14 चतुर्दशपरिवर्तः

चतुर्दशपरिवर्तः।
तीव्रप्रतिपत्तिविशेषं द्वितीयक्षणसंगृहीतं कथयन्नाह। यो भगवन् बोधिसत्त्व इत्यादि। सह श्रवणेनेति। श्रवणमात्रानन्तरम्। तत्र श्रवणचिन्ताभावनाक्रियाविरोधेन यथाक्रमं नावलीयते न संलीयते नावतिष्ठते। यतोऽज्ञानसंशयमिथ्याज्ञानविरहान्न धन्वायति न विचिकित्सति न कांक्षतीति पदार्थो वाच्यः। अभिलाषयोगादभिनन्दति। न विपृष्ठीकरिष्यति मानसमिति। न विप्रतिसारञ्चित्तमुत्पादयिष्यति। करिष्यत्यनुबन्धमिति धर्मभाणकस्यापरित्यागात्तदेवाह। अनुगमिष्यति धर्माभाणकं नोत्स्रक्ष्यतीति। एतदेव दृष्टान्तेन वक्तुमाह। तद्यथा नाम सुभूत इत्यादि। कायगता चेत्युरोगता करणात्। पुस्तकगता वेति पुस्तकधारणात्। समुदागमविशेषं तृतीयक्षणसङ्गृहीतं वक्तुमाह। स्याद्भगवन्नेतैरित्यादि। स्याद्भवेत्। किमिति काक्वा प्रश्नः। एतैरेव गुणैरिति प्रज्ञापारमिताधिमोक्षनवलयादिभिः। अन्वयमुखेन परिहरन्नाह। स्यात्सुभूते बोधिसत्त इत्यादि। व्यतिरेकमुखेनापि निर्दिशन्नाह । येन खलु पुनरित्यादि। निर्युक्तिक एवायमिति। तत्कस्य हेतोरित्याशङ्क्याह। तथा ह्यस्यास्यामित्यादि। एतदुक्तम्। “यस्मान्मातुर्वासनाधानवैकल्येन कांक्षायितत्वादिकं भवति,तस्मात् पूर्वमपरिपृच्छकजातीय"इति। तदेव स्पष्टयन्नाह। पुनरपरमित्यादि। तावत्कालिकीति। कतिपयादिनानुबन्धिनीति। संह्रियते चेति। विरोधप्रत्ययबलादपनीयते। असंहार्या चेति परिपृच्छाबाहुल्येनाशक्योत्तरा। तथैव तत्कस्य हेतोरित्याशङ्क्याह। एवं ह्येतत् सुभूते भवतीत्यादि। धर्मतैषा यत्कारणानुविधायि तत्कार्यमित्यर्थः। येन पूर्वं न सम्परिपृष्टेत्यादौ तु सर्वकालमिति भावः। यतोऽनन्तरमेवोक्तमेकं वादिनमित्यादि। कञ्चित्कालं छन्दोऽनुवर्तत इति। कतिपयदिनाभ्यासबलात्तावन्मात्रमभिलाषो भवति। कारणानुरूपत्वात् कार्यस्येति मतिः। उत्क्षिप्यत इति। श्रद्धातो भ्रश्यते। अवसीदतीति श्रद्धायोगेऽपि। चलाचलेति प्रतिनियतधर्मानालम्बनात्। तदेवाह। तूलपिचूपमश्चेति। तूलवर्त्तिकरणाय संस्कृतं तूलकं तूलपिचुः। तेनानवास्थितसाधर्म्यात्सदृशस्तदुपमः श्रवणाद्यवस्थासु प्रयोगादिषु वा यथासंख्यं नानुग्रहीष्यति नानुवर्तिष्यते नानुपरिवारयिष्यतीति वाच्यम्। आलम्बनविशेषं चतुर्थक्षणसंगृहीतं निर्दिशन्नाह। तद्यथापि नामेत्यादि। बाह्याध्यात्मिकोपद्रवाभावात्। स्वस्तिनाऽनन्तरायेणेति द्वयोरुपादानम्। तदेवाह। अक्षताश्चानुपहताश्चेति। व्यध्वनीत्यन्तराल एव मार्गे