सम्बन्धपरीक्षावृत्ति

सम्बन्धपरीक्षावृत्ति वस्तुभूतं सम्बन्धं निराकर्तुम् आह- पारतन्त्र्यम् इत्यादि।
पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति भावतः॥

१ [v.1] पारतन्त्र्यं परायत्तता सा सम्बन्धः सम्बन्धिनः सि- द्धस्यासिद्धस्य वा भवेत्। असिद्धस्याभावरूपत्वान् न वस्तुभूतः सम्बन्धः। सिद्धे ऽपि सम्बन्धिनि का परतन्त्रता। नैवेत्य् असम्बन्- धः।
सिद्धस्यापि किञ्चिद् असिद्धम् अस्तीति। तत्सिद्धौ पारतन्त्र्यम् अपि न सङ्गच्छते, सिद्धासिद्धभाविदोषविकल्पानतिक्रमात्। न चैकस्य निष्पन्नानिष्पन्ने रूपे स्तः। यत एवं न निष्पन्नस्येतरस्य वा पारतन्त्र्यम्। तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति भावतो वस्तु- तः। विकल्पनिर्मितस्याप्रतिषेधो ऽवस्तुत्वात्।
(1) रूपश्लेषो हि सम्बन्धो द्वित्वे स च कथं भवेत्।
तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति भावतः॥

२ [v.2] रूपश्लेषो हि सम्बन्धः, न पारतन्त्र्यम् इति चेत्, तन् न। द्वि- त्वे सम्बन्धिनोः स्व …………………………. स स्वरूपश्लेषः स्वभावैकात्म्यलक्षणः कथं भवेत्। नैव भवेत्। ऐक्ये ऽपि तयोः सम्बन्धिनोर् अभावत् कः सम्भधः, द्विष्ठत्वाद् अस्य।
स्याद् एतत् - नैकस्वाभाव्यं श्लेषः। किन् तर्हि। नैरन्तर्यम् इति। भवतु।
कः प्रतिषेधः। केवलं नैरन्तर्यम् अन्तराभाव इति वस्तुभूतः सम्- बन्धो न स्यात्। यदि च नैरन्तर्यं सम्बन्धः, सान्तरता किन् न सम्- बन्ध इष्यते, उभयत्रापि सम्बन्धिनोः स्वभावस्थितेर् अभेदात्।
प्राप्त्यादयो ऽपि नैरन्तर्यार्थसमावेशिन इत्य् अनुद्घोष्याः। यत एवं न रूपश्लेषलक्षणो ऽपि सम्बन्धः, तस्मात् प्रकृतिभिन्नानां सर्वभावानां सम्बन्धो नास्ति भावतो ऽन्यत्र कल्पनासमारोपि- तात्।
(2) परापेक्षा हि सम्बन्धः सो ऽसन् कथम् अपेक्षते।
संश् च सर्वनिराशंसो भावः कथम् अपेक्षते॥

३ [v.3] अथ परापेक्षा हि सम्बन्धो न रूपश्लेष इति। अत्रापि परस्या- पेक्षमाणस्यापेक्षया सम्बन्धित्वे ऽपेक्षमाणः सन् वा ऽपेक्षते ऽसन् वा। यद्य् असन् सो ऽसन् कथम् अपेक्षते। स्वयम् अनभिनिर्वृत्तस्व- भावस्य भावस्यापेक्षा न धर्मः स्याद् इत् कः कस्य सम्बन्धः।
संश् च सर्वनिराशंसः सर्वस्वभावस्वभावानपेक्षो भावः कथम् अपेक्षते येनापेक्षा सम्बन्धः स्यात्। शेषं पारतन्त्र्यवद् वाच्यम्।
(3) द्वयोर् एकाभिसम्बन्धात् सम्बन्धो यदि तद्द्वयोः।
कः सम्बन्धो ऽनवस्था च न सम्बन्धमतिस् तथा॥

