13 त्रयोदशोऽधिकारः

त्रयोदशोऽधिकारः प्रतिपत्तिविभागे षट् श्लोकाः।
द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः।
द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि॥१॥

अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां।
श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते॥२॥

पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा।
तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते॥३॥

ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं।
आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः॥४॥

कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम्।
ज्ञेयावरणज्ञानाय[हानाय] भवनायां प्रयुज्यते॥५॥

व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा।
अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु॥६॥

सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः।
सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते॥७॥

बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः।
अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान्॥८॥

स्वालम्बना सुसं भारा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव ?] देशिता।
सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता॥९॥

रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं।
समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता॥१०॥

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।
तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः॥११॥

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।
तस्मात्संक्लेशनिर्देशे स संविद्[संधिर]धीमतां मतः॥१२॥

यतस्तानेव रागादीन्योनिशः प्रतिपद्यते।
ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः॥१३॥

न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित्।
शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु॥१४॥

न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति।
स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति॥१५॥

धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता।
मायादिसदृशी ज्ञेया आकाशसदृशी तथा॥

१६॥

यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यतेऽथ च।
अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति च दृश्यते ऽथे च॥१७॥

यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः।
मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि॥१८॥

मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं।
न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते॥१९॥

बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत्।
यथैकपुत्रके तस्मात्सदा हितकरं मतम्॥२०॥

सत्वेषु हितकारित्वान्नैत्यापत्तिं स रागजां।
द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा[सर्वथा]॥२१॥

यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति।
तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु॥२२॥

मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं।
अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं॥२३॥

यथातुरः सुभैषज्ये संसारे प्रतिपद्यते।
आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते॥२४॥

अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते।
वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते॥२५॥

यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते।
पिता यथा सुते बाले सत्वाहेठे प्रपद्यते॥२६॥

अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते।
वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते॥२७॥

मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते।
प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता॥२८॥

इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः।
परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण॥२९॥

महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः॥