चित्ततत्वसङ्ग्रहः

चित्ततत्वसङ्ग्रहः नमस् तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय अग्रः श्रेष्टश् च ज्येष्ठस् त्रिभुवनजगतश्­ शास्तृभूतश् च लोके योऽभूल् लक्ष्मीघनस् तत् पदकमलयुगम्­ मस्तकेनभिवन्द्य लोकानां द्ल्र्घकालम् पिहितमविदितं­ चित्तधर्मस्य तत्वं जिज्ञासूनाम् प्रवक्ष्ये सुगतमुनिमतम्­ गौरवेणनुगम्य।
ई. सर्वा चित्तकथा धर्मे - प्रोक्तैवादित्यबन्धुना चतुर्भिर् एव वचनैः - पञ्चस्कन्धादिदर्शने।
२. प्रथमा वेदना तत्र - संज्ञा तु स्याद् द्वित्ल्यीका तृतीयस् तु च संस्कारस् - तुर्यं विज्ञानम् एव हि।
३. एतच्चतुष्टयं यत्रै - कत्वेन गृह्यते यदा तदा तस्य समूहस्य - वयं चित्तं वदामहे।
४. वेदना-संज्ञा-संस्काराः - प्रबुद्धस्य गतिर् भवेत् चतुर्थं तु च विज्ञानं - सुसुप्तस्य भवेद् गतिः।
५. अवस्थाह्यन्तर्बूता तु - स्वप्नं एवेत्युदीरिता गतिस् तस्याम् प्रबुद्धस्य - सुसुप्तिश् च न विद्यते।
६. प्रबुद्धस्य गतिस् तत्र - क्रियव्ज्ञानमेव हि अन्यद् अक्रियविज्ञानं - सुसुप्तस्य गतिः पुनः।
७. अवस्थाम् अन्तर्भूताम् तु - द्वयमिश्रवशाद् विदुः।
अतीतस्ंऋतिसंस्कार - रूपेनाविर्भवन्तिते ८. इन्द्रियार्थसन्णिकर्षाज् - जन्यं ज्ञानं तु वेदना उपलब्धिश् च प्रत्यक्षो - विषयानुभवोऽपि च वेदनायास् तु पर्याया - दृश्यन्ते न्यायदर्शने।
९. वेदनाशब्दस्यार्थस्य - ऋग्वेदे चैव संस्कृते सम्बुद्धेन प्रयुक्तार्थ - समं किञ्चिन् न दृश्यते।
१०. वीथिविज्ञानत्रैविध्ये - वेदना प्रथमाभवेत् सैवर्जुज्ञानमार्गं स्याद् - अन्ये द्येऽनृजुके तथा।
११. वीथिविज्ञानसंज्ञा तु - चिन्तनार्थं प्रकाशते तर्कानुमानजानन - सर्वंज्ञागतं भवेत्।
१२. वेदनानामप्रत्यक्सो - वृद्धिं गच्चति चिन्तने दृष्टिस्मृतिप्सासर्वे तु - संज्ञसाधकहेतवः।
१३. वेदनासंज्ञायुगलम् - एकैकं हि प्रभास्वरम् प्रभास्वरचित्तकथा - धर्मे तस्माद् धि दृश्यते।
१४. अप्रभास्वरचित्तन् तु - संस्कारसहितं भवेत् बालदरकचित्तं हि - तस्माद् एवाप्रभास्वरम्।
१५. वेदनासंज्ञाविज्ञान - संस्कारा बुद्धदर्शने दृष्टार्थयुक्ताः कुत्रापि - दृश्यन्ते नान्यदर्शने।
१६. वेदनासंज्ञासंस्कार - त्रयैः शब्दैर् उदीरितम् चित्तस्य वीथिविज्ञानम् - मुनिनादित्यबन्धुना।
१७. संस्कारक्षयशब्दार्थं - निर्वाणञ् च समम् भवेत् विसंस्कारगतं चित्तम् - इति बुद्धप्रकाशनम्।
१८. संस्कारतृष्णासम्बन्धः - कथम् ज्ञातुं हि शक्यते बुद्ध एवावदत् तत्र - तृष्णानां क्षयम् अध्यगाम्।
१९. व्याकृताऽनिव्र्तस् तत्र - तृष्णादोषास् त्रयो मताः आत्मस्नेहात्ममानात्म - दृष्टिनामवशात् पुनः।
२०. एतत् त्रयं हि तृष्णाया - आत्ममोहवशाद् भवेत् तस्माद् अविद्यातृष्णात्म - मोहाः पर्यायवाचकाः।
२१. एतैर् जातास् तु संस्कारा - न विद्यन्तेऽर्हते क्वचित् क्लिश्यते सर्वकाले तु - चित्तम् एतैः पृथग्जने।
२२. पारिशुद्धिं हि चित्तस्य - संस्कारक्षयम् एव तत् पुण्यपापप्रहीणस्य - चित्तं निर्वुतम् उच्यते।
२३. प्रभास्वरं हि तच्चित्तम् - अन्यत् क्लिष्टम् भवेत् सदा तस्मात् पृथग्जनाः सर्वे - उन्मत्ता इत्युदीरिताः।
२४. यद् वेदयति तत् सर्वं - संजानाति तथा पुनः वितर्कयति तज्ज्ञातं - तद् वितर्कम् प्रपञ्चयेत्।