४ [v.4] मा प्रापद् अयं दोष इति। द्वयोः सम्बन्धिनोर् एकाभिसम्- बन्धात् - एकेनार्थान्तरेण गुणाख्येन संयोगेनानर्थान्तरेण वा धर्मेणावाच्येन वस्तुभूतेन सम्बन्धात् कारणात् - सम्बन्धो यदीष्यते, तदा ऽनर्थान्तरपक्षे सम्बन्धिनौ केवलौ कल्पितौ स्याताम् इति न कश्चित् सम्बन्धः। ततो ऽपि वा सम्बन्धात् सम्बन्धिनोर् अव्य- तिरेकेणैकत्वाच् च, वस्तुभूतस्यावाच्यस्यापि न्यायतो ऽर्थान्तरानर्थान्त- रविकल्पानतिक्रमात्। अनर्थान्तरपक्षे न सम्बन्धः सम्बन्धी वा कश्चित्। भवतु वा सम्बन्धो ऽर्थान्तरम् अन्यो वा, तथा तद्द्वयोः कः सम्बन्धः, तेनैकेन द्वयोः सम्बन्धिनोः कः सम्बन्धः। न- इव। यथा सम्बन्धिनोर् यथोक्तदोषान् न सम्बन्धः, तथा ऽनेनापि सम्बन्धिनोर् असम्बन्धः। अन्यथा केवलयोः सम्बन्धिनोः सम्बन्धे कः प्रतिषेध इति।
किञ् च। यद्य् एकार्थसम्बन्धात् सम्बन्ध इष्यते, तदा सम्बन्ध- सम्बन्धिनोर् अप्य् एकार्थसम्बन्धेन भवितव्यम्। तथा सम्बन्- धाभ्युपगमात् पुनस् तत्रैकार्थाभिसम्बन्ध इत्य् अनवस्था भवेत्।
ततश् च क्वचिन् नैकार्थसम्बन्धः सिध्यति। असम्बन्धे सर्वत्र न सम्बन्धमतिस् तथा। न वस्त्वनुपातिनी सम्बन्धबुद्धिर् अनव- स्थायां सत्याम्। क्वचिद् एकार्थाभिसम्बन्धम् अन्तरेण सम्बन्ध- कल्पनायां प्रथमयोर् अपि सम्बन्धिनोर् एकार्थसम्बन्धात् सम्बन्धो मा भूत्। केवलयोर् अपि सम्बन्धे दोष उक्तः। एतेन नैरन्- तर्यादेर् धर्मान्तरकल्पनापि प्रत्युक्ता।
(4) तौ च भावौ तदन्यश् च सर्वे ते स्वात्मनि स्थिताः।
इत्य् अमिश्राः स्वयं भावास् तान् मिश्रयति कल्पना॥

५ [v.5] यत एवम् अपि सम्बन्धविकल्पो न ज्यायान्, तस्मात् तौ च भावौ सम्बन्धित्वेनाभिमतौ तदन्यश् च सम्बन्धाख्यः सर्वे ते यथो- क्ताः स्वात्मनि स्थिताः स्वस्मिन् स्वस्मिन् स्वभावे स्थिता इति तस्माद् अमिश्रा असम्बद्धाः स्वयं स्वात्मना भावाः। कथं तर्ह्य् आयत्तरूपास् तैस् तैः सम्बन्धैर् व्यापदिश्यन्त इति चेत्, न भावतो ऽस्ति कश्चित् सम्बन्- धः। केवलं तान् भावान् अमिश्रान् अपि मिश्रयति कल्पना। सापि परायत्तरूपान् इव केनचिन् निमित्तेनोपदर्शन्त्य् उत्पद्यते।
(5) ताम् एव चानुरुन्धानैः क्रियाकारकवाचिनः।
भावभेदप्रतीत्यर्थं संयोज्यन्ते ऽभिधायकाः॥

६ [v.6] ताम् एव च कल्पनाम् अनुरुन्धानैः पुरुषैः क्रियाकारकवा- चिनः क्रियाकारकाभिधायिनश् चाभिधायकाः संयोज्यन्ते, अयं क्रिया- भिधाय्य् अयं कारकाभिधायीति निवेश्यन्ते। भावभेदप्रतीत्यर्थम्।
भावानां भेदो ऽन्यापोहः तस्य प्रत्यायनाय, न पुनर् वस्तु- भूतः क्रियाकारकसम्बन्धो ….. (6) कार्यकारणभावो ऽपि तयोर् असहभावतः।
प्रसिध्यति कथं द्विष्ठो ऽद्विष्ठे सम्बन्धता कथम्॥

