महायानसंग्रह

महायानसंग्रहप्रस्तावना 1अभिधर्ममाहायानसूत्रे भगवत्पुरस्तान् महाया-नसुप्रविष्टबोधिसत्त्वेन महायानमाहात्म्योद्भावनार्-थम् उक्तं यद् उत महायानम् आरभ्य बुद्धभगव-तां दशप्रकारविशेषविशिष्टवचनम्। प्रस्तावना 2(1)यद् उत बुद्धभगवतां (1) ज्ञेयाश्रयविशेषविशिष्टव-चनम्। (2) ज्ञेयलक्षणविशेषविशिष्टवचनम्। (3) ज्ञेय-लक्षणप्रवेशविशेषविशिष्टवचनम्। (4) तत्प्रवेशहेतु-फलविशेषविशिष्टवचनम्। (5) तद्धेतुफलभावनाप्र-भेदविशेषविशिष्टवचनम्। (6) तत्रैव भावनाप्रभेदेऽधिशीलविशेषविशिष्टवचनम्। (7) अधिचित्तविशेषविशिष्टवच-नम्। (8) अधिप्रज्ञाविशेषविशिष्टवचनम्। (9) तत्फलप्र-हाणविशेषविशिष्टवचनम्। (10) तत्फलज्ञानविशेषविशिष्ट-वचनं च। एषा सूत्रपददेशना महायानस्य बुद्धवचनत्वम्उद्भावयति। (2)प्रस्तावना 3कथम् उद्भावयति। - तथा ह्य् एतया देशनया श्रा-वकयाने ऽदेशितानि दशस्थानानि महायानतो देशितानि। यद्उत (1) आलयविज्ञानस्य ज्ञेयाश्रयता देशिता। (2) त्रयाणां(3)स्वभावानां परतन्त्रस्य परिकल्पितस्य परिनिष्पन्नस्यच ज्ञेयलक्षणता देशिता। (3) विज्ञप्तिमात्रताया ज्ञेयलक्-षणप्रवेशता देशिता। (4) षट्पारमितानां तत्प्रवेशहेतु-फलता देशिता। (5) दशबोधिसत्त्वभूमीनां तद्धेतुफ-लभावनाप्रभेदता देशिता। (6) बोधिसत्त्वसंवरस्यतत्राधिशीलता देशिता। (7) शूरंगमगगनगञ्जादिसमाधी-नां तत्राधिचित्तता देशिता। (8) निर्विकल्पज्ञानस्याधिप्र-ज्ञाता देशिता। (9) अप्रतिष्ठितनिर्वाणस्य तत्फलप्रहाणतादेशिता। (10) त्रयाणां बुद्धकायानां स्वाभाविकस्यसांभोगिकस्य नैर्माणिकस्य च तत्फलज्ञानता देशिता। एतानि दशस्थानानि श्रावकयानाद् विशिष्टानि यानि भगवतामहायान [उद्भावितानि] विशिष्टपरमाणि बोधिसत्त्वान् आर-भ्य देशितानि। तेन महायानम् आरभ्य बुद्धभगवतां दशप्रका-रविशेषविशिष्टवचनं ज्ञेयम्। प्रस्तावना ४(4)कथं पुनर् एतेन दशप्रकारविशेषविशिष्टेन तथाग-तवचनेन महायानं बुद्धवचनम् एवेति परिदीपितंन च श्रावकयानं महायानम् इति प्रतिषिद्धम्। -एतेषां हि दशस्थानानां देशना श्रावकयाने न दृश्यतेमहायाने तु दृश्यते। एतानि दशस्थानानि महाबोधिसं-पादकानि सूपपन्नानुकूलाविरुद्धानि सर्वज्ञज्ञानप्राप्-तये। अत्र गाथे। आश्रयो ज्ञेय(स्य) लक्षणं तत्प्रवेशस् तद्धेतुफ-लं तत्प्रभेदः। शिक्षात्रयं तत्फलं च प्रहाणं ज्ञानं चाग्रया-नगतं विशिष्टम्॥

(1)एषा हि देशनान्यत्र न दृश्यते एतेषाम् उत्तमबोधिहे-तुदर्शनेन। बुद्धवचनम् इष्यते महायानं दशस्थानदेशन-या विशिष्टम्॥

(2)प्रस्तावना 5(5)किम् अर्थम् एतेषां दशस्थानानाम् एवं क्रमो देशितः। - (1) बोधिसत्त्वेन हि प्रथमत एव तावद् धर्मा-णां हेतौ कौशल्यं निश्रित्य प्रतीत्यसमुत्पादे कौशल्-यं प्राप्तव्यम्। (2) ततः परं प्रतीत्यसमुत्पन्नधर्-माणां लक्षणे कौशल्यं प्राप्तव्यम्। समारोपापवादान् -तदोषपरिवर्जने कौशल्यात्। (3) बोधिसत्त्वेनैवं प्रयु-क्तेन तस्मिन् सुगृहीतलक्षणे प्रतिव्यध्यम्। तेनावरणे-भ्यश् चित्तं विमुच्यते। (4) ततः परं ज्ञेयलक्षणंप्रतिविध्य पूर्वप्रायोगिकाः षट्पारमिता अधिगमेनप्रतिपत्तव्याः। विशुद्धाध्याशयं निश्रित्य। (5) ततः(6)परं विशुद्धाध्याशयपरिगृहीताः षट्पारमिता दशभू-मिषु प्रभेदेन भाव्यास् त्रिकल्पासंख्येयम्। (6-8)ततः परं त्रयो बोधिसत्त्वशिक्षाः परिपूरयितव्याः। (9-10) परिपूरयित्वा तत्फलं निर्वाणम् अनुत्तरसम्यक्-संबोधिश् चाभिसंबोद्धव्या। एवम् एतेषां दशस्थाना-नां क्रमो देशितः। एतस्यां देशनायां सर्वमहायानं परिपूर्णम्। chapter I (ज्ञेयाश्रय)I.1तत्र तावत् प्रथमत एव ज्ञेयाश्रय उक्त आलयविज्ञा-नं। भगवता कुत्रालयविज्ञानं देशितम् आलयविज्ञानम्इति व्यपदेशेन। - भगवताभिधर्मसूत्रगाथायाम्उक्तम्। अनादिकालिको धातुः सर्वधर्मसमाश्रयः। तस्मिन् सति गतिः सर्वा निर्वाणाधिगमो ऽपि च॥

(7)इति। I.2अपि च तस्याम् एवोक्तम्। आलीनं सर्वधर्मेषु विज्ञानं सर्वबीजकम्। तस्माद् आलयविज्ञानं सद्भ्यो मयैव देशितम्॥

इति। एष तावद् आगमः। I.3किं कारणं तु तद् आलयविज्ञानम् इत्य् उच्यते। -सर्वौपपत्तिकसांक्लेशिकधर्मास् तस्मिन्न् आलीनाः फल-भावेन तच् च तेष्व् आलीनं हेतुभावेनेत्य् आलयविज्ञानम्। अथ वा सत्त्वास् तदालीना आत्मत्वेनेत्य् आलयविज्ञानम्। I.4(8)तच् चादानविज्ञानम् इत्य् अप्य् उच्यते। अत्रागमः। यथो-क्तं संधिनिर्मोचनसूत्रे। आदानविज्ञान गभीरसूक्ष्मो ओघो यथा वर्ततिसर्वबीजो। बालान एषो मयि न प्रकाशि(ते) मा हैव आत्मापरिकल्पयेयुः॥

इति। (त्रिंशिका)I.5किं कारणम् आदानविज्ञानम् इत्य् उच्यते। - (a) सर्व-रूपीन्द्रियोपादानत्वेन (b) सर्वात्मभावोपादानाश्रयत्वेनच। तथा हि (a) तेन पञ्चरूपिन्द्रियान्य् उपादीयन्ते ऽविना-शाय यावद् आयुर् अनुवर्तते। (b) प्रतिसंधिबन्धे च(9)तदभिनिर्वृत्त्युपादानत्वेनात्मभाव उपादीयते। एवं तद्आदानविज्ञानम् इत्य् उच्यते। I.6तच् च चित्तम् इत्य् अप्य् उच्यते। यथोक्तं भगवता चित्तंमनो ऽथ विज्ञानम् इति। तत्र मनो द्विविधम्। (1) समनन्तरप्रत्ययकारित्र्-आश्रयत्वाद् अनन्तरनिरुद्धविज्ञानं मनो नाम विज्ञा-नस्योत्पादाश्रयः। (2) द्वितीयं च क्लिष्टं मनश् चतुर्-भिः क्लेशैः सदा सम्प्रयुक्तं सत्कायदृष्ट्या चास्मिमा-नेन चात्मस्नेहेन चाविद्याया च। एतद् विज्ञानस्य संक्ले-शाश्रयः। विज्ञानं यद् एकेनाश्रयेनोत्पद्यते द्वितीयेन तु संक्लि-श्यते। विषयप्रतिविज्ञप्तेर् विज्ञानम्। समनन्तरान् मननाच् च मनो द्विविधम्। (10)I.7Aकथं पुनर् गम्यते तत् क्लिष्टं मन अस्तीति। तस्मिन्न्अविद्यमाने। (1) आवेणिक्यविद्याभावदोषो भवेत्। (2) पञ्-चभिश् च साधर्म्याभावदोषो भवेत्। तथा हि पञ्चविज्-ञानकायानां सहभ्वाश्रयाश् चक्षुरादयः। (3) निरुक्त्य-भावदोषश् च भवेत्। (4) असंज्ञिनिरोधसमापत्त्योश् चविशेषाभावदोषो भवेत्। तथा ह्य् असंज्ञिसमापत्तिः क्लि-(11)ष्टमनसा प्रभाविता न तु निरोधसमापत्तिः। अन्यथातयोर् विशेषो न स्यात्। (5) आसंज्ञिकायां चैकजाताव् अक्लिष्ट-त्वदोषो भवेद् यदि तत्राहंकारो ऽस्मिमानश् च न भ-वेतां। (6) सदा चाहंकारस्य समुदाचार उपलभ्यतेकुशलाकुशलाव्याकृतचित्तेषु। अन्यथाकुशलचित्त एव तत्स-ंप्रयुक्तत्वाद् अस्मिमानक्लेशः समुदाचरेन् न तु कुश-लाव्यकृतयोः। तस्मात् सहभूसमुदाचारेण संप्रयुक्त-समुदाचारेण च एते दोषा न भवन्ति। I. 7Bअत्र गाथाः। आवेणिक्या अविद्यायाः साधर्मयस्य च पञ्चभिः। (12)समापत्तिविशेषस्य च निरुक्तेश् चाभावो दोषः॥

(1)आसंज्ञिके जातिस्रोतसि चाहंकाराभावो दोषः। अहंकारानुबन्धश् च सर्वथा नोपपद्यते॥

(2)विना क्लिष्टमनसा द्वयाभावः त्रयविरोधश् च। तस्मिन्न् असति सर्वत्र चाहंकारो न भवति॥

