त्रिंशिकाविज्ञप्तिकारिकाः

त्रिंशिकाविज्ञप्तिकारिकाः ॥

नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥

आत्मधर्मोपचारो हि विविधो यः प्रवर्तते।
विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा॥१॥

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम्॥२॥

असंविदितकोपादिस्थानविज्ञप्तिकं च तत्।
सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम्॥३॥

उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत्।
तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत्॥४॥

तस्य व्यावृत्तिरर्हत्त्वे तदाश्रित्य प्रवर्तते।
तदालम्बं मनोनाम विज्ञानं मननात्मकम्॥५॥

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा।
आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः॥६॥

यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत्।
न निरोधसमापत्तौ मार्गे लोकोत्तरे न च॥७॥

द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या।
विषयस्योपलब्धिः सा कुशलाकुशलाद्वया॥८॥

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ।
सम्प्रयुक्ता तथा क्लेशैरुपक्लेशैस्त्रिवेदना॥९॥

आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह।
समाधिधीभ्यां नियताः श्रद्दाथ ह्रीरपत्रपा॥१०॥

अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका।
अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः॥११॥

मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः।
म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया॥१२॥

शाठ्यं मदोऽविहिंसा ह्रीरत्रपा स्त्यानमुद्धवः।
आश्रद्ध्यमथ कौसीद्यं प्रमादो मुषिता स्मृतिः॥१३॥

विक्षेपोऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च।
वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा॥१४॥

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्‍भवः।
विज्ञानानां सह न वा तरङ्गाणां यथा जले॥१५॥

मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते।
समापत्तिद्वयान्मिद्धान्मूर्च्छनादप्यचित्तकात्॥१६॥

विज्ञानपरिणामोऽयं विकल्पो यद् विकल्प्यते।
तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम्॥१७॥

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा।
यात्यन्योऽन्यवशाद् येन विकल्पः स स जायते॥१८॥

कर्मणो वासना ग्राहद्वयवासनया सह।
क्षीणे पूर्वविपाकेऽन्यद् विपाकं जनयन्ति तत्॥१९॥

येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते।
परिकल्पित एवासौ स्वभावो न स विद्यते॥२०॥

परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्‍भवः।
निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या॥२१॥

अत एव स नैवान्यो नानन्यः परतन्त्रतः।
अनित्यतादिवद् वाच्यो नादृष्टेऽस्मिन् स दृश्यते॥२२॥

त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम्।
सन्धाय सर्वधर्माणां देशिता निःस्वभावता॥२३॥

प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः।
न स्वयंभाव एतस्येत्यपरा निःस्वभावता॥२४॥

धर्माणां परमार्थश्च स यतस्तथताऽपि सः।
सर्वकालं तथाभावात् सैव विज्ञप्तिमात्रता॥२५॥

यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति।
ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते॥२६॥

विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः।
स्थापयन्नग्रतः किञ्चित् तन्मात्रे नावतिष्ठते॥२७॥

यदालम्बनं ज्ञानं नैवोपलभते तदा।
स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात्॥२८॥

अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत्।
आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः॥२९॥

स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः।
सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः॥३०॥

त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः॥

कृतिरियमाचार्यवसुबन्धोः॥