15 देवपरिवर्तो नाम पञ्चदशः

XV देवपरिवर्तो नाम पञ्चदशः ………..त्याह। यान्येनमित्यादि। कानि पुनरस्य कल्याणमित्राणीत्यत आह तान्येवेत्यादि। तान्यस्मै कथमर्थमुपदेक्ष्यन्तीत्यत आह एवं चेत्यादि। एवमनेनाकारेण। एहि त्वमित्यादिना कार्षीरित्येतदन्तेन। योगमिति प्रयोगमभियोगं वा। मा परामृक्ष इति तभ्दावेन मा ग्रहीः। अपरामृष्टेति सर्वधर्मैरविकल्पिता। परिजयोऽभ्यासः। एवं हीत्यादिना उपसंहारः। सम्यक्सम्बोधी सम्यक्परिणामनमनास्वादः। इत्यनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः॥

उक्तो विशेषः षोडशविधः। कारित्रं दशविधं वक्तव्यम्। तत्र शास्त्रम्- [86] हितं सुखं च त्राणं च शरणं लयनं नृणाम्।
परायणं च द्वोपं च परिणायकसंज्ञकम्॥

४-२७॥

[87] अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम्।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम्॥

४-२८॥

एतदाह सुभूतिरित्यादिना। तच्च दुष्करेत्यादिना सुभूतिः प्रस्तौति। एवमेतदित्यादिना भगवानाचष्टे। ये लोकहिताय सम्प्रस्थिता इति बोधिमभिसम्बुध्य पञ्चभ्यो गतिभ्यः सत्त्वान् परिमोच्य तेषामभये निर्वाणे प्रतिष्ठापनादिति हितकारित्रम्॥

लोकसुखाय लोकानुकम्पायै सम्प्रस्थिता इति बोधिमभिसम्बुध्य सत्त्वान् दुःखदौर्मनस्योपायासेभ्यः परिमोच्य तेषां सुखे निर्वाणे प्रतिष्ठापनमिति सुखकारित्रम्॥

लोकस्य त्राणं भविष्याम इत्यादिना त्राणादिकारित्राणामुद्देशः। इत्येवंरूपं वीर्यमारभन्त इति सम्बन्धः। यथोद्देशमष्टाभिः कथञ्चवाक्यैर्निर्देशः। तत इति तेभ्यो दुःखेभ्यः। एनमिति लोकम्। व्यायच्छन्त इति संरक्षन्ति। वीर्यमिति प्रयोगम्। त्राणं भवन्ति त्राणकरणादिति त्राणकारित्रम्॥

इत्यादिरेव……….. ……….[अविद्या]ण्डजमस्मिन्निति कृत्वा। स एव पटलं दृष्टिरोधकत्वात्। अविद्यैवाण्डकोशपटलं तेन पर्यवनद्धा अवगुण्ठिताः। तमो मोहः। तेनाभिभूता अन्धीकृताः। अवभासयन्तः आलोकं कुर्वन्तः। विधुन्वन्ति अपनयन्ति। एवमालोककरणादालोका भवन्तीत्यालोककारित्रम्॥

अनुत्पादश्चानिरोधश्चेति समाहारद्वन्द्वः। प्रकृतिः सर्वधर्माणां धर्मता। तया तेषामनुत्पादानिरोधाय धर्मदेशनात् परिणायकाः परितो नेतारः परमार्थबोधका इति परिणायककारित्रम्॥

अनाभोगं त्रिभिर्यानैः फलसाक्षात्क्रियात्मकम्।
पश्चिमं गतिकारित्रं [इदं कारित्रलक्षणम्]॥