(3)चित्तवृत्तये सदर्थे सदा प्रतिबन्धभूता। सर्वकालं च सहभूर् अविद्येष्यत आवेणिकी॥

(4)I. 7Cमनः क्लिष्टत्वान् निवृताव्याकृतं क्लेशैश् चतुर्भिः सदासंप्रयुक्तम्। यथा रूपरूप्यावचरक्लेशा एतद् निवृता-व्याकृतम्। रूपारूप्यावचरस्य शमथालिन्गितत्वान् मनसस्तु सर्वकालम् अनुबद्धत्वात्। I.8चित्तशरीरं तृतीयं नोपलभ्यत आलयविज्ञानम् अन्त-(13)रेण। तेन सिद्धम् आलयविज्ञानस्य चित्तत्वम्। तस्मात्सर्वबीजकान् मनो विज्ञानं च प्रवर्तते। I.9तच् च किंकारणं चित्तम् इत्य् अप्य् उच्यते। चित्रधर्म-वासनाबीजैर् आचितत्वेन। I.10किंकारणं श्रावकयाने तच् चित्तं न देशितम् आलय-विज्ञानम् इति वादानविज्ञानम् इति वा। - सूक्ष्मज्ञेयसं-गृहीतवात्। न हि श्रावकाः सर्वज्ञेयज्ञानाधिकारः। तस्-मात् तेषां तद्देशनाम् अन्तरेणापि ज्ञानप्रसिद्ध्या विमु-क्तिप्रसिद्धेर् न देशितं। बोधिसत्त्वास् तु सर्वज्ञेय-(14)ज्ञानाधिकाराः। तस्मात् तेषां देशितं। न हि तज्ज्ञानम्अन्तरेन सर्वज्ञज्ञानप्राप्तिः सुकरा। I.11Aपुनः पर्यायेन श्रावकयाने ऽप्य् आलयविज्ञानं देशितं। यथोक्तम् एकोत्तरिकागमे तथागतोत्पादचतुर्विधानुश-ंसासूत्रे। “आलयारामासु प्रजास्व् [आलयरतास्व्] आलयसं-मुदितास्व् आलयाभिरामास्व् आलयप्रहाणाय धर्मे देश्य-माने ते शुश्रूषन्ति श्रोत्रम् अवदधन्त्य् आज्ञाचित्तम् उप-स्थापयन्ति धर्मस्यानुधर्मं प्रतिपद्यन्ते। तथा-गतस्य लोके प्रादुर्भावाद् अयम् आश्चर्यो ऽद्भुतो धर्मोऽपि लोके प्रादुर्भवति” ति। अनेन पर्यायेन श्रावकयानेऽप्य् आलयविज्ञानम् उद्भावितम्। I.11B(15)महासंघिकागमेष्व् अपि मूलविज्ञानम् इति पर्यायेनतद् एव देशितं। यथा वृक्षो मूल आश्रितः। I. 11Cमहीशासकागमेष्व् अप्य् आसंसारिकस्कन्धा इति पर्यायेनतद् एव देशितं। क्वचिद् धि कदा चिद् रूपं च चित्तंचोपरतं दृश्यते न त्व् आलयविज्ञान उपरतं तद्बीजम्। I.11Dआर्यस्थविरागमेष्व् अप्य् उक्तं। भवाङ्गं दर्शनं चापि ज्ञानम् आवर्जनं तथा। इञ्जितं च पुनः प्रेक्षा प्रवर्तनं च सप्तमम्॥

इति। I. 12(16)तस्माद् यज् ज्ञेयाश्रयस्यादानविज्ञानत्वं चित्तत्वम् आल-यत्वं मूलविज्ञानत्वम् आसंसारिकस्कन्धत्वम् भवा-ङ्गत्वं च देशितं तद् आलयविज्ञानम् आलयविज्ञानमहा-राजपथोत्कृष्टम् एव। I. 13Aअपरेषाम् एवं भवति। चित्तं मनो विज्ञानम् इत्य् एकार्-थम् एव। अत्र भिन्नव्यञ्जनत्वम् इति। तन् नोपपद्यते। मनोविज्ञानयोर् भिन्नार्थोपलम्भात्। तस्माच् चित्तम् अपिभिन्नार्थं भवति। I. 13B(17)अपरेषां चैवं भवति। यद् भगवतोक्तम् आलयारा-माः प्रजा इति विस्तरेण तत्र पञ्चोपादानस्कन्धा आलयउच्यत इति। अन्येषां च रागसहितसुखवेदनालय इति। अन्येषां च सत्कायदृष्टिर् आलय इति। तेषां त्व् आलयविज्ञान-संमूढानाम् आगमाधिगमत एवं भवति। श्रावकया-नव्यवस्थापितयुक्त्या च तेषां तद्व्यवस्थानं नायुक्-तम्। तदसंमूढानां तु तदालयव्यवस्थानम् आलयवि-ज्ञानं परिगृह्य सुत्रां व्यवस्थापितम्। I. 13C(18)कथं सुतराम्। (1) तथा हि पञ्चोपादानस्कन्धा दुर्-गतिष्व् अतिदुःखितासु जातानां प्रतिकूलाः। तेन तेष्व् अत्य-निष्टेषु त आलीना न युज्यन्ते। यस्मात् ते नित्यं तद्वियोगम्एवेच्छन्ति। (2) रागसहितसुखवेदना च चतुर्थाद् ध्या-नात् परम् उत्तरेष्व् अविद्यमाना तदुपेतसत्त्वानां प्रति-कूला। तत्रापि त आलीना न युज्यन्ते। (3) सत्कायदृष्टिश् चेह-धार्मिकानां नैरात्म्याधिमुक्तानां प्रतिकूला। तस्मात्तत्रापि त आलीना न युज्यन्ते। आलयविज्ञानस्य त्व् अन्तरात्मभावत्वा भ्युपगमे (1)ऽतिदुःखितगतिषु जाता दुःखस्कन्धविनाशम् इच्छमानाअप्य् आलयविज्ञान आत्मस्नेहनानुबद्धास् तद्विनाशं नजात्व् इच्छन्ति। (2) चतुर्थाच् च ध्यानात् परम् उत्तरेषुजाताः रागसहितसुखेन प्रतिकूला अप्य् आलयविज्ञान आत्म-भावस्नेहनानुबद्धा एव। (3) एवं चेहधार्मिका नैरात्-म्याधिमुक्ता आत्मदृष्ट्या प्रतिकूला अप्य् आलयविज्ञान आत्म-भावस्नेहनानुबद्धा एव। एवं सत्य् आलयविज्ञानस्याल-(19)यत्वव्यवस्थानं सुतरां सिद्धम्। I. 14इदं तावद् आलयविज्ञानस्य पर्यायव्यवस्थानम्। ततो ऽस्य लक्षणव्यवस्थानम् कथं द्रष्टव्यम्। तत् समासतस् त्रिविधं। स्वलक्षणव्यवस्थानं हेतु-त्वव्यवस्थानं फलत्वव्यवस्थानं च। (1) तत्रालयवि-ज्ञानस्य स्वलक्षणं यत् सर्वसांक्लेशिकधर्मवासनान्निश्रित्य तदुत्पादनिमित्तत्वं बीजपरिग्रहसंयोगेन। (2) तत्र हेतुत्वलक्षणं यत् तेषाम् एव सांक्लेशिकधर्-माणां तद् एवालयविज्ञानम् एवं सर्वबीजकं सर्वका-लं हेतुत्वेनोपस्थितम्। (3) तत्र फलत्वव्यवस्थानम्एव यद् आलयविज्ञानं तेषाम् एव सांक्लेशिकधर्माणाम्(20)अनादिकालिकवासनान् निश्रित्योत्पन्नम्। I. 15कतमा पुनर् इयं वासनोच्यते। अस्य च वासनेत्य् अभि-धानस्य किम् अभिधेयम्। तद्धर्मसहोत्पादनिरोधंनिश्रित्य यत् तद्जनकनिमित्तत्वं तद् अभिधेयम्। तद्य-था तिलानां पुष्पभावना। तिलपुष्पसहोत्पादनिरोधेन हि तिलास् तद्गन्धान्तरोत्पादनिमित्तत्वा भवन्ति। रागादिचरि-तानां च रागादिवासना। रागादिसहोत्पादनिरोधेन हि चित्-तं तन्निमित्तत्वं भवति। बहुश्रुतानां च बहुश्रुत-वासना। तच्छ्रुतमनसिकारसहोत्पादनिरोधेन हि चित्तंतज्जल्पनिमित्तत्वं भवति। तद्वासनापरिग्रहेण धर्-मधर इति। एवम् आलयविज्ञाने ऽपि तथायोगेन द्रष्टव्-यम्। (21)I. 16किं पुनर् आलयविज्ञाने तानि सांक्लेशिकधर्मबीजानिप्रत्येकं पृथग् वा वसन्त्य् अपृथग् वा। - तानि नद्रव्यतः पृथक् तत्र वसन्ति न चापृथक्। अपि तु तथो-त्पद्यमानं यद् आलयविज्ञानं तदुत्पादशक्तिविशेषकंतत् सर्वबीजकम् उच्यते। I. 17(22)कथं पुनस् तस्यालयविज्ञानस्य तेषां च सांक्लेशि-कधर्माणां समकालान्योन्यहेतुत्वं द्रष्टव्यम्। -तद्यथा दीपस्य ज्वालवर्त्युत्पाददहनं समकालम्अन्योन्यम्। नडकलापश् च समकालम् अन्योन्यम् आश्रित्यन पतति। एवम् अत्राप्य् अन्योन्यहेतुत्वं द्रष्टव्यम्। यथालयविज्ञानं सांक्लेशिकधर्माणां हेतुः (तथा)सांक्लेशिकधर्माश् चालयविज्ञानस्य। तथा हेतुप्रत्ययोव्यवस्थाप्यते ऽन्यहेतुप्रत्ययनुपलम्भात्। I.18कथां पुनर् अपृथगविविधवासना पृथग्विविधधर्-माणां हेतुर् भवति। - तद्यथा विविधसारङ्गविकृ-तवस्त्रं चित्रितम् अदृश्यमानं यदि रङ्गभाजने प्रवि-शति तदा रङ्गानां पृथगनेकविविधभेदान् वस्त्रे सं-दर्शयति। एवम् आलयविज्ञानं विविधवासनापरिभावितंवासनावस्थायाम् अविविधम् अपि फलाभिनिर्वर्तनरङ्ग-भाजनाभिमुखे ऽप्रमाणविविधधर्मान् संदर्शयति। (23)I.19अयं महायाने सूक्ष्मपरमगम्भीरः प्रतीत्यसमुत्-पादः। समासतो द्वयः प्रतीत्यसमुत्पादः। स्वभाववि-भागिक इष्टानिष्टविभागिकश् च। तत्र य आलयविज्ञानंसंनिश्रित्य धर्माणाम् उत्पादः स स्वभावविभागिकः। विविधस्वभावविभागप्रत्ययभावत्वात्। यो द्वादशाङ्ग-प्रतीत्यसमुत्पादः स इष्टानिष्टविभागिकः। सुगतिदुर्गती-ष्टानिष्टविविधात्मभावविभागप्रत्ययभावत्वात्। I.20(24)तत्रालयविज्ञाने प्रथमे प्रतीत्यसमुत्पादे संमूढाप्रकृतिहेतुत्वं वा कल्पयन्ति। पूर्वकृतहेतुत्वं वाकल्पयन्ति। ईश्वरनिरमाणहेतुत्वं वा कल्पयन्ति। आत्म-हेतुत्वं वा कल्पयन्ति। अहेत्वप्रत्ययत्वं वा कल्प-यन्ति। द्वितीये च प्रतीत्यसमुत्पादे संमूढा आत्मानंकर्तारं च भोक्तारं च कल्पयन्ति। तद्यथानेकजात्यन्धाः सन्ति। ते च नैव हस्तिनं(25)दृष्टवन्तः। तेषां कश्चिद् धस्तिनं दर्शयति। ते जात्य्-अन्धास् तस्य हस्तिनः शुण्डां वा स्पृशन्ति दन्तं वाकर्णं वा पादं वा वालधिं वा पृष्ठवंशं वा। तेषां पृच्छति कीदृशो हस्तीति। आह लङ्गलीषेवेति वा मुसलइवेति वा शूर्प इवेति वा उलूखलेवेति वा संमार्जनीवेति वाशैल इवेति वा। एवम् अत्रेमं द्विविधं प्रतीत्यसमुत्पादम् अजानन्तोऽविद्यया जात्यन्धभूताः प्रकृतिं वा कल्पयन्ति पूर्वकृ-तं वेश्वरं वात्मानं वाहेतुं वा कर्तारं वा भोक्-तारं वालयविज्ञानस्य हस्तिस्थानीयस्य स्वभावं हेतु-त्वं फलत्वं चाजानन्तः। I. 21समासत आलयविज्ञानं विपाकविज्ञानसर्वबीजकस्व-भावम्। तेन संगृहीताः त्रैधातुकाः सर्वकायाः सर्व-गतयश् च। I.22(26)अत्र गाथाः। बाह्यम् अध्यात्मम् अव्यक्तं द्वयं सांवृतम् एवच। परमार्थं च तत्सर्वं बीजं षड्विधम् इष्यते॥

(1)क्षणिकं सहभूकं तत् संतानानुवृद् इष्यते। नियतं प्रत्ययापेक्षं स्वफलस्यैव साधनम्॥

(2)I. 23ध्रुवे ऽव्याकृतभाव्ये च भावकसंनिबन्धके। भावना न तदन्येषु वासनालक्षणं हि तद्॥

(1)षण्णानां नास्ति संबन्धस् त्रयभेदविरुद्धतः। क्षणसहभ्वभावत्वाद् जात्यां चान्यप्रसङ्गतः॥

