0१. दानपारमितासमासः

पारमितासमासः॥

१. दानपारमितासमासः नमो बुद्धाय॥

तथागतानां पदम् आरुरु- क्षुराश्रित्य रत्नत्रयम् आदरेण।
बोधौ निधायाविचलं मनश्च कुर्यात् परात्मव्यतिहारम् आदौ॥

१॥

ततः परं दानविधौ प्रयोगः कार्यस्तथा लोकहितोन्मुखेन।
यथा स्वगात्राण्यपि याचितस्य न योगसं‍कोचविरूपता स्यात्॥

२॥

मात्सर्यदोषोपचयाय यत् स्यान् न त्यागचित्तं परिबृंहयेद् वा।
तत्त्यक्तुमेवार्हति बोधिसत्त्वः परिग्रहच्छद्ममयं विघातम्॥

३॥

तद् बोधिसत्त्वः कथम् आददीत रत्नं धनं वा दिवि वापि राज्यम्।
यत् त्यागचित्तप्रतिपक्षदक्षं सं‍बोधिमार्गावरणं करोति॥

४॥

संस्मृत्य चर्यातिशयं मुनीनां तदुन्मुखीं स्वामपि च प्रतिज्ञाम्।
परिग्रहस्नेहविनिग्रहार्थं कुर्याद् इमांश्चेतसि सद्वितर्कान्॥

५॥

यदा निसृष्टो जगते मयायं कायोऽपी तत्त्यागकृतोऽपि धर्मः।
बाह्ये तदा वस्तुनि सङ्गचित्तं न मे गजस्नानम् इवानुरूपम्॥

६॥

मांसार्थिनो मांसमिदं हरन्तु मज्जानमप्युद्धरणात् तदर्थी।
अहं हि लोकार्थमिदं बिभर्मि शरीरकं किं बत वस्तु बाह्यम्॥

७॥

यथैव भैषज्यमहीरुहस्य त्वक्पत्त्रपुष्पादि जना हरन्ति।
मदीयमेतेऽपहरन्ति चेति नैवं विकल्पाः समुदाचरन्ति॥

८॥

तथैव लोकार्थसमुद्यतेन स्वल्पोऽपि कार्यो न मया विकल्पः।
दुःखे कृतघ्ने सतताशुचौ च देहे परस्मायुपयुज्यमाने॥

९॥

आध्यात्मिके चैव महीजलाद्ये बाह्ये महाभूतगणे च तुल्ये।
इदं ममेदं न ममेति कोऽयम् अज्ञानपङ्काङ्कविधिर्मयापि॥

१०॥

गृह्णीत गात्राण्यपि मे यथेष्टं मा कार्षुरस्मिन् परकीयबुद्धिम्।
युष्माकमेव स्वमिदं किमर्थं नात्माभिमानो मम कश्चिदत्र॥

११॥

इत्यद्भुता यस्य भवन्त्यभीक्ष्णं सं‍बुद्धभावानुगुणा वितर्काः।
तं बोधिसत्त्वातिशयं वदन्ति बुद्धा महासत्त्वमचिन्त्यसत्त्वाः॥

१२॥

एवं स दानप्रतिपत्तिशूरः करोति कायेऽपि न जात्वपेक्षाम्।
तस्याप्रयत्नादुपयान्ति शुद्धिं कर्माणि वाक्कायमनोमयानि॥

१३॥

विशुद्धकर्मा च हितं परेषाम् आयासदुःखेन विना करोति।
इत्थं स सत्त्वार्थमभिप्रयत्नो नयानये कौशलमभ्युपैति॥

१४॥

भूयस्तरं प्राप्य बलं स दानात् सद्धर्मदानेन ततः करोति।
भवान्धकारे भ्रमतां जनानां सूर्योदयात् स्पष्टतरं प्रकाशम्॥

१५॥

साधारणी लोकहितार्थसिद्धिः सर्वज्ञभावाभ्युदयप्रतिष्ठा।
अतोऽस्य पुण्याक्षयताभ्युदेति प्रभेव भानोरुदयस्थितस्य॥

१६॥

इत्यद्भुता दानमया गुणौघा ये बोधिसत्त्वाभरणीभवन्ति।
तस्मात् तदीयं परिकर्म चित्तं दानस्य कारुण्यपुरःसरस्य॥

१७॥

आयुःप्रतीभानबलादि बौद्धं निष्पादयेयं जगतामनेन।
सत्त्वा मया चामिषसंगृहीताः सद्धर्मपात्राण्यपि मे भवेयुः॥

१८॥

इत्यन्नदानं प्रददाति विद्वान् न स्वर्गसं‍पत्तिपरिग्रहाय।
पानान्यपि क्लेशतृषः शमाय लोकस्य लोकार्थचरो ददाति॥

१९॥

बौद्धस्य चैवर्द्धिविचेष्टितस्य निर्वाणसौख्यस्य च सर्वलोकः।
लाभी कथं स्यादिति लोकनाथो यानं महायानरतिर्ददाति॥

