विंशतिकाकारिका

नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥

विंशतिकाकारिका विज्ञप्तिमात्रमेवैतदसदर्थावभासनात्।
यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम्॥१॥

यदि विज्ञप्तिरनर्था नियमो देशकालयोः।
सन्तानस्यानियमश्च युक्ता कृत्यक्रिया न च॥२॥

देशादिनियमः सिद्धः स्वप्नवत् प्रेतवत् पुनः।
सन्तानानियमः सर्वैः पूयनद्यादिदर्शने॥३॥

स्वप्नोपघातवत् कृत्यक्रिया नरकवत् पुनः।
सर्वं नरकपालादिदर्शने तैश्च बाधने॥४॥

तिरश्चां सम्भवः स्वर्गे यथा न नरके तथा।
न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते॥५॥

यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा।
इष्यते परिणामश्च किं विज्ञानस्य नेष्यते॥६॥

कर्मणो वासनाऽन्यत्र फलमन्यत्र कल्प्यते।
तत्रैव नेष्यते यत्र वासना किं नु कारणम्॥७॥

रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति।
अभिप्रायवशादुक्तमुपपादुकसत्त्ववत्॥८॥

यतः स्वबीजाद् विज्ञप्तिर्यदाभासा प्रवर्तते।
द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत्॥९॥

तथा पुद्गलनैरात्म्यप्रवेशो हि ह्यन्यथा पुनः।
देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना॥१०॥

न तदेकं न चानेकं विषयः परमाणुशः।
न च ते संहता यस्मात् परमाणुर्न सिध्यति॥११॥

षट्केन युगपद्योगात् परमाणोः षडंशता।
षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः॥१२॥

परमाणोरसंयोगे तत्सङ्घातेऽस्ति कस्य सः।
न चानवयवत्वेन तत्संयोगो न सिध्यति॥१३॥

दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते।
छायावृती कथं वाऽन्यो न पिण्डश्चेन्न तस्य ते॥१४॥

एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रहौ।
विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत्॥१५॥

प्रत्यक्षबुद्धिः स्वप्नादौ यथा सा च यदा तदा।
न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम्॥१६॥

उक्तं यथा तदाभासा विज्ञप्तिः स्मरणं ततः।
स्वप्ने दृग्विषयाभावं नाप्रबुद्धोऽवगच्छति॥१७॥

अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः।
मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम्॥१८॥

मरणं परविज्ञप्तिविशेषाद् विक्रिया यथा।
स्मृतिलोपादिकाऽन्येषां पिशाचादिमनोवशात्॥१९॥

कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः।
मनोदण्डो महावद्यः कथं वा तेन सिध्यति॥२०॥

परचित्तविदां ज्ञानमयथार्थं कथं यथा।
स्वचित्तज्ञानमज्ञानाद् यथा बुद्धस्य गोचरः॥२१॥

विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया।
कृतेयं सर्वथा सा तु न चिन्त्या बुद्धगोचरः॥२२॥

विंशतिकाकारिकाः समाप्ताः॥