(2)I. 24(27)ते बाह्याध्यात्मिके बीजे जनकाक्षेपके मते। अरोपितमृताक्षेपाद् अन्तरेषोर् अपातवत्॥

अन्ते स्वरसनाशतः॥

I. 25यथा बाह्यानि बीजानि न तथाध्यात्मिकानि बीजानीति पुनर्गाथे। बाह्यम् अवापितं वापि बीजं नाध्यात्मम् इष्यते। श्रुतादिवासनासत्यां फलोत्पत्तिः न युज्यते॥

(1)कृताकृतव्ययावाप्त्योः दोषप्रसङ्गबाधनात्। अध्यात्मप्रत्ययं बाह्यं यद् ध्य् एव वासनाश्रि-तम्॥

(2)I. 26(28)पुनर् यान्य् अन्यानि प्रवृत्तिविज्ञानानि तानि सर्वकायगतिष्व्औपभोगिकानि द्रष्टव्यानि। यथोक्तं मध्यान्तविभाग-गाथायाम्। एकं प्रत्ययविज्ञानं द्वितीयम् औपभोगिकम्। उपभोगपरिच्छेदप्रेरकास् तत्र चैतसाः॥

इति। I. 27ते विज्ञाने ऽन्योन्यप्रत्यये। महायानाभिधर्मसूत्रेगाथायाम् उक्तम्। सर्वधर्मा हि आलीना विज्ञाने तेषु तत् तथा। अन्योन्यं फलभावेन हेतुभावेन सर्वदा॥

इति। I. 28(29)यदि ते विज्ञाने अन्योन्यं हेतुप्रत्यये प्रथमे प्रती-त्यसमुत्पादे तर्हि द्वितीये प्रतीत्यसमुत्पादे कः प्रत्ययइति चेद् अधिपतिप्रत्ययः। पुनः षड् विज्ञानानि कतिविधैःप्रत्ययैर् उत्पद्यन्त इति चेद् अधिपत्यालम्बनसमनन्त-रप्रत्ययैर् उत्पद्यन्ते। तेषां त्रिविधानां प्रतीत्यसमु-त्पादानाम् आसंसारिकस्य चेष्टानिष्टगतिकस्य चौपभोगि-कस्य च चत्वारः प्रत्ययाः। I. 29(30)एतद् व्यवस्थानम् आलयविज्ञानस्य पर्यायेण लक्षणेनच। कथं गम्यत आलयविज्ञानम् एवैवंपर्यायैर् देशि-तम् एवंलक्षणं च न तु प्रवृत्तिविज्ञानानि तथेति। नह्य् एवंव्यवस्थापितम् आलयविज्ञानम् अन्तरेन संक्लेशश्च व्यवदानं च युज्येते। न क्लेशकर्मजन्मसंक्लेशोयुज्यते। न च लौकिकलोकोत्तरव्यवदानं युज्यते। I.30(31)कथं क्लेशसंक्लेशो न युज्यते। षड्विज्ञानकायेषु हिक्लेशोपक्लेशवासना बीजत्वेन कृता न युज्यन्ते। तथा हि (1) यच् चक्षुर्विज्ञानं यैर् रागादिक्लेशोपक्लेशैःसहोत्पन्नं निरुद्धं च तद् एव तैर् भावितं स्युर्बीजभावेन न त्व् अन्यत्। तस्मिंश् चक्षुर्विज्ञाने निरुद्धेऽन्यविज्ञानान्तरायिते न वासना न च वासनाश्रय उपल-भ्यते। असतश् चक्षुर्विज्ञानात् पूर्वनिरुद्धाद् अन्यविज्ञाना-न्तरायितात् सरागादेर् उत्पादो न युज्यतेऽसतस् तस्माद् अतीतात्। यथातीतकर्मतो विपाकफलस्योत्पादः। तस्मिंश् च चक्षुर्विज्ञाने रागादिसहभुवि वासना नयुज्यते। (2) न तावद् रागे। रागस्य तदाश्रितत्वाद् अध्रुवत्-वाच् च। (3) न चान्येषु विज्ञानेषु। तेषां पृथगाश्रयत्वात्सहोत्पादनिरोधाभावाच् च। (4) न च स्वभावे। स्वभा-वस्य सहोत्पादनिरोधाभावात्। तस्मान् न चक्षुर्विज्ञानं रागादिक्लेशोपक्लेशवासनाभिर्भावितं युज्यते। न च तद् विज्ञानं विज्ञानेन भावितंयुज्यते। यथा चक्षुर्विज्ञानं तथावशिष्टानि प्रवृत्तिविज्-(32)I. 31यच् चासंज्ञिकोत्तरभूमेश् च्यवित्वेहोत्पन्नानां क्लेशो-पक्लेशक्लिष्टं विज्ञानं प्रथमत उत्पद्यते तद् अप्य्अबीजम् उत्पद्येत साश्रयायास् तद्वासनाया अतीताभावात्। I. 32क्लेशप्रतिपक्षविज्ञान उत्पन्ने तदन्यानि सर्वानि लौकि-कविज्ञानानि निरुद्धानि। आलयविज्ञानम् अन्तरेण क्लेशोप-(33)क्लेशबीजं तत्प्रतिपक्षविज्ञान अयुक्तं। स्वभावविमुक्-तत्वात् क्लेशैश् च सहोत्पदनिरोधाभावात्। पश्चात् पुनर्लौकिकविज्ञानम् उत्पद्यते। चिरातीतायाम् अभावायां साश्र-यायां तद्वासनायाम् अबीजम् उत्पद्येतालयविज्ञानम् अन्त-रेण। तस्माद् आलयविज्ञानम् अन्तरेण क्लेशसंक्लेशो न युज्य्-अते। I.33कथं कर्मसंक्लेशो न युज्यते। - संस्कारप्र-त्ययस्य विज्ञानस्यायुक्तत्वात्। तस्मिंश् चाभावे उपादान-प्रत्ययस्य भवस्यायुक्तत्वात्। I. 34Aकथं जन्मसंक्लेशो न युज्यते। - प्रतिसंधिबन्-धायुक्तत्वात्। I. 34B(34)असमाहितभूमेश् च्युत्वान्तराभवावस्थितं मनःक्लिष्टेन मनोविज्ञानेन प्रतिसंधिं बध्नाति। तत् तु क्लिष्टं मनोविज्ञानम् अन्तराभवे निरुध्यते विज्ञानंच कललत्वेन मातुर् कुक्षौ संमूर्च्छति। (35)(1) यदि तद् एव मनोविज्ञानं संमूर्च्छति तत्संमूर्च्छितम् आश्रित्य मनोविज्ञानं मातुर् कुक्षौप्रवर्तेत। तेन द्वे मनोविज्ञाने मातुर् कुक्षौ सहप्रवर्तेयातां। (2) तच् च संमूर्च्छितं मनोविज्ञानंमनोविज्ञानत्वेनायुक्तं। सर्वकालक्लिष्टाश्रयत्वान् मनो-विज्ञानालम्बनानुपलम्भाच् च। (3) स्याद् अपि तन् मनोवि-ज्ञानं संमूर्च्छितं किं तत् संमूर्च्छितं मनोवि-ज्ञानं सर्वबीजकम् आहोस्विद् यत् तदाश्रित्य प्रवृत्तम्। यदि यत् संमूर्च्छितं तत् सर्वबीजकं तेनालयविज्ञानम्एव पर्यायेन व्यवस्थापितं मनोविज्ञानम् इति। अथतदाश्रितं सर्वबीजकं तेन यद् आश्रयभावेन हेतुभू-तं विज्ञानं तद् अपि न सर्वबीजकं। यच् चाश्रितंफलभूतं तादृशं सर्वबीजकम् अयुक्तम्। तस्माद् एतत् सिद्धं यत् संमूर्च्छितं विज्ञानं तन्न मनोविज्ञानम् अपि तु विपाकविज्ञानं तच् च सर्वबी-जकम् इति। I. 35बद्धप्रतिसंधीनां च रूपिन्द्रियसंपरिग्राहकंविपाकविज्ञानाद् अन्यन् नोपपद्यते। प्रतिनियताश्रयत्वाद्अध्रुवत्वाच् च तदन्यविज्ञानानां। न च रूपीन्द्रियान्य्अविज्ञानानि युज्यन्ते। I. 36(36)यद् विज्ञानं च नामरूपं चान्योन्यनिश्रययोगेननडकलापवद् वर्तेते तद् अप्य् अयुक्तं विपाकविज्ञानम्अन्तरेण। I.37अन्यश् च विज्ञानाहारो ऽयुक्तो भूतानां सत्त्वानां। न हिविपाकविज्ञानम् अन्तरेण षड्विज्ञानान्यतमेन त्रैधातु-कानां भूतानां सत्त्वानाम् आहारकरणं दृश्यते। I. 38(37)इतश् च च्युत्वा समाहितभूमाव् उपपद्यमानः क्लिष्टा-समाहितमनोविज्ञानेन प्रतिसंधिं बध्नाति। तस्य तुक्लिष्टासमाहितचित्तस्य तद्भूमिकस्यान्तरेण विपाकविज्ञा-नं तदन्यद् बीजकं नोपपद्यते। I. 39पुनश् चारूप्यधाताव् उपपन्नानां क्लिष्टकुशलचित्तानाम्अन्तरेण सर्वबीजकविपाकविज्ञानं न बीजं भवेन् नचाधारो भवेत् क्लिष्टकुशलचित्तानां। I. 40तत्रैव च लोकोत्तरचित्तसंमुखीकरणे तदन्यलौकि-कचित्तं निरुध्यत इति सा गतिर् व्यावृत्ता एव भवेत्। I. 41(38)नैवसंज्ञानासंज्ञायतने चोपपन्नानाम् आकिंचन्या-यतनलोकोत्तरचित्तस्य साक्षात्करणे तेषां द्वये गतीव्यावृत्ते भवेतां। न हि तल्लोकोत्तरविज्ञानं नैवसं-ज्ञानासंज्ञायतनगत्याश्रयं न चाकिंचन्यायतनगत्या-श्रयं नैव च निर्वाणगत्याश्रयं युक्तं। I. 42च्यवमानस्य च सुकृतकारिणो वा दुष्कृतकारिणो वाधोवोर्ध्वं वा क्रमेणाश्रयशीतीभावो न युज्यते अन्तरेणा-लयविज्ञानं। तस्माज् जन्मसंक्लेशो ऽप्य् अन्तरेण सर्व-बीजकं विपाकविज्ञानं न युज्यते। I.43(39)कथं च लौकिकव्यवदानं न युज्यते। -(1) तथा हि कामेभ्यो ऽवीतरागो ऽप्राप्तरूपावचरचित्तःकामावचरेणैव कुशलचित्तेन कामरागविगमाय प्रयुज्-यते। तच् च कामावचरं प्रायोगिकं चित्तं रूपावचर-चित्तसहोत्पादनिरोधाभावात् तदभावितं तद्बीजं नयुज्यते। (2) तच् च रूपावचरचित्तम् अतीतं बहुजन्मस्व् अन्यचित्-तान्तरायितं तस्य समाहितचित्तस्य बीजत्वेन न युज्यते। अभावात्। (3) तस्मात् सिद्धम् एतद् यत् तस्य समाहितरूपावचर-चित्तस्य तत् सर्वबीजकविपाकविज्ञानं परंपरागतंहेतुप्रत्ययस् तत् तु कुशलचित्तं प्रायोगिकम् अधिपतिप्र-त्ययः। एवं सर्वास्व् अपि वैराग्यभूमिषु यथायोगंज्ञातव्यं। [एवं लौकिकव्यवदानम् अन्तरेण सर्वबीजकं विपा-(40)कविज्ञानं न युज्यते। ]I. 44(41)(एवं लोकोत्तरव्यवदानम् अप्य् अन्तरेण सर्वबीजकंविपाकविज्ञानं न युज्यते। ) कथं लोकोत्तरव्यवदानंन युज्यते। - यथोक्तं भगवता “परतश् च घोषं निश्रित्य प्र-त्यात्मं च योनिशोमनसिकारं निश्रित्य तद्धेतोः सम्-यग्दृष्टिर् उत्पद्यत” इति। तेन परघोषमनसिकारेणश्रोत्रविज्ञानं वा भावितं भवेद् मनोविज्ञानं वातदुभये वा। तत्र तेषु धर्मेषु योनिशोमनसिकारेश्रोत्रविज्ञानं तावन् नोत्पद्यते। मनोविज्ञानं च पर-विज्ञानविक्षेपान्तरायितम्। यदि योनिशोमनसिकारसंप्र-युक्तं चित्तम् उत्पद्यते तदा तच् चिरनिरुद्धातीतमनो-विज्ञानं श्रुतवासनाभावितं सह वासनया नास्ति। कुतःपुनः पश्चात् तद्बीजकं चित्तं योनिशोमनसिकारसंप्र-युक्तम् उत्पद्येत। यच् च तद् योनिशोमनसिकारसंप्रयुक्तं लौकिकचित्तम्तत् सम्यग्दृष्टिसंप्रयुक्तलोकोत्तरचित्तेन न कदा चनसहोत्पद्यते च निरुध्यते च। तस्मान् न तेन भावितं। अभावितत्वाच् च तद्बीजं न युज्यते। तेन लोकोत्तरव्यवदानम् अप्य् अन्तरेण सर्वबीजकंविपाकविज्ञानं न युज्यते। तत्र श्रुतवासनया तद्बीज-परिग्रहायुक्तत्वात्। I.45(42)पुनस् तु कथं सर्वबीजकविपाकविज्ञानं संक्लेश-हेतुभूतं तत्प्रतिपक्षस्य लोकोत्तरचित्तस्य बीजं भ-वेत्। न च लोकोत्तरचित्तम् उचितं। तस्मात् तद्वासना नै-वास्ति। असत्यां तद्वासनायां कस्माद् बीजात् तद् उत्पद्यतेवक्तव्यं। -सुविशुद्धधर्मधातुनिष्यन्दश्रुतवासनाबीजात् तद् उत्-पद्यते। I. 46या च श्रुतवासना किं सा आलयविज्ञानस्वभावा न वा। यद्य् आलयविज्ञानस्वभावा तदा कथं तत्प्रतिपक्षस्य(43)बीजं भवेत्। अथ न तत्स्वभावा ऽतस् तच्छ्रुतवासना-बीजस्य क आश्रयो दृश्यते। -बुद्धानां बोधिं प्राप्य या श्रुतवासना कस्मिंश्चिद् आश्रये प्रवर्तते सा सहस्थानयोगेन विपाकविज्ञानेप्रवर्तते। यथा क्षीरोदकं। न तु सा आलयविज्ञानंतत्प्रतिपक्षस्य बीजत्वात्। I.47तत्र मृदुवासनां निश्रित्य मध्यवासना भवति। मध्यवासनां निश्रित्याधिमात्रवासना भवति। बहुलीकृ-तश्रुतचिन्ताभावनानुयुक्तत्वात्। I. 48(44)तच् च श्रुतवासनाबीजं मृदुमध्याधिमात्रम् अपिधर्मकायबीजं ज्ञातव्यम्। आलयविज्ञानप्रातिपक्षिक-त्वेन च नालयविज्ञानसंगृहीतं लोकोत्तरसुविशुद्धध-र्मधातुनिष्यन्दत्वेन च लौकिकम् अपि लोकोत्तरचित्तस्यबीजं भवति। तद् ध्य् अनुत्पन्ने ऽपि लोकोत्तरचित्ते क्लेशपर्यवस्था-नप्रातिपक्षिकम् अपायगतिप्रातिपक्षिकं सर्वदुष्कृतविश-रणप्रातिपक्षिकं। बुद्धबोधिसत्त्वसमवधानानुलो-मिकं। लौकिकम् अपि धर्मकायसंगृहीतं ज्ञातव्यम्आदिकर्मिकानां बोधिसत्त्वानां विमुक्तिकायसंगृहीतंच श्रावकप्रत्येकबुद्धानां। तत् तु नालयविज्ञानं धर्मकायविमुक्तिकायसंगृही-तं यथा यथा मृदुमध्याधिमात्रं क्रमेण वर्धतेतथा तथा विपाकविज्ञानं चापचितम् आश्रयश् च परावृत्तोभवति। सर्वथा च परावृत्त आश्रये तद् विपाकविज्ञानंसर्वबीजकम् अबीजं भवति सर्वथा च प्रहीणं। I. 49(45)तत् पुनः कथम् आलयविज्ञानं यथा क्षीरोदकंतथानालयविज्ञानसहचारि सर्वथापचितं भवति। -यथा हंसेनोदके पीतं क्षीरं। यथा च लौकिकवीत-रागे ऽसमाहितभूमिकवासनायाम् अपचितायां समाहित-भूमिकवासनायां च वृद्धायाम् आश्रयः परावृत्तः। I. 50निरोधसमापत्तिसमापन्नानाम् अपि “विज्ञानम् अनप-क्रान्तम्” इत्य् उक्तत्वाच् च। तत्र विपाकविज्ञानम् एवानप-क्रान्तं युक्तं। न हि निरोधसमापत्तिस् तत्प्रतिपक्षेणो-त्पन्ना। I. 51(46)न चापि तद्व्युत्थितानां विज्ञानोत्पादः। विपाकविज्ञाने हि समुच्छिन्ने नान्यत्र प्रतिसंधेर् अभिनिर्वृत्तिर् भ-वति। I.52I. 53यश् च मनोविज्ञानास्तित्वेन निरोधसमापत्तिः सचित्तकाइति चिन्तयति तस्यापि तद् चित्तम् अयुक्तं। (I) (1) समापत्-त्ययुक्तत्वात्। (II) (2) आलम्बनाकारानुपलब्धेः। (III) (3)कुशलमूलसंप्रयुक्तत्वाद् (4) अकुशलाव्याकृतायोगेन। (IV)(47)(5) संज्ञावेदनासमुदाचारात् (6) स्पर्शोपलब्धेः। (V) (6) समाधौ तच्छक्तेः (7) संज्ञासमुच्छेदमात्रेण। (VI) (8) चेतनाश्रद्धादिकुशलमूलसमुदाचारात्। (VII) (9) आश्रयाद् आश्रितभेदायोगात्। (VIII) (10) उपमास्ति-त्वात्। (IX) (10) न सर्वत्रगत्वात् तथाभावाच् च। I.54 कुशलाकुशलाव्याकृततानुपपत्तेस् तद् अप्य् अयुक्तम्। I.55यत् पुना रूपचित्तानन्तरोत्पादस्य धर्मानां बीजत्वं कल्पयति तद् अपि पूर्ववन् नोपपद्यते। उपरितश् चारूप्या-संज्ञिकाच् च्युतस्य निरोधसमापत्तेश् च व्युत्थितस्य तन् न युज्यते। अर्हतश् चान्त्यचित्तस्यापि न युज्यत ऋत सम-नन्तरप्रत्ययत्वयोग्यात्। I.56(48)एवं सर्वबीजकं विपाकविज्ञानम् अन्तरेण न संक्लेशोन च व्यवदानं युज्यते। तेन सिद्धं तस्यास्तित्वं यथोक्तलक्षणं च। I. 57अत्र गाथाः। बोधिसत्त्वः शुभे चित्ते पञ्चविज्ञानवर्जिते। अपनीततदन्ये किं चित्ते करोति वर्तनं॥

