01 प्रथमोऽधिकारः

महायानसूत्रालंकारः (कारिका) ॥

ॐ॥

नमः सर्वबुद्धबोधिसत्वेभ्यः प्रथमोऽधिकारः अर्थज्ञोऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै- र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः।
धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन्॥१॥

घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः।
विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति॥२॥

यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात्।
तथा धर्मः सूक्तप्रकृतिगुणयुक्तोऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम्॥३॥

आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत्।
धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतोऽर्थो न च[र्थतश्च] ज्ञेयः॥४॥

राजेव दुराराधो धर्मोऽयं विपुलगाढगम्भीरः।
आराधितश्च तद्वद्वरगुणधनदायको भवति॥५॥

रत्नं जात्यमनर्थं[र्घं]यथा ऽपरीक्षकजनं न तोषयति।
धर्मस्तथायमबुधं विपर्ययात्तेषयति तद्वत्॥६॥

आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः।
भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात्॥७॥

प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः।
अध्ममन्यनावृतज्ञाना उपेक्षातो न युज्यते॥८॥

वैकल्यतो विरोधादनुपायत्वात्त्थाप्यनुपदेशात्।
न श्रावकयानमिदं भवति महायानधर्माख्यम्॥९॥

आशयस्योपदेशस्य प्रयोगस्य विरोधतः।
उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत्॥१०॥

स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि।
औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता॥११॥

निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि।
बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत्॥१२॥

औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना।
देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे॥१३॥

तदस्थानत्रासो भवति जगतां दाहकरणो महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्धसमयम्।
अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाऽचितशुभ- स्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत इह॥१४॥

तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्बहुमुखात्।
यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मे ऽस्मिंस्रासो भवति विदुषां योनिविचयात्॥१५॥

श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ञानं प्रभवति च तत्वार्थविषयम्।
ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः॥१६॥

अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम्।
कस्माद् गभीरार्थविदां न मोक्ष इत्येतदुत्‍त्रासपदं न युक्तम्॥१७॥

हीनाधिमुक्तः सुनिहीनधातो- र्ही नैः सहायैः परिवारितस्य।
औदार्यगाम्भीर्यसुदेशितेऽस्मिन् धर्मेऽधिमुक्तिर्यदि नास्ति सिद्धम्॥१८॥

श्रुतानुसारेण हि बुद्धिमत्तं लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम्।
श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः॥१९॥

यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः।
स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतिघातमेव]॥२०॥

मनः प्रदोषः प्रकृतिप्रदुष्टो- [ऽयथारुते चापि]ह्ययुक्तरूपः।
प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा॥२१॥

महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः॥