02 द्वितीयोऽधिकारः

द्वितीयोऽधिकारः शरणगमनविशेषसंग्रहश्लोकः।
रत्नानि यो हि शरणप्रगतोऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम्।
सर्वत्रगाभ्युपगमाधिगमाभिभूति- भेदैश्चतुर्विधमयार्थविशेषणेन॥१॥

यस्मादादौ दुष्कर एष व्यवसायो दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः।
सिद्धो यस्मात्सत्त्वहिताधानमहार्थ- स्तस्मादग्रे यान इहाग्रशरणार्थः॥२॥

सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः।
यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम्॥३॥

शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सोऽप्रमेयाम्।
स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्धं]धर्मम्॥४॥

महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः॥