प्रज्ञाहृदयव्याख्या

p.1 प्रज्ञाहृदयव्याख्या नमः प्रज्ञापारमितायै सुगत - भाषित - द्वितीय - धर्मचक्रस्य समस्तोऽर्थः संक्षेपेण द्विधा - अभि - समयोर्थो हृदयार्थश्च। तत्र विस्तृतमध्यमसूत्रत्रयेण त्रिविधं पुद्गलम् अधिकृत्य प्राधान्येनाभिसमयो देशितः। सप्तशतिकादौ तु हृदयार्थः प्राधान्येन देशितः। मार्गाभिसमयज्ञानेनालम्बनं प्राधान्येन देशितम्। तत्र विस्तर - मध्यमत्रयेण प्रधान्येण अभिसमये देशितेऽपि हृदयार्थो देशितः। सप्तशतिकादौ प्राधान्येण हृदयार्थोऽभिहितः। अभिसमयस्तु प्रसङ्गतोऽभिहितः। अत्रापि हृदयार्थः प्रदर्शितः। अयमपि विमल - मित्रानुसारम् अष्टार्थैः एतत्सूत्रस्याशेषार्थोऽभिहितः। अष्टार्थस्यापि उपोद्घातेत्यादितः काय - व्यवस्था। तत्राचार्य - दिङ्नागादिभिः सूत्रार्थोऽन्यथापि भाषितः - सूत्रोद्भव - हेतुर्मुख्यसूत्रश्च। प्रथमो द्विधा - उपोद्धातो निदानञ्च। अयमुभयोर्विशेषः पदोद्भवप्रत्ययः सूत्रोद्भवहेतुश्च। स च भूतपूर्वोऽनुगतश्च उपोद्धातः। निदानं द्विधा - सामान्यं विशिष्टं च निदानम्। अनयोर्भेदस्तुसर्वसूत्रेषु समानतया अस्ति। अस्मिन् सूत्रे अस्ति परत्र च नास्ति। सामान्यं चतुर्विधम् - कालः, शास्त, स्थानं पर्षच्च। विशिष्टनिदानं द्विधा-प्रधानं पर्षत्समाधिसमापन्नञ्च। अयं हि पिण्डार्थः। प्रयोजनार्थस्तु संगीतकर्तुः स्वयं प्रमाणपुरुषभूतार्थम्। तत्काल एतेशास्तार, एतेछात्राः एतानि पर्षन्ति, अस्मिन्नस्थाने श्रुतमिति साक्षिणि, अर्थे च सहेतुके च शब्दे उक्ते, अथ इयमुक्तिः इदं सत्यमिति संगीतकर्ता आप्तो भवेत।
तद्यथा - लोकेऽपि साक्षिणोऽर्थस्य लिङ्गसौक्ष्म्यात् तस्य तत्सत्य - मिति बोधवत्। तथोक्तम् आचार्यदिङ्नागेन - श्रद्धावतां प्रवृत्यङ्गं शास्तापर्षच्च साक्षिणी।
देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये॥

p.2 संगीतिकर्त्ता लोके हि देशकालोपलक्षितम्।
ससाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति॥

इति॥

( प्रज्ञापारमितापिण्डार्थः ३ - ४ ) एषां पदार्थः विग्रहश्च स्पष्टः। तस्मात् सर्वसूत्रं तथा प्रत्यव - मर्शितव्यमिति अष्टसाहस्रिकापिण्डर्थेऽभिहितः। शेषस्तु अनुकूलः। अत्र विमलमित्रस्य तन्निषिध्यते, स्वमतं द्योतयितुं प्रथमं दूषयति - तत्र द्विधा दोषाः - असामर्थ्यं असाक्षिभूतं च। तत्रासामर्थ्यं तु तत्प्रयोजनसाधनासामर्थ्यम्। तथापि श्रद्धानुसारिणा प्रवृत्यङ्गप्रमाण - पुरुषसाधनाय तदुक्तम्। साक्षिप्रयोजनमपि पश्चात् तत्र सन्देहादिसम्भवे तन्निष्ठम्। एवम् ऋद्ध्यभि - ज्ञानलब्धैः सूत्रार्थो निर्णेतुं न शक्यते। कश्चित् साक्षी तु निर्वृतः कश्चिच्चान्यत्र संस्थितः। तच्च - गम्भीरामितसूत्रान्तरत्नश्रवणतृष्णया।
