07 सप्तमोऽधिकारः

सप्तमोऽधिकारः प्रभावलक्षणविभागे श्लोकः।
उत्पत्तिवाक् चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम्।
ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः॥१॥

ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति॥२॥

येनार्यदिव्याप्रतिमैर्विहारै- र्ब्राह्मैश्च नित्यं विहरत्युदारैः।
बुद्धांश्च सत्त्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम्॥३॥

मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान्।
संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः॥४॥

रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति।
मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्रासयते समारान्॥५॥

समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये।
सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्॥

६॥

ज्ञानवशित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तान्क्षिपते ऽन्यधातौ॥७॥

शक्तो भवत्येव च सत्वपाके संजातपक्षः शकुनिर्यथैव।
बुद्धात्प्रशंसां लभते ऽतिमात्रा- मादेयवाक्यो भवति प्रजानाम्॥८॥

षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा ऽभिभुवस्तथाऽष्टौ।
दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः॥९॥

स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम्।
परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः॥१०॥

प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः॥