अध्याशयपटलम्
उद्दानम्।
वात्सल्यं सर्वसत्त्वेषु सप्ताकारं हि धीमताम्।
पञ्चदशाशयास्तेषां दश कृत्यकरा मताः॥
सप्ताकारं बोधिसत्त्वानां सत्त्वेषु वात्सल्यं प्रवर्तते येन वात्सल्येनोपेता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते। सप्ताकारं वात्सल्यं कतमत्। अभयं युक्तमखेदमयाचितमनामिषं विस्तीर्णं समञ्चेति। न हि बोधिसत्त्वः कस्यचिद्भयाद्वत्सलो भवति। आनुलोमिकेन कायवाङ्मनस्कर्मणा समुदाचरति मनापेन हितसुखेन च। न च पुनर्बोधिसत्त्वस्य सत्त्वेषु योगरहितं वात्सल्यं प्रवर्तते तद्यथा अधर्मेऽविनयेऽसत्यसमुदाचारे अस्थाने समादापनतायै। तथा च बोधिसत्त्वो वत्सलो भवति सत्त्वेषु यथा तेषामर्थे सर्वारम्भैर्न परिखिद्यते। अयाचित एव च बोधिसत्त्वः सत्त्वेषु वत्सलो भवति न तु केनचिद्याचितः। निरामिषेण च चित्तेन वत्सलो [भवति] न परतः प्रत्युपकारं प्रतिकांक्षमाणः परत्र च विपाकमिष्टं प्रत्याशंसमान इति निष्कारणवत्सलो भवति सत्त्वेषु बोधिसत्त्वः। विपुलञ्च तद्बोधिसत्त्वस्य वात्सल्यं भवति सत्त्वेषु न परीत्तम्। तथा च विपुलं भवति यथैषां सत्त्वानामन्तिकाद्बोधिसत्त्वः सर्वाकारमप्यपकारं लभमानो नोत्सृजति आत्मानं काममप्रियं करोति। न तु केनचित्पर्यायेण परेषां पापकर्मेच्छति। तत्पुनरेवं लक्षणमेव गुणयुक्तं वात्सल्यं बोधिसत्त्वानां सर्वसत्त्वेष्वेव सममासमन्त सत्त्वधातुप्रादेशिकः। एवमनेन सप्ताकारेणैव वात्सल्येन युक्ता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते।
तत्र श्रद्धापूर्वंको धर्मविचयपूर्वकश्च बुद्धधर्मेषु योऽधिमोक्षः प्रत्यवगमो निश्चयो बोधिसत्त्वस्य सोऽध्याशय इत्युच्यते। ते पुनरध्याशया बोधिसत्त्वस्य समासतः पञ्चदश वेदितव्याः। कतमे पञ्चदश। अग्र्याशयो वृत्ताशयः पारमिताशयः तत्त्वार्थाशयः प्रभावाशयः हिताशयः सुखाशयो विनिर्मुक्ताशयः दृढाशयः अविसंवादनाशयः अशुद्धाशयः शुद्धाशयः सुशुद्धाशयः निगृहीताशयः सहजश्चाशयः। तत्र यो बुद्धधर्मसंघरत्नेषु बोधिसत्त्वस्याध्याशयः सोऽग्र्याशय इत्युच्यते। बोधिसत्त्वशीलसंवरसमादाने योऽध्याशयोऽयं वृत्ताशय इत्युच्यते। दानशीलक्षान्तिवीर्यध्यानप्रज्ञासमुदागमाय योऽध्याशयोऽयं पारमिताशय इत्युच्यते। धर्मपुग्दलनैरात्म्ये परमार्थे च धर्मतथतायां गम्भीरायां योऽध्याशयोऽयं तत्त्वार्थाशय इत्युच्यते। बुद्धबोधिसत्त्वानामचिन्त्येऽभिज्ञाप्रभावे सहजे वा प्रभावे योऽध्याशयोऽयं प्रभावाशय इत्युच्यते। सत्त्वेषु कुशलोपसंहर्तुकामता हिताशय इत्युच्यते। सत्त्वेष्वेवानुग्रहोपसंहर्तुकामता सुखाशय इत्युच्यते। सत्त्वेष्वेव निरामिषचित्तता इष्टे च विपाके निष्प्रतिबद्धचित्तता विनिर्मुक्ताशय इत्युच्यते। अनुत्तरायां सम्यक्संबोधौ या