निष्पन्नक्रम ॥
पूर्व्वोक्तानि रक्षादीनि तत्वेन विना न सिध्यन्ति।
यथोक्तं भगवता। चतुर्देवी परिपृच्छामहायोगतन्त्रे।
चतुरशीतिसाहस्रे धर्म्मस्कन्धे महामुनेः। तत्वं (वै) ये न न
जानन्ति ते च सर्व्वे च निष्फला इति॥
अतस् तत्वम् अवतार्यते। किन् तत् तत्वं।
बोधिचित्तं आद्यनुत्पन्नम् शातम् इति यद् उक्तं भगवता समाजोत्तर
व्याख्यातन्त्रे। अनादिनिदनं शान्तम् भावाभावक्षयं विभुं।
शून्यताकरुणाभिन्नं बोधिचित्तम् इति स्मृतं। एतच् च कायवाक्चित्त-
विवेकादिव्यतिरेकेण न सिध्यतीति। तद् अवतार्यते। तत्र साधकः
शून्यताधिमोक्षेन
प्राकृताहंकारम् अपनीय झट् इत्य् आत्मानं महावज्रधररूपं
शुक्लवर्ण्णं द्विभुजम् इत्य् आदिना। एवं चतुर्योगकरस् तु योगी
हूंकारगर्ब्भं प्रविचिन्त्य लोकं दृष्ट्वा जगत्तद्भववज्रसत्वं
(1)
व्युत्ताय तद्धीर् व्विचरेद् यथावद् इति पर्यन्ते
न। उपलब्धमन्त्रात्मकस्य वज्रधरकायस्यालीकत्वं यद्
अस्वभावस्वभावत्वेन परिज्ञानं स कायविवेकः। अथवा शतकुलप्रभे
देनालीकत्वं यत् कायस्य। कुलाः शतविधाः प्रोक्ता इत्य् आगमात्
लोकव्यवहारेणैवालीकत्वं कुमारयौवन वृ
द्धावस्थानां स्वभावानुपलब्धेः। तस्माद् आगमाधिगमाभ्यां
त्रैधातुकस्थितकायस्यालीकत्वं कायविवेकः। यथा जलतलान्तर्ग्गतस्य
कायस्येति। हूंकारगर्ब्भम् इति त्र्यक्षरसमुद्भूतत्वात्।
कायस्यालीकत्वं ज्ञात्वा तत्कारणस्य त्र्यक्षरस्य कथम् अली
कत्वं। तत्र वायुतत्वानुपूर्व्वेण विना न प्रज्ञायते।
(2)
वायुतत्वं नाम प्राणवायुः। स नासिकाच् छिद्राभ्यां चतुर्म्मण्डलक्रमेण
प्रवेशस्थितिव्युत्थानैर् द्व्ययुतशतषोदशं भवति। तेषु प्रवेशादिषु।
ओं आः हूं इति सांकेतिको मन्त्रजापः। तस्य भावनया नासाग्रे सर्षपं
चिन्तेत् सर्षपे च सचराचरं भावयेद् इत्यादिना
प्रकर्षपर्यन्ते नद्ययुतशतषोदशनिरोधात्। त्र्यक्षरस्यापि निरोध इत्य्
अलीकत्वं आवाचो वाग्विवेकः। यथा प्रतिशब्दस्य। अनेनैव क्रमेण
वायुसंयुक्तवाच् चित्तस्य ग्राह्यग्राहकग्रहनरूपस्य तत्कार्य
षष्ट्युत्तरशत
प्रकृतेर् अपि विरागरागमध्यरागादेर् अलीकत्वम् इति चित्तविवेकः।
यथा स्वप्नचित्तस्य। एवं द्वितीयवज्रजापक्रमेण वाक्चित्तयोर्
अस्वभावस्वभाव परिज्ञानात्। ता एव प्रकृतयो द्वाषष्टिदृष्टयो ऽष्टानवतिक्लेशाश्
च संभवन्त्यः संसारहेतुका न भव
(3)
न्ति दृष्टिक्लेशानाम् अप्य् अस्वभावस्वभावत्वात्। नैते नाम
मारणान्तिकाः पञ्चस्कन्धाः अन्तराभावलक्षणम् कार्यं जनयन्ति।
स्वाधिष्ठानोपदेशप्राप्तानां किन् तु स्वाधिष्ठानलक्षणं कार्यं
जनयन्ति तच् चाष्टपदार्थान् विनाशोत्पत्तिहेतू विना न ज्ञायते।
यथार्यदेवपादाः। पृथिव्यादीनि चत्वारि तथा शून्यचतुष्टयं।
अष्टौ पदार्था विज्ञेया विनाशोत्पत्तिहेतवः। तेषां विनाशक्रमस् तावत्
