0२. शीलपारमितासमासः

२. शीलपारमितासमासः संबुद्धशीलाभरणाभिरामान् कर्तुं जनानुत्पतितादरेण।
स्वमेव शीलं परिशोध्यमादौ शीलं हि शक्तेर्बलमादधाति॥

१॥

लोके तथा प्रेम निवेशयेत स्वप्नेऽपि न द्रोहरुचिर्यथा स्यात्।
परोपकारैकरसः परेषां भोगानहीनामिव न स्पृशेच्च॥

२॥

द्वन्द्वप्रवृत्तेर्विनिवृत्तबुद्धिः प्रागेव दारप्रणयात् परस्य।
कुर्वीत लोकस्य हितार्थकर्ता कायेन चेष्टाः सुजनस्य चेष्टाः॥

३॥

माधुर्यरम्यामपि कालयुक्तां सत्यानुकूलामविभेदिनीं च।
सद्धर्मतत्त्वाधिगमाय वाणीं ब्रूयाद्विपक्षादुपरम्य तस्याः॥४॥

कार्यं प्रयत्नेन मया यदस्मै तत्साधनेन स्वयमेव लब्धम्।
परस्य सौख्येष्विति तुष्टचित्तः कुर्यान् मनोनिर्विषयामभिध्याम्॥

५॥

ममैव दौरबल्यमिदं यदेष क्लेशास्वतन्त्रः स्वहितं न वेत्ति।
परापराधेष्वपि कार्य एवं व्यापादवह्निप्रशमाय यत्नः॥

६॥

कुदृष्टिसं‍ज्ञं च तमःप्रतानं ज्ञानप्रकाशैर्मनसो निरस्य।
कुर्यादहार्यां नरदेववर्ये भक्तिं गुणाभ्यासविरूढमूलाम्॥

७॥

स्वर्गस्य मोक्षस्य च सत्पथेभ्यो नैवोच्चलेत् कर्मपथेभ्य एभ्यः।
अत्र स्थितानां हि जगद्धितार्थाश्चिन्ता- विशेषाः सफलीभवन्ति॥

८॥

समासतः शीलमिदं वदन्ति यः संवरः कायवचोमनस्तः।
कार्त्स्न्येन चात्रैव यतः स तस्माद् एतान्ययत्नेन विशोधयेच्च॥

९॥

हिंसानिवृत्तप्रणयो ददाति सौम्यस्वभावादभ्यं जनानाम्।
या वासना दोषकृतास्य चित्ते तां चाप्रयत्नेन समुच्छिनत्ति॥

१०॥

मैत्रीविशेषानुगते च चित्ते वैरानुबन्धेषु शमम् गतेषु।
सुखप्रबोधः सुखमेव शेते क्षीणाशुभस्वप्नविकारदोषः॥

११॥

कुर्वन्ति रक्षांस्यपि चास्य रक्षां न दुर्गतिभ्यो भयमभ्युपैति।
प्राप्नोति चारोग्यगुणाभिराममायुः प्रकृष्टं सुगतिप्रतिष्ठम्॥

१२॥

अतश्च संबोधिमुपागतानां तथागतानाममितप्रयामम्।
निर्वर्तते चित्तवशानुवर्ति लोकस्य सौख्योपचयाय वायुः॥

१३॥

अनाददानस्तु परस्य भोगान् आप्नोति भोगान्महतः परत्र।
नरेन्द्रदायादगणैरहार्यान् गिरीनिव श्वासनवैरहार्यान्॥

१४॥

आचारशुद्ध्यानुगतप्रियत्वं विश्वासपात्रत्वमिहैव याति।
अतः परोपक्रमनिर्विशङ्को गतिप्रतीघातमुपैति नैव॥

१५॥

असारबुद्धिर्धनविस्तरेषु भवत्ययत्नेन विशुद्धशीलः।
तस्मादुपक्लेशविशुद्धबुद्धिर- नुत्तरां च स्वयमेति बोधिम्॥

१६॥

कामेषु मिथ्याचरणान्निवृत्तो जितेन्द्रियत्वात् प्रशमाभिरामः।
प्राप्नोति लोकस्तुतिभिः समन्तात् कीर्तिं दिगन्तेषु विकीर्यमाणम्॥

