श्वानस्तवकाव्यम्

श्वानस्तवकाव्यम्श्रीमान् पुरा गौतमबोधिसत्त्वोनाथोऽभवत् कुक्खुरजन्मजानाम्। स्वज्ञातिवर्गं मरणान् मुमोचसोऽदीदपच् चाभयदानम् अगरम्॥१॥

वंशे जातः परमगुणिनो बोधिसत्त्वस्य तस्यच्छायावन् मे स्थितिगतिशये साहचर्यं दधानः। श्वानो नाथे सदयहृदयः श्लाघनीयः कृतज्ञैर्जीव्याद् दीर्घं मुदितमनसा जन्तुवर्गं प्ररक्षन्॥२॥

आह्वाय सौम्यवचसाशनपानदानाद्यं पोषति स्म भषकं सुतवत्सलेन। दुःखे सुखे च स समप्रकृतिः कृतज्ञःस्वं स्वामिनं न विजहाति कदा चिद् एव॥३॥

पश्यंश् च दुर्बलजरातुरम् एष नाथंशोकाभिभूत इव जृम्भत एव भूयः। भुः-भुः-स्वरो विपदि तेन विधीयमानस्तस्य स्वभर्तरि कृपां प्रकटीकरोति॥४॥

श्रान्तस्य तस्य विकलेन्द्रियवृद्धभर्तुर्जिज्ञासुर् एव कुशलं स निरामयं च। पुच्छं विकम्पयति जिघ्रति पादयुग्मंकू-कू-स्वरं चरिकरीति च मन्दमन्दम्॥५॥

पर्णोटजाभिमुख एव निपत्य रात्रौभर्तारम् एष परिरक्षति सावधानम्। उत्तिष्ठते भ्रमति कौति च निर्निमित्तंनित्यं निवारयति दुष्टजनप्रवेशम्॥६॥

संसर्पते पतिपुरो गमनावधानोदूरं नुनुत्सति विहिंसकसत्त्वसंघम्। पर्येषते परिसरं व्यसनं निरोद्धुंसिंहस्य पोत इव गर्जति दीर्घदीर्घम्॥७॥

सुप्तोऽपि काष्ठमयजर्जरिते कुटीरेनिद्रासुखं न लभते स्वपतिं प्ररक्षन्। यावत् प्रभातसमयाच् छयनं परीतोबम्भ्रम्यते च विमना निशि जागरूकः॥८॥

व्याजप्रसुप्त उषसि प्रथमं प्रबुद्धस्तन्द्रां विहर्तुम् असकृत् स विजृम्भ्य कायम्। आकृष्य नाथकटिसक्तदुकूलकोटिंविज्ञापयेत् कु-कु-रुतेन निशावसानम्॥९॥

स्वामी यदा नतवपुः करसक्तयष्टिर्वाताभिघातकदलीव विकम्पमानः। गाढं स्खलन् पथि मुधा गमनं विधत्तेश्वा स्यात् तदानुगममित्रवरोऽपि बन्धुः॥१०॥

आकस्मिकं निपतितं तटिनीप्रवाहेनाथं प्रगल्भशुनकः सहसावगाह्य। आकृष्य तं कटिनिबद्धपटेन तीरंनीत्वा कदा चिद् अकरोत् सुखितं श्रमेण॥११॥

भोगीव कुण्डलितकायनिपन्न एषज्ञात्वा पतेर् उपगतिं रभसोत्थितः सन्। ऊर्ध्वं नमेत् पुनर् अधो निपतेच् च नाथंश्लिष्ट्वा विचुम्बति विरौति च भक्तिपूर्वम्॥१२॥

नाथः सकृत् पथि पदस्खलनाद् विसंज्ञम्आवर्तमाननयनोर्ध्वमुखं निपत्य। अम्माम्म-वाचम् अनिशं करुणं ब्रुवाणऊर्ध्वं पुनः पुनर् अधः परिवर्तते स्म॥