लोकधातुष्वनन्तेषु भ्रमन्ति कृतिनो यतः॥

इति॥

नयेन कस्यचित् तु अत्रोपविष्टस्यापि दर्शनावसरो नास्ति। यथा महाकाश्यपादीनाम्। द्वितीयो दोषः - स प्रयोजन - प्रतिपत्तौ समर्थोऽपि साक्ष्येव न भविष्यति। साक्षिभावः - इदम् इदमिति परिषन्नामोपदेशेन साक्षिभावाकांक्षा। सुभूतीत्यादिसाक्षात्नामोपदेशेन एवं साक्षिभावाधीनत्वे एतत्सूत्रवद् परिषन्नामाभावे कथं साक्षी भवेद् इत्युच्यते - तस्मादेवम् उक्तम्। भूतपूर्वनिदानसहितसूत्राख्यानात् पूर्वम् कृत उपाद्धातः एवम् मयाश्रुतमाख्यातम्। अनेन तु अन्यूनं संश्रुतं दर्शितम्। तेन पर्षद्भिः अविपर्यस्तूपदिष्टज्ञानत्वात् संगीतकर्तृषु सुश्रवणार्पणादिः। सम्प्रति यदाश्रित्य एतत्सूत्रोद्भवावसरः तदारम्यते। तस्यापि प्रवर्तनं तु एकस्मिन् समये भगवानित्यादिना। अथ तादृशावसरमाश्रित्य उद्भवसूत्राधिकृतः पुद्गलः कीदृश इत्येवाभिधातुमाप्तान्तर्भावः। महता भिक्षुसंघेन इत्यादिषु धर्मश्रवणभव्यसा - कल्यान्तर्भूतम् इति।
p.3 विशिष्टनिदानं कतमत् तेन खलु समयेनादिना प्रधानानुचरशः समाधिद्वय - समापन्नता दर्शिता। अथैतन्निदानद्वयहेतुकरणेनोद्भवसूत्रारम्भः कतमः ? प्रश्नोत्तरद्वेयन देशना तु अथ इत्यतो एवं शिक्षितव्यमिति यावद् दर्शिता। तथागतेन अथानुक्तत्वात् किमिदम् ? अवलोकितेश्वरेण व्याख्यातमिदम् इति पर्षद्विप्रतीपत्तिनिवृत्त्यर्थम् शाक्यमुनिना एवम - नुज्ञातम्। अथायमपि पञ्चकषायोत्कर्षकाले सम्बुद्धत्वाद् अन्यबुद्धेभ्यः प्रभाल्पत्वात् तद्वदेवास्ति न वा इति, अनुमोद्यते तथागतैरर्हद्भिरिति तन्मात्रमिव इत्यभिप्रेतम्। एतद्वयं तु अनुज्ञातम्। अथवा तथागतैरर्हद्भिरपीत्यादिना तु अनुमोदना संयुज्यते। तथा च सूत्ररत्नभाष्ये प्रहर्षमुत्पाद्य अनुमोदनाकरणं तु भगवता इत्यादि।
तत्तु सामान्य - पिण्डार्थमात्रम्। तत्र पृच्छा तु अथ इत्यादि। अस्यार्थस्तु ये केचिद् अधिष्ठानपुद्गलं मन्यन्ते विशेषतः प्रतिपत्तिं चित्तोत्पादं च बोधिसत्त्वः कथं शिक्षितव्यः। सम्भारमार्ग - प्रयोगमार्ग - दर्शनमार्ग - भावनामार्ग - अशैक्षमार्गैः। एतेऽपि पञ्च आशय - प्रयोग - साक्षात्कारप्रतिपत्ति - अधिगमेत्यादीनां प्रकृतिः। तत्र अव - वादस्त्वयम् - कौलिकपुद्गलः बोधौ चित्तोत्पादात् पञ्च मार्गेषु कथं शिक्षितव्य इति पृच्छार्थः। उत्तरं तु - पञ्चविधमार्गा विभज्यदेशित्वाद् एकादश भवेयुः। तत्रापि द्विधात्वम् - मृद्विन्द्रियाधिकृतः तीक्ष्णेन्द्रियाधिकृतश्च। तत्र मृद्विन्द्रियस्तु पञ्चमार्गेषु शिक्षमाणः प्रतिमार्गमधिकृत्यापि सर्वलक्षणः परिपूर्णदेशनायाम् अपेक्ष्यते। तदधिकृत्य पञ्चमार्गेषु शिक्षानयविभागे दश भवेयुः। तीक्ष्णेन्द्रियस्तु उद्धृतज्ञः, तदर्थं दशसंक्षेपार्थदेशनाः। ता एव संक्षिप्य मन्त्रार्थोऽभिहितः। एवं विसर्जिता एकादश भवेयुः। सामान्यतया एतदुभयमपि तीक्ष्णेन्द्रियम् अस्तु, तत्रापि विशेषत्वाद् भेदो द्विधा। अत्र मृद्विन्द्रियाभिधानं, तदपि मृद्विन्द्रियान्तरमपेक्ष्य गुह्यमन्त्रं भवति।