१७॥

न चापि कं चित्प्रमदासु रागं करोति मातृरिव वीक्षमाणः।
अस्माच्च पुण्योपचयान् मुनीन्द्रः सं‍जायते वारणवस्तिकोषः॥

१८॥

वाचोऽनृतायास्तु निवर्तमानः प्रामोद्यवाञ्छाठ्यविमुक्तचित्तः।
आदेयसिद्ध्या वचनस्य सत्त्वान् करोति धर्माभिमुखान् अयत्नात्॥

१९॥

दिवौकसां च प्रियतां यदेति सत्यप्रियश्चित्रमिदं न तादृक्।
देवस्वभावो गुणपक्षपाती प्रत्यक्षिणस्तच्चरितेषु ते च॥

२०॥

प्रमाणभूतो भवति प्रियश्च यल्लौकिकानामिदमत्र चित्रम्।
प्रायेण लोको हि गुणैर्दरिद्रः स्वेनानुमानेन परान्मिनोति॥

२१॥

त्यक्त्वेव नीलोत्पलिनीवनानि विशेषदर्शी कमलायमाने।
तस्यानने संश्रयमभ्युपैति प्रह्लादनो गन्धविधिर्मनोज्ञः॥

२२॥

भ्राजिष्णुना दुर्गतितारकेण ज्ञानेन पश्यंश्च समासमानि।
स आत्मसाक्षी समुपैति लज्जां यादृच्छिकैरप्यशुभैर्वितर्कैः॥

२३॥

एवं स शुद्धप्रकृतिः क्रमेण न शङ्क्यतेऽन्यैर्न च शङ्कतेऽन्यान्।
ततोऽस्य सत्याभ्यनुवर्तनी वाग- रक्षतां याति तथागतत्वे॥

२४॥

कायः परोपक्रमणैरभेद्याः परैरहार्या परिवारसंपत्।
पैशून्यमुक्तस्य भवत्यभेद्या श्रद्धा च धर्मे प्रतिपत्तिसारा॥

२५॥

मैत्रीमभेद्यामविसंवदन्तीं कृपां च लोकार्थमसंत्यजन्तीम्।
प्राप्नोति चाभेद्यतमान् मुनित्वे जन्मान्तरस्थानपि शिष्यसंघान्॥

२६॥

क्रोधस्य सैन्याग्ररजःप्रतानं सं‍कल्पचण्डानिलविप्रकीर्णम्।
यशोवपुर्ध्वंसनमित्यपास्यं मैत्र्यम्बुवाहैः परुषाभिधानम्॥

२७॥

अस्मान्निवृत्तो मधुरैर्वचोभिर्लो- कस्य चेतांसि वशीकरोति।
लोकस्य च प्रेम्णि विरूढमूले सैवास्य वाग्ग्राह्यतरत्वमेति॥

२८॥

अतश्च लोकाञ्छतशो विनीय तेषां समावृत्य च दुःखमार्गम्।
न दुर्गतिं गच्छति पुण्यकर्मा धर्मो हि रक्षेह परत्र चैव॥

२९॥

दूरादपि व्यक्तपदानुनादः श्रीमान् अदूरेऽपि सुखस्वभावः।
मेघस्वनोदग्रतरस्ततोऽस्य ब्रह्मस्वरो वक्त्रम् अलंकरोति॥

३०॥

अबद्धवाक्याद्विरतः प्रियत्वम् एकान्ततो याति विचक्षणानाम्।
सत्याभिधाने क्रमते सबुद्धिः प्राप्नोति माहात्म्यम् अकृत्रिमं च॥

३१॥

अस्माच्च पुण्यान् मुनिराजभावे गाम्भीर्यगूढान् परिपृच्छमानः।
प्रश्नाननेकानपि चैककाले निःसंशयं व्याकुरुते स वाचा॥

३२॥

प्रेत्येह चानर्थफलैरवन्ध्यां वन्ध्यामभिध्यां समपास्य बुद्ध्या।
अनीर्ष्यभावादतिकाङ्क्षितां स प्राप्नोति विस्तीर्णतरां समृद्धिम्॥