१३॥

एकत्र यष्टिर् अपरत्र च तस्य भिक्षा-पात्रं परत्र कटिबन्धनमुक्तकन्था। अन्यत्र धूलिहतशीर्षपटच्चरं चदूरं ससर्ज परितः पथि तत्र तत्र॥

१४॥

तस्योपकर्तुम् अधुना स्वजनो हितैषीनैवागतः परहितो मनुजोऽपि कश् चित्। श्वानो मुहर् मुहर् इतस् तत एव देहेचोचुम्ब्यते स्म विचरन्न् अभितः स्वनाथम्॥१५॥

तत् कम्पमानपतिदेहम् असौ परीतोवाव्रज्यते स्म झटिति श्वसनार्तवक्षाः। कोकूयते स्म शिरसा बहुधा शरीरम्उत्क्षिप्तुम् एव कुरुते स्म गुरुप्रयत्नम्॥१६॥

अन्योपकारम् अथ सोऽभिमुके चिचीषुर्दाधाव्यते स्म पुरतो जनसंनिकर्षम्। उन्नम्य कन्धरशिरं ह्य् अविकम्प्य पुच्छंरोरूयते स्म न हि कश् चन संललक्ष॥१७॥

तस्मान् निर्वर्त्य सहसैव मुखेन यष्टिम्आहृत्य पाणिनिकटेऽर्पितवान् स भर्तुः। भर्तापि तां समभिगृह्य नितान्तकृच्छ्राद्उत्थाय कुक्कुरशिरोऽसकृद् आममर्श॥१८॥

दुर्गन्धितां कुणकुलस्य निवासभूतांप्रक्षालितुं न हि शशाक चिरेण कन्थाम्। प्रायो मयापि भवता च जुगुप्सितां तांभो मा चुचुम्बिषसि सम्प्रति सारमेय॥१९॥

कौपीनखण्डम् अपि शिर्षपटं प्रगाढम्आच्छाद्य पात्रम् अपि हस्ततले निवेश्य। संवेपमानचरणं विनतोर्ध्वकायम्आटाट्यताध्वनि पुनः पुनर् एष वृद्धः॥२०॥

भिक्षां बुभुक्षितजनः स गवेषमाणस्तस्थौ महाधनवतो भवनाङ्गणान्ते। निर्गच्छ किं चिद् अपि नोऽत्र तदा निमील्यसावज्ञम् एष धनिको जगदे सरोषम्॥२१॥

तस्मान् निर्वर्त्य धनिनः परुषं निशम्यशोकार्दितः शुनकम् इत्य् अवदद् दरिद्रः। मा सारमेय भवताद् विमनाः कथं चिद्आढ्योऽपि दित्सति न किं चन मत्सरी- हा॥२२॥

नैवास्ति संचितधनं भवनं च वस्तुंदासोपकारकजनो जननी पिता वा। कौपीनम् एव विभवो मम दुर्गतस्यबन्धुः सुतः परिजनश् च सखा त्वम् एव॥२३॥

सर्वस्वम् अस्य हि लुलोप परो निहीनः कार्पण्यम् एव मम सन्तकम् अद्य जातम्। मित्राण्य् अमित्रजनवद् विमुखान्य् अभूवन्भिक्षाकृते प्रतिदिनं हि ततश् चरामि॥२४॥

भिक्षाटनाधिगतनीरसम् अन्नजातंपीयुषवद् भवति मे क्षुधयार्दितस्य। सच्छिद्रपात्रम् अपि जीर्णकपालखण्डंसर्वस्वम् एव मम कुक्कुर एव बन्धुः॥२५॥

अज्ञः परैर् उपकृतोऽपि हिरण्यरत्नैश्चेतः प्रदूषयति खादति पुष्टमांसम्। अल्पान्नपानविधिना पुषितो भवान् हिकौलेयको भवति सत्पुरुषः कृतज्ञः॥२६॥

