दशमोधिकारः
उद्दानम्
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः।
स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च॥१॥
जाता जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च।
अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च॥२॥
हार्या कीर्णाऽव्यावकीर्णा विपक्षैर्हीनोदारा आवृताऽनावृता च।
युक्ताऽयुक्ता संभृताऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः॥३॥
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः।
कुमित्रं शुभदौर्बाल्यमयोनिशोमनस्क्रिया॥४॥
प्रमादोऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता।
शममात्राभिमानश्च तथा ऽपरिजयो मतः॥५॥
अनुद्वेगस्तथोद्वेग आवृतिश्चाप्ययुक्तता।
असंभृतिश्च विज्ञेयाऽधिमुक्तिपरिपन्थता॥६॥
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत्।
अविप्रणाशः स्थैर्यं च विशेषगमनं तथा॥७॥
धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा।
क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः॥८॥
कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम्।
भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम्॥९॥
तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते
विशेषो विज्ञेयः सततमधिमुक्तया विविधया।
महायाने तस्य विधिवदिह मत्वा परमतां
भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात्॥१०॥
मनुष[ष्य] भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम्।
अप्रमेया यतः सत्त्वा लयं नातोऽधिवासयेत्॥११॥
यथा पुण्यं प्रसवते परेषां भोजनं ददत्।
न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः॥१२॥
सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात्।
न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते॥१३॥
इति विपुलगतौ महोघ[महार्य]धर्मे जनिय[परिजनयन्?] सदा मतिंमान्महाधिमुक्तिम्।
विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च॥१४॥
॥
महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः॥