(1)प्रपक्षश् चेत् परावृत्तिः अप्रहाणान् न युज्यते। भवेद् धेतुफलाभेदर् सचेत् प्रहाणम् एव सः॥

(2)मुक्ते बीजे ऽस्वभावे वा परावृत्तिर् यदीष्यते। तदभावे द्वयाभावात् परावृत्तिर् न युज्यते॥

(3)(49)I. 58कः पुनर् अस्यालयविज्ञानस्य प्रभेदः। - समासतस्त्रिविधश् चतुर्विधश् च द्रष्टव्यः। तत्र त्रिविधस् त्रिवि-धवासनाविशेषेन। (1) अभिलापवासनाविशेषेन (2) आत्मदृष्-टिवासनाविशेषेन (3) भवाङ्गवासनाविशेषेन च। I. 59(50)चतुर्विधस् त्व् आक्षेपप्रभेदेन विपाकप्रभेदेननिमित्तत्वप्रभेदेन लक्षणप्रभेदेनैव च। (1) तत्राक्षेपप्रभेदो यन् नवोत्पन्नवासनम्। तस्मिन्न्असति संस्कारप्रत्ययं विज्ञानम् उपादानप्रत्ययश् चभवो न युज्यते। (2) तत्र विपाकप्रभेदो यत् संस्कारभवप्रत्ययेनगतिषु विपक्वं। तस्मिन्न् असति बीजाभावेन पौनर्भवि-कधर्मानाम् उत्पादो न युज्यते। (3) तत्र निमित्तत्वप्रभेदो यत् तद् एव मनसात्मग्रा-हनिमित्तत्वं। तस्मिन्न् असति मनसात्मग्राहालम्बनंन युज्यते। (4) तत्र लक्षणप्रभेदो यत् तस्यैव साधारणलक्षणम्असाधारणक्षणं च। निर्वेदितोत्पादबीजलक्षणं सवे-दितोत्पादबीजलक्षणं च। I. 60(51)साधारणं यद् भाजनलोकबीजं। असाधारणं तु यत्प्रत्यात्मायतनबीजं। यत् साधारणं तन् निर्वेदितोत्पा-दबीजं। यद् असाधारणं तत् सवेदितोत्पाबीजं। प्रतिपक्ष उत्पन्ने ऽसाधारणस्य विपक्षस्य निरोधः। साधारणस्य तु परविकल्पपरिगृहीतस्य दर्शनं विशुद्-धम् भवति। यथा योगिनां नानाधिमुक्त्यैकवस्तुनिनानादृश्यम् उपलब्धं। अत्र गाथे। दुर्हेयं दुष्परिज्ञेयम् इष्टं साधारबन्धनं। योगिनां वै पृथक् चित्तं निमितं हि बहिश्महान्॥

(1)न तद् एति निरोधे ऽपि शुद्धानां शुद्धदर्शनं। बुद्धक्षेत्रं विशुद्धं हि बुद्धानां शुद्धदर्-शनात्॥

(2)तयोर् अविद्यमानयोर् भाजनलोकसत्त्वलोकोत्पादविशेषो न युज्यते। I. 61A(52)पुनर् दौष्ठुल्यलक्षनं प्रश्रब्धिलक्षणं च। दौ-ष्ठुल्यलक्षणं यत् क्लेशोपक्लेशबीजं। प्रश्रब्धिलक्ष-णं यत् सास्रवं कुशलधर्मबीजं। तस्मिन्न् अविद्य-माने विपाकाश्रयस्य कर्मण्याकर्मण्यविशेषो न युज्यते। I. 61Bपुनर् उपभुक्तलक्षणम् अनुपभुक्तलक्षणं च। उपभुक्तलक्षणं यद् विपक्वविपाककुशलाकुशलबीजं। अनुपभुक्तलक्षणं यद् अभिलापवासनाबीजम् अनादिकालि-कप्रपञ्चप्रवृत्तिबीजत्वात्। तस्मिन्न् अविद्यमाने कृताकृत-शुभपापकर्मणः फलदानेन भुक्तत्वं न युज्यते। अभिलापवासनायाश् च नवोत्पादो न युज्यते। I. 61C(53)पुनर् अप्य् उपमालक्षणं मायामरीचिस्वप्नतिमिराद्यु-पमत्वात् तस्यालयविज्ञानस्य। तस्मिन्न् अविद्यमाने ऽभू-तपरिकल्पबीजत्वेन विपर्यासनिमित्तत्वं न युज्यते। I. 61Dपुनः सकलतालक्षणम् असकलतालक्षणं च। सकल-बन्धनवतां सकलतालक्षणं। लौकिकविरागिनां विही-नलक्षणं। शैक्षाणां श्रावकानां बोधिसत्त्वानां चै-कप्रदेशोद्धृतलक्षणं। अर्हतां प्रत्येकबुद्धानांतथागतानां च क्लेशावरणसकलोद्धृतलक्षणं क्लेशज्-ञेयावरणसकलोद्धृतलक्षणं च यथायोगं। तस्मिन्न्अविद्यमाने क्रमेण संक्लेशनिवृत्तिर् न युज्यते। (54)किंकारणं कुशलाकुशलधर्माणां विपाको ऽनिवृताव्या-कृतविपाक उच्यते। - तथा ह्य् अनिवृताव्याकृतः कुशला-कुशलाभ्यां न विरुद्धः। कुशलाकुशलस् त्व् अन्योन्यवि-रुद्धः। विपाके च कुशलाकुशले संक्लेशनिवृत्तिर् न युज्यते। तस्माद् अनिवृताव्याकृतम् एव विपाकविज्ञानम्। भाषितो ज्ञेयाश्रयः॥