२०॥

संबुद्धवर्णस्य च हेमभासो लज्जामयस्यैव च भूषणस्य।
निष्पत्तये वस्त्रविधीनुदारान् सत्कृत्य कालानुगुणं ददाति॥

२१॥

सं‍बोधिमण्डासनम् आसनानि शय्याश्च शय्यात्रयम् ईक्षमाणः।
सर्वज्ञचक्षुःप्रतिलब्धये च चैत्येषु रथ्यासु च दीपमालाम्॥

२२॥

वाद्यानि दिव्यश्रुतिसं‍ग्रहार्थं सं‍बुद्धशीलाय च गन्धदानम्।
सभाप्रपारामविहारगेहाञ् शरण्यभावाभिमुखो ददाति॥

२३॥

दानं रसानां तु सुसंस्कृताणां रसारसाग्रत्वपरिग्रहाय।
भैषज्यदानान्यजरामरत्वं लोकान् इमान् प्रापयितुं ददाति॥

२४॥

भुजिष्यतामात्मसमं निनीषुर्दाशी- कृतान् क्लेशगणेन लोकान्।
स दासदास्यादि सदा ददाति दासानुदासानपराकरिष्यन्॥

२५॥

ददाति पुत्रान् दुहितृः प्रियाश्च बोधिप्रियत्वादनवद्यदानम्।
एकान्तसद्धर्मरतिप्रियश्च क्रीडाविशेषान् रतिहेतुभूतान्॥

२६॥

सुवर्णमुक्तामणिविद्रुमादीन् ददाति सल्लक्षणसं‍पदर्थम्।
रत्नप्रदीप्तानि च भूषणानि चित्राण्यनुव्यञ्जनसौष्ठवाय॥

२७॥

ध्यानार्थमुद्यानतपोवनानि सद्धर्मकोषाय च वित्तकोषम्।
मुनीन्द्रराज्याय ददात्यखिन्नो राज्यानि चाज्ञापनमण्डितानि॥

२८॥

चक्राङ्किताभ्यां चरणोत्तमाभ्याम् सं‍बोधिमण्डाक्रमणोत्सुकत्वात्।
स निर्विकारश्चरणप्रदानं लोकार्थनिष्पत्तिकरो ददाति॥

२९॥

दुःखापगायामतिशीघ्रगायां मग्नस्य लोकस्य कथं न दद्याम्।
सद्धर्महस्तानिति सं‍प्रदत्ते हस्तान्विकोषाम्बुरुहप्रकाशान्॥

३०॥

श्रद्धेन्द्रियादिप्रतिपूरणार्थं स कर्णनासादि ददात्यखिन्नः।
चक्षुश्च चक्षुर्विमलीकरिष्यं- ल्लोकस्य सर्वावरणप्रहाणात्॥

३१॥

उत्कृत्य मांसानि सशोणितानि ददाति कारुण्यवशेन नाथः।
भूम्यग्निवाय्वम्बुवदेव मे स्याल्लो- कोपजीव्यः कथम् एष कायः॥

३२॥

लोकोत्तमज्ञानसमापनार्थं स उत्तमाङ्गैरपि सत्करोति।
अभ्यागतस्यार्थिजनस्य याच्ञां प्रागेव देहावयवैस्तदन्यैः॥

३३॥

मज्जानमप्यद्भुतवीरचेष्टो ददाति लोकस्य कथं न कुर्याम्।
तथागतं विग्रहमप्रधृष्यं वृष्ट्यापि वज्रोज्ज्वलया पतन्त्या॥

३४॥

इत्येवमाद्यं सततानवद्यं तद्बोधिसत्त्वाम्बुधरप्रमुक्तम्।
प्रह्लाद्य दानाम्बु जगत्समग्रं सर्वज्ञतासागरमभ्युपैति॥

३५॥

अन्विष्य भोगान्विषमेण नासौ ददाति नोत्पीडनया परस्य।
न त्रासलज्जाप्रतिकारहेतोर्न दक्षिनीयान् परिमार्गमाणः॥

३६॥

न च प्रणीते सति रूक्षदानम् अदक्षिणीया इति वावमन्य।
विपाककाङ्क्षाकृपणीकृतं वा सत्कारहीनं विजुगुप्सितं वा॥

३७॥

नैवोन्नतिं शीलवते प्रयच्छन् विपर्ययं गच्छति नेतरस्मै।
नात्मानमुत्कर्षति नैव निन्दां करोति सोऽन्यस्य समप्रयोगः॥

३८॥

न चास्य मिथ्याशयदानमस्ति नैवास्त्यनध्याशयदानमस्य।
न क्रोधदोषोपहतं ददाति नैवानुतापं कुरुते स दत्त्वा॥

३९॥

न श्लाघ्यमानो विपुलं ददाति नाश्लाघ्यमानोऽन्यतरं ददाति।
न याचकानामुपघातदानं यद् वा भवेद् विप्रतिपत्तिहेतुः॥

