11 एकादशोऽधिकारः

एकादशोऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः।
पिटकत्रयं द्वयं वा [च?] संग्रहतः कारणैर्नवभिरिष्टम्।
वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति॥१॥

सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन।
तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति॥२॥

आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम्।
अभिमुखतो ऽथाभीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च॥३॥

आपत्तेरूत्थानाद्‍व्युत्थानान्निःसृतेश्चविनयत्वम्।
पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव॥४॥

आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं[द्वयम्?]।
[लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः]॥५॥

मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात्।
अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः॥६॥

धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः।
त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः॥७॥

त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः।
अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः॥८॥

हीनपूर्णाश्रयो द्वेधा सजल्पोऽजल्प एव च।
ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः॥९॥

संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च।
पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा ऽस्य च॥१०॥

चत्वारः सप्तत्रिंशच्च आकारा भावनागताः।
मार्गद्वयस्वभावो ऽसौ द्‍व्युनुशंसः प्रतीच्छकः॥११॥

प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः।
योगिनां हि मनस्कार एष सर्वात्मको मतः॥१२॥

तत्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः, शक्यं नैव च सर्वथाभिलपितुं यञ्चाप्रपञ्चात्मकम्।
ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम्।
यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता॥१३॥

न खलु जगति तस्माद्विद्यते किंचिदन्य- ज्जगदपि तदशेषं तत्र संमूढबुद्धि।
कथमयमभिरूढो लोकमोहप्रकारो।
यदसदभिनिविष्टः सत्समन्ताद्विहाय॥१४॥

यथा माया तथाऽभूतपरिकल्पो निरुच्यते।
यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते॥१५॥

यथा[ऽ]तस्मित्र तद्भावः परमार्थस्तथेष्यते।
यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता॥१६॥

तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते।
तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते॥१७॥

तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत्।
परावृत्तावपर्यस्तः कामचारी तथा पतिः [यतिः]॥१८॥

तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते।
तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते॥१९॥

न भावस्तत्र चाभावो नाभावो भाव एव च।
भावाभावाविशेषश्च मायादिषु विधीयते॥२०॥

तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते।
तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते॥२१॥

न भावस्तत्र चाभावो नाभावो भाव एव च।
भावाभावाविशेषश्च रूपादिषु विधीयते॥२२॥

समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते।
हीनयानेन यानस्य प्रतिषेधार्थमेव च॥२३॥

भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते।
अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा॥२४॥

मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम्।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२५॥

बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम्।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२६॥

तथा भावात्तथाऽभावाद् भावाभाव[वा?]विशेषतः।
सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः॥२७॥

तथा ऽभावात्तथा ऽ भावात्तथा ऽभावादलक्षणाः।
मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः॥२८॥

मायाराजेव चान्येन मायाराज्ञा पराजितः।
ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः॥२९॥

मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोमपा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः।
षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः॥३०॥

अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च।
न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते॥३१॥

स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः।
विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः॥३२॥

आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः।
त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत्॥३३॥

चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत्।
श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति॥३४॥

यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः।
इति चित्तं चित्राभासं चित्राकारं प्रवर्तते॥३५॥

लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः।
अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता॥३६॥

सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता।
लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः॥३७॥

यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना।
तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं॥३८॥

यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या।
असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम्॥३९॥

त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः।
अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम्॥४०॥

अभावभावता या च भावाभावसमानता।
अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम्॥४१॥

निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया।
चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना॥४२॥

समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम्।
समं विशिष्टमन्यूनानधिकं लक्षणा मता॥४३॥

पदार्थदेहनिर्भासपरावृत्तिरनास्रवः।
धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः॥४४॥

चतुर्धा वशिता वृत्तेर्मनसश्चोद्ग्रहश्च च।
विकल्पस्याविकल्पे हि क्षेत्रे ज्ञानेऽथ कर्मणि॥४५॥

अचलादित्रिभूमौ च वशिता सा चतुर्विधा।
द्विधैकस्यां तदन्यस्यामेकैका वशिता मता॥४६॥

विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः।
ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः॥४७॥

आधारे संभारादाधाने सति हि नाममात्रंपश्यन्।
पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः॥४८॥

चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम्।
प्रवर्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता॥४९॥

स्वयं स्वेनात्मना ऽभावात्स्वभावे चानवस्थितेः।
ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते॥५०॥

[निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः।
अनुत्पादो ऽनिरोधश्चादिशन्तिः परिनिर्वृतिः॥५१॥

] आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे।
संक्लेशे ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता॥५२॥

धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः।
द्‍व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता॥५३॥

आकर्षणार्थमेकेषामन्यसंधारणाय च।
देशितानियतानां हि संबुद्धैरेकयानता॥५४॥

श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः।
दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः॥५५॥

तौ च लब्धार्यमार्गस्य भवेषु परिणामनात्।
अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ॥५६॥

प्रणिधानवशादेक उपपत्तिं प्रपद्यते।
एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते॥५७॥

निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ।
पुनः पुनः स्वचित्तस्य समुदाचारयोगतः॥५८॥

सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः।
निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते॥५९॥

विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः।
इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम्॥६०॥

हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः।
साधारणफलेच्छा च यथाबोधाधिमुच्यना॥६१॥

चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः।
विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा॥६२॥

प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च।
संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया॥६३॥

शक्तिलाभे सदौत्सुक्यं दानादौ षड्‍विधेद्यनम्।
परिपाकेऽथ पूजायां सेवायामनुकम्पना॥६४॥

अकृते कुकृते लज्जा कौकृत्यं विषये रतिः।
अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः॥६५॥

दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः।
दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः॥६६॥

चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम्।
योगे ऽभिलाषो ऽविकल्पे तद्‍धृत्यां प्रत्ययागमे॥६७॥

सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम्।
आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा॥६८॥

समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका।
परगुणप्रतिकारस्त्रयाशास्तिर्निरन्तरः॥६९॥

बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना]।
तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना॥७०॥

प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः।
नाधिवासमनस्कारो व्याकृतनियते स्पृहा॥७१॥

आयत्यां दर्शनाद्‍वृत्तिचेतना समतेक्षणा।
अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा]॥७२॥

एते शुभमनस्कारा दशपारमितान्वयाः।
सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि॥७३॥

पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे।
सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम्॥७४॥

असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम्।
बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता॥७५॥

रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये]।
ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम्॥७६॥

अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः।
यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः॥७७॥

इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्वः॥

प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः॥७८॥

महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः॥