चतुर्थविंशतितमपरिवर्तः।
सप्तमसर्वमाराभिभवेन स्वरूपविवृद्ध्यर्थमाह। अथ खलु भगवानित्यादि। शिक्षत इत्यादि पदत्रयं प्रयोगानन्तर्यविमुक्तिमार्गभेदादुक्तम्। शोकशल्यविद्धा इति स्वगोचरातिक्रमेण वैमनस्यप्राप्ताः । चरत्यसमाहितेन चित्तेन,योगमापद्यते ससमाहितेन। न ह्येवमत्र युज्यमानमिति। यथान्येषु सूत्रान्तेषु भाषितं,तथा नैवात्र घटमानवस्तु निर्दिष्टमतोऽस्य भाषितस्य श्रुतचिन्तामयज्ञानेन बोद्धुमशक्यत्वाद्यथाक्रममगाधमास्वादञ्च न प्राप्नुयामित्यर्थः। मृदुमध्याधिमात्रसुखोदयेन तुष्ट उदग्र आत्तमनास्तथैव त्रिविधसौमनस्योत्पादात्प्रमुदितः प्रीतिसौमनस्यजातः। प्रयोगादिषु विघ्नकरणासामर्थ्यात्संहर्षजातो हर्षितचित्तः प्रीतिप्रामोद्यजातः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। दूरीकरोतीत्यादि। उद्गता इत्युत्सदाः। अध्याक्रान्ता इत्यभिभूताः। अनिर्दिष्टत्वायेत्यादि पदचतुष्टयं नरकतिर्यक्प्रेतासुरगतिसंवर्तनीयत्वादिति केचित्। तत्र स्वस्थाने बाह्यमारम्भात् कलहायति। राजकुलादौ विवदनाद्विवदति। दण्डादिग्रहणाद्विगृहीते। दुःखं प्रति समाज्ञानादाक्रोशति। प्रहारनियमनात्परिभाषते द्वेषोपनिपाताद्ध्यापद्यते। क्रोधोत्पादात् दोषमुत्पादयति। सन्नाहः सन्नह्य इति। यदि सा सर्वज्ञता परित्यक्ता तदा कलहादिसमुत्थपापापनयनार्थम्। चित्तोत्पादसंख्यावच्छिन्नकल्पप्रमाणं वीर्यं करणीयमित्यर्थः। गुरुतरत्वात् पापस्यानिःसरणसम्भवप्रश्नार्थमाह। अस्ति भगवन्नित्यादि। सम्भवप्रतिपत्तिपक्षत्वेन सर्वेषामेव सम्प्रतिकर्मको धर्म इति व्याप्तमावेदयन्नाह। सन्निःसरण इत्यादि। एतदुक्तं श्रावकयानिकानां संयाने संघादिशेषाद्यापत्तेः प्रतिक्रियादेशनया सम्प्रतिकधर्मको धर्मदेशिकस्तथा महायानिकानां बोधिसत्त्वपिटकादौ देशित इति। प्राधान्याद्बोधिसत्त्वानामारभ्य स्पष्टयन्नाह। तत्रानन्द योऽमित्यादि। कृतपापदेशनान्न देशयति। अकरणसंवराकरणान्नायत्यां संवराय प्रतिपद्यते। उत्सारयितव्या इत्यादि पदत्रयं मृदुमध्याधिमात्रविग्रहाद्यपनयनात्। दुर्लब्धा इति। योऽहं जल्पिते सति परस्मिन् प्रतिजल्पामीति कलहादयः प्रशस्तत्वेन दुर्लब्धा इत्येवं चित्तमुत्पादयतीत्यर्थः। परुषं वा कर्कशं वेति। श्रोत्रासुखकारित्वात्परुषं वैमनस्यकरत्वात् कर्कशम्। दुरुक्तानीत्यादि। पैशुन्यपारुष्यसम्भिन्नप्रलापभेदादुक्तं। तथैतत्कस्य हेतोरित्याशङ्क्याह। न मयाऽध्यास इत्यादि। क्षोभः संरम्भः। भ्रूकुटिर्ललाटसंकोचः। सर्वसत्त्वानामन्तिके स्थातव्यमिति। यथोक्तक्रमेण मारकर्मणामभिभवनात् सत्त्वविषये वर्तितव्यम्। अष्टमशास्त्रसदृशजनसमानावस्थालक्षणविवृद्ध्यर्थमाह। कथं चानन्देत्यादि। तत्र एकयानसमारूढास्तुल्यसन्नाहप्रतिपत्त्या। एकमार्गसमारूढाः सदृशप्रस्थानप्रतिपत्त्या। समानाभिप्रायाः सम्भारप्रतिपत्तेरेकत्वेन समयानसम्प्रस्थिता निर्याणप्रतिपत्तेस्तुल्यत्वेन। यत्रेति दानादौ,यथेत्यनुपलम्भयोगेन॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामभिमानपरिवर्तो नाम चतुर्विंशतितमः॥