आलम्बनपरीक्षा

आलम्बनपरीक्षा आचार्यदिङ्नागकृता नमः सर्वबुद्धबोधिसत्त्वेभ्यः १. यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः (=अणवः) कारणं भवेत्।
अतदाभतया तस्या नाक्षवद्विषयः स तु (अणवः)॥

२. यदाभासा न तस्मात् सा द्रव्याभावात् द्विचन्द्रवत्।
एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः॥

३. साधनं सञ्चिताकारमिच्छन्ति किल केचन।
अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत्॥

४. भवेद्धटशरावादेस्तथा सति समा मतिः।
आकारभेदाद्भेदश्चेत्, नास्ति तु द्रव्यसत्यणौ॥

५. प्रमाणभेदाभावात् सः, अद्रव्येऽस्ति ततः स हि।
अणूनां परिहारे हि तदाभज्ञानविप्लवात्॥

६. यदन्तर्ज्ञेयरूपं तु वहिर्वदवभासते।
सोऽर्थो विज्ञानरूपत्वात्तत्प्रत्ययतयापि च॥

७. एकांशः प्रत्ययोऽवीतात् शक्त्यर्पणात्क्रमेण [वा]।
सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम्॥

८. सा चाविरुद्धा विज्ञप्तेरेवं विषयरूपकम्।
प्रवर्ततेऽनादिकालं शक्तिश्चान्योन्यहेतुके॥

इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षाप्रकरणकारिका समाप्ता