विनाशमापत्स्यते। अस्ति श्रद्धेत्यादि। तत्र श्रद्धास्तित्वेनाभिसम्प्रत्ययः। क्षान्तिरनुत्पादादिधर्मक्षमणम्। रुचिरवग्रहः। छन्दः कर्तुकामता। वीर्यं कुशलोत्साहः। अप्रमादः कुशलाकुशलयोर्यथाक्रमं सेवनासेवने। अधिमुक्तिर्निश्चयावधारणम्। अध्याशयः परोपकारादिप्रवणं चित्तम्। त्यागः फलेन सह सर्वस्वपरित्यजनम्। गौरवं सर्वत्र नम्रता। प्रीतिः सौमनस्यम्। प्रामोद्यं हर्षविशेषः। प्रसादो गुणवत्तादर्शनाद्भक्तिविशेषः। प्रेम शक्यानुष्ठानेऽभिलाषः। अनिक्षिप्तधूरता प्रतिज्ञाभारापरित्यागः। अनालम्बनालम्बनोदाहरणं सान्तरनिरन्तरकारिणोः सर्वाकारज्ञताविपक्षप्रतिपक्षभावपरिदीपनार्थम्। आधारविशेषं मार्गे प्रथमक्षणसंगृहीतं वक्तुमाह। तद्यथापि नाम सुभूते स्त्री वेत्यादि। निर्युक्तिक एवायमिति। तत्कस्य हेतोरित्याशङ्क्याह। वस्तुधर्मत्वेन परिहरन्नाह। यथापि नामेत्यादि। परिवहेदित्युदकं नयेत्। तथैव तत्कस्य हेतोरित्याशङ्क्य पूर्ववदाह। यथापि नामेत्यादि। प्रज्ञापारमितोपायकौशल्येनेति शून्यताकरुणाभ्यामित्यर्थः। परिपक्वामघटौ प्रतिपत्तिधर्मस्याधारानाधारभावसन्दर्शनार्थौ। साकल्यविशेषं द्वितीयक्षणसङ्गृहीतं प्रतिपादयन्नाह। दुष्प्रज्ञाजातीय इत्यादि। अनाकोटितामिति। उदकप्रवेशस्थाने वल्कलादानात्। अपरिकर्मकृतामिति। पूतिकाष्ठानपनयनात्। भारार्त्तामभिरूढं इति। गुरुभारभरितामुत्कलितः। असन्तीर्णभाण्डैव सम्पत्स्यतीति। अप्राप्तस्थलपरिष्कारैवावसादं यास्यति। परिहीन इत्यप्राप्तपरिहाण्या। अन्तरा संसत्स्यति व्यवसादमापत्स्यते इति। अन्तराभेदं यास्यति। बुद्धभूमिञ्च प्रति विषादमापत्स्यते। अनागतार्थनिश्चयाभावात् कथं स्थास्यत्ययमिति। तत्कस्य हेतोरित्याशङ्क्याविकलकारणमात्रानुबन्धियोग्यतानुमानादाह। एवं ह्येतत्सुभूत इत्यादि। आकोटितानाकोटितनौग्रहणं प्रतिपत्तिवैकल्यसाकल्यज्ञापनार्थम्। सम्परिग्रहविशेषं तृतीयक्षणसङ्गृहीतं प्रतिपादयन्नाह। कश्चिदेव पुरुषो जीर्ण इत्यादि। तत्र जराजर्जरितगात्रत्वाज्जीर्णः। वयःप्राप्तत्वेन वृद्धः। सुभाषितदुर्भाषिताविवेकत्वान्महल्लकः। क्षपित इत्युपहतः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। यथापि नामेत्यादि। जीर्णपुरुषस्य परिग्रहापरिग्रहोदाहरणं प्रज्ञापारमितोपायकौशलपरिग्रहापरिग्रहाभ्यां यथायोगं संसारनिर्वाणैकान्तपातापातार्थपरिदीपनार्थम्।
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामौपम्यपरिवर्तो नाम चतुर्दशः॥