७ [v.7] कार्यकारणभावः सम्बन्धस् तर्हि सेत्स्यतीति चेत्, तन् न, य- स्मात् कार्यकारणभावो ऽपि सम्बन्धः कथम्, नैव, प्रसिध्यति।
किम्भूतः। द्विष्ठः। किङ् कारणम्। तयोः कार्यकारणयोर् असहभा- वतः। तथा हि यदा कारणं तदा न कार्यम्, तत्काले वा न कारणम्, तुल्यकालं कार्यकारणानुपपत्तेः। अक्षणिकानाम् अप्य् अभावत्वान् न कार्यकारणभावः सहभावो वेत्य् अक्षणिकवादोदाहरणम् अप्य् अत्रायु- क्तम्, यतो न वस्तुभूतौ सहभाविनौ विद्येते येन द्वयोर् वर्तमानः सम्बन्धः स्यात्। अद्विष्ठे च भावे सम्बन्धता कथम्। नैव। बु- द्ध्या व्याकृत्य सम्बन्धो विकल्पेन निर्मितः स्यात्।
(7) क्रमेण भाव एकत्र वर्तमानो ऽन्यनिःस्पृहः।
तदभावे ऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान्॥

८ [v.8] कारणे कार्ये वा क्रमेण सम्बन्धो वर्तत इत्य् अप्य् अयुक्तम्। त- था हि क्रमेणापि भाव एकत्रैकस्मिन्न् अपि कारणे कार्ये वा वर्तमानः सम्बन्धाख्यो ऽन्यनिःस्पृहः। कारणे वर्तमानः कार्यानपेक्षः कार्ये वर्तमानः कारणनिरपेक्ष इति द्वयोः क्रमेण वर्तमानो न तत्सम्बन्धः। यो यस्मिन् निःस्पृहो न तस्यासौ सम्बन्धो भव- त्य् एकवृत्तिमान् क्रमेण कार्यकारणभावी, तदभावे ऽपि भावात्, कार्यकारणभूतयोः परस्पराभावे ऽपि सम्बन्धाख्यस्यार्थस्य सत्ताकारणात्।
(8) यद्य् अपेक्ष्य तयोर् एकम् अन्यत्रासौ प्रवर्तते।
उपकारी ह्य् अपेक्ष्यः स्यात् कथं चोपकरोत्य् असन्॥

९ [v.9] मा भूद् एष दोष इति। यद्य् अपेक्ष्य तयोः कार्यकारणयोर् एकं कार्यं कारणं वान्यत्र कार्ये कारणे वासौ सम्बन्धः क्रमेण प्र- वर्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते, तदा तेनापेक्ष्यमाणेनोपका- रिणा भवितव्यम्। किङ् कारणम्। यत उपकारी ह्य् अपेक्ष्यः स्यान् नान्यः।
अपेक्ष्यमाणम् उपकार्य् अस्त्व् इति चेत्। कथञ् चोपकरोत्य् असन्। कारणकाले कार्याख्यो ऽसन् कार्यकाले कारणाख्यो ऽसन् नैवोपकरोत्य् असामर्थ्यात्।
(9) यद्य् एकार्थाभिसम्बन्धात् कार्यकारणता तयोः।
प्राप्ता द्वित्वादिसम्बन्धात् सव्येतरविषाणयोः॥

१० [v.10] किञ् च। यद्य् एकार्थाभिसम्बन्धात् कारणात् कार्यकारणता तयोः कार्यकारणत्वेनाभिमतयोः तदा सङ्ख्याख्येन द्वित्वादिना सम्बन्- धात् प्राप्ता कार्यकारणता सव्येतरगोविषाण योर् अपि। न चेष्यते, तदन्यत्रापि मा भूत्। आदिग्रहणेन परत्वापरत्वविषाणत्वादिना सम्- बन्धात्।
(10) द्विष्ठो हि कश्चित् सम्बन्धो नातो ऽन्यत् तस्य लक्षणम्।
भावाभावोपधिर् योगः कार्यकारणता यदि॥