Chapter II, (ज्ञेयलक्षण)II.1ज्ञेयलक्षणं पुनः कथं द्रष्टव्यं। तत् समासतस्त्रिविधं। परतन्त्रलक्षणं परिकल्पितलक्षणं परि-(55)निष्पन्नलक्षणं चII.2(56)तत्र कतमं परतन्त्रलक्षणं। या आलयविज्ञानबी-जका अभूतपरिकल्पसंगृहीता विज्ञप्तयः। ताः पुनःकतमाः। (1-3) देहदेहिभोक्तृविज्ञप्तिस् (4) तदुपभोग्य-विज्ञपतिस् (5) तदुपभोगविज्ञप्तिर् (6) अध्वविज्ञप्तिः (7)संख्याविज्ञप्तिर् (8) देशविज्ञप्तिर् (9) व्यवहारविज्ञपतिः(10) स्वपरविशेषविज्ञप्तिः (11) सुगतिदुर्गतिच्युत्युपपत्-तिविज्ञप्तिश् च। तत्र या (1-3) देहदेहिभोक्तृविज्ञप्तिस् (4) तदुपभोग्य-विज्ञप्तिस् (5) तदुपभोगविज्ञपतिश् च (6-9) या चाध्वसं-ख्यादेशव्यवहारविज्ञप्तिस् ता अभिलापवासनाबीजहेतोः। या (10) स्वपरविशेषविज्ञप्तिस् तात्मदृष्टिवासनाबीजहेतोः। या च (11) सुगतिदुर्गतिच्युत्युपपत्तिविज्ञप्तिस् ता भवाङ्ग-वासनाबीजहेतोः। एता विज्ञप्तयः सर्वधातुगतियोनिसंक्लेशसंगृहीताःपरतन्त्रलक्षणाभूतपरिकल्प उद्भावितः। या एता विज्ञ्-अप्तयो ऽभूतपरिकल्पसंगृहीता विज्ञपतिमात्रता असद्भ्-रान्त्यर्थप्रतिभासाश्रय एतत् परतन्त्रलक्षणं। II.3तत्र कतमं परिकल्पितलक्षणं। यद् असदर्थे ऽपितस्मिन् विज्ञप्तिमात्रे ऽर्थत्वेन प्रतिभासते। II. 4(57)तत्र कतमं परिनिष्पन्नलक्षणं। या तस्मिन्न् एव परतन्त्रलक्षणे तस्यार्थलक्षणस्यात्यन्ताभावता। II. 5तत्र (1-3) देहदेहिभोक्तृविज्ञप्तिः षड् आध्यात्मिकाःचक्षुर्धात्वादयो वेदितव्याः। (4) तदुपभोग्यविज्ञप्तिःषड् बाह्या रूपधात्वादयो वेदितव्याः। (5) तदुपभोगवि-ज्ञप्तिः षट् चक्षुर्विज्ञानधात्वादयो वेदितव्याः। तच्छे-षविज्ञपतयश् चैतेषां विज्ञप्तीनां प्रभेदा वेदितव्याः। II.6(58)पुनर् एता विज्ञपतयो विज्ञपतिमात्रा अर्थाभावाद् इत्य्अत्रास्ति को दृष्टान्तः। स्वप्नादिर् दृष्टान्तो द्रष्टव्यः। तद्यथा स्वप्ने ऽर्थाभावम् अपि विज्ञानमात्रं विविध-रूपशब्दगन्धरसस्प्रष्टव्यगृहवनपृथिवीपर्वताद्य-र्थाकारत्वेन प्रतिभासते न त्व् अत्र कश् चिद् अर्थो ऽस्ति। अनेन दृष्टान्तेन सर्वत्रापि विज्ञप्तिमात्रत्वम् अभ्युप-गन्तव्यं। आदिशब्देन मायामरीचितिमिरादिदृष्टान्ता वेदि-तव्याः। यदि स्वप्नादाव् इव प्रतिबोधे ऽपि सर्वत्रापि विज्ञप्तिमा-त्रता किंकारणं यथा स्वप्ने विज्ञप्तिमात्रताबुद्धिर्उत्पद्यते तथात्रापि नोत्पद्यते। तत्त्वज्ञानप्रतिबुद्धा-नाम् उत्पद्यते। तद्यथा न स्वप्नान्तरगतस्याप्रतिबुद्-धस्योत्पद्यते ऽपि तु प्रतिबुद्धस्योत्पद्यते। तथा नतत्त्वज्ञानाप्रतिबुद्धस्योत्पद्यते ऽपि तु तत्त्वज्ञानप्रति-बुद्धस्योत्पद्यते। II. 7(59)तत्त्वज्ञानाप्रतिबुद्धेन कथं विज्ञप्तिमात्रतानुमा-तव्या। आगमेन च युक्त्या चानुमातव्या। तत्रागमो यथोक्तं भगवता दशभूमिके “चित्तमात्-रम् इदं यद् इदं त्रैधातुकम्” इति। यथा च संधिनिर्मोचने भगवां आमन्त्रयते मैत्-रेयबोधिसत्त्वेन पृष्टे। “भगवं यत् समाधिगोचर-प्रतिबिम्बं तत् तच्चित्तात् पृथग् वा न पृथग् वेति। “भगवान् आह। “मैत्रेय न पृथक्। तत् कस्य हेतोः। (तद्) आलम्बनं हि विज्ञप्तिमात्रप्रभावितं विज्ञानम्इत्य् अहं वदामि”। “भगवं यदि तत्समाधिगोचरप्र-तिबिम्बं चित्तान् न पृथक् कथं तेनैव चित्तेन तद् एवचित्तं गृहीतं भवति”। “मैत्रेय न कश् चिद् धर्मःकं चिद् धर्मं गृह्णाति। अपि तु यच् चित्तं तथोत्पन्नंतत् तथा प्रतिभासते। तद्यथा बिम्बप्रत्ययेन बिम्बम्एव दृष्टम् अपि तु प्रतिबिम्बं पश्यामीति मन्यते। तत्रार्-थान्तरेण तद्बिम्बम् अर्थान्तरेण च तत्प्रतिबिम्बाभा-सः प्रतिभासते। एवं तच् चित्तं तथोत्पन्नं तस्माद्अर्थान्तरेण प्रतिभासत” इति। अनेनागमेन युक्तिर् अपि देशिता। तथा हि समहिते चित्तेयद् यद् विनीलकादिज्ञेयप्रतिबिम्बं दृष्टं तत् तद् एवचित्तं दृष्टं। न तु विनीलकाद्यर्थान्तरं। अनया युक्त्याबोधिसत्त्वः सर्वविज्ञप्तीनां विज्ञप्तिमात्रताम् अनुमातुम् अर्हति। II. 8(60)न च विनीलकादौ स्मृतिविज्ञानं युज्यते पुरतो ऽवस्थि-तस्य तदालम्बनस्य दर्शनात्। श्रुतचिन्तामयस्य च यत्स्मृतिविज्ञानं तस्याप्य् अतीतालम्बनत्वात् तदाभासो विज्ञप्-तिमात्रो भवति। अनेनानुमानेन बोधिसत्त्वेन तत्त्वज्ञा-नाप्रतिबुद्धेनापि विज्ञप्तिमात्रातनुमातव्या। II.9(61)या विविधविज्ञप्तयः स्वप्नोपमा देशितास् तासु चक्षुर्-विज्ञानादिविज्ञप्तीनां विज्ञप्तिमात्रता युक्ता। कथं पुनश्चक्षुरादिविज्ञप्तीनां रूपिणीनां विज्ञप्तिमात्रता द्रष्टव्या। ता अप्य् आगमेन युक्त्या च द्रष्टव्याः पूर्ववत्। यदि तासाम् अपि विज्ञप्तिमात्रतास्ति किंकारणं ता रूपत्-वेन प्रतिभासन्ते तुल्यदृढसंतानेन च प्रवर्तन्ते। विपर्यासादिसंक्लेशाधिष्ठानहेतोः। अन्यथानर्थे ऽर्थविपर्यासो न भवेत्। तस्मिन्न् असति क्लेशज्ञेयावरणसं-क्लेशो न भवेत्। तस्मिंश् चासति व्यवदानं न भवेत्। तस्माद् एतासां तथोत्पादो युक्तः। अत्र गाथा। भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते। अरूपिणी च विज्ञप्तिर् अभावात् स्यात् न चेतरा॥

II. 10(62)किंकारणं पुनर् (1-5) देहदेहिभोक्तृविज्ञप्तिस् तदु-पभोग्यविज्ञप्तिस् तदुपभोगविज्ञप्तिश् च सर्वात्मभा-वेषु सहसंनिपातेन प्रवर्तन्ते। उपपत्त्युपभोगप-रिपूरणप्रतिभासहेतोः। किंकारणं पुनर् अध्वादिविविधविज्ञप्तयो यथोक्ताःप्रवर्तन्ते। (6) अनादिकालसंसारप्रबन्धानुपच्छेदहे-तोर् (7) अप्रमेयसत्त्वधातुहेतोर् (8) अप्रमेयलोकधातु-हेतोर् (9) अप्रमेयकृत्यानुष्ठानपरस्परव्यवहारहेतोर्(10) अप्रमेयपरिगृहीतोपभुक्तविशेषहेतोर् (11) अप्रमेये-ष्टानिष्टकर्मफलविपाकोपभोगविशेषहेतोर् अप्रमेयानु-भुक्तजातिजरामरणानुभवप्रभेदहेतोश् च। II. 11(63)कथं पुनर् एतासां विज्ञप्तीनां विज्ञप्तिमात्रता स्था-पिता भवति। समासतस् त्रयाकारेण। (1) तन्मात्रेणार्था-भावहेतोः। (2) द्वयतया सनिमित्तदृष्टिविज्ञप्तिहेतोः। (3)नानात्वेन च युगपदुत्पादेन चित्राकारेणोत्पादहेतोः। तथा ह्य् एताः सर्वा विज्ञप्तयो (1) ऽर्थाभावेन तन्मात्-राः। (2) सनिमित्तदृष्टयश् च चक्षुरादिविज्ञपतयो हि रूपा-दिनिमित्तास् तद्विज्ञानदृष्टिश् च यावत् कायविज्ञानदृष्टिः। (3)मनोविज्ञप्तिस् तु सर्वचक्षुरादिधर्मपर्यन्तविज्ञप्ति-भिः सनिमित्ता मनोविज्ञानविज्ञप्त्या च सदृष्टिः। विकल्प-त्वान् मनोविज्ञानस्य सर्वविज्ञप्तिनिर्भासोत्पादत्वाच् च। अत्र गाथा। (64)तन्मात्रद्वयनानात्वान् योगी गमितुम् इच्छति। चित्तमात्रप्रविष्टानां तद्रहिते ऽपि तेन च॥

II. 12Aतद् एव मनोविज्ञानं तत्तदाश्रयात् प्रवर्तमानंतत्तन्नाम लभते यथा चेतना कायवाक्कर्मनाम इत्य्अपरे। II. 12Bसर्वेषु चाश्रयेषु प्रवर्तमानं चित्राकारेण द्वयनिर्-भासं प्रवर्तते। तस्यार्थमात्रनिर्भासत्वाद् विकल्प-निर्भासत्वाच् च। सर्वेषु च स्थानेषु स्प्रष्टव्यनिर्भासंप्रवर्तते रूपिधातौ कायाश्रितत्वान् मनोविज्ञानस्य यथातदन्यरूपीन्द्रियं कायाश्रितं। II. 12C(65)अत्र गाथा। दूरंगमम् एकचरम् अशरीरं गुहाशयं। दमयति दुर्द्दमं चित्तं ब्राह्मणं तं ब्रवीम्य्अहं॥