चितैकान्तिकतायं दृढाशय इत्युच्यते। सत्त्वार्थोपाये बोध्युपाये अविपरीतज्ञानसहगतोऽधिमोक्षः अविसंवादनाशय इत्युच्यते। सर्वस्यामधिमुक्तिवर्याभूमौ योऽध्याशयो बोधिसत्त्वानां सोऽशुद्धाशय इत्युच्यते। शुद्धाशयभूमिमुपादाय यावन्नियतचर्याभूमेरध्याशयो बोधिसत्त्वानां शुद्धाशय इत्युच्यते। निष्ठागमनभूमावध्याशयो बोधिसत्त्वानां सुशुद्धाशय इत्युच्यते। तत्र यो हि[अ] शुद्धाशयः स एव निगृही [ताशय] इत्युच्यते प्रतिसंख्यानकरणीयतया। यः पुनः शुद्धः सुशुद्धश्चाध्याशयः स सहजोऽध्याशय इत्युच्यते प्रकृत्या तन्मयतया आश्रयसुसंनिविष्टतया च।
इत्येभिर्बोधिसत्त्वाः पञ्चदशभिः कल्याणैरध्याशयैः सर्वभूमिगतैः समासतो दशकृत्यानि कुर्वन्ति। कतमानि दश। अग्र्याशयेन रत्नपूजां सर्वाकारां प्रयोजयन्ति सर्वबोधिसम्भाराणामग्र्यभूताम्। वृत्ताशयेन बोधिसत्त्वशीलसंवरसमादाने जीवितहेतोरपि [न] संचिन्त्यापत्तिमापद्यन्ते। आपन्नाश्च त्वरितत्वरितं प्रतिदेशयन्ति। पारमिताशयेन कुशलानां धर्माणां भावनासातत्यक्रिययाऽप्रमादविहारिणो भवन्ति परमाप्रमादविहारिणश्च। तत्त्वार्थाध्याशयेनासंक्लिष्टचित्ताश्च संसारे सत्त्वहेतोः संसरन्ति। अविनिर्मुक्त-निर्वाणाध्याशयाश्च भवन्ति। प्रभावाध्याशयेन घनरसं च शासने प्रसादं प्रवेदयन्ति। भावनायां च सारसंज्ञिनः स्पृहाजाता बहुलं विहरन्ति। न तु श्रुतमात्रचिन्तामात्रसंतुष्टाः। हिताशयेन सुखाशयेन विनिर्मुक्ताशयेन च सर्वाकरासु सत्त्वार्थक्रियासु प्रयुज्यन्ते। प्रयुक्ताश्च न परिखिद्यन्ते। दृढाशयेन उत्तप्तवीर्या विपुलवीर्याः समारम्भा विहरन्ति। न शिथिलप्रयोगाः। न छिद्रप्रयोगाः। अविसंवादनाध्याशयेन क्षिप्राभिज्ञा भवन्ति तेषु तेषु कुशलधर्माभिनिर्हारेषु। न चाल्पमात्रकेणावरमात्रकेण हीनेन विशेषाधिगमेन तुष्टिमापद्यन्ते। निगृहीतेनाध्याशयेन सहजाध्याशयमाकर्षन्ति। सहजेन पुनरध्याशयेन क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते अर्थाय हिताय सुखाय देवमनुष्याणाम्। तत्र ये केचिद्भगवता बोधिसत्त्वानामध्याशया आख्याताः प्रज्ञप्ताः प्रकाशितास्तेषु तेष्वधिकरणेषु तेषां सर्वेषामेभिरेव पञ्चदशभिरध्याशयैः संग्रहो वेदितव्यः। तस्मादतीतानागतप्रत्युत्पन्नेष्वध्वसु ये बोधिसत्त्वाः कल्याणैरध्याशयैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धवन्तोऽभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च सर्वे त एभिरेव पञ्चदशभिरध्याशयैः। नात उत्तरि नातो भूयः। एवमेते पञ्चदश बोधिसत्त्वाध्याशया महाफलानुशंसाः। तस्मात्तानाश्रित्य बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमधिगच्छेदिति।
इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने तृतीयमध्याशयपटलम्।