११ [v.11] न येन केनचिद् एकेन सम्बन्धात् सम्बन्धः, किन् तर्हि सम्बन्धलक्षणेनैकेनेति चेत्, तन् न। द्विष्ठो हि कश्चित् पदार्थः सम्बन्धः। नातो ऽर्थद्वयाभिसम्बन्धिनो ऽर्थाद् अन्यत् तस्य सम्- बन्धस्य लक्षणम् उपपद्यते, येन सङ्ख्यादेस् तस्य विशेषो व्य- वस्थाप्येत।
कस्यचिद् भावे भावो ऽभावे ऽभावः, तयोर् भवतोर् अभवतोश् च यौ भावौ ऽभावौ ताव् उपाधिर् विशेषणं यस्य योगस्य सम्बन्धस्यासौ भावाभावोपाधिर् योगः कार्यकारणता यदि, न सर्वः सम्बन्धः, (11) योगपाधी न ताव् एव कार्यकारणतात्र किम्।
भेदाच् चेन् नन्व् अयं शब्दो नियोक्तारं समाश्रितः॥

१२ [v.12] तदा यौ तौ योगपाधी भावाभावौ ताव् एव कार्यकारणतात्र न किम्, येनासतो ऽफलस्य सम्बन्धस्य कल्पना। भेदाच् चेत्, स्याद् एतत्- भावे भावो ऽभावे ऽभाव इति बहवो ऽभिधेयाः, कार्यकारणतेति चैकार्थाभिधायिना शब्देन वाच्यास् तद्विषया अयुक्ता इति भावाभावौ न कार्यकारणतेष्यते। नन्व् अयं शब्दो नियोक्तारं पुरुषं समाश्रित इति नियोक्तृसमाश्रयाद् यं शब्दम् असौ यथा प्रयुङ्क्ते स तथा प्राहेत्य् अनेकत्राप्य् एका श्रुतिर् इत्य् अपरिहार एव।
(12) पश्यन्न् एकम् अदृष्टस्य दर्शने तददर्शने।
अपश्यन् कार्यम् अन्वेति विनाप्य् आख्यातृभिर् जनः॥

१३ [v.13] तस्मात् ताव् एव भावाभावौ कार्यकारणता युक्ता। यस्मात् पश्यन्न् एकं कारणाभिमतम् उपलब्धिलक्षणप्राप्तस्यादृष्टस्य कार्याख्यस्य दर्शने सति यत् पश्यन् दृष्टवांस् तददर्शने सत्य् अपश्यन् कार्याभिमतं कार्यम् अन्वेतीदम् अतो भवतीति प्रतिपद्यते विनाप्य् आख्यातृभिर् जनः, अत इदं भवतीत्य् आख्यातारम् अन्तरेण जनः।
सङ्केताद् अन्वेतीत्य् अपि वार्त्तः। तथा हि न भावाभावाभ्याम् अन्यत् सङ्के- ते ऽपि प्रतिपद्यते। तस्माद् यत्प्रतिपत्तौ यत्प्रतिपत्तिः, स तस्यार्थः।
तद् यथा शुक्लपटप्रतिपत्तौ शुक्लप्रतिपत्तेः शौक्ल्यम्। भावाभावौ च प्रतिपद्यमानः कार्यकारणतां प्रतिपद्यत इति भावाभावौ कार्य- कारणताप्रतिपत्तेर् अर्थः, नान्यः।
स्याद् एतत्- भावाभावौ साधनम् अन्या कार्यकारणता साध्या। अन्या चेत्, किन् न तस्या रूपं निर्दिश्यते। उत्पाद्योत्पादकभावस् तर्हि रूपम्। तत् किन् नामान्तराद् अर्थभेदो येनैवम् उच्यते। तथा ह्य् उत्पाद्योत्पादकभावो जन्यजनकभावः कार्यकारणभाव इत्य् एवमादयः पर्यायाः।
(13) दर्शनादर्शने मुक्त्वा कार्यबुद्धेर् असम्भवात्।
कार्यादिश्रुतिर् अप्य् अत्र लाघवार्थं निवेशिता॥

१४ [v.14] तस्माद् दर्शनादर्शने विषयिना विषयप्रदर्शनाद् भावाभा- वौ मुक्त्वा कार्यबुद्धेर् असम्भवात् कारणात् कार्यादिश्रुतिर् अप्य् अत्र भावाभावयोर् मा लोकः प्रतिपदम् इयन्तीं शब्दमालाम् अभिधाद् इति व्यवहारलाघवार्थं निवेशितेति।
(14) तद्भावभावात् तत्कार्यगतिर् याप्य् अनुवर्ण्यते।
सङ्केतविषयाख्या सा सास्नादेर् गोगतिर् यथा॥