अगुह्यस्यापि रहोऽनुशासकत्वं गतत्वात्। गुह्यागुह्योऽपि सः बुद्धौ विद्यमानत्वात्, भावे तु सेवितव्ये न विशेषः। शास्तरि तु मुष्टेरभावः। तस्मादत्रापि गुह्यमन्त्रार्थः कथितः। स एव पूर्वमपि गुह्यानुशासनवद् प्रवृत्त्या मन्त्रनिरुक्तियुक्तः। तत्र प्रथमं सूत्राश्रितकौलिकपुद्गलेन अग्रबोधे चित्तोत्पादस्तु मार्गोत्पादः, आश्रय - p.4 पुद्गलत्वात् तदुक्तम्। शारिपुत्र इत्याह्वानम् यः कश्चित् कुलपुत्रो कुलदुहिता वा इत्यादिभिः कौलिक - पुद्गलाभिधानम्। गम्भीरायां प्रज्ञापारमितायां चेति चर्यां चर्तुकामः इति द्वयेन उपालम्भविषयं छन्दोलक्षणं चित्तोत्पादद्वयमुच्यते यथाक्रमम्। अनेन तु मृदुतीक्ष्णेन्द्रियमनधिकृत्य सामान्यतो दर्शितम्। मृद्विन्द्रियाधिकृत - दशोत्तराण्यपि आर्यसन्धिनिर्मोचने। चतुर्विधालम्बनभाष्यसारार्थं अत्र स्थापयामि। सविकल्पप्रतिबिम्बं विपश्यनालम्बनम्, निर्विकल्पप्रतिबिम्बं शमथालम्बनम्, वस्तुपर्यन्तम् आलम्बनम्, कार्यपरिनिष्पत्तिश्चालम्बनम्। एभिश्चतुर्भिः सम्भारमार्गः, प्रयोगमार्गो, दर्शनमार्गः, अशैक्षमार्गश्च चत्वारः क्रमशो निर्दिष्टा ज्ञेयाः। अत्र भावनामार्गस्तु पूर्वत्रयालम्बनलम्बनातिरिक्त - शेषान्यालम्बनाभावत्वात् पृथक् न दर्शितः। एवम् च मैत्रेयनाथेन - चिन्तातुलनानिध्यानान्यभीक्ष्णं भावनापथः।
निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥

इत्युक्तम्।
तत्र सविकल्पप्रतिबिम्बं विपश्यनालम्बनम् तु तेन एवं व्यवलोकितव्यम् इत्यादिभिः दर्शितम्। अनेन तु सम्भारमार्गावस्थायां विद्यमानस्य तथता - प्रत्यवेक्षण - प्रज्ञा दर्शिता। दर्शनमार्गस्तु सर्वालम्बानां समत्वेनावगत्वाद् विविधाकारालम्बनो नावेक्ष्यते। अत्र तु शून्यतादिः विविधाकारवस्तुषु सत्यम् अभिनिविश्य उत्प्रेक्ष्यते, विकल्पनास्तु विविधं कल्प्यन्ते। एवं सैव कल्पिता प्रज्ञा समाध्यभावाद् विपश्यना - मात्रप्रकृतिः।
दर्शनमार्गोद्भूतस्य निर्विकल्पप्रतिबिम्बमात्रत्वात् सविकल्प - प्रतिबिम्बः विपश्यनालम्बनम् इत्युच्यते। तेन व्यवलोकितव्यमिति उद्भवस्तु विविधाकारेण प्रत्यवेक्षितव्य इति निदर्शितम्। पृच्छावस्थायामपि आख्यातम्। एवं सम्भार - मार्गोत्पादे सति ज्ञानस्य अन्यव्यवधानरहितोष्मादिनिर्वेधज्ञानत्वाद् अनेन सूत्रपदेन निर्विकल्पप्रतिबिम्बं शमथालम्बनमपि एतेनैव व्याख्यातम्। तत्र निर्विकल्पस्तु p.5 पूर्वदशितं श्रुतचिन्ताज्ञानं परावर्त्य विविधालम्बन्। तदेवं कल्पना अविकल्प्य एकत्वेन अध्यात्म एव कल्प्यते। सा चापि सर्वधर्मसमतावबोधा विपश्यना दृङ्मार्गोद्भूततादृशाभावेऽपि शमथप्रकृतिभूतत्वान् निर्विकल्पप्रतिबिम्बा शमथालम्बना पूर्ववत्। एवम् आलम्बनद्वयं व्याख्यातम्।
