01-14 प्रज्ञापटलम्

प्रज्ञापटलम् उद्दानं पूर्ववद्वेदितव्यम्।
तत्र कतमो बोधिसत्त्वस्य प्रज्ञास्वभावः। सर्वज्ञेयप्रवेशाय च सर्वज्ञेयानुप्रविष्टश्च यो धर्माणां प्रविचयः पञ्चविद्यास्थानान्यालम्ब्य प्रवर्तते अध्यात्मविद्यां हेतुविद्यां शब्दविद्याञ्चिकित्साविद्यां शिल्पकर्मस्थानविद्याञ्च। अयं बोधिसत्त्वानां प्रज्ञास्वभावो वेदितव्यः।
तत्र कतमा बोधिसत्त्वानां सर्वा प्रज्ञा। सा द्विविधा द्रष्टव्या। लौकिकी लोकोत्तरा च। सा पुनः समासतस्त्रिविधा वेदितव्या। ज्ञेयतत्त्वानुबोधप्रतिवेधाय। पञ्चसु च यथानिर्दिष्टेषु विद्यास्थानेषु त्रिषु च राशिषु कौशल्यक्रियायै सत्त्वार्थक्रियायै च। या बोधिसत्त्वानामनभिलाप्यं धर्मनैरात्म्यमारभ्य सत्यावबोधाय वा सत्यावबोधकाले वा सत्याभिसंबोधाद्वा उर्द्धं प्रज्ञा परमप्रशमप्रत्युपस्थाना निर्विकल्पा सर्वंप्रपञ्चागता सर्वंधर्मेषु समतानुगता महासामान्यलक्षणप्रविष्टा ज्ञेयपर्यन्तगता समारोपापवादान्तद्वय विवर्जितत्वान्मध्यमप्रतिपदनुसारिणी। इयं बोधिसत्त्वानां तत्त्वानुबोधप्रतिवेधाय प्रज्ञा वेदितव्या। पञ्चसु विद्यास्थानेषु कौशल्यं विस्तरेण पूर्ववद्वेदितव्यं तद्यथा बलगोत्रपटले। त्रयः पुना राशयोर्थोपसंहितानां धर्माणां राशिः। अनर्थोपसंहितानां धर्माणां राशिः। नैवार्थोपसंहितानां नानाऽर्थोपसंहितानां धर्माणां राशिः। इत्येतेष्वष्टासु स्थानेषु प्रज्ञायाः कौशल्यपरिग्रहो महान्तं निरुत्तरं ज्ञानसम्भारं परिपूरयत्यनुत्तरायै सम्यक्संबोधये। सत्त्वार्थक्रिया पुनः पूर्ववदेकादशप्रकारैव वेदितव्या। तेष्वेव स्थानेषु या प्रज्ञा सा सत्त्वार्थक्रियायै प्रज्ञा वेदितव्या।
तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रज्ञा। सा त्रिविधा द्रष्टव्या गम्भीरस्य धर्मनैरात्म्यज्ञानाय दुष्करा। सत्त्वानां विनयोपायस्य प्रज्ञानाय दुष्करा। सर्वज्ञेयानावरणज्ञानाय च परमदुष्करा।
तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी प्रज्ञा। सा चतुर्विद्या द्रष्टव्या। श्रावकपिटकं बोधिसत्त्वपिटकं चारभ्य श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा। प्रतिसंख्याय बोधिसत्त्वकरणीयानुवृत्तावकरणीयनिवृत्तौ च प्रतिसंख्यानबलसंगृहीता प्रज्ञा। भावनाबलसंगृहीता च समाहितभूमिका अप्रमाणा प्रज्ञा।
तत्र कतमा बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषप्रज्ञा। सा पञ्चविधा द्रष्टव्या। सद्धर्मश्रवणसमुदागता प्रत्यात्मं योनिशो मनस्कारसहगता स्वपरार्थनिश्चिता प्रज्ञा क्लेशविजहना च प्रज्ञा। अपरः पर्यायः। सूक्ष्मा यथावद् भाविकतया ज्ञेयप्रवेशात्। निपुणा यावद्भाविकतया ज्ञेयप्रवेशात्। सहजा पूर्वकज्ञानसंभारसमुदागमात्। आगमोपेता बुद्धैर्महाभूमिप्रविष्टैश्च बोधिसत्त्वैः संप्रकाशितधर्मार्थस्योद्ग्रहणधारणात्। अधिगमोपेता शुद्धाशयभूमिमुपादाय यावन्निष्ठागमनभूमिपरिग्रहात्।
तत्र कतमा बोधिसत्त्वस्य सर्वाकारा प्रज्ञा। सा षड्‍विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या। सत्येषु दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानम्। निष्ठायां क्षयज्ञानमनुत्पादज्ञानम्। इयं तावत् षड्‍विधा प्रज्ञा। सप्तविधा पुनः धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानमभिज्ञाज्ञानं लक्षणज्ञानं दशबलपूर्वङ्गमं ज्ञानं चतसृषु च युक्तिषु युक्तिज्ञानम्।
