04 प्रतिपक्षभावनाऽवस्थाफलपरिच्छेदश्चतुर्थः

प्रतिपक्षभावनाऽवस्थाफलपरिच्छेदश्चतुर्थः दौष्ठुल्यात् तर्षहेतुत्वाद् वस्तुत्वादविमोहतः।
चतुस्सत्यावताराय स्मृत्युपस्थानभावना॥१॥

परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा।
तदपायाय वीर्यं हि चतुर्धा सम्प्रवर्तते॥२॥

कर्मण्यता स्थितेस्तत्र सर्वार्थानां समृद्धये।
पञ्चदोषप्रहाणाऽष्टसंस्कारासेवनाऽन्वया॥३॥

कौसीद्यमववादस्य सम्मोषो लय उद्धवः।
असंस्कारोऽथ संस्कारः पञ्च दोषा इमे मताः॥४॥

आश्रयोऽथाश्रितस्तस्य निमित्तं फलमेव च।
आलम्बनेऽसम्मोषो लयौद्धत्यानुबुद्ध्यना॥५॥

तदपायाऽभिसंस्कारः शान्तौ प्रशठवाहिता।
रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः॥६॥

आलम्बनेऽसम्मोषाविसारविचयस्य च।
विपक्षस्य हि संलेखात् पूर्वस्य फलमुत्तरम्॥७॥

द्वौ द्वौ निर्वेधभागीयाविन्द्रियाणि बलानि च।
आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम्॥८॥

चतुर्थमनुशंसाङ्गं निःक्लेशाङ्गं त्रिधा मतम्।
निदानेनाश्रयेणेह स्वभावेन च देशितम्॥९॥

परिच्छेदोऽथ सम्प्राप्तिः परसम्भावना त्रिधा।
विपक्षप्रतिपक्षश्च मार्गस्याङ्गं तदष्टधा॥१०॥

दृष्टौ शीलेऽथ संलेखे परविज्ञप्तिरिष्यते।
क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता॥११॥

अनुकूला विपर्यस्ता सानुबन्धा विपर्यया।
अविपर्यस्तविपर्यासाऽननुबन्ध च भावना॥१२॥

आलम्बनमनस्कारप्राप्तितस्तद् विशिष्टता।
हेत्ववस्थाऽवताराख्या प्रयोगफलसंज्ञिता॥१३॥

कार्याकार्यविशिष्टा च उत्तराऽनुत्तरा च सा।
अधिमुक्तौ प्रवेशे च निर्याणे व्याकृतावपि॥१४॥

कथिकत्वेऽभिषेके च सम्प्राप्तावनुशंसने।
कृत्यानुष्ठान उद्दिष्टा धर्माधातौ त्रिधा पुनः॥१५॥

अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्थतः।
पुद्‍गलानां व्यवस्थानं यथायोगमतो मतम्॥१६॥

भाजनत्वं विपाकाख्यं बलन्तस्याधिपत्यतः।
रुचिर्वृद्धिर्विशुद्धिश्च फलमेतद् यथाक्रमम्॥१७॥

उत्तरोत्तरमाद्यञ्च तदभ्यासत् समाप्तितः।
आनुकूल्याद् विपक्षाच्च विसंयोगाद् विशेषतः॥१८॥

उत्तराऽनुत्तरत्वाच्च फलमन्यत् समासतः।

इति प्रतिपक्षभावनादिपरिच्छेदश्चतुर्थः॥