३३॥

चित्ते विशुद्धे च तदाश्रयाणि वाक्कायकर्माणि शुचीभवन्ति।
नभस्तले कालगुणाभिरामे तारागणानामिव मण्डलानि॥

३४॥

पुण्याधिपत्यात्क्रमते च बुद्धिस्त- स्योपभोगेषु सदोत्तमेषु।
प्रयाति राज्ञामपि संमतत्वम् अधृष्यतां च प्रतिगर्वितानाम्॥

३५॥

वैकल्यमायान्ति न चेन्द्रियाणि सत्कर्मनिर्वृत्तबलानि तस्य।
अतश्च लोकत्रयपूज्य एकः शास्ता भवत्यप्रतिवर्त्यचक्रः॥

३६॥

व्यापाददाहज्वरविप्रमुक्तः साधुस्वभावाभिनयो नयेन।
व्यक्तीकरोतीव मनःप्रसादं स्वस्थप्रशान्तेन विचेष्टितेन॥

३७॥

हिंसात्मके विग्रहसंहिते वा कर्मण्यनार्याचरिते शठे वा।
न चास्य बुद्धिः क्रमते कदाचिन् मैत्रीसुखास्वादविशेषलाभात्॥

३८॥

लोके व्रजत्यार्यजनेन साम्यं सं‍मान्यते दैवतवज्जनेन।
न ब्रह्मलोकोऽपि च दुर्लभोऽस्य प्रस्निग्धकर्मण्यमनःपथस्य॥

३९॥

हिताभिनन्दी जगतामयत्नात् प्रसादयत्येव च मानसानि।
रम्यः शरत्काल इवापगानां तोयानि मेघागमदूषितानि॥

४०॥

रूपेण सर्वप्रियदर्शनेन ज्ञानास्पदेनाद्भुतचेष्टितेन।
एकीकरोतीव ततो मुनित्वे लोकस्य विज्ञानपृथक्त्वसिद्धिम्॥

४१॥

कुदृष्टिपङ्कक्रमणं लसंस्तु प्राप्नोति कल्याणहृदः सहायान्।
कर्मस्वकोऽस्तीति च कर्म पापं विशस्यमानोऽपि करोति नैव॥

४२॥

भवत्यकम्प्या च जिणेऽस्य भक्तिर्ना- यस्यते कौतुकमङ्गलैश्च।
आर्ये च मार्गे लभते प्रतिष्ठां विशेषगामित्वमतोऽभ्युपैति॥

४३॥

सत्कायदृष्ट्युच्चलितः स याति न दुर्गतिं हेतुपरिक्षयेण।
ज्ञानेन चानावरणेन युक्तो दिवःपृथिव्योर्विचरत्यसङ्गः॥

४४॥

प्रत्येकबुद्धैरपि चानवाप्ताः सर्वे ततोऽस्याभिमुखीभवन्ति।
जगद्धितार्थेषु विजृम्भमाणाः सर्वज्ञभावाय मुनीन्द्रधर्माः॥

४५॥

इमां विभूतिं गुणरत्नचित्रां श्लाघ्यां स्वयंग्राहगुणाभिरामाम्।
को नाम विद्वान् न समाददीत विशेषतः सत्त्वहिताभिलाषी॥

४६॥

दिव्याभिरामा मनुजेषु संपत् प्रकृष्टसौख्यैकरसा च दिव्या।
शीलाद्यदि स्यात् किमिवात्र चित्रं यस्मात् प्ररोहन्त्यपि बुद्धधर्माः॥

४७॥

शीलच्युतस्त्वात्महितेऽप्यशक्तः कस्मिन् परस्यार्थविधौ समर्थः।
तस्माद् विशेषेण परार्थसाधोर्न न्याय्यमस्मिञ्छीथिलादरत्वम्॥

४८॥

विवर्जयेदण्वपि वर्जनीयं तस्माद्भयं तीव्रमवेक्षमाणः।
न बोधिसत्त्वाभ्युचितं च शीलं विखण्डयेदात्मसुखोदयेन॥