इति त्रिभिर्यानैरनाभोगतः फलसाक्षात्क्रियात्मकं गतिकारित्रमित्यर्थः।
ग्रामस्य (?) हि गतिः प्राप्तिरेव। यदाभोगेन गमनेन यानत्रयफलस्यापि गतिः प्राप्तिरेव सा तु निराभोगा। न हि पुमान् कायेन चेतसा वा गन्त्वा तत्प्राप्नोति किन्त्वाभोगत एव। तथा ह्याकाशगतिकाः सर्वधर्माः। न ह्याकाशस्य गतिरागतिर्वा। स्वभाव एवास्य गतिः। तस्मादाकाशगतिका इत्याकाशसमाः। कुत इत्याह। यथा हीत्यादि। अकृतमनुत्पादितत्वात्। अविकृतमवस्थान्तरानुत्पादनात्। अनभिसंस्कृतं हेतुप्रत्ययैः सम्भूय तस्याकरणात्। स्थितमुत्पद्य वृत्तेः। संस्थितं समन्ततः स्थितेः। व्यवस्थितं क्वचिदेव स्थितेः। एषां विपर्यासादास्थितमसंस्थितमव्यवस्थितम्। आकाशकल्पत्वादविकल्पा निराभोगाः। धर्मतामात्रत्वाद्धर्माणामिति भावः।
यथा वाकाशगतिका एवं शून्यतादिगतिकाः। तदेवमगतिगतिकाः सर्वधर्मा इति……..गतिकारित्रम्॥

उक्तं दशविधं कारित्रम्।
……….शास्त्रम्- [88] क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः।
विवेको दुष्करकान्तावुद्देशोऽनुपलम्भकः॥

४-२९॥

[89] निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः।
विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः॥

४-३०॥

[90] तथतानुपलम्भश्च स्वभावः षोडशात्मकः।
लक्ष्मीव लक्ष(क्ष्य)ते चेति चतुर्थं लक्षणं मतम्॥

४-३१॥

यः स्वभावश्चतुर्थं लक्षणमिष्टं स षोडशविधः। सर्वकर्मसाधनं लक्षणम्। लक्ष्यत इति कृत्वा। अत एवाह ‘लक्ष्यते चेति’। लक्षणान्तरमप्याह ‘लक्ष्मीव’ इति। लक्ष्मयोगाल्लक्ष्मी लक्षणयोगाल्लक्षणमित्यर्थः। कथं ‘षोडशात्मकः’ ? इत्यत आह ‘क्लेशलिङ्गे’त्यादि। अतोऽस्य प्रस्तावना सुभूतिराहेत्यादिना भगवानाहेत्यतः प्राक्। चरिताः षट्‍पारमिता रक्षन्तीति चरिताविनः। कतमे त इत्याह। य इमामित्यादि। किंस्वभावा इत्यनेन पदेन स्वभावप्रश्नः। उत्तरं भगवानाहेत्यादिना। विनयोऽपनयः। तमर्हन्तीति वैनयिकाः। तैर्विविक्तः स्वभाव एषामिति तथोक्ताः। इयता चत्वारः स्वभावा उक्ताः। क्लेशविवेकः। क्लेशलिङ्गविवेकः। क्लेशनिमित्तविवेकः। विपक्षप्रतिपक्षविवेकश्च। तत्र क्लेशो रागादिः। क्लेशलिङ्गं क्लेशकृतं कायादिदौष्ठुल्यम्। क्लेशनिमित्तमयोनिशो मनसिकारादि। विवक्षप्रतिपक्षौ रागारागौ द्वेषाद्वेषो मोहामोहौ च। सुभूतिराहेत्यादिना सुभूतिराहेत्यतः प्राक्। एतदाह। एष एव स्वभावो गतिः यामभिसम्बुध्य देशयिष्यन्तः सत्त्वानां गतिर्भविष्यन्तीति॥

सुभूतिराहेत्यादि बुद्धभूमिर्वेति यावत्। अत्र न रूपादिसम्बद्ध इति न रूपादिस्वभावायै(य) स्वबोधये। न रूपादेरर्थायेति न रूपादिस्वभावानां सत्त्वानामर्थाय। एवं न भूमित्रय स्वभावानां (?)। स्वबोधये। नापि। नापि बोधित्रयस्वभावानां सत्त्वानामर्थाय। तदित्यादिना प्रश्नः। उत्तरं सर्वेत्यादि। न प्रतिकांक्षितव्यानीति न लभ्यत्वेन द्रष्टव्यानि। अत्र त्रीणि न द्रष्टव्यानीत्येकमेव स्थानं द्रष्टव्यमिति भावः। इति दुष्करस्वभावः॥

दुष्करसहित एकान्तो ‘दुष्करैकान्तः’। एवमुक्त इत्यादि येनायमित्यतः प्राक्। अभिमतोऽर्थोऽर्थवशः। तं च स्वयमेव भगवानाह। अस्थानं हीत्यादिना बुद्धभूमिर्वेत्येकान्तः। इत्यैकान्तिकस्वभावः॥