दुष्टोऽनिशं गुणगणैर् अपि सेव्यमानोन स्यात् कदा चिद् अपि सत्पुरुषः कथं चित्। संवर्धितोऽपि पयसा प्रणयेन नित्यंसर्पो न तृप्यति च नैव भवेत् कृतज्ञः॥२७॥

जिह्वाद्वयं भवति जिह्मगतिं विधत्तेछिद्रं निरूपयति हन्त्य् उपकारिणं च। मांसं बुभुक्षति पिपासति शोणितं चहा- दुर्जनस्य भुजगस्य च को विशेषः॥२८॥

नीचा भवन्त्य् अभिमुखे प्रियभक्तमित्राण्य्एते पराङ्मुखमहारिपवोऽकृतज्ञाः। दुष्टावमान्यशठदुर्जनमर्त्यजात्याभोः श्वन् भवेद् वरतमा भवतो हि जातिः॥२९॥

चन्द्रो निहन्ति तिमिरं जगति प्रभाभिःसर्वत्र कुन्दविपिनं विमलीकरोति। त्वं मे जहासि हृदि दुःखतमः प्रकृत्याप्रीतिप्रमोदकुमुदं विकचं करोषि॥३०॥

मित्रस्वरूपपरपुष्टभुजः सखायोये विस्मरन्त्य् उपकृतिं हि यथा भुजङ्गाः। जीवं स्वकीयम् अपि ते व्यसनं नयन्तोवन्दारवत् तरुषु संपरिवर्जनीयाः॥३१॥

तृष्णाभिभूतमनसा विविधोपचारैर्वञ्चन्ति सज्जनम् असच्चरिता वराकाः। व्याजस्तुतिं विदधते मधुरैर् वचोभिर्गर्हन्ति ते विमुखिनो विविधप्रलापैः॥३२॥

अभिष्टुतं सत्पुरुषैर् मणीषिभिःकृतोपकारं न करोति यो जनः। मनुष्यधर्मापगतः स दुर्जनःप्रयात्य् अपायं निधनाद् अनन्तरम्॥३३॥

परानुकम्पोदकधौतचेतसःप्रपित्सवः स्वर्गपदं सुखास्पदम्। तितीर्षवो मृत्युजराभवार्णवंकृतोपकारं नितरां प्रकुर्वते॥३४॥

समस्तविद्यागमपारदर्शिभिःप्रशंसितां नोपकृतिं करोति यः। पिशाचरूपो कृपणो नराधमःस वर्जणीयः शमलस्य पिण्डवत्॥३५॥

मित्रोपदेशम् अधिगम्य गतोऽभिवृद्धिंयो विस्मरेत् कृतगुणं गुणिनां प्रशस्तम्। आत्मम्भरिर् जरशृगालसमः स दीनोदग्धश्मशानशववत् परिवर्जनीयः॥३६॥

तदा स सिद्धार्थकुमारगौतमोनिषेदिवान् बोधितरोर् अधस्तले। निहत्य मारारिबलं समूलकंबुबोध संबोधिपदं महोत्तमम्॥३७॥

ततः परं सप्तदिनं मुनीश्वरोनिमेषमुक्तेन विशुद्धचक्षुषा। विलोकयन् बोधितरुं प्रपूजयन्न्अदर्शयल् लोकहितं कृतज्ञताम्॥३८॥

मुनिप्रदिष्टोभयवृद्धिसाधनाकृतज्ञता यस्य भवेन् न चेतसि। मनुष्यरूपेण चरन् भुजङ्गमःस वर्जनीयस् त्रिदिवं प्रपित्सुना॥३९॥

रोगार्दिते निजपतौ शयनीयपार्श्वेश्वानो निहत्य करुणं भुवि पुच्छमूलम्। ऊर्ध्वं प्रसारितवपुर् ह्य् अनिमेषचक्षुःकू-कू-स्वरं वितनुतेऽभिमुखे निषद्य॥४०॥

