08 अष्टमोऽधिकारः

अष्टमोऽधिकारः बोधिसत्त्वपरिपाके संग्रहः श्लोकः।
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च।
अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम्॥१॥

सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्॥२॥

गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसोऽध्यभेद[द्य?]ता।
जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम्॥३॥

सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायोऽथ शुभाभिरामता।
जीनात्मजे क्लेशविनोदनायतन्- मतं हि सम्यक्परिपाकलक्षणम्॥४॥

कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम्।
विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम्॥५॥

धृतिः प्रकृत्या प्रतिसंख्यभावना सुदःखशीताद्यधिवासना सदा।
विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम्॥६॥

विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा।
स्मृतेर्महाबुद्धयुदये च योग्यता सुमेधतायाः परिपाकलक्षणम्॥७॥

शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा।
मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्॥८॥

सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम्।
पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम्॥९॥

शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता।
जिनात्मजे ह्यङ्गसमन्वये पुन- र्मतं हि सम्यक्परिपाकलक्षणम्॥१०॥

इति नवविधवस्तुपाचितात्मा परपरिपाचनयोग्यतामुपेतः।
शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः॥११॥

व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता।
तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता [मुशन्तिपक्वताम्]॥१२॥

विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्यनुपाचनापरा।
सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु॥१३॥

हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन्।
तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः॥१४॥

तथाजनो नात्मनि वत्सलो मतः कुतोऽपि सुस्निग्धपराश्रये जने।
यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः॥१५॥

न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा।
अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते॥१६॥

सदाप्रकृत्याध्यविहिंसकः स्वयं रतोऽप्रमत्तोऽत्र परं निवेशयन्।
परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः॥१७॥

परेऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम्।
उपायचित्तैरपकारमर्षणैः शुभे समादापयतेऽपकारिणः॥१८॥

पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः।
जिनात्मजः स[त्त्व]गणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात्॥१९॥

वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयतेऽत्र शासने।
निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः॥२०॥

स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान्।
ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः॥२१॥

इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः।
तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या॥२२॥

महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः॥