भूमिपटलम्
एषु यथावर्णितेषु त्रयोदशसु विहारेष्वनुगताः सप्त भूमयो वेदितव्याः। षट् बोधिसत्त्वभूमयः। एका व्यामिश्रा बोधिसत्त्व-ताथागती-भूमिः। गोत्रभूमिः। अभिमुक्तिचर्याभूमिः शुद्धाध्याशयभूमिः। चर्याप्रतिपत्तिभूमिः। नियता भूमिः। नियतचर्याभूमिः। निष्ठागमनभूमिश्च इतीमाः सप्त बोधिसत्त्वभूमयः। आसां पश्चिमा व्यामिश्रा। तत्र गोत्रविहारोऽधिमुक्तिचर्याविहारश्च द्वे भूमी। प्रमुदितो विहारः शुद्धाध्याशया भूमिः। अधिशीलाधिचित्तविहारौ त्रयश्चाधिप्रज्ञविहाराः साभोगश्च निर्निमित्तो विहारश्चर्याप्रतिपत्तिभूमिः। अनाभोगो निर्निमित्तो विहारो नियता भूमिः। तस्यां भूमौ बोधिसत्त्वस्तृतीयनियतिपातपतितो भवति। प्रतिसंविद्विहारो नियतचर्याभूमिः। परमो विहारस्ताथागतश्च निष्ठागमनभूमिः। ताथागतस्य पुनर्विहारस्य भूमेश्च पश्चान्निर्देशो भविष्यति बुद्धधर्मप्रतिष्ठा पटले।
तत्र बोधिसत्त्वः अधिमुक्तिचर्याभूमेः शुद्धाध्याशयभूमिमनुप्रविशन् कथम् अपायान्समतिक्रामति। इह बोधिसत्त्वो लौकिकं परिशुद्धं ध्यानं निश्रित्याधिमुक्तिचर्याभूमौ सुसम्भृतबोधि सम्भारो दशोत्तरेण पूर्वनिर्दिष्टेनाकारशतेन सत्त्वेष्वनुकम्पां भावयप्यनन्यमनसिकारः। स भावनान्वयात् तद्रूपं सत्त्वेष्वनुकम्पाशयं करुणाशयं प्रतिलभते। येनापायान् सत्त्वानामर्थेऽगारावसायोगेनाधितिष्ठति। यदि मे एष्वेव सन्निवसतोऽनुत्तरा सम्यक्संबोधिः समुदागच्छति तथाप्यहमुत्सहामीति सत्त्वानां दुःखापनयनहेतोः। सर्वाञ्च सत्त्वानामापायिकं कर्म तेन शुद्धेनाशयेनात्मवैपाक्यमिच्छति। अत्यन्तञ्च सर्वाकुशलकर्मासमुदाचाराय मानं संप्रणिधत्ते। तस्य तथा परिभावितं तल्लौकिकं परिशुद्धं ध्यानम्। आपायिकक्लेशपक्ष्यं दौष्ठल्यं आश्रयादपकर्षति। अचिरेण तस्य प्रहाणादाश्रयोऽस्य बोधिसत्त्वस्य परिवर्तते पापकस्यापायिकस्य कर्मणोऽत्यन्तमकरणतायै अपायागमनतायै। च। इयता बोधिसत्त्वः समतिक्रान्तोऽपायगतीः सर्वा भवति। समतिक्रान्तश्चाधिमुक्तिचर्याभूमिम्। प्रविष्टश्च शुद्धाध्याशयभूमिम्।
ये च ते दशधर्मा विहारपटले निर्दिष्टा। श्रद्धादयो विहारपरिशोधनाः त इहापि भूमिविशोधना वेदितव्याः। तेषां विपक्षप्रतिपक्षतो व्यवस्थानं वेदितव्यम्। समासार्थोऽनुक्रमश्च वेदितव्यः। तत्र दशेमे। एषां दशानां भूमिविशोधनानां धर्माणां विपक्षभूता धर्माः। येषां प्रतिपक्षेणैषां व्यवस्थानं भवति। कतमे दश। सर्वेण सर्वमनारम्भचित्तोत्पादना बोधिसत्त्वशिक्षापदासमादानम् अयं श्रद्धाविपक्षो धर्मः। यस्य प्रतिपक्षेण श्रद्धा। सत्त्वेषु विहिंसाचित्तं करुणाविपक्षः। यस्य प्रतिपक्षेण करुणा। सत्त्वेषु व्यापादो मैत्रीविपक्षः। यस्य प्रतिपक्षेण मैत्री। भोगजीविकापेक्षा दानविपक्षः। यस्य प्रतिपक्षेण त्यागः। सत्त्वेभ्योऽपकार-विप्रतिपत्तिलाभो बहुकर्तव्यता चाखेदविपक्षः। यस्य प्रतिपक्षेणाखेदता। अनुपायप्रयोगः शास्त्रज्ञता-विपक्षः। यस्य प्रतिपक्षेण शास्त्रज्ञता। असौरत्यापरचित्तानुवर्तनता लोकज्ञता-विपक्षः। यस्य प्रतिपक्षेण लोकज्ञता। कुशलधर्मभावनायां प्रमादकौसीद्यं ह्रीव्यपत्राप्य-विपक्षः। यस्य प्रतिपक्षेण ह्रीव्यपत्राप्यता। दीर्घकालिकैश्चित्रैस्तीव्रैर्निरन्तरैः संसारदुःखैर्व्यवदीरणता धृतिबलाधानता-विपक्षः। तस्य प्रतिपक्षेण धृतिबलाधानता। शास्तरि कांक्षा विमतिर्विचिकित्सा तथागतपूजोप स्थानतायाः विपक्षः। यस्य प्रतिपक्षेण तथागतपूजोपस्थानता। एवं तावदेषां विपक्षप्रतिपक्षतो व्यवस्थानं भवति।
कः पुनरेषां समासार्थः। समासेन दशभिरेभिर्धर्मैराशयशुद्धिः प्रयोगशुद्धिश्च परिदीपिता। तत्र त्रिभिः पूर्वकैराशयशुद्धिः। अवशिष्टैः प्रयोगशुद्धिर्वेदितव्या। बोधिमभिश्रद्धद्बोधिसत्त्वः सत्त्वान् दुःखितान् करुणायते। करुणायमानो मयैते परित्रातव्या इति मैत्रायते। तथा मैत्रचित्तस्य सर्वपरित्यागी भवत्येषु भोगजीवितनिरपेक्षः। निरपेक्षश्चैषामर्थे प्रयुज्यमानो न परिखिद्यते। अपरिखिन्नश्च शास्त्रज्ञो भवति। शास्त्रज्ञश्च यथा लोके प्रवर्तितव्यमनेन तथा जानाति। एवं लोकज्ञो भवति। स्वयञ्च क्लेशसमुदाचारेण जेह्रीयते व्यपत्रपते। ह्रीमानपत्रापी च क्लेशावशगो धृतिबलधानप्राप्तो भवति। धृतिबलाधानप्राप्तश्च सम्यक् प्रयोगादपरिहीयमानः कुशलैश्च धर्मैर्विवर्धमानः प्रतिपत्तिपूजया लाभसत्कारपूजया च तथागतपूजोपस्थानं करोति। इत्ययमेषां दशानां धर्माणामनुक्रमसमुदागमो वेदितव्यः। एभिर्दशभिर्धर्मैः सर्वभूमिविशोधना भवति।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने तृतीयं भूमिपटलम्।