४०॥

नाकालदानं स ददाति किंचिद् ददाति काले विषमेऽपि नैव।
न देवभावाय न राज्यहेतोर्न हीनयानस्पृहयालुभावात्॥

४१॥

नासौ मुखोल्लोकनया ददाति न कीर्तिशब्दाय न हास्यहेतोः।
पर्याप्तमेतच्च ममेति नैवं यद्वा विहिंसाहसितं परेषाम्॥

४२॥

सर्वज्ञभावापरिणामितं वा सगर्हितं वा स ददाति नैव।
ततोऽस्य तत् पारमिताभिधानं परां विशुद्धिं समुपैति दानम्॥

४३॥

दानोद्भवं तस्य च पुण्यराशिं लोकात् समग्रादपि पिण्डितानि।
पुण्यानि नैवाभिभवन्ति यस्माल्लो- कोत्तमत्त्वं स ततोऽभ्युपैति॥

४४॥

पञ्चस्वभिज्ञासु विनिश्चितात्मा लोकाय यद्वर्षति दानवर्षम्।
समन्ततस्तस्य कुतः प्रमाणं परिक्षयो वा सततप्रवृत्तेः॥

४५॥

यदक्षयाणां जगतां हिताय ज्ञानस्य हेतुश्च यदक्षयस्य।
त्रैधातुकेन क्षयिणा न तच्च संलिप्यते व्योमवदम्बुदेन॥

४६॥

तच्छून्यताकारसमाहितं च निमित्तदोषैः परिवर्जितं च।
अकिं‍चनक्लेशवियोगसिद्धेस्ते- नाक्षयं तत्कथितं मुनीन्द्रैः॥

४७॥

अस्मिन् पुनः सत्पुरुषावदाने दाने निदाने सुखविस्ताराणाम्।
चिकीर्षता योगमनित्यसंज्ञा भोगेषु कार्या करुणा च लोके॥

४८॥

भोगाननित्यानभिवीक्षमानः सात्म्यं गतायां च ततः कृपायाम्।
स निश्चयं गच्छति दीयते यद् एतान् मदीयां न तु यद्गृहे मे॥

४९॥

यद्दत्तम् अस्मान् न भयं कदा चिद् गेहे यदस्माद्भयमभ्युपैति।
साधारणं रक्ष्यमतर्पकं च दत्ते तु नैते प्रभवन्त्यनर्थाः॥

५०॥

सुखं परत्रापि करोति दत्तम् इहैव दुःखं प्रकरोत्यदत्तम्।
उल्कास्वभावं हि धनं नराणाम् अत्यज्यमानं व्यसनं ददाति॥

५१॥

अदीयमानं निधनं प्रयाति निधानतां याति हि दीयमानम्।
धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन॥

५२॥

यद्दत्तमेतद्विदुषां प्रशस्यं बालो जनस्तन्निचयप्रशंसी।
प्रायो वियोगो हि परिग्रहेभ्यो दानाद्भवत्यभ्युदयो यशश्च॥

५३॥

दत्तं न तत्क्लेशपरिग्रहाय क्लेशाय मात्सर्यमनार्यधर्मः।
यद्दीयते सत्पथ एष तस्माद् अतोऽन्यथा कापथमाहुरार्याः॥

५४॥

अभ्यागते याचनके च तेन सं‍बोधिसं‍भारविवृद्धिहेतौ।
तत्प्रेष्यसं‍ज्ञात्मनि संनिवेश्या कल्याणमित्रप्रियता च तस्मिन्॥

५५॥

महात्मनां यत्प्रतनूभवन्ति रागादयो याचनकान्निशम्य।
तेनोत्सवाभ्यागममप्यतीत्य तेषां प्रियं याचनकोपयानम्॥

५६॥

स चेत्पुनर्याचनकेऽपि लब्धे दातुं न शक्नोत्यतिदुर्बलत्वात्।
तेनानुनेयो मधुरेण साम्ना स याचकः स्यान्न यथा समन्युः॥

५७॥

कार्यश्च मात्सर्यविनिग्रहाय मोहप्रहाणाय च तेन यत्नः।
तथा यथा याचनकः कदा चिद् वैमुख्यदीनो न ततो व्यापैति॥

५८॥

सं‍बोधिचित्तं कुत एव तस्य द्रव्येऽपि यो मत्सरमभ्युपैति।
वासः सुचित्तस्य हि नास्ति दोषैरम्भो- निधानस्य शवैर्यथैव॥

५९॥

तस्मात् त्यक्त्वा सर्वतः सर्वदोषान् बोधिप्रार्थी सर्वदा सर्वदः स्यात्।
त्रातुं लोकानेकवीरः क्व चित्तं चेष्टा दैन्यानूर्जितेयं क्व चैव॥

६०॥

मूलं दानस्यास्य सं‍बोधिचित्तं तन्न त्याज्यं दित्सता दानमीदृक्।
तं संबुद्धास्त्यागिनामग्रमाहुर्यो लोकेषु त्यागमाधित्सुरग्रम्॥

६१॥

दानपारमितासमासः॥