क्रियासंग्रहकारिका

क्रियासंग्रहकारिका परीक्षा गुरुशिष्याणां गुरोरध्येषणा ततः।
मन्त्रसेवां गुरुः कुर्यात् ततो भूमेः परीक्षणम्॥१॥

देवतायोगयुक्तः सन् महीपूजां विधाय च।
देवतोत्थापनं कृत्वा शोधयेन्मेदिनीं ततः॥२॥

यवानां रोपणं कृत्वा जाङ्गुली चापि पूजयेत्।
सूत्रं संपात्य यत्नेन वास्तुनागं परीक्षयेत्॥३॥

इष्टकालक्षणं सम्यग् ज्ञात्वादिग्रहणं ततः।
सम्यगायव्ययौ ज्ञात्वा प्रासादस्य च लक्षणम्॥४॥

देवदिक्पालवसुधाः सम्पूज्य च यथाविधि।
ईतिकारोपणं कृत्वा होमं कुर्यात् प्रमोहनम्॥५॥

वनयात्रा ततो द्वारं सम्यगुत्थापयेत्सुधीः।
संस्थाप्य च शिरोदारु जुहुयादमृतानलम्॥६॥

वज्राचार्यप्रवेशोऽस्मिन् समाधित्रयभावना।
परिक्रमार्थसूत्राणां पातनं रजसामपि॥७॥

अग्निक्रियाविधानं च पिण्डिकास्थापनं ततः।
सव्यक्षणेन निष्पाद्य प्रतिमां स्थापयेत्ततः॥८॥

चित्रकर्म वलिः पिण्डी गण्डिकालक्षणं ततः।
एतेषां च प्रतिष्ठानं प्रव्रज्याग्रहणं तथा॥९॥

लक्षणं धर्मधातूनां ध्वजानामवरोपणम्।
जीर्णोद्धारोपसंहारौ पूजयेद् गणमण्डलम्॥१०॥

क्रियासंग्रहकारिका समाप्ता॥

कृतिरियं नागार्जुनपादानाम्॥