भो भोः कृतञसुत कुक्कुर मा शुशोचभुक्तामिषं न जठरे परिणामम् एति। कासज्वरोऽपि वमथुर् वरिवर्ति मेऽद्यनैवौषधं परिजनोऽपि चिकित्सको वा॥४१॥

सकलावयवः प्रकम्पतेवपुषः शक्तिर् अभावतां गता। वरिवर्ति रुजास्थिसन्धिषुमरणं मे निकटं समागतम्॥४२॥

निशितेषुविवेधिता यथाहृदयान्तर् जनितोग्रवेदनाः। दिवि वा भिषजां गणैर् अपिन हि शक्याः शमितुं कदा चन॥४३॥

खननं विषसूचिना यथापरिपीडा शिरसि प्रवर्तते। घननिश्वसितं विशेषतोवरिवर्त्य् अन्तकमन्युवायुवत्॥४४॥

असमाप्तवचः सगद्गदंबहिर् आगच्छति मन्दम् आस्यतः। क्षतदन्तमुखोदरेऽधुनारसना निष्क्रियवत् प्रवर्तते॥४५॥

अभुना जरया विमर्दितंश्रवणं मुद्रितम् एव मृत्युना। क्षयपक्षगतेन्दुलीधितिस्अमताम् एति विलोचनद्वयम्॥४६॥

सुत मा शुचयार्दितो भवकृतवेदिन् भुवि मर्त्यजन्मिषु। अपहाय भवन्तम् आश्व् अहंन चिरेणान्तकमन्दिरं भजे॥४७॥

भवतो गुणसंचयः सदाभवतान् मर्त्यजनस्य दर्पणः। अकृतज्ञनरांश् च शिक्षितुंभवताच् छिक्षकपुंगवो भवान्॥४८॥

त्रिदशे भुवि वा कदा चनन तु किं चिद् ध्रुवम् अस्ति शाश्वतम्। मुनिना जदगेकबन्धुनाविदिता निर्वृतिर् एव सुस्थिरा॥४९॥

‘सत्त्वेष्व् अहं परमनीचपशुर् भवामि’मा मित्र कुक्कुर तथा विमना भव त्वम्। श्लाघ्यो भवान् भवति साधु कृतोपकारंहस्तस्थरत्नम् इव मां च सदा ररक्ष॥५०॥

धीमन् कृतज्ञशुनक प्रियमित्रवर्यमा भूत् कदा चिद् अपि ते मनुजेषु जन्म। नोल्लङ्घ्य सद्गुणगणं तव विद्यमानंजिव्यात् सुखेन सुचिरं जगतो हिताय॥

५१॥

तत्त्वावबुद्धशुनकः सपदि स्वभर्तुर्दाधाव्यते स्म सविधे भिषजो निकेतम्। लेलेधि तस्य चरणं मुखम् ईक्षमाणःप्राक् पादयोर् न्यपतद् आशु विषादपूर्वम्॥५२॥

जज्ञे चिकित्सकवरो न हि कुक्कुरस्यसूक्ष्मेङ्गितं स च न तं गणयां बभूव। शोकाभिभूतशुनकः स पुनः स्वनाथम्आगम्य देहम् असकृत् परितश् चुचुम्ब॥५३॥

दुःसाध्यरोगविकलेन्द्रियनष्टभाग्यःप्राणान् विहाय परलोकम् उपागतः सः। भर्तुर् वियोगम् असहिष्णुर् अहो- कृतज्ञःश्वानो विदीर्य हृदयं च तम् अन्वगच्छत्॥५४॥

दुःखार्णवे मरणजातिजरातरङ्गेजातो मयोपचितकर्मबलाद् भवेऽस्मिन्। मा भूद् असाधुष कदा चन जन्म मर्त्येनिर्वाणम् एव भवताद् भवतो विमुक्तम्॥५५॥

दवुल्देणग्रामजातज्ञानेश्वरयतीश्वरः।
श्वानस्तव इति ख्यातप्रबन्धं कृतवान् इमम्॥