अथ तृतीयं वस्तुपर्यन्तालम्बनं दर्श्यते। तत्र वस्तु तु रूपादि। तस्य पर्यन्तस्तु प्रकृतिर्धर्मता वा। तदालम्बनं तु वस्तुपर्यन्तालम्बनम्। अयं हि दर्शनमार्गः। तत्रापि त्रिविधात्वम् - आलम्बनम् तदालम्बनप्रवृत्याकारः तदाकारव्यवलोकितं फलम्। तत्र पञ्चस्कन्धांस्तान् स्वभावशून्यान् समनुपश्यति। एवं हि पूर्वं यथानिर्दिष्टं वस्तु - पर्यन्त - तदालम्बनानि चेति त्रयाणां देशनात्वात् दर्शनमार्गालम्बनं निर्दिष्टम्। पदार्थस्तु वृत्तौ स्फुटः। तदालम्बने येनाकारेण प्रवृत्तौ समनुदृष्टायाम विपर्यस्तं पश्यति इति रूपशून्यता इत्यादि। अत्रापि त्रिविधात्वम् - प्रत्याकारलक्षणम्, संख्यानिश्चयः, क्रमनिश्चयश्च। तत्र प्रथमस्तु स्पष्टः। संख्यानिश्चयः - अत्र सारार्थोभाषितः। सारार्थप्राधान्येऽपि विमोक्षद्वारत्रयम्। विमोक्षद्वारत्रयमपि अष्टगम्भीरार्थसंगृहीतम्। भावानां स्वभावशून्यता, विमोक्षद्वारशून्यता। शुन्यतानिमित्तोभयेनापि स्वभावशून्यं सामान्य-भावशून्यं च द्वयं प्रोक्तम्। दर्शनमधिकृत्य तद्द्वयस्य सर्वशून्यतार्थे संगृहीतत्वात् तद्भाषितम्। अलक्षणत्वं तु निमित्तरहितत्त्वम्। हेतुरपि कार्यम् अपेक्ष्य कारण अवस्थापितम्। सोऽपि संक्लेशहेतुफले, व्यवदानहेतुफले च द्वयोः संग्रहीतत्वाद् अनुत्पन्नः, अनिरुद्धः, अमलो, विमलश्च यथाक्रमम्। अप्रणिहितं तु - कार्य - प्रणिधिविषयो द्विविधः दोषापगतं गुणसमन्वागतम् च प्रणिधानम्। तदुभयोर्वियोगेऽप्रणिहितम्। तस्मात् त्रि-विमोक्षद्वार-प्रकृतौ अष्टौ निषेधाः निषिद्धाकारा अपि अष्टावेव नियताः। अयं हि संख्यानिश्चयाः। क्रमनिश्चयस्तु सर्वसूत्रेषु सुगतेन शून्यताविमोक्षपूर्वमभिहितः, अथ अनिमित्तमन्ते चाप्रणिधानम्। अत्र तेनैवं निश्चयः। बुद्धेन दृष्टिः, चर्या, फलं च त्रयं क्रमशो जनितम्। तत्त्रिषु अभिनिवेशस्य त्रयः प्रतिपक्षा यथाक्रमं निदिष्टाः। ततः संख्यानिश्चय एव क्रमस्यापि निश्चयः। तेन एतत्सूत्रस्य मुख्याभिधेयोऽपि अष्टगम्भीरार्थोऽयमेव इति विमलमित्रेण व्याख्यातम्। सम्प्रति तदालम्बने एतदष्टविधद्वारतो व्यवलोकनफलं ज्ञानावभासः कथमुत्पद्यते, p.6 तद्दर्शयितुम् तस्मात्तर्हि शारिपुत्र शून्यतायाम् इत्यादि। तस्मात् इति तु यथाख्याताकारैः तदालम्बनस्य व्यवलोकितत्वात्। तेन खलु तु तत्कालेन व्यवलोकनकालेन कः फलोद्भव इति। शून्यतायां न रूपम् इत्यादिनाम। शून्यतादर्शने रूपादिसमनुपलम्भज्ञानं