येनायं सर्वसत्त्वानां कृतशः सन्नाहः सन्नद्ध इत्युद्देशस्वभावः॥

सुभूतिराहेत्यादि कच्चिदित्यतः प्राक्। गम्भीरेति प्रतिज्ञा। चत्वारो हेतवः परे भावनानुपलब्धेः। अध्वत्रयेपि भावकानुपलब्धेः। भाव्यस्य प्रज्ञापारमितावस्तुनोऽनुपलब्धेः। तदालम्बनानां चानुपलब्धेरिति। असिद्धत्वपरिहाराय तत्कस्येत्यादिना प्रश्नः। न हीत्यादिनोत्तरम्। परिनिष्पन्नो वस्तुभूतः। अतश्चाकाशभावनैषा सर्वधर्मभावना च धर्मतामात्रदर्शनाद्धर्माणां चानुपलब्धेः। अत एवासङ्गभावनैषाऽनन्तभावना च सर्वधर्मेष्वनुपलब्धेरव्याघाताद्धर्माणां चानन्त्यात्। असतो भावनाऽसद्‍भावना ग्राह्यानुपलम्भात्। अपरिग्रहभावना ग्राहकानुपलम्भात्। उपपरीक्षितव्यो वेदितव्यः। इत्यनुपलम्भकस्वभावः॥

कच्चिदित्यादिना सुभूतिराहेत्यतः प्राक्। अनभिनिवेशस्वभावः॥

सुभूतिराह। यो भगवन्नित्यादि अथ खलु शक्र इत्यतः प्राक्। व्यवचारितेत्यालम्बिता। निम्नप्राग्भावप्रवणशब्दा आधारार्थाः। तैः सह बहुव्रीहिः। सन्ततिश्चित्तसन्तानः। आकाशनिम्नयेति आकाशोपमत्वात् सर्वज्ञतायाः। इयं सा व्यवचारणेति प्रज्ञापारमिताया इति शेषः। तदित्याकाशोपमत्वं तस्याः कुतः ? उत्तरम्। अप्रमेया हीत्यादिना। देशतः कालतश्च प्रमातुमशक्त्यत्वादप्रमेया। तथैव प्रमाणविरहाद् अप्रमाणा। न तद्रूपं यावन्नापि क्वचित्प्रदेशे स्थितमिति। सर्वेषामेषां देशकालव्यापित्वेन प्रमाणाविषयत्वादप्रमेयस्य ताद्रूप्यायोगात्। अपि त्वित्यादि। तदिति वर्तते। केनचिदिति। केनचिद्रूपादिना स्वभावेन। रूपादीनां प्रमाणावत्त्वादिति भावः। तत्कस्येति प्रश्नः। उत्तरं रूपमेव हीत्यादि। रूपादिशब्दैरत्र रूपादिधर्मतोच्यते। तस्मादविरोधः। न च रूपादिभेदेपि धर्मताया भेदो रूपादीनामलीकत्वेनाभेदकत्वात्तदानीमस्तङ्गमाच्चेत्यालम्बनस्वभावः॥

अथ खलु शक्र इत्याद्यापरिवर्तसमाप्तेः। गम्भीरा दुरधिमोचत्वात्। दुरवगाहा चिन्तामय्या प्रज्ञया दुर्दृशा लौकिकभावनामय्या। दुरनुबोधा लोकोत्तराया। चिकीर्षितस्याकरणमल्पोत्सुकता। अवनतमावर्जितम्। यत्र न कश्चिदित्यादिना त्रैयध्विकक्रियानिषेधः। आकाशेत्यादिना कर्मनिषेधः। आत्मेत्यादिना कर्तृनिषेधः। सर्वधर्माणां लभ्यानामनागमनतया हेयानामगमनतया च गम्भीरः। विप्रत्यनीको विपरीतः। यतोऽनुग्रहायाविकल्पनायैष धर्म उद्‍ग्रहे च लोकश्चरति। लोकविपरीता प्रतीतिर्विप्रत्ययः। इति विप्रत्ययस्वभावः॥

देवैः शक्रादिभिरुपलक्षितः परिवर्तो देवपरिवर्तः॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चदशः परिवर्तः॥