१५ [v.15] नान्या ऽन्वयव्यतिरेकाभ्यां कार्यकारणता। नान्या चेत्, कथं भावाभावाभ्यां स प्रसाध्यते। तद्भावे भावाल् लिङ्गात् तत्कार्यगतिः, यस्य भावे भावस् तस्य कार्यस्य गतिः, याप्य् अनुवर्ण्यते अस्येदं कार्यं कारणञ् चेति, सङ्केतविषयाख्या सा। यद् एतद् अनुवर्णनं तद्भावभावित्वेन कार्यकारणसङ्केतविषयाख्यानम् एतद्, नार्थभे- दः। किम् इव। सास्नादेर् गोगतिर् यथा। यथा गौर् अयं सास्नादिमत्त्वाद् इत्य् अनेन गोव्यवहारस्य विषयः प्रदर्श्यते।
(15) भावे भाविनि तद्भावो भाव एव च भाविता।
प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः॥

१६ [v.16] स्याद् एतत्- भावाभावयोः कार्यकारणत्वे कारणत्वं केवलं कार्यत्वञ् चोभयगतभावाभावापेक्षं। अन्यथा कथं भावमात्रं कारणं कार्यं वा। न च भवतोर् अभवतोश् च भावाभावाव् उभय- गतौ कार्यत्वं कारणत्वम् वा। कार्यकारणता तु स्याद् इति।
तन् न। उभयगतत्वे ऽप्य् उत्तरभावाभावविशेषणौ पूर्वस्य भावा- भावौ कारणत्वम्। पूर्वस्य भावाभावविशेषणाव् उत्तरस्य भावा- भावौ कार्यत्वम्। तथा हि भावे भाविनि भवनधर्मिणि भावे तद्भावः कारणाभिमतस्य भावः। भाव एवेतीहाप्य् अवधारणम्।
अनेन व्यतिरेक आक्षिप्तः। कारणाभिमतस्य भाव एव च भाविता कार्याभिमतस्य कार्यत्वम् इति प्रसिद्धे प्रत्यक्षानुपलम्भतो हेतु- फलते। यत एवं भावाभावाव् एव कार्यकारणता, नान्या।
(16) एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः।
विकल्पा दर्शयन्त्य् अर्थान् मिथ्यार्था घटितान् इव॥

१७ [v.17] तेनैतावन्मात्रतत्त्वार्थाः। एतावन्मात्रं भावाभावौ। ताव् एव तत्त्वं भूतं यस्यार्थस्यासाव् एतावन्मात्रतत्त्वः। सो ऽर्थो येषां विकल्पानां त एतावन्मात्रतत्त्वार्थाः। किम्। एतावन्मात्रबीजाः कार्यकारणगोचराः। ते दर्शयन्ति घटितान् इव सम्बद्धान् इवासम्ब- द्धान् अर्थान्। एवं घटनाच् च मिथ्यार्थाः।
(17) भिन्ने का घटना ऽभिन्ने कार्यकारणतापि का।
भावे ह्य् अन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ॥

१८ [v.18] किम् अभूतः सम्बन्धः प्रदर्श्यते तैर् येन मिथ्यार्थाः। एवम् एतत्। तथा ह्य् अत्र द्वयी कल्पना। सम्बध्यमानः कार्यकारणभूतो ऽर्थो भिन्नो ऽभिन्नो वा स्यात्। यदि भिन्नः, भिन्ने का घटना। नैव, स्वस्वभावव्यवस्थितेः। अथाभिन्नः, अभिन्ने कार्यकारणतापि का। नै- वा, अनिष्पन्नस्य कर्तव्यस्य कारणाद् व्यतिरिक्तस्याभावात्। कुतः पुनर् द्वयोर् घटना।
स्याद् एतत्- न भिन्नस्याभिन्नस्य वा केवलस्य सम्बन्धः, किन् त- र्हि, सम्बन्धाख्येनैकेन सम्बन्धाद् इति। अत्रापि भावे सत्तायाम् अन्यस्य सम्बन्धाख्यस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्या- तां कथम्। नैव। स एव सम्बन्धाख्यो ऽपरः स्यात्। न पुनस् तद्भा- वे ऽन्यस्य कस्यचित् स्वभावसंसर्ग इति कुतो भावतः सम्बन्धः।
(18) संयोगिसमवाय्यादि सर्वम् एतेन चिन्तितम्।
अन्योन्यानुपकाराच् च न सम्बन्धी च तादृशः॥

