ध्यानपटलम्
उद्दानं पूर्वंवद्वेदितव्यम्।
तत्र कतमो बोधिसत्त्वानां ध्यानस्वभावः। बोधिसत्त्वपिटकश्रवणचिन्तापूर्वकं यल्लौकिकं लोकोत्तरं बोधिसत्त्वानां कुशलं चित्तैकाग्र्यञ्चित्तस्थितिः शमथपक्ष्या वा विपश्यनापक्ष्या वा युगनद्धवाहिमार्गं तदुभयापक्ष्या वा। अयं बोधिसत्त्वानां ध्यानस्वभावो वेदितव्यः।
तत्र कतमद्बोधिसत्त्वानां सर्वंध्यानम्। तद् द्विविधं द्रष्टव्यम्। लौकिकं लोकोत्तरञ्च। तत्पुनर्यथायोगं त्रिविधं वेदितव्यम्। दृष्टधर्मसुखविहाराय ध्यानं बोधिसत्त्व-समाधिगुणनिर्हाराय ध्यान सत्त्वार्थक्रियायै ध्यानम्।
तत्र यद्बोधिसत्त्वानां सर्वविकल्पापगतं कायिकचैत्तसिकप्रस्रब्धिजनकं परमप्रशान्तं मन्यनापगतमनास्वादितं सर्वनिमित्तापगतं ध्यानम्। इदमेषां दृष्टधर्मसुखविहाराय वेदितव्यम्।
तत्र यद्बोधिसत्त्वानां ध्यानं विचित्राचिन्त्याप्रमाणदशबलगोत्र-संगृहीतसमाधिनिर्हाराय संवर्तते। येषां समाधीनां सर्वश्रावकप्रत्येकबुद्धा अपि नामापि न प्रजानन्ति कुतः पुनः समापत्स्यन्ते। यच्च बोधिसत्त्वविमोक्षाभिभ्वायतनकृत्स्नायतनानां प्रतिसंविद्-अरणा-प्रणिधिज्ञानादीनां [गुणानां] श्रावकसाधारणानामभिनिर्हाराय संवर्तते। इदं बोधिसत्त्वस्य ध्यानं समाधिगुणाभिनिर्हाराय वेदितव्यम्। सत्त्वार्थकर्मणि ध्यानं बोधिसत्त्वस्यैकादशाकारं पूर्ववद्वेदितव्यम्। यद्ध्यानं निश्रित्य बोधिसत्त्वः सत्त्वानां कृत्येष्वर्थोपसंहितेषु सहायीभावं गच्छति। दुःखमनपनयति। दुःखितानां न्यायमुपदिशति। कृतज्ञः कृतवेदी उपकारिषु प्रत्युपकारं करोति। भयेभ्यो रक्षति। व्यसनस्थानां शोकं प्रतिविनोदयति। उपकरणविकलानामुपकरणोपसंहारं करोति। सम्यक् परिषदं परिकर्षति। चित्तमनुवर्तते। भूतैर्गुणैर्हर्षयति। सम्यक् च निगृह्णाति। ऋद्ध्या चोत्रासयत्यावर्जयति चेति। तदैतत्सर्वमेकध्यमभिसंक्षिप्य बोधिसत्त्वानां सर्वध्यानमित्युच्यते। नात उत्तरि नातो भूयः।
तत्र कतमद्बोधिसत्त्वानां दुष्करध्यानम्। तत् त्रिविधं द्रष्टव्यम्। यद्बधिसत्त्वा उदारैर्विचित्रैः सुपरिचितैर्ध्यानविहारैरभिनिर्हृतैर्विहृत्य स्वेच्छया तत्परमं ध्यानसुखं व्यावर्त्य प्रतिसंख्याय सत्त्वानुकम्पा प्रभूतां सत्त्वार्थक्रियां सत्त्वार्थपरिपाकं समनुपश्यन्तः कामधातावुपपद्यन्ते। इदं बोधिसत्त्वानां प्रथम दुष्करध्यानं वेदितव्यम्। पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्याप्रमेयासंख्येयाचिन्त्यान्सर्वश्रावकप्रत्येकबुद्धविषयसमतिक्रान्तान् बोधिसत्त्वसमाधीनभिनिर्हरति। इदं बोधिसत्त्वस्य द्वितीयं दुष्करध्यानं वेदितव्यम्। पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते। इतीदं बोधिसत्त्वस्य तृतीय दुष्करध्यानं वेदितव्यम्।
तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं ध्यानम्। तच्चतुर्विधं द्रष्टव्यम्। सवितर्कं-सविचारं [विवेकजं समाधिज] प्रीतिसहगतं सात-सुखसहगतमुपेक्षासहगत च।
तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषध्यानम्। तत्पञ्चविधं द्रष्टव्यम्। अनाखादितं मैत्रीसहगतं करुणासहगतं मुदितासहगतमुपेक्षासहगतञ्च।
