं वा। कथंभूतम् ? अखिलं समष्टं(स्तम्)। कथम् ? एव निश्चितम्। कया ? वहनपरिपाटया गमनानुक्रमेण। कुतः ? राशौ सर्वत्र। किं वत् ? यद्वत्। भ्रमति गच्छति। कः ? कालो राहुः किम् ? इदं राशिचक्रम्। कथंभूतम्? अशेषं सर्वम्। कथम् ? तत् ततः। केन ? क्रमेण अनुक्रमेण। कस्मिन् ? देहे शरीरे। कथम् ? प्रायो बाहुल्येन। कथम् ? तथैव। भवति च। कः ? कालो राहुः। कथंभूतः ? प्रौढः समर्थः। किं कर्तुम् ? भोक्तुम् आ(खा)दितुम्। कौ ? रविशशधरौ। न केवलं रविशशधरौ वातचक्रं वायुसमूहं च॥१५॥
काये पुष्टेऽप्यतिखरकरा यौवने शक्तिरन्त-र्नाडीं प्राप्योपरि परिगता चन्द्रमादाय मूर्ध्नि। वज्राद्बाह्यं नयति पुनरभ्येति चोष्णीषचक्रंनाडीनाशात् सवलिपलितः कालचक्रं प्रयाति॥१६॥
नयति प्रापयति। का ? शक्तिः। कम् ? चन्द्रं बोधिचित्तम्। किम् ? बाह्यं बहिः। कस्मात् ? वज्रात् कुलिशात्। अभ्येति च आगच्छति च। किम् ? उष्णीषचक्रं वैमल्यचक्रम्। किं कृत्वा ? आदाय गृहीत्वा। कस्मिन् ? मूर्ध्नि मस्तके। पुनः किं कृत्वा ? प्राप्य। काम् ? अन्तर्नाडीम् अभ्यन्तरनाडिकाम्। कथंभूता सती ? परिगता सती परिप्राप्ता सती। क्व ? उपरि उपरिष्टात्। कथंभूता ? अतिखरकरा अतिशयतीक्ष्णतेजा। कस्मिन् ? यौवने तारुण्ये। क्व सति ? काये पुष्टे सति चन्द्रे पूर्णे सति। कथमपि च पुनः प्रयाति प्रगच्छति। कः ? प्राणी। किम् ? कालचक्रं मुखम्। कथंभूतः सन् ? सबलिपलितः सन् आकुञ्चितत्वक्पक्वकेशः सन्। कस्मात् ? नाडीनाशात् नाडिकापरिशोषात्॥१६॥
त्यक्त्वा शृङ्गारजमपि सुखं चन्द्रसूर्योपरागंचण्डाल्येषा निभृतमनिशं द्रावयेच्चन्द्रधातुम्। यावज्जीर्णादिकमिह शिशुब्रह्मचर्यादपि स्यात्तस्माच्छक्त्याकुलितवपुषो देहिनः कालवश्याः॥१७॥
द्रावयेत् स्रावयेत्। का ? एषा चण्डाली मध्यमा। कम् ? चन्द्रधातुम्। कथम् ? अनिशं निरन्तरम्। पुनः कथम् ? यथा निभृतं निःशब्दम्। किं कृत्वा ? त्यक्त्वा परिहृत्य। किम् ? सुखम्। कथंभूतम्। शृङ्गारजं शृङ्गारोद्भवं। कथमपि निश्चितम्। पुनः कथंभूतम् ? चन्द्रसूर्योपरागं चन्द्रसूर्यग्रसनकालम्। स्यात् भवेत्। किम् ? जीर्णादिकं बुद्धत्वादिकम्। क्व ? इह शरीरे। कथं यावत्। कस्मात् ? शिशुब्रह्मचर्यात् षोडशाब्दाधो ब्रह्मचर्यात्। कथमपि भवन्ति। के देहिनः प्राणिनः कथंभूताः ? कालवश्याः मृत्युवशगाः। पुनः कथंभूताः ? शक्त्याकुलितवपुषः विकलीकृतशरीराः। कस्मात् ? तस्मात् जीर्णत्वात्॥१७॥