जन्यते। तस्मात् तदालम्बने एतदष्टविधद्वारेण भाविते सति शून्यतायाम् एतादृशावभासज्ञानोत्पादस्तु दर्शनमार्गफलम् इति निदर्शितम्। एवम् दर्शनमार्गोत्पादे भावनामार्गजन्मत्वात् स देशितः। तस्मात्तर्हि शारिपुत्र, इत्यादि। वृत्तौ स्पष्टम्। तत्पश्चाद् आनन्तर्यमार्गेऽस्य वज्रोपमसमाधि - जन्माभिधानम्। तस्मिन् अनभिहिते बुद्धभूमिप्रहाण - माहात्म्योपदेशे भावनामार्गस्य आवरणद्वयप्रहाणे प्रहाणमाहात्म्यम् इष्येत्। स तु भावनामार्गसम्बद्धताज्ञानार्थं भावनामार्गमनुदर्शितः। अत्र स प्रहाणोऽपि एकवेलम्। स तु चित्तावरणं नास्ति इत्यतो निष्ठापर्यन्तं स्पष्टम्। आनन्तर्यमार्ग-दर्शनार्थम् त्र्यध्वसु इत्यत आश्रित्य इति पर्यन्तम्। सर्वबुद्धेषु इत्यत्र बुद्धस्त्वस्ति किन्तु सम्यक्सम्बुद्धो नास्ति इति स्थितौ दशभूमि - विशिष्टमार्गस्थितो बोधिसत्त्वः। तदध्वनि वज्रोपमसमाधिः स्थितो वृत्तौ स्फुटं भाषितः। अत्र सूत्रे तु अधिगममहत्त्व - चित्तमहत्त्वयोः प्राधान्यदेशनाप्रसङ्गे अयमव्यवहितो हेतुरपि प्रसङ्गेन दर्शितः। एवम् प्रहाणात्मतां दर्शयित्वा अधिगमात्मतां द्विविधां दर्शयितुम् अनुत्तर इत्यादि अस्ति। तच्च द्विविधम् - यावज्ज्ञानं यथावज्ज्ञानञ्च। चित्तमाहात्म्यमधिगममाहात्म्यं च द्वयोः स्थापितम्। तत्रानुत्तर इत्यादिना आलम्ब्यविषयः, तत्पश्चात् प्रतिपत्तिहेतुश्च अनुत्तर - फललाभः। एतत्त्रिभिः यावज्ज्ञानं दर्शितम्। तत्त्रययुक्तत्वात् सर्वं ज्ञेयवस्तु करतलामलकवत्स्थितं ज्ञेयम्। सम्यक्सम्बोधिमभिसम्बुद्धा इत्यादिभिः यथावज्ज्ञानं दर्शितम्। वृत्तौ स्फुटं दर्शितम्। एवम् मृद्विन्द्रियमधिकृत्य सम्भारमार्गः प्रयोगमार्गः, एकैकः उत्तरो दर्शनमार्गश्च त्रयः भावनामार्ग एकः, आनन्तर्यमार्ग एकः। बुद्धभूमिः तिस्रः चेति। एवम् दशप्रतिविधानेभ्य पञ्चमार्गेषु शिक्षानयः सुभाषितः। सम्प्रति तीक्ष्णेन्द्रियमधिकृत्य प्रज्ञापारमितार्थं संक्षिप्य गुह्यमन्त्रार्थव्याख्यानं तु तस्मात्तर्हि शारिपुत्र इत्यादिना। तत्पञ्चमार्गा ज्ञानार्थं त्राणार्थं च। तद्द्वयानुशंसा मन्त्रस्यैव व्याख्या। तत्तु एकादशमुत्तरम्। सा हि प्रश्नावस्था कथं शिक्षितव्या इति पृच्छोत्तरं परिसम्पन्नम् इति दर्शयितुम् एवम् शिक्षितव्यम् इति दर्शितम्।
p.7 भिक्षुणा साधुप्रज्ञेनाभ्यार्थितो दीपङ्करश्रीज्ञानः इदं सुभाषितवान् तदर्थो मया ग्रन्थे लिखितः।
अद्यात्र भोटदेशे पूर्वकुनीत्यासक्ते अद्यापि सताम् अववादे सुभाषित्वाज्ञानम्।
तथापि प्रज्ञावतां हितम् इति करुणाशया लिखितम्।
जिनजननीसम्यग्ज्ञातारं द्वेषेन न वदेत्।
भारतीयोपाध्यायेन दीपङ्करश्रीज्ञानेन लोकचक्षुषा भिक्षुशीलजिनेन च अनूद्य, संशोद्ध्य च निर्णीतः।