तत्र कतमा बोधिसत्त्वस्य विधातार्थिकप्रज्ञा। साऽष्टविधा द्रष्टव्या। धर्माणां पर्यायज्ञानमारभ्य बोधिसत्त्वस्य धर्मप्रतिसंवित्। धर्माणां लक्षणज्ञानमारभ्यार्थप्रतिसंवित्। धर्माणां निर्वचनज्ञानमारभ्य निरुक्तिप्रतिसंवित्। धर्माणां प्रकारपदप्रभेदमारभ्य प्रतिभानप्रतिसंवित्। सर्वपरप्रवादिनिग्रहाय बोधिसत्त्वस्य प्रज्ञा। सर्वस्ववादव्यवस्थानप्रतिष्ठापनाय च प्रज्ञा। गृहतन्त्रसम्यक् प्रणयनाय कुलोदयाय प्रज्ञा। राजनीतिलौकिकव्यवहारनीतिषु च बोधिसत्त्वस्य या निश्चिता प्रज्ञा।
तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखा प्रज्ञा। सा नवविधा द्रष्टव्या। अध्यात्मविद्यायां सुव्यवदाता सुप्रतिष्ठिता प्रज्ञा। हेतुविद्यायां शब्दविद्यायां चिकित्साविद्यायां लौकिकशिल्पकर्मस्थानविद्यायां सुव्यवदाता नो तु प्रतिष्ठिता प्रज्ञा। तामेव च सुव्यवदातां पञ्चप्रकारां विद्यां निश्रित्य या बोधिसत्त्वस्य परेषां विनेयानां मूढानां प्रमत्तानां संलीनानां सम्यक् प्रतिपन्नानां यथाक्रमं संदर्शनी समादापनी समुत्तेजनी संप्रहर्षणी च प्रज्ञा।
तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रज्ञा। सा समासतो दशविधा वेदितव्या। तत्त्वार्थे द्विविधा यावद्भाविकतया यथावद्भाविकतया च तत्त्वार्थस्य ग्रहणात्। प्रवृत्त्यर्थे द्विविधा सम्यगहेतुतः फलतश्च ग्रहणात्। उपादानार्थे द्विविधा विपर्यासाविपर्यास-यथाभूतपरिज्ञानात्। उपायार्थे द्विविधा सर्वकरणीयाकरणीय-यथाभूतपरिज्ञानात्। इतीयं बोधिसत्त्वानां पश्चाकारा दशप्रभेदा प्रज्ञा विशुद्धा परमया विशुद्ध्या वेदितव्या।
इतीयं बोधिसत्त्वानां सु-विनिश्चिता चाप्रमेया च प्रज्ञा महाबोधिफला यामाश्रित्य बोधिसत्त्वाः प्रज्ञापारमितां परिपूर्यानुत्तरां सम्यक्सम्बोधिमभिसंबुध्यन्ते।
स खल्वेष षण्णां पारमितानां तेषु-तेषु सूत्रान्तरेषु भगवता व्यग्राणां निर्दिष्टानामयं समास-संग्रह-निर्देशो वेदितव्यः। यस्मिंतथागत-भाषिते सूत्रे दानपारमिता वा यावत् प्रज्ञापारमिता वा उद्देशमागच्छति निर्देशं वा सा स्वभाव-दाने वा यावत् विशुद्धे वा दानेऽवतारयितव्या। संग्रहश्च तस्या यथा योगं वेदितव्यः। एवमन्येषां शीलादीनां प्रज्ञावसानानां यथानिर्दिष्टानामवतारः संग्रहश्च यथायोगं वेदितव्यः। यानि च तथागतानां बोधिसत्त्वचर्या-जन्माप्रमेयाणि जातकानि दुष्करचर्या-प्रतिसंयुक्तानि तानि सर्वाणि दानप्रतिसंयुक्तानि दानमारभ्य वेदितव्यानि। यथा दानमेवं शीलं क्षान्तिं वीर्यं ध्यानं सर्वाणिं प्रज्ञाप्रतिसंयुक्तानि प्रज्ञामारभ्य वेदितव्यानि। कानिचिद्दानमेवारभ्य कानिचिद्यावत् प्रज्ञामेवारभ्य कानिचिद्‍द्वयसंसृष्टानि कानिचित्रयसंसृष्टानि कानिचिच्चतुःसंसृष्टानि कानिचित्पञ्चसंसृष्टानि कानिचित्सर्वा एव षट्पारमिता आरभ्य वेदितव्यानि। आभिः षड्‍भिः पारमिताभिरनुत्तरायै सम्यक् संबोधये समुदागच्छन्तो बोधिसत्त्वा महाशुक्लधर्मार्णवा महाशुक्लधर्मसमुद्रा इत्युच्यन्ते। सर्वसत्त्वसर्वाकारसंपत्तिहेतुमहारत्नह्रदा इत्युच्यन्ते। अस्य पुनरेषामेवमप्रमाणस्य पुण्यज्ञानसंभारसमुदागमस्य नान्यत्फलमेवमनुरूपं यथानुत्तरैवं सम्यक्संबोधिरिति।
इति बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्दशमं प्रज्ञापटलम्।