पुनर् यथोक्तं। एषां पञ्चानाम् इन्द्रियानां गोचरवि-षयं मनः प्रत्यनुभवति। एषां च मनः प्रतिशर-णम् इति। पुनश् च द्वादशायतनानां देशितानां यथोक्तं षड्-विज्ञानकाया मनायतनम् इति। II. 13(66)यस्य चालयविज्ञानविज्ञप्तिर् अर्थविज्ञप्तिर् व्यवस्थाप्-यते तस्यापि तदन्याः सर्वविज्ञप्तयस् तन्निमित्तविज्ञप्त-यः। मनोविज्ञानविज्ञप्तिश् च साश्रया तद्दृष्टिर् ज्ञातव्या। ता एव हि निमित्तविज्ञप्तयस् तद्दृष्ट्युत्पादनिमित्तत्वाद्अर्थवत् प्रतिभासमानास् तदुत्पादाश्रयक्रियां कुर्वन्ति। एवम् एतासां विज्ञप्तीनां विज्ञप्तिमात्रता स्थापिताभवति। II. 14A(67)कथं प्रतिभासमानानाम् अप्य् अर्थानां नास्तित्वं द्रष्टव्यं। यहोक्तं भगवता। “बोधिसत्त्वश् चतुर्भिर्धर्मैः संप्रयुक्तः सर्वेषां विज्ञप्तीनाम् अनर्थ-त्वम् अनुप्रवेष्यति। (1) विरुद्धविज्ञाननिमित्तत्वज्ञानेन। यथापि प्रेततिर्यङ् मनुष्यदेवानाम् एकार्थे नानाविज्ञप्-तयः दृश्यन्ते। (2) अनालम्बनविज्ञानोपलब्ध्या। तद्य-थाप्य् अतीतानागतस्वप्नप्रतिबिम्बालम्बने। (3) यत्नम्अन्तरेणाप्य् अविपर्यासत्वज्ञानेन। यथापि सत्य् अर्थेऽर्थालम्बनविज्ञानम् अविपरीतं भवेद् अयत्नतस् तत्-त्वाज्ञानात्। (4) त्रिविधज्ञानानुवृत्तित्वज्ञानेन च। यथापि(a) बोधिसत्त्वानां च ध्यायिनां च चित्तवशिताप्राप्तानाम्अभिमुक्तिवशेन तदर्थास् तथा प्रतिभासन्ते। (b) शम-थाप्राप्तयोगिनां च धर्मविपश्यनाप्रयुक्तानां मन-स्कारमात्रेणार्थाः प्रतिभासन्ते। (c) निर्विकल्पकज्ञान-प्राप्तानां च तत्रावस्थितानां सर्वे ऽर्था न प्रतिभा-सन्त” इति। एवम् अर्थानां त्रिविधज्ञानानुकूलत्वेन पूर्वोक्तहेतु-भिश् चार्थाभावत्वं सिद्धं। II. 14B(68)अत्र गाथाः। प्रेततिर्यङ्मनुष्याणां देवानां च यथार्हतः। तुल्यवस्तुमनोभेदाद् अर्थानिष्पत्तिर् इष्यते॥

(1)अतीतादौ तथा स्वप्ने प्रतिबिम्बद्वये ऽपि च। असन्नालम्बनत्वाच् च तदालम्बनयोगतः॥

(2)अर्थस्यार्थत्वनिष्पत्तौ ज्ञानं न स्याद् अकल्पकं। तदभावाच् च बुद्धत्वप्राप्तिर् नैवोपपद्यते॥

(3)(69)बोधिसत्त्वे विशिप्राप्ते ऽधिमुक्तिवशाद् यतः। तथाभावः पृथिव्यादौ ध्यायिनां चोपलभ्यते॥

(4)निष्पन्नविचयस्येह धीमतः समाधिलाभिनः। सर्वधर्ममनस्कारे तथार्थख्यानतो ऽपि च॥

(5)ज्ञानचारे ऽविकल्पे हि सर्वार्था ऽख्यानतो ऽपि च। अर्थाभावोपगन्तव्यो विज्ञप्तेस् तदभावतः॥

(6)II. 15Aयदि विज्ञप्तिमात्रो ऽर्थप्रतिभासाश्रयः परतन्त्रस्व-भावस् तत् कथं परतन्त्रः किंकारणं च परतन्त्रउच्यते। - स्ववासनाबीजाद् उत्पन्नत्वेन प्रत्ययपरत-न्त्रः। उत्पद्यापि क्षणाद् अधिकं स्वयं स्थातुं न शक्यत इति परतन्त्र उच्यते। II. 15B(70)यदि परिकल्पितस्वभावस् तदाश्रितासदर्थप्रतिभासस्तत् कथं परिकल्पितः किंकारणं च परिकल्पित उच्यते। - अप्रमेयाकारमनोविज्ञानपरिकल्पस्य विपर्यासोत्-पत्तिनिमित्तत्वात् परिकल्पितः। असति च स्वलक्षणे परिकल्-पमात्रोपलब्धत्वेन परिकल्पित उच्यते। II. 15Cयदि परिनिष्पन्नस्वभावस् तस्यात्यन्ताभावलक्षणंतत् कथं परिनिष्पन्नः किंकारणं च परिनिष्पन्नउच्यते। - अनन्यथात्वात् परिनिष्पन्नः। विशुद्ध्यालम्-बनत्वाच् च सर्वेषां च कुशलधर्मानां परमत्वात्परमार्थेन परिनिष्पन्न उच्यते। II. 16(71)पुनः सति परिकल्पे सति च परिकल्प्ये परिकल्पितस्व-भावो ऽस्ति। तत्र कः परिकल्पः कः परिकल्प्यः कश् चपरिकल्पितस्वभावः। -(1) मनोविज्ञानं परिकल्पः परिकल्पित्वात्। तद् धि स्वा-भिलापवासनाबीजं सर्वविज्ञप्त्यभिलापवासनाबीजं चततो ऽनन्ताकारविकल्पेन प्रवर्तते। सर्वत्र कल्पेन परि-कल्पयतीति परिकल्प उच्यते। (2) पुनः परतन्त्रस्वभावः परिकल्प्यः। (3) पुनर् येनाकारेण परतन्त्रस्वभावे परिकल्पितः सतत्र परिकल्पितस्वभावः। येनाकारेणेति यथेत्य् अर्थः। कथं पुनः परिकल्पः परिकल्पयति। केनालम्बनेन(72)केन निमित्तोद्ग्रहणेन केनाभिनिवेशेन केन वाक्समुत्-थापनेन केन व्यवहारेण केनाध्यारोपेन च। -नाम्नालम्बनेन परतन्त्रस्वभावे च तन्निमित्तोद्ग्रह-णेन दृष्ट्या च तदभिनिवेशन वितर्कैश् च वाक्समुत्था-पनेन दृष्टादिचतुर्व्यवहारैश् च व्यवहारेणासदर्थे चसद् इत्य् अध्यारोपेण परिकल्पयति। II. 17किम् एते त्रयः स्वभावा भिन्ना वाभिन्ना वा। - नभिन्ना नाप्य् अभिन्ना इति वक्तव्यं। पर्यायेण परतन्त्-रस्वभावः परतन्त्रः। पर्यायेण स एव परिकल्पितः। पर्यायेण स एव परिनिष्पन्नः। (73)कः पर्यायो येन परतन्त्रस्वभावः परतन्त्रः। -वासनाबीजोत्पादपरतन्त्रत्वात्। कः पर्यायो येन स एव परिकल्पितः। - परिकल्पनि-मित्तत्वात् तेन च परिकल्पितत्वात्। कः पर्यायो येन स एव परिनिष्पन्नः। - यथा परि-कल्पितस् तथा तस्यात्यन्ताभावात्। II. 18कतिविधः परतन्त्रस्वभावः। - समासतो द्विविधोवासनाबीजपरतन्त्रश् च संक्लेशव्यवदानस्वभावापरि-निष्पन्नपरतन्त्रश् च। एताभ्यां द्विविधपरतन्त्राभ्-यां परतन्त्रः। परिकल्पितस्वभावश् च द्विविधः स्वभावपरिकल्पेनविशेषपरिकल्पेन च कल्पितत्वात्। परिनिष्पन्नस्वभावश् च द्विविधः प्रकृतिपरिनिष्पन्नश्च विशुद्धपरिनिष्पन्नश् च। II.19(74)परिकल्पश् च पुनश् चतुर्विधः। (1) स्वभावपरिकल्पो(2) विशेषपरिकल्पो (3) व्युत्पन्नो (4) ऽव्युत्पन्नश् च। व्यु-त्पन्नो हि परिकल्पो व्यवहारकुशलानां। अव्युत्पन्नश्चाव्यवहारकुशलानां। पञ्चविधश् च। (1) नामोपादायर्थस्वभावपरिकल्पस्तद्यथास्य नाम्नो ऽयम् अर्थ इति। (2) अर्थम् उपादायनामस्वभावपरिकल्पस् तद्यथास्यार्थस्य इदं नामेति। (3) नामोपादाय नामस्वभावपरिकल्पस् तद्यथानध्य-वसितार्थस्य नामपरिकल्पः। (4) अर्थम् उपादायार्थ-स्वभावपरिकल्पस् तद्यथानध्यवसितनामस्यार्थस्व-भावपरिकल्पश् च। (5) तदुभयम् उपादाय तदुभयप-रिकल्पस् तद्यथेदृषार्थस्यैवंरूपस्येदं नामेति। (75)II.20(76)सर्वसमासतः पुनर् दशविधो विकल्पः। (1) मूलविक-ल्पो यदुतालयविज्ञानं। (2) निमित्तविकल्पो यदुत रूपादि-विज्ञप्तिः। (3) निमित्तप्रतिभासविकल्पो यदुत साश्रयचक्-षुरादिविज्ञानविज्ञप्तिः। (4) निमित्तविकारविकल्पो यदुतजरादिभिः सुखादिवेदनाभी रागादिभिर् उपघातकालपरि-वर्तादिभिर् नरकादिगतिभिः कामादिधातुभिश् च तस्यविकारः। (5) निमित्तप्रतिभासविकारविकल्पो यदुत यथोक्-तैर् एवमादिविकारैस् तस्य विकारः। (6) परोपनीतविकल्पोयदुतासद्धर्मश्रवणान्वयः सद्धर्मश्रवणान्वयश्च यो विकल्पः। (7) अयोनिशोविकल्पो यदुतासद्धर्मश्रव- णान्वयानाम् इतो बाह्यकानां विकल्पः। (8) योनिशोविकल्पोयदुत सद्धर्मश्रवणान्वयानाम् इहधार्मिकानांविकल्पः। (9) अभिनिवेशविकल्पो यदुतायोनिशोमनस्कारान्-वयसत्कायदृष्टिमूलकैर् द्वाषष्टिदृष्टिगतैः संप्रयुक्तोयो विकल्पः। (10) विक्षेपविकल्पो यदुत बोधिसत्त्वानांदशविधो विकल्पः। II.21(1) अभावनिमित्तविक्षेपः। (2) भावनिमित्तविक्षेपः। (3)समारोपविक्षेपः। (4) अपवादविक्षेपः। (5) एकत्वविक्षे-(77)पः। (6) पृथक्त्वविक्षेपः। (7) स्वभावविक्षेपः। (8) वि-शेषविक्षेपः। (9) यथानामार्थविक्षेपः। (10) यथार्थ- नामविक्षेपश् च। II. 22Aएतेषां दशविधानां विक्षेपानां प्रतिपक्षेन निर्विकल्-पज्ञानं सर्वेषु प्रज्ञापारमितासु देशितं। एवं सवि-पक्षप्रतिपक्षः सकलप्रज्ञापारमितार्थो ज्ञेयः। II. 22B(78)(1) तत्राभावविकल्पस्य प्रतिपक्षार्थेनाह “बोधिसत्त्वएव सन्न्” इत्य् आदि। (2) भावविकल्प्यस्य प्रतिपक्षार्थेनाह " बोधिसत्त्वं न समनुपश्यती"इत्। (3) समारोपविकल्प-स्य प्रतिपक्षार्थेनाह “बोधिसत्त्वनाम न समनुपश्-यति प्रज्ञापारमितां न समनुपश्यति चरतीति न सम-नुपश्यति [न चरतीति न समनुपश्यति] रूपं न समनु- (79)पश्यति वेदनासंज्ञासंस्कारविज्ञानम् अपि न समनुप-श्यति। तत् कस्य हेतोः। तथा हि नाम स्वभावेन शून्यम्"इत्य् एवम् आदि। (4) अपवादविकल्पस्य प्रतिपक्षार्थेनाह"न शून्यतये"ति। (5) एकत्वविकल्पस्य प्रतिपक्षार्थेनाह"या रूपस्य शून्यता न तद् रूपम्” इत्य् आदि। (6) पृथक्त्ववि-कल्पस्य प्रतिपक्षार्थेनाह “न चान्यत्र शून्यताया रूपंरूपम् एव शून्यता शून्यतैव रूपम्” इति। (7) स्वभाववि-कल्पस्य प्रतिपक्षार्थेनाह “नाममात्रम् इदं सुभूतेयदुत रूपम्” इत्य् आदि। (8) विशेषविकल्पस्य प्रतिपक्षार्-थेनाह “स्वभावस्य हि नोत्पादो न निरोधो न संक्लेशोन व्यवदानम्” इति। (9) यथानामार्थविकल्पस्य प्रतिपक्-षार्थेनाह “कृत्रिमं नाम प्रति प्रति ते धर्माः कल्पिताआगन्तुकेन नाम्नानुव्यवह्रियन्ते। यथा यथानुव्यव-ह्रियन्ते तथा तथाभिनिविशन्ती"ति। (10) यथार्थनामवि-कल्पस्य प्रतिपक्षार्थेनाह “तानि बोधिसत्त्वः सर्वना-मानि न समनुपश्यत्य् असमनुपश्यन् नाभिनिविशत” इति। यथार्थम् इत्य् अभिप्रायः। यथा रूपे तथा यावद् विज्ञानेऽपि योजयितव्यं। II. 23(80)यदि पर्यायेन परतन्त्रस्वभावस् त्रयः स्वभावाःकथं तर्हि त्रयः स्वभाव अभिन्ना न भवन्ति। -येन पर्यायेन परतन्त्रो भवति ने तेन परिकल्पितश् चन परिनिष्पन्नश् च भवति। येन पर्यायेन परिकल्पितोभवति न तेन परतन्त्रश् च न परिनिष्पन्नश् च भवति। येन पर्यायेन परिनिष्पन्नो भवति न तेन परतन्त्रश्च परिकल्पितश् च भवति। II. 24कथं पुनर् गम्यते यथा परतन्त्रस्वभावः परि-कल्पितस्वभावेन प्रतिभासते न च तदात्मा। - (1)नाम्नः पूर्वं बुद्धेर् अभावात् तदात्मत्वविरोधतः। (2) बहुनम्ना बह्वात्मत्वविरोधतः। (3) अनियतनाम्नासंभिन्नात्मत्वविरोधतश् च। अत्र गाथे। नाम्नः पूर्वं न बुद्धित्वाद् बहुत्वानियतत्वतः। (81)तदात्मत्वम् बह्वात्मत्वं सृष्टात्मत्वं विरुध्य-ते॥