तत्र कतमद्बोधिसत्त्वस्य सर्वाकार-ध्यानम्। तत्षड्विधं [सप्तविधं]चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम्। कुशलं ध्यानमव्याकृतं च निर्मितनिर्माणाय ध्यानं शमथपक्ष्यं विपश्यनापक्ष्यं स्वपरार्थसम्यगुपनिध्यानाय ध्यानं अभिज्ञाप्रभावगुणर्निर्हाराय ध्यानं नामालम्बनंमर्थालम्बनं शमथनिमित्तालम्बनं प्रग्रहनिमित्तालम्बनमुपेक्षानिमित्तालम्बनं [दृष्टधर्मसुख] विहाराय परार्थक्रियायै च ध्यानम्। इतीदं त्रयोदशाकारं बोधिसत्त्वानां ध्यानं सर्वाकारमित्युच्यते।
तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकध्यानम्। तदष्टविधं द्रष्टव्यम्। विषाशनि विषमज्वरभूतग्रहाद्युपद्रवसंशमकानां सिद्धये मन्त्राणामधिष्ठायकं ध्यानम्। धातुभैषम्यजातानाञ्च व्याधीनां विविधानां व्युपशमाय ध्यानम्। दुर्भिक्षेषु महारौरवेषु प्रत्युपस्थितेषु वृष्टिनिर्हारकं ध्यानम्। विविधेभ्यो भयेभ्यो मनुष्यामनुष्यकृतेभ्यो जलस्थलगतेभ्यः सम्यक् परित्राणा ध्ययानम्। तथा भोजनपानहीनानामटवीकान्तारगतानां भोजनपानोपसंहाराय ध्यानम्। भोगविहीनानां विनेयानां भोगोपसहाराय ध्यानम्। दशसु दिक्षु प्रमत्तानां सत्त्वानां सम्यक्संबोधनाय ध्यानम्। उत्पन्नोत्पन्नानाञ्च सत्त्वकृत्यानां सम्यक् क्रियायै ध्यानम्।
तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं ध्यानम्। तन्नवविधं द्रष्टव्यम्। ऋद्धिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम्। आदेशनाप्रातिहार्येणानुशास्तिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम्। पापशारिणामपायभूमिविदर्शनं ध्यानम्। नष्टप्रतिभानानां सत्त्वानां प्रतिभानोपसंहाराय ध्यानम्। मुषितस्मृतीनां सत्त्वानां स्मृत्युपसंहाराय ध्यानम्। अविपरीतशास्रकाव्यमातृकानिबन्धव्यवस्थानाय सद्धर्मचिरस्थितिकतायै ध्यानम्। लौकिकानां शिल्पकर्मस्थानानामर्थोपसंहितानां सत्त्वानुग्राहकाणां लिपिगणनन्यसनसंख्यामुद्रादीनां मञ्चपीठच्छत्रोपानहादीनाञ्च विचित्राणां विविधानां भाण्डोपस्कराणामनुप्रवर्तकं ध्यानम्। अपायभूम्युपपन्नानाञ्च सत्त्वानां तत् कालापायिकदुःखप्रतिप्रस्रम्भणतायै रश्मिप्रमोचकं ध्यानम्।
तत्र कतमद्बोधिसत्त्वस्य विशुद्धं ध्यानम्। तद्दशविधं द्रष्टव्यम्। लौकिक्या शुद्ध्या [वि] शुद्धमनास्वादितं ध्यानम्। अक्लिष्टं लोकोत्तरया शुद्ध्या [वि] शुद्धं ध्यानम्। प्रयोगशुद्ध्या [वि] शुद्धं मौलविशुद्ध्या (वि) शुद्धं मौलविशेषोत्तरविशुद्ध्या विशुद्धं ध्यानम्। प्रवेशस्थितिव्युत्थानवशिताविशुद्ध्या विशुद्धं ध्यानम्। ध्यानव्यावर्तने पुनः समादपनवशिता-विशुद्ध्या विशुद्धं ध्यानम् अभिज्ञाविकुर्वणवशिता-विशुद्ध्या विशुद्धं ध्यानम्। सर्वदृष्टिगतापगमविशुद्ध्या विशुद्धं ध्यानम्। क्लेशज्ञेयावरणप्रहाणविशुद्ध्या च विशुद्धं ध्यानम्। इत्येतद्ध्यानमप्रमेय बोधिसत्त्वानां महाबोधिफलं यदाश्रित्य बोधिसत्त्वा ध्यानपारमितां परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसम्बुद्धवन्तोऽभिसं [भोत्स्यन्तेऽभिसं] बुध्यन्ते च।
इति बोधिसत्त्वभूमावाधारे योगस्थाने त्रयोदशमं ध्यानपटलम्।