२५. इत्युवाच महार्हा स - काश्यपो मनसः क्रियाम् निकाये मध्यमे पाल्यां - सूत्रे तु मधुपिण्डिके।
२६. प्रपञ्चो नाम संस्कारो - यावद् आहरते फलम् तावद् अक्रियविज्ञान - रूपेणैवावतिष्ठति।
२७. कर्मसंस्कारसंक्लेश - प्रपञ्चाश्रवकिञ्चनाः पुण्यपापे च कुशला - कुशलेतीञ्जितामलाः।
२८. सङ्गसंयोजने शल्या - नुशयानुश्रवाशयाः उपादानान्गनाः क्लेशाः - सर्वे पर्यायवाचकाः।
२९. वेदनासंज्ञायुगलं - ससंस्कारत्रिकञ् च यत् वीथिविज्ञाननामेन - क्रियकर्मवशज् जवेत्।
३०. क्रियं हि वीथिविज्ञानं - निर्वुताव्याकृतम् भवेत् कर्मभूतं वीत्थिचित्तं - व्याकृतञ् चाप्यनिर्वुतम्।
३१. बुद्धार्हतां सुद्धचित्तं - क्रियरूपेण धावति पृथग्जनस्य चित्तन् तु - कर्मतत्वेन धावयेत्।
३२. पुण्यपापप्रहीणं यत् - सुद्धं बुद्धस्य मानसम् तद्धि लोकोत्तरं ज्ञातम्-नास्ति तस्य पुनर्भवः।
३३. भवाङ्गजं वीथिचित्तं - चक्षुरादिक्रमेण षट् तदालम्बवशात् तच्च - वीथिमुक्तम् प्रविश्यति।
३४. किर्यचित्तं कर्मचित्तं - द्वयं वीथिं प्रचक्षते वीथिमुक्तन् तु विज्ञानं - वीथिचित्तैः प्रवर्धते।
३५. विपाकाक्रियविज्ञानं - प्रतिसन्धिर् भवेद् भवे भवाङ्गम् प्रवृत्तौ भूत्वा - जीवितान्ते भवेच्च्युतिः।
३६. मूलविज्ञानम् आलय - विज्ञानम् इति नामके बुद्धविज्ञानशब्दार्थे - वसुबन्धुः प्रयूयुजत्।
३७. भवम् भवाङ्गम् तत्स्रोतो - विज्ञानम् एव भावयेत् प्रतिसन्धिच्युतीभ्यां तद् - वीथिमुक्तं प्रकीर्तितम्।
३८. क्रियभूतं कर्मभूतं - वीथिचित्तं द्विधा मतम् अक्रियं वीथिमुक्तं वै - विपाकम् एव सर्वदा।
३९. सकर्मं वीथिचित्तन् तु - बुद्धादिषु न विद्यते तेषां हि वीथिचित्तं वै - क्रियरूपेण धावति।
४०. आर्याष्टाङ्गिकमार्गेण - कर्मक्षयकृतम् मनः बुद्धानाम् अर्हतञ् चैव - नाह्वयते पुनर्भवम्।
४१. क्रियाकर्मविपाकैस् तु - सर्वं चित्तं विभाव्यते वेदनासंज्ञासंस्कार - विज्ञानैश् च तथैव तत्।
४२. प्रतीत्यसमुत्पादाख्ये - धर्मे देशितवेदना संज्ञार्थं वेदनार्थञ् च - द्वयम् एव प्रकाशते।
४३. त्रीण्येवार्थानि चित्तस्य - प्रयोगस्य वशात् पुनः मूलद्वैतीयसामान्य - नामैस् तत्त्रिकम् उच्यते।
४४. मूलार्थो हि तु चित्तस्य - वेदनार्थम् प्रकाशते वेदनं तस्मिन्नर्थे तु - बुद्ध एव प्रयूयुजत्।
४५. द्वैतीयार्थन् तु चित्तस्य - संज्ञार्थम् एव भावयेत् सामान्यार्थो हि तस्य स्यात् - चित्तं वाथोनम् अङ्गिकम्।
४६. तथैव च मनश्शब्दस् - तदेवार्थत्रयं ददेत् मूलार्थं हि भवेत् संज्ञा - द्वैतीयार्थं तु वेदना सामान्यार्थो मनश्शब्दे - चित्तयुक्तसमो भवेत्।
४७. वेदनासंज्ञा संस्कार - विज्ञानानां यथाक्रमम् अन्तर्गतार्थान् मनसश् - चित्तस्यैवञ् च ज्ञायताम्।
४८. विज्ञानम् एव विज्ञप्तिः - क्रियाक्रियवशा द्विधा विज्ञप्तिमात्रता सिद्धा - चित्तस्यैवं हि निश्चयात्।
४९. क्षणजन्या च विज्ञप्तिर् - अनित्या क्षणभन्गुरा तदात्मकेस्मिंश् चित्ते तु - माया स्याद् आत्मकल्पना।
५०. प्रतीत्यसमुत्पादे च - पञ्चस्कन्धे च दर्शने विद्यमानम् चित्ततत्वं - सम्यग् एवं प्रकाशितम्।
श्री लन्कापुत्रभूतेन - पण्डिताचार्यभिक्षुणा आमेरिकाधर्मदूत - प्रियनन्देन धीमता विज्ञप्तिमात्रातसिद्धि - पञ्चाशिकेति नामिका कृतैवं कृ तिर् एषा तु - चित्ततत्वस्य सङ्ग्रहः।