१९ [v.19] संयोगिसमवाय्यादि। आदिग्रहणेन स्वस्वाम्यादि। सर्वम् एतेनानन्तरोक्तेन सामान्येन सम्बन्धप्रतिषेधकेन ग्रन्थेन चिन्- तितं न संयोगादिलक्षणो वस्तुतः सम्बन्धो ऽस्तीति।
समवायिनस् तावन् न सम्बन्धिता, यथा शौक्ल्यं गुणः पटे सम- वेतम्। अनयोर् अन्योन्यं परस्परम् अनुपकाराद् अजन्यजनकभावात् करणात् समवायिलक्षणो न सम्बन्धी च तादृशो ऽनुपकार्यानुपकार- कभूतः। तथा हि यो येन उपकार्यः स तम् अपेक्षते, यञ् चापेक्षते तेन तस्य सम्बन्धः। न चैवं शुक्लपटयोः, स्वरूपसिद्धेः।
आधाराधेयभावो ऽपि नाकार्यकारणभूतयोः, कार्यकारणभावे च तद्भावी दोषः। कार्यकारणभावे सत्य् आधाराधेयभावात् शुक्लपटयोः सम्बन्धकल्पनाप्य् असाध्वी। तथा हि न तयोर् लौकिक आधाराधेय- भावो ऽस्ति। जन्यजनकलक्षणे चाधा राधेयभावे सामान्यतद्वतोः परस्परम् अनुपकार्योपकारकयोः समवायलक्षणः सम्बन्धो न स्यात्।
(19) जनने ऽपि हि कार्यस्य केनचित् समवायिना।
समवायी तदा नासौ न ततो ऽतिप्रसङ्गतः॥

२० [v.20] स्याद् एतद्- अस्ति कश्चित् समवायी यो ऽवयविरूपं कार्याख्यं जनयति। तेन नानुपकाराद् असम्बन्धितेति। एवञ् जनने ऽपि हि कार्यस्य केनचित् समवायिनाभ्युपगम्यमाने नासौ समवायी तदा, जननकाले जन्यस्यानिष्पत्तेर् द्वयोर् असमवायात्, निष्पन्ने ऽपि कार्ये कारणस्य तिरोधानात्, अतिरोभावे च समवहितयोर् उपकार्योपकारकभावाभावात्।
भवतु वा कश्चित् समवायी, न तु ततो जननात् कारणात्। किं कारणम्।
अतिप्रसङ्गतः, कुम्भकारादेर् अपि घटस्य जननात् सम्बन्धितापत्तेः।
(20) तयोर् अनुपकारे ऽपि समवाये परत्र वा।
सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम्॥

२१ [v.21] अथ मा भूद् एष दोष इति तयोः समवायिनोः परस्परम् अनुप- कारे ऽपि, ताभ्यां सम्बन्धिभ्याम् अनुपकारे च समवाये, नित्यत्वात् तस्य, ताभ्यां समवाये च परत्र वा क्वचिद् अनुपकारे ऽपि, सम्बन्धो यदीष्यते, तदा विश्वं सर्वं जगत् परस्परासम्बद्धं समवायि परस्परं स्यात्। न चैवम्। तस्माद् एवम् उपकारानुपकारपक्षे न स- मवायो ऽस्ति। न चान्यः प्रकारः सम्भवति। अनेन संयोगिनाव् अपि प्रत्युक्तौ।
(21) संयोगजनने ऽपिष्टौ ततः संयोगिनौ न तौ।
कर्मादियोगितापत्तेः स्थितिश् च प्रतिवर्णिता॥

