23 पञ्चविंशतितमपरिवर्तः

पञ्चविंशतितमपरिवर्तः।
नवमोपायकौशलपरिशुद्धशिक्षास्वरूपविवृद्ध्यर्थं प्रश्नयन्नाह। क्व पुनरित्यादि। क्षयादौ शिक्षामाणो बुद्धत्वे शिक्षत इत्यावेदयन्नाह। सचेदित्यादि। तथतैव व्यावृत्तिभेदाद्यथा क्षयानुत्पादादिभिर्व्यपदिश्यते तथा व्याख्यातम्। कथमन्यत्र शिक्षायामन्यत्र शिक्षा विधीयत इति पृच्छयन्नाह। किङ्कारणमित्यादि। यत्सुभूत इत्यादिना। तद्वचनमनूद्य परिप्रश्नेन परिहरन्नाह। तत् किं मन्यस इत्यादि। तथतेति सर्वज्ञताबुद्धत्वमितियावत्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अक्षयो हि भगवन् क्षय इति। क्षीयन्तेऽस्मिन् सर्वविकल्पा इति बुद्धत्वं क्षयो धर्मधातुर्विनाशरहितत्वादक्षय इति। तादात्म्यसम्बन्धेन क्षयादिस्वभावा सर्वज्ञतेत्यर्थः। उत्पद्यत इत्याद्यनुत्पादादिविपर्ययेनावगन्तव्यम्। परिशुद्धशिक्षत्वेन प्रशंसार्थमाह। तस्मात्तर्हीत्यादि। पूर्ववत्कस्य हेतोरियाशङ्क्याह। सर्वसत्त्वसारा हीत्यादि। तत्र पक्षिघाटकाः शाकुनिकाः मांसविक्रयकारिणो निषादाः। कैवर्ताः धीवराः। मृगादिघाटनादौरभ्रिकाः। चक्षुःश्रोत्रविज्ञानाभावादन्धवधिरौ एकाक्षिवैकल्यात्काणः। हस्तादिच्छेदात्कुण्ठः। वक्रपृष्ठत्वात् कुञ्जः। कुर्परोपरिह्रस्वपर्वत्वात्कुणिः। विसदृशजंघोरुत्वाल्लङ्गः। स्खलद्गतित्वात् खंजः। सहसा वक्तुमसमर्थत्वाज्जडः। क्कचिज्जड्ड इति पाठस्तत्राप्ययमेवार्थ इति केचित्। लाल इत्युच्चार्यवचनाल्लोलः। गुरुलकारमुच्चार्याभिधानाल्लल्लः। उच्चैःश्रवणात्कल्लः। हस्तपादाद्यल्पप्रमाणत्वेन हीनाङ्गः। न्यूनातिरेकाङ्गत्वाद्विकलाङ्गः। वैरूप्याद्विकृताङ्गः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अस्ति हि तस्येत्यादि। प्रकृतिपरिशुद्धित्वेन बलादिविशुद्ध्याधिगमो नोपपद्यत इत्याह। यदा भगवन्नित्यादि संवृत्यधिगमादाह। एवमेतदित्यादि। पूर्ववत् तत्कस्य हेतोरियाशङ्क्याह। सर्वधर्मा हीत्यादि। एतदुक्तं प्रकृतिपरिशुद्धित्वेऽपि सर्वधर्माणां स्वभावशुद्धधर्मापरिज्ञानवतां सत्त्वानां तथाभूतज्ञानोत्पादनार्थं मायोपमधर्मभावनया संसीदनत्वेन संवृत्या बलादिपरिशुद्धिं प्राप्नोतीति। दशमबुद्वगोत्रीभवनलक्षणविवृद्ध्यर्थमाह। तद्यथापि सुभूतेऽल्पकास्ते महापृथित्वामित्यादि। क्षारप्राचुर्यादूषराः। रुक्षत्वादुज्जङ्गलाः। अल्पकास्ते बोधिसत्त्वा इत्यनेन बुद्धगोत्राणामूर्ध्वाभिगमनसमये वैवृद्धिलाभयोग्यानामल्पीयस्त्वं ज्ञापितं स्यात्। एकादशमबुद्धत्वफलप्राप्तिनिमित्तात्मकविवृद्ध्यर्थं मृदुमध्याधिमात्रदृष्टान्तभेदेन हारकत्रयमाह। पुनरपरं तद्यथापि नामेत्यादि। प्रज्ञापारमितामार्गमिति। तथागतप्राप्तिनिमित्तामेकदशां विवृद्धिमित्यर्थः। द्वादशपारमिताविपक्षचित्तानुत्पादस्वभावविवृद्धर्थमाह। एवं हि सुभूते प्रज्ञापारमितायामित्यादि। तत्र कल्पितपरतन्त्रपरिनिष्पन्नवस्त्वभिनिवेशेन यथाक्रमं संगृहीताः परिगृहीता उद्गृहीताः। विपर्यासरहितत्वेनावबोधादनुगताः। चतुर्दशसर्वपारमितासंग्रहज्ञानलक्षणविवृद्ध्यर्थमाह। तद्यथापि नाम सुभूते सत्कायदृष्टावित्यादि।
द्वाषष्टिदृष्टयो ब्रह्मजालपरिपृच्छादौ द्रष्टव्याः। ग्रन्थप्राचुर्यान्न लिख्यन्ते। यथोक्तविवृद्धिमेव स्पष्टयन्नाह। तद्यथापि नाम सुभूते पुरुषस्येत्यादि। पञ्चदशसर्वसम्पत्प्रतिलम्भार्थविवृद्ध्यर्थमाह। तस्मात्तर्हि सुभूते बोधिसत्त्वेत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। पुण्याग्रत्वादिति। अमुमेवार्थं विस्तारयितुं प्रश्नयन्नाह। तत्किं मन्यस इत्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। एवं महार्थिका हीत्यादि। तत्र दर्शनादिमार्गचतुष्टयाधिगमादनुत्तरतां गन्तुकामेनेत्यादि पदचतुष्टयम्। धर्मसम्भोगनिर्माणकायत्रयप्रतिलम्भाय बुद्धविक्रीडितमित्यादिपदत्रयं वाच्यम्। सर्वसम्पत्प्राप्तौ श्रावकोऽपि स्यादित्याह। किं पुनरित्यादि। अन्यार्थतयाभ्यसनान्नैव श्रावक इत्याह। श्रावकसम्पत्तिरपीत्यादि। षोडशसम्यक्सम्बोध्यासन्नीभावस्वभावविवृद्ध्यर्थमाह। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्व इत्यादि। तत्राप्यभिनिवेशो बन्धनमित्याह। सचेत्पुनरित्यादि। न चरतीति भावोपलम्भविपर्यासादिति भावः। अनभिनिवेशस्तत्त्वमित्याह। अथ तामपीत्यादि। यथोक्ता एव विवृद्धयो ग्राह्याः। तथा चोक्तम्।
जम्बुद्वीपजनेयत्ताबुद्धपूजाशुभादिकाम्।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका॥२॥

इति अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शिक्षापरिवर्तो नाम पञ्चविंशतितमः॥