02 द्वितीयोऽधिकारः

द्वितीयोऽधिकारः शरणगमनविशेषसंग्रहश्लोकः।
रत्नानि यो हि शरणप्रगतोऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम्।
सर्वत्रगाभ्युपगमाधिगमाभिभूति- भेदैश्चतुर्विधमयार्थविशेषणेन॥१॥

स एव परमः शरणं गतानामिति। केन कारणेन। चतुर्विधस्वभावार्थविशेषणेन। चतुर्विधोऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः। सर्वत्रगार्थः। अभ्युपगमार्थः। अधिगमार्थः। अभिभवार्थः। ते पुनरुत्तरत्र निर्देक्ष्यन्ते।
तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन्नोत्सहन्ते। श्लोकः।
यस्मादादौ दुष्कर एष व्यवसायो दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः।
सिद्धो यस्मात्सत्त्वहिताधानमहार्थ- स्तस्मादग्रे यान इहाग्रशरणार्थः॥२॥

एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति। फलप्राप्तिविशेषेण महार्थत्वम्।
पूर्वाधिकृते सर्वत्रगार्थे श्लोकः।
सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो याने ज्ञाने सर्वगते कौशल्ययुक्तः।
यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम्॥३॥

एतेन चतुर्विधं सर्वत्रगार्थं……………………… असांकेतिकं धर्मताप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन।
शरणप्रतिपत्तिविशेषणे श्लोकः।
शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सोऽप्रमेयाम्।
स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्य]धर्मम्॥४॥

अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति। स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराऽप्रमेयगुणवृद्ध्या। अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम्। न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात्। परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन। महायानं हि महार्यदृशां धर्मः।

महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः॥