(1)धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता। मायादिसदृशी ज्ञेया आकाशसदृशी तथा॥

(2)II. 25किंकारणं पुनर् यथा प्रतिभासमानो ऽसन् परतन्-त्रस्वभावः सर्वेण सर्वम् अभावो न भवेत्। -तस्मिन्न् असति परिनिष्पन्नस्वभावाभावश् च सर्वथा-भावश् चैव कथं न भवेत्। परतन्त्रस्वभावे हिपरिनिष्पन्नस्वभावे चासति संक्लेशव्यवदानाभावदोषोभवेत्। संक्लेशो व्यवदानश् चोपलभ्यते। तेन न सर्व-थाभावः। अत्र गाथा। अभावे परतन्त्रे च निष्पन्ने चैव सर्वथा। न भवेत् तर्हि संक्लेशो व्यवदानश् च सर्वदा॥

(82)II. 26(83)या बुद्धभगवतां महायानवैपुल्यदेशना तस्यांदेशनायां कथं परिकल्पितस्वभावो वेद्यः। -अभावपर्यायदेशनया वेद्यः। कथं परतन्त्रस्वभावो वेद्यः। - मायामरीचि-स्वप्नप्रतिभासप्रतिबिम्बप्रतिश्रुत्कोदकचन्द्रनिर्माणो-पमो वेद्यः। कथं परिनिष्पन्नस्वभावो वेद्यः। - चतुर्विध-व्यवदानधर्मदेशनया वेद्यः। चतुर्विधव्यवदान-धर्माः। (1) प्रकृतिव्यवदानं तद् यथा तथता शुन्यताभूतकोटिर् अनिमित्तं परमार्थो धर्मधातुश् चापि (2)वैमल्यव्यवदानं तद् यथा त एव सर्वावरणविरहिताः। (3) तत्प्राप्तिमार्गव्यवदानं तद् यथा सर्वबोधिपक्ष-धर्माः पारमितादयश् च। (4) तदुत्पादकालम्बनव्यव-दानं तद् यथा देशितमहायानसद्धर्मः। स हि व्य-वदानहेतुत्वान् न परिकल्पितः। विशुद्धधर्मधातुनि-ष्यन्दत्वान् न परतन्त्रः। एतैश् चतुर्विधैः संगृहीताःसर्वव्यवदानधर्माः। अत्र गाथे। मायादिदेशना भूते कल्पितान् नास्तिदेशना। चतुर्विधविशुद्धेस् तु परिनिष्पन्नदेशना॥

(1)शुद्धिः प्रकृतिवैमल्यम् आलम्बनं च मार्गता। विशुद्धानां हि धर्मानां चतुर्विधगृहीतता॥

(2)II. 27(84)किंकारणं पुनः परतन्त्रस्वभावो यथोक्तमायाद्य्-उपमो देशितः। - परेषां परतन्त्रस्वभावे भ्रान्-तित्वसंदेहव्यावर्तनार्थं। (85)कथं पुनः परेषां परतन्त्रस्वभावे भ्रान्तित्व-संदेहो भवति। - तथा हि परेषाम् एवं भवति (1)कथम् असन्न् अर्थो विषयो भवतीति। तेषां तत्संदेह-व्यावर्तनार्थं मायोपमत्वं देशितं। (2) कथम् अस-दर्थचित्तचैत्ताः प्रवर्तन्त इति संदेहव्यावर्तनार्थंमरीच्युपमत्वं। (3) कथम् असत्य् अर्थ इष्टानिष्टोपभोगोभवतीति संदेहव्यावर्तनार्थं स्वप्नोपमत्वं। (4)कथम् असत्य् अर्थे कुशलाकुशलकर्मणाम् इष्टानिष्टफला-भिनिर्वृत्तिर् भवतीति संदेहव्यावर्तनार्थं प्रतिबिम्बो-पम्त्वं। (5) कथम् असत्य् अर्थे विविधविज्ञानं प्रवर्-तत इति संदेहव्यावर्तनार्थं प्रतिभासोपमत्वं। (6)कथम् असत्य् अर्थे विविधव्यवहारः प्रवर्तत इति सं-देहव्यावर्तनार्थं प्रतिश्रुत्कोपमत्वं। (7) कथम्असत्य् अर्थे सम्यग्ग्राहकसमाधिगोचरः प्रवर्तत इतिसंदेहव्यावर्तनार्थम् उदकचन्द्रोपमत्वं। (8) कथ्-अम् असत्य् अर्थे बोधिसत्त्वा अविपरीताः सत्त्वकृत्यानुष्ठा-नार्थं संचिन्त्योपपद्यत इति संदेहव्यावर्तनार्थंनिर्माणोपमत्वं। II.28किं संधाय भगवता देशितं ब्रह्मपरिपृच्छायां(86)तथागतः संसारं च नोपलभते निर्वाणं च नोपल-भत इति। परतन्त्रस्वभावस्य परिकल्पितपरिनिष्पन्-नस्वभावत्वात् संसारनिर्वाणाविशेषतां संधाय देशि-तं। तथा हि स एव परतन्त्रस्वभावः परिकल्पितांशे-न संसारः। परिनिष्पन्नांशेन तु निर्वाणं। II. 29Aयथा भगवतोक्तम् अभिधर्मसूत्रे त्रयो धर्माःसंक्लेशांशिको व्यवदानांशिकस् तद्द्वयांशिकश् चेति। किं संधायोक्तं। परतन्त्रस्वभावे परिकल्पितस्व-भावः संक्लेशांशिकः। परिनिष्पन्नस्वभावो व्यवदा-नांशिकः। स एव च परतन्त्रस् तद्द्वव्यांशिकः। इदंसंधायोक्तं। II. 29B(87)अस्मिन्न् अर्थे को दृष्टान्तः। - काञ्चनगर्भा मृत्तिकादृष्टान्तः। तद्यथा काञ्चनगर्भायां मृत्तिकायां त्रयउपलभ्यन्ते पृथिविधातुर् मृत्तिका काञ्चनं च। तत्रपृथिवीधातौ मृत्तिकासत्य् उपलभ्यते न तु काञ्चनंसद् उपलभ्यते। अग्निना हि स्पृष्टे मृत्तिका न प्रतिभासतेकाञ्चनं तु प्रतिभासते। पृथिवीधातुर् मृत्तिकया प्रति-भासमानो मिथ्या प्रतिभासते काञ्चनेन तु प्रतिभास-मानस् तत्त्वेन प्रतिभासते। तेन पृथिवीधातुर् द्वयां-शिकः। तथा निर्विकल्पज्ञानाग्निनास्पृष्टायां विज्ञप्तौ सा विज्ञप्-तिर् अभूतपरिकल्पितस्वभावत्वेन प्रतिभासते न तु भू-तपरिनिष्पन्नस्वभावत्वेन प्रतिभासते। निर्विकल्पज्ञा-नाग्निना च स्पृष्टायां विज्ञप्तौ सा विज्ञप्तिर् भूतपरिनिष्-पन्नस्वभावत्वेन प्रतिभासते न तु मिथ्यापरिकल्पितस्-(88)वभावत्वेन प्रतिभासते। तेन साभूतपरिकल्पविज्ञप्तिःपरतन्त्रस्वभावो द्वयांशिको यथा काञ्चनगर्भायांमृत्तिकायां पृथिविधातुः। II.30(89)भगवता नित्याः सर्वधर्मा इति क्वचिद् देशितम् अनित्याइति क्वचिद् देशितं न नित्या न चानित्या इति क्वचिद् देशितं। किं संधाय नित्या इति देशितं। - परतन्त्रस्वभावःपरिनिष्पन्नांशेन नित्यः। परिकल्पितस्वभावांशेनानित्-यः। उभयांशेन च न नित्यो च चानित्यः। इदं संद्-हाय देशितं। यथा (1) नित्यानित्याद्वयास् तथा (2) सुखदुःखाद्वयाः (3) शुभाशुभाद्वयाः (4) शून्याशुन्याद्वया (5) आत्मानात्मा-द्वयाः (6) शान्ताशान्ताद्वयाः (7) स्वभावनिःस्वभावाद्वया(8) उत्पन्नानुत्पन्नाद्वया (9) निरुद्धानिरुद्धाद्वया (10) (90)आदिशान्तानादिशान्ताद्वयाः। (11) प्रकृतिपरिनिर्वृताप्रकृतिपरि-निर्वृताद्वयाः। (12) संसारनिर्वाणाद्वया इत्य् एवमादिप्र-भेदानि बुद्धानां भगवतां सर्वाभिसंधिवचनानित्रिस्वभावैर् अनुगन्तव्यानि। यथा नित्यानित्यादिपर्यायादेशिताः। अत्र गाथाः। यथा धर्मा न विद्यन्ते यथा च ख्यान्त्य् अनेकतः। तथैवाधर्मधर्मानाम् अद्वयार्थत्वम् उच्यते॥

(1)तेषाम् एकांशतो भावो न च भावः प्रकाशितः। द्वयांशेन तु नाभावो न भाव इति देशना॥

(2)यथा ख्याति तथा नास्ति तस्मान् नास्तीति देशना। यस्मात् तथा प्रभासो हि तस्माद् अस्तीति देशना॥

(3)स्वयं स्वेनात्माना ऽभावात् स्वभावे चानवस्थितेः। ग्राहवत् तदभावाच् च निःस्वभावत्वम् इष्यते॥

(4)निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयात्। अनुत्पन्नानिरुद्धादिशान्तप्रकृतिनिर्वृताः॥