२२ [v.22] अपि च संयोगस्य कार्यत्वात् ताभ्यां तज्जननात् संयोगिता यदि तयोः, तदैवं संयोगजनने ऽपीष्टौ ततः संयोगजननात् कारणान् न तौ संयोगिनौ। किं कारणम्। कर्मादियोगितापत्तेः। यदि संयोग- जननात् संयोगी कर्मणो ऽपि संयोगिता स्यात्। तथा ह्य् अन्यतरकर्मज उभयकर्मजः संयोग इष्यते। आदिग्रहणेन संयोगस्यापि संयोगिता स्यात्, यतः सम्योगजो ऽपीष्यते ऽसाव् इति।
न संयोगजननात् संयोगिता, किन् तर्हि, स्थापनाद् इति चेत्। तन् न। स्थितिश् च प्रतिवर्णिता, स्थाप्यस्थापकयोर् जन्यजनकभावान् नान्या स्थितिर् इति प्रमाणवार्त्तिके प्रतिक्षिप्ता।
(22) संयोगाद्याश्रये योग्यम् अयोग्यं तच् च जायते।
नित्ययोग्यस्वभावस्य तद्वैकल्यविरोधतः॥

२३ [v.23] यदि संयोगादिम् अन्तरेण संयोगादिबुद्धिः, विभक्तयोर् यद् रूपं तत् सम्प्रयुक्तयोर् अपि। एवं सम्प्रयुक्तयोर् यद् रूपं तद् विभक्तयोर् अपि स्थितास्थितयोश् चेति किन् न संयोगादिबुद्धिः। न चैवम्।
तस्मात् संयोगविभागकर्माणि संयोगादिबुद्धेर् निमित्तम् इति चेत्। न, तुल्यपर्यनुयोगतः। तवापि तुल्यरूपस्य विभक्तादेः किन् न संयोगा- दिसमवायः।
तज्जननकर्माभावान् न संयोगविभागाव् इति चेत्। तद् एवं सति किन् न कर्मापि तत्कार्णानि चेति दुरुत्तरम् एतत्। तस्मात् त्वयैतद् एव वक्त- व्यम्। तद् विभक्तादिरूपम् अयोग्यं प्राक् पश्चात् संयोगाद्याश्रये यो- ग्यञ् जायते। किं कारणम्। यतो नित्यसंयोगादियोगयोग्यस्वभावस्य तद्वैकल्यविरोधतः, संयोगादियोवैकल्यं विरुध्यते। मयापि चैतद् एव वक्तव्यं संयोगादिवर्जितम्।
(23) इति तद्योग्यतावाच्यः स्वभावो ऽस्य निरुच्यताम्।
विभागयोगगतिभिः किम् अन्यैर् गमनादिभिः॥

२४ [v.24] तस्माद् योग्यताशब्दवाच्यः स्वभावो ऽस्यार्थस्य निरुच्यतां विभागयोगगतिभिः संयोगविभागकर्मशब्दैः। तदा किम् अफलैर् अन्यैर् गमनादिभिः कल्पितैः। नैव किञ्चित्। आदिग्रहणान्तरे संयो- गविभागपरत्वापरत्वादिभिः।
(24) तेषु सत्स्व् अपि तस्येति सम्बन्धस्याप्रसिद्धितः।
युक्तः स्वभावभेदो ऽयं तत् प्रतिक्षणजन्मनाम्॥

२५ [v.25] कुतः। यतस् तेषु गमनादिषु सत्स्व् अपि कल्पितेष्व् तस्येति सम्बन्- धस्याप्रसिद्धितः। पारतन्त्र्यम् इत्यादि ना सर्वथा सम्बन्धस्य निषिद्धत्वात्, अस्य कर्म संयोगो विभागो वेति सम्बन्धासिद्धेः, कुतस् तन्निमित्तो व्यपदेशः। यथान्यगतैः कर्मादिभिर् अन्यसम्- बन्धी न भवत्य् असम्बन्धात्, तद्वद् अभिमतैर् अपि। यत एवं न कर्मादिसम्बन्धाद् गमनादयः, तस्मात् प्रतिक्षणजन्मनां भावानां निरन्तरोत्पत्त्याद्याश्रयैर् अपरा परैः प्रत्ययैः स्व- भावभेदो ऽयं संयुक्तो वियुक्तो गच्छतीत्य् एवमादिर् युक्तः , सस्थि- रैकस्वभावानां योगादिसम्बन्धासिद्धेर् इति न कश्चिद् भावतः सम्- बन्धः संयोगादिलक्षणः। इत्य् असम्बन्धाः सर्वभावस्वभावाः।
शान्तिः।
सम्बन्धपरीक्षावृत्तिः समाप्ता। कृतिर् आचार्यदेवेन्द्रबुद्धेः। क्रौ- द्ध-अन्वितस्य पुस्तकम्।
(25)