03 तृतीयोऽधिकारः

तृतीयोऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता आदीनवोऽनुशंसश्च द्विधौपम्यं चतुर्विधा॥१॥

धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः।
फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते॥२॥

उदग्रत्वेऽथ सर्वत्वे महार्थत्वेऽक्षयाय च।
शुभस्य तत्रिमित्तत्वात् गोत्राग्रत्वं विधीयते॥

३॥

प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत्।
सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः॥४॥

कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः।
समाचारः सुभस्यापि गोत्रेलिङ्गं निरुप्यते॥५॥

नियतानियतं गोत्रमहार्यं हार्यमेव च।
प्रत्यैर्गोत्रभेदो ऽयं समासेन चतुर्विधः॥६॥

क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः॥७॥

चिरादपायगमनमाशुमोक्षश्च तत्र च।
तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना॥८॥

सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः।
ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः॥९॥

सुरत्नगोत्रवत्ज्ञेयं महाबोधिनिमित्ततः।
महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात्॥१०॥

ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा।
अमोक्षभागीयशुभोऽस्ति कश्चिन् निहीनशुक्लोऽस्त्यपि हेतुहीनः॥११॥

गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च।
संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात्॥१२॥

सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च।
स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत्॥१३॥

महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः॥