22 त्रयोविंशतितमपरिवर्तः

पञ्चमविशिष्टकुशलमूलसमन्वागमात्मकवृद्ध्यर्थमाह। तेन खलु पुनरित्यादि। बालजनोत्त्रासकलत्वादाकाशगम्भीरतया गम्भीरा। हेतुफलभावरहितत्वेन यथाक्रमं विविक्तत्वाद्दुदृशा शून्यत्वाद्दुरनुबोधा। दर्शनभावनाविशेषमार्गोत्पादनार्थं यथासंख्यं शिक्षिष्यन्ते,प्रतिपत्स्यन्ते,योगमापत्स्यन्त इति वाच्यम्। संवरसत्त्वार्थक्रियाकुशलधर्मसंग्राहकत्रिविधशीलस्कन्धानां विपक्षधर्मरहितत्वादखण्डेनेत्यादि पदत्रयम्। तेषामेवानुकूलधर्मसद्भावात्परिपूर्णेनेत्याद्यपरं पदत्रयमिति केचित्। कायिकवाचिकमानसाविद्याभावादखण्डाच्छिद्राकल्माषः। श्रुतचिन्ताभावनाज्ञानसम्पन्नत्वात्परिपूर्णः परिशुद्धोऽशवलः शीलस्कन्ध इत्यपरे। क्षान्तिसम्पन्ना इत्यादि पदत्रयं दुःखवासनादित्रिविधक्षान्तिभेदात्। आलब्धवीर्या इत्यादिपदचतुष्टयमालम्भपरिकर्मप्रत्यवेक्षाप्रतिपत्तिवीर्यभेदात्। ध्यानारामा इत्यादि षट्पदानि। अनागम्यध्यानान्तरप्रथमद्वित्रिचतुर्थध्यानाभिधमयोगात्। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। यो हि बोधिसत्त्व इत्यादि। षष्ठसर्वदेवनिकायोपसंक्रमस्वभावविवृद्ध्यर्थमाह। एवं शिक्षमाणञ्च प्रज्ञापारमितायामित्यादि। अहमपीति शक्रः। नोत्पत्स्यन्त इति। तथागताद्यधिष्ठानादिति भावः॥

अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शक्रपरिवर्तो नाम त्रयोविंशतितमः॥