४९॥

न च्छिद्रदोषैः परिजर्जरं वा स्त्रीकेलिसंवाहनवीक्षणाद्यैः।
न दुर्जनक्लेशपरिग्रहाद् वा कुर्वीत शीलं शबलप्रकारम्॥

५०॥

कल्माषदोषापगतं निषेव्यम् एकान्तशुक्लोपचयेन शीलम्।
स्वेच्छागतित्वाच्च भुजिष्यवृत्तं विद्वत्प्रशंसाभरणानवद्यम्॥

५१॥

समग्रशिक्षापदपूरणाच्च सं‍पूर्णमामर्षविवर्जितं च।
चेतोविशुद्धिप्रतिबिम्बभूतै- स्तीव्रैः परार्थैकरसैः प्रयोगैः॥

५२॥

स्मृत्याश्रयाच्चेन्द्रियसंवरेण शीलस्य संरक्षणतत्परः स्यात्।
लोकस्य दौःशील्यमभिप्रवृद्धं तमः सहस्रांशुरिवापनेष्यन्॥

५३॥

दुःखप्रतीकारनिमित्तसेव्यैः कायव्रणालेपनवेष्टनाद्यैः।
न्यायोपलब्धैः परितुष्टचित्तो- ऽपराननोल्लोकनकातरः स्यात्॥

५४॥

श्लाघ्येषु सर्वेष्वपि वर्तमानः शीलानुकूलेषु गुणोदयेषु।
अविस्मितत्वादपराधमानी कीर्तेर्बिभीयाच्च तदुद्भवायाः॥

५५॥

लाभप्रकारो हि गुणप्रकाशाच्छ- त्रुत्वमभ्येति सुहृन्मुखेन।
सरोरुहाणामिव शीतरश्मिः श्रेयः प्रमाथी शिथिलव्रतानाम्॥

५६॥

शीलं गुणाभ्यासविधिं वदन्ति सं‍बोधिचित्ते च गुणाः समग्राः।
अभ्यस्यते तच्च कृपागुणेन कारुण्यशीलः सततं ततः स्यात्॥

५७॥

यन्निश्रितं कामभवेऽपि नैव संतिष्ठते नैव च रूपधातौ।
आरूप्यधातौ यदसंस्थितं च तत्तत्त्वतः शीलमुदाहरन्ति॥

५८॥

यो लोकधातुष्वमितेषु सत्त्वा- ञ्छीले प्रतिष्ठापयिषुः समग्रान्।
निषेवते लोकहिताय शीलं तदुच्यते पारमितेति तज्ज्ञैः॥

५९॥

शीलं विशेषाधिगमस्य मार्गो दायाद्यभूतं करुणात्मकानाम्।
ज्ञानप्रकर्षस्य शुचिस्वभावो नष्टोद्धवा मण्डनजातिरग्रा॥

६०॥

लोकत्रयव्यापि मनोज्ञागन्धं विलेपनं प्रव्रजिताविरोधि।
तुल्याकृतिभ्योऽपि पृथग्जनेभ्यः शीलं विशेषं कुरुते नराणाम्॥

६१॥

अकत्थनानामपि धीरभावाद् विनापि वाग्भेदपरिश्रमेण।
अत्रासनाभ्यानतसर्वलोकं त्यक्तावलेपोद्धवमीश्वरत्वम्॥

६२॥

अप्यप्रकाशान्वयसंस्तवानाम् अकुर्वतामप्युपकारसारम्।
निष्केवले शीलविधौ स्थितानाम् असंस्तुतानामपि यन्नराणाम्॥

६३॥

रजांसि पादाश्रयपावितानि प्रणामलब्धानि समुद्वहन्ति।
चूडाग्रलग्नानि मनुष्यदेवाः श्रीमत्तरं शीलमतः कुलेभ्यः॥

६४॥

तस्मान् न दुर्गतिभयेन न राज्यहेतोर्न स्वर्गसंपदभिलाषसमुद्भवेन।
सेवेत शीलममलं न हि तत्तथा स्याल्लो- कार्थसिद्धिपरमस्तु भजेत शीलम्॥

६५॥

शीलपारमितासमासः॥