(5)II. 31A(91)पुनश् चतुर्भिर् अभिप्रायैश् चतुर्भिश् चाभिसंधिभिःसर्वबुद्धवचनान्य् अनुगन्तव्यानि। (1) समताभिप्रायेण। तद्यथा " अहम् एव तेन कालेनतेन समयेन विपश्यी तथागतो ऽर्हन् सम्यक्संबुद्धोऽभूवन्” इति। (2) कालान्तराभिप्रायेन। तद्यथा “बहुरत्-नस्य तथागतस्य नामधेयग्रहणमात्रेण नियतोभवत्य् अनुत्तरायां सम्यक्संबोधाव्” इति। यथा चोक्तं"ये सुखावत्यां लोकधातौ प्रणिधानं करिष्यन्ति तेतत्रोपपत्स्यन्त” इति। (3) अर्थान्तराभिप्रायेण। यथोक्तं"गङ्गानदीवालिकासमानबुद्धान् पर्युपास्य महायान-धर्मार्थे ऽवबोध उत्पद्यत” इति। (4) पुद्गलाशयाभिप्रा-येण। तद्यथा दानं कस्य चित् पुद्गलस्य प्रशंसतेतस्यैव च पुनर् अपि विगर्हते। यथा दानं तथा शिलंकांश्चिच् च भावनां। एते चतुर्विधा अभिप्रायाः। II. 31B(92)चतुर्भिश् चाभिसंधिभिः। (1) अवतारणाभिसंध्या। तद्यथा श्रावकयाने वा महायाने वा पुद्गलधर्मस्व-भावविशेषानां संवृतिसत्ययुक्त्या देशना। (2) लक्षणाभि-संध्या। यत्र धर्मलक्षणदेशनायां त्रयाणां स्व-भावानाम् उद्भावना। (3) प्रतिपक्षाभिसंध्या। यत्रचतुरशीतिसहस्रचरितानां प्रतिपक्षदेशना। (4) परिणाम-नाभिसंध्या। यत्रान्यार्थशब्दाभिलापे ऽन्यस्यैवार्थ-स्योद्भावना। अत्र गाथा। असारे सारमतयो विपर्यासे च सुस्थिताः। क्लेशन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां॥

II.32Aमहायानधर्मनिर्दिदिक्षुणा समासतस् त्रयेणाकारेणनिर्देशः कर्तव्यः। (1) प्रतीत्यसमुत्पाददेशनया (2) प्र-तीत्यसमुत्पन्नधर्माणां लक्षणदेशनया (3) उक्तार्थ-देशनया च। (93)II. 32Bतत्र (1) प्रतीत्यसमुत्पाददेशनया यथोक्तं। प्रलापवासनोत्पन्ना धर्माः तेभ्यश् च सा तथा। इति। विपाकप्रवृत्तिविज्ञानयोर् अन्योन्यप्रत्ययेनोत्पादात्। II. 32C(2) ते च प्रवृत्तिविज्ञानलक्षणधर्माः सनिमित्तदृष्टि-विज्ञप्तिस्वभावाः। ते पुनर् आश्रयलक्षणाः परिकल्पितलक्-षणा धर्मतालक्षणाश् च। अनेनोद्भावितं त्रिस्वभावलक्-षणं। यथोक्तं। ते सनिमित्तदृष्टित्वाद् ज्ञेयास् त्रिविधलक्षणाः। इति। (94)II. 32Dकथं पुनस् तेषां लक्षणं निर्देश्यं। - परिकल्-पितलक्षणं परतन्त्रलक्षणे नास्ति। परिनिष्पन्नलक्-षणं तु तत्रास्ति। तद्द्वयासत्सतो ऽनुपलम्भोपलम्भम्अदृष्टदृष्टतत्त्वयोर् एककालं। परतन्त्रस्वभावे परि-कल्पितस्यासत्त्वात् परिनिष्पन्नस्य च सत्त्वात् संभवति। तस्मिं ह्य् उपलब्धे स नोपलभ्यते। तस्मिंश् चानुपल-ब्धे स उपलभ्यते। यथोक्तं। न परिकल्पितं तन्त्रे निष्पन्नं त्व् अस्ति तत्र च। समं तत्रोभये तस्माद् उपलम्भं न तच् च हि॥

इति। II. 32E(95)(3) उक्तार्थदेशना तद्यथा पूर्वोक्तस्य पदस्य शेषैःपदैर् विभागम् उद्भावयति गुणाधिकरणेन वार्थाधि-करणेन वा। II. 33A(96)गुणाधिकरणेन। तद्यथा बुद्धगुणा निर्दिष्टाः। “(0)सुविशुद्धबुद्धैः। (1) अद्वयसमुदाचारः। (2) अलक्षण-धर्मपरायणः। (3) बुद्धविहारेण विहरन्। (4) सर्व-बुद्धसमताप्राप्तः। (5) अनावरणगतिंगतः। (6) अप्र-त्युदावर्त्यधर्मः। (7) असंहार्यगोचरः। (8) अचिन्त्यव्-यवस्थानः। (9) त्रियध्वसमतानिर्यातः। (10) सर्वलोक-धातुप्रसृतकायः। (11) सर्वधर्मनिःसंशयज्ञानः। (12)सर्वचर्यासमन्वागतबुद्धिः। (13) निःकांक्षधर्मज्ञा-नः। (14) अविकल्पितशरीरः। (15) सर्वबोधिसत्त्वसंप्रत्-ईच्छितज्ञानः। (16) अद्वयबुद्धविहारपरमपारमिप्राप्-तः। (17) असंभिन्नतथागतविमोक्षज्ञाननिष्ठागतः। (18) अनन्तमध्यबुद्धभूमिसमताधिगतः। (19)धर्मधातुपर्यन्तः। (20) आकाशधातुपर्यवसानः। (21) अपरान्तकोटिनिष्ठः”। सुविशुद्धबुद्धिर् इत्य् अस्यपदस्य विभागः पदशेषा वेदितव्याः। एवं सुनिर्दिष्टाधर्मता भवति। II. 33B(97)सुविशुद्धबुद्धिर् इति हीयं सुविशुद्धबुद्धिर् बुद्ध-भगवताम् एकोनविंशतिबुद्धगुणैः संगृहीता वेदितव्-या। (1) ज्ञेयेष्व् अत्यन्तानावरणप्रवृत्तिगुणेन। (2) भावा-भावाद्वयलक्षणतथतापरमविशुद्धिगमनगुणेन। (3) अनाभोगबुद्धकार्याप्रतिप्रस्रब्धस्थानगुणेन। (4)धर्मकाय आश्रयाशयकर्माभेदगुणेन। (5) सर्वावर-(98)णप्रतिपक्षभावनागुणेन। (6) सर्वतीर्थिकाधृष्यगुणे-न। (7) लोक उत्पादे ऽपि लौकिकधर्मासंहार्यगुणेन। (8)धर्मव्यवस्थानगुणेन। (9) व्याकरणगुणेन। (10) सर्वलोकधातुसंभोगनिर्माणकायसंदर्शनगुणेन। (11) संदेहोच्छेदगुणेन। (12) नानाचर्यावतारणगुणेन। (13) आयतिधर्मोत्पादज्ञगुणेन। (14) यथाधिमुक्तिसं-दर्शनगुणेन। (15) अनन्तकायसत्त्वविनयप्रयोगगुणे-न। (16) समधर्मकायपारमितासिद्धिगुणेन। (17) असं-भिन्नबुद्धक्षेत्रयथाधिमुक्तिसंदर्शनगुणेन। (18)त्रिविधबुद्धकायदेशपरिच्छेदगुणेन। (19) आसंसारस-र्वसत्त्वार्थसुखोपस्थानगुणेन। (20) अक्षयगुणेन च। II. 34A(99)अर्थाधिकरणेन च। यथोक्तं : - “द्वात्रिंशद्भिर्धर्मैः समन्वागतो बोधिसत्त्वो बोधिसत्त्व इत्य् उच्यते। कतमे द्वात्रिंशब्धिः। यदुत (1) हितसुखाध्याशयतयासर्वसत्त्वेषु। (2) सर्वज्ञज्ञानावतारणतया। (3) किम् अहम्अर्घामीति परेषां ज्ञानाकुन्सनता। (4) निरधिमान्तया। (5) दृढाध्याशयतया। (6) अकृत्रिमप्रेमतया। (7) मित्रा-(100)मित्रेषु समचित्ततया। (8) अत्यन्तमित्रतया यावन् निर्वा-णपर्यन्तताये। (9) सूनृतवाक्यता स्मितमुखपूर्वाभिभा-षणता। (10) सर्वसत्त्वेष्व् अपरिच्छिन्नमहाकरुणता। (11)उपादत्तेषु भारेष्व् अविषादनतया। (12) अपरिखिन्नमान-सतया। (13) सद्धर्मपर्येष्तिम् आरभ्यातृप्तश्रुतार्थत-या। (14) आत्मस्खलितेषु दोषदर्शनतया परस्खलितेष्व्अरुष्टापत्तिचोदनतया। (15) सर्वैर्यपथेषु बोधिचित्तपरि-कर्मतया। (16) विपाकाप्रतिकाङ्क्षिणस् त्यागः। (17) सर्व-भवगत्युपपत्त्यनिश्रितशीलम्। (18) सर्वसत्त्वेष्व् अप्रति-हता क्षान्तिः। (19) सर्वकुशलमूलसमादाननाय वीर्यम्। (20) आरूप्यधातुपरिकर्षितं ध्यानं। (21) उपायसंगृ-हीता प्रज्ञा चतुःसंग्रहवस्तुसंप्रयुक्ता उपायाः। (22)शीलवद्दुःशीलवदद्वयतया मैत्रता। (23) सत्कृत्य धर्-मश्रवणम्। (24) सत्कृत्यारण्यवासः। (25) सर्वलोकविचित्-रिकेष्व् अनभिरतिः। (26) हीनयानस्पृहणता महायानेचानुशंससंदर्शितया। (27) पापमित्रविवर्जनता कल्या-णमित्रसेवनता। (28) चतुर्ब्रह्मविहारनिष्पादनता पञ्चा-भिज्ञाविक्रीडनता ज्ञानप्रतिसरणता। (29) प्रतिपत्तिविप्र-तिपत्तिस्थितानां सत्त्वानाम् अनुत्सर्गः। (30) एकांशवच-नता। (31) सत्यगुरुकता। (32) बोधिचित्तपूर्वंगमता। “इति। एतैश् च पदैः प्रथमस्य पदस्य विभागो वेदि-तव्यः हितसुखाध्याशयतया सर्वसत्त्वेष्व् इति। II. 34B(101)एतस्य हि हितसुखाध्याशयपदस्य षोडश कर्माणिविभागा वेदितव्याः। तत्र षोडशकर्माणि। [१] परंपराप्रयोगकर्म। [२] अविपर्यासकर्म। [३]अपरोद्योजनस्वयंप्रयोगकर्म। [४] अक्षोभ्यकर्म। [५] निरामिषकर्म त्रयैः पदैर् आमिषाप्रतिबद्धत्वेनोप-कारकापकारकस्यानुरागद्वेषाभावेन यावज् जन्मान्तरे-षु चानुवर्तनेन। [६] तदनुकूलवाक्कायकर्म द्वाभ्यांपदाभ्यां। [७] दुःखसुखाद्वयसमताकर्म। [८] अली-नकर्म। [९] अविनिवर्तनीयकर्म। [१०] उपायपरिग्रह-कर्म। [११] विपक्षविच्छन्दनकर्म द्वाभ्यां पदाभ्-यां। [१२] अनुपच्छेदतन्मनसिकारकर्म। [१३] विशेष-गमनकर्म सप्तैः पदैः षट्पारमितासम्यक्प्रयोगेनसंग्रहवस्तुप्रयोगेन च। [१४] निष्पत्तिप्रयोगकर्मषड्भिः पदैः सत्पुरषनिषेवनेन सद्धर्मश्रवणेना-रण्यवासेन दुर्वितर्कपरिवर्जनेन मनस्कारगुणेनद्वाभ्यां मित्रगुणेन द्वाभ्यां। [१५] निष्पत्तिकर्मत्रिभिः पदैर् अप्रमाणपरिशुद्ध्या प्रभावप्राप्त्या-धिगमगुणेन। [१६] तत्प्रतिष्ठापनकर्म चतुर्भिःपदैर् गणसंग्रहगुणेन निर्विचिकित्साववादानुशासनेनधर्मामिष(एक)संग्रहेणासंक्लिष्टचित्तेन। एते पदा आदि-पदस्य विभागा वेदितव्याः। यथोक्तम्। आदिपदम् उपादाय पदभेदा गुणान्वयाः। आदिपदम् उपादाय भिन्नपदा भिन्नार्थतः। (102)