प्रदर्श्यते। वैरोचनात्मकं रूपस्कन्धं तत्कुलीनं च क्षितिगर्ब्भादिकं
संगृह्य प्राङ् महीं लोचना
तयों गच्छेत्। तोयं मामकी रत्नसम्भवात्मकं वेदना
तत्कुलीनवज्रपाण्यादिना सह पावकं गच्छति। पावकस् तु
पाण्डरवासिनी अमिताभात्मकसंज्ञास्कन्धं तत्कुलीनञ् च॥
(4)
घ्रानेन्द्रियादिकं गृहीत्वा वायुधातुं प्रविशति। वायुः पुनस् तारा अमो
घसिद्धिस्वभावः संस्कारस्कन्ध तत्कुलीन रसनेन्द्रियादिना
एकीभूय शुन्यं ज्ञानम् आलोकप्रतिपक्षं गच्छति। शून्यं पुनर्
विरागादिप्रकृत्या सहालोकाभासप्रतिपक्षातिशून्यज्ञानं याति। तद्
रागादिप्रकृत्यालोकोपलब्धिप्रतिपक्षं महाशून्यज्ञानं गच्छति।
महाशून्यन् तु मध्यरागादिना प्रभास्वरं प्रविशति
आर्यनागबुद्धिपादैर् अप्य् उक्तं पृथग्भावे चतुर्ण्णां च गते स्कन्धे
तथेन्द्रिये। क्रमेणानेन लीयन्ते यथैवागमनं पुराः। प्राङ् मही
सलिलं गच्छेज् जलं गच्छति पावकं। पावको वायुम् अन्वेति वायुर् वि
ज्ञानम् आविशेत्॥
विज्ञानं धारणं गत्वा प्रभास्वरम् अथाविशेत्।
तस्माद् गन्धर्व्वतां गत्वा जायते कर्म्मचोदितं॥
एवं जन्मसमुद्रेषु भूत्वा भूत्वा पुनः पुनः प्रकृत्यावर्त्तसंभ्रामात् (5) पारं न लभते जगत्॥
एतेनैतद् अपि व्याख्यातुं भवति। प्रत्याहारस्
तथा ध्यानं प्राणा
यामश् च धारणा इति। तस्माद् धारणाङ्गं महाशून्यं ततो
ऽतिशून्यं जायते। ततः शूयञ् च एतेनानुस्मृतिः कथिता। तेषां
सत्यद्वयाद्वैधीकारपरिज्ञानात् समाधिर् इति। कथितम् आलोक उपदर्शिना
दशभूमीश्वरत्वं प्रतिपादितं। आभास
त्रयदर्शी च दशभूम्यां प्रतिष्ठित इत्य् आगमात्।
स्वाधिष्ठानानुपूर्व्वेण प्रभास्वरोपदेशं यो लब्धवान् स
वज्रोपमसमाधिना सर्व्वबुद्धगुणालंकृतो बुद्धभूमौ
विश्वरमणेनामेयदेवीसमापत्त्या आ संसारं स्थितिं कुर्याद् इत्य् अपि
प्रतिपादितं। स्वचित्तनिराभासमात्रेण प्रज्ञापारमिता-
विहारानुप्राप्ता। उत्पादक्रियायोगरहिता। वज्रबिम्बोपमसमाधिः।
(6)
तथागतकायानुगतं प्रतिलभन्ते बोधिसत्वा इत्य् आगमात्। एवं
कायवाक्चित्तस्य यथाभूत
परिज्ञानम् अधिगम्य कर्मवादिनः सत्वा अनादिसन्सारे
स्वविकल्पोद्भूतक्लेशकर्म्मप्रबन्दात् कोशकार कीटवत् स्वयम् एव
महान्तं दुःखस्कन्दं संस्कृत्य जन्मपरम्परयोपचितशुभाशुभ-
कर्म्मणः फलविपाकम् अनुभूय पुनः
परमार्थमण्डलक्रमेण कलेवरं परित्यज्य। वायुधातु-
संगृहीतो वेदनासंप्रयुक्तस् तृष्णया ऽनुबद्धो धर्म्मधातुनिःस्यन्दितः
स्मृत्या परिगृहीतः कुशलाकुशलारक्षणसंप्रयुक्तः पञ्चषड्-
वर्षोपमः शिशुः सकलाक्षो गन्धाहारो वज्रादिभि
र् अप्य् अभेद्यः कर्म्मर्द्धिवेगवान् सप्ताहात् गत्यन्तराले स्थित्वा
स्वविकल्पोद्भूतशुभाशुभकर्म्मणा संचोदिते सति। हेतुप्रत्ययं च प्राप्य
पञ्चगतिषु घटीयन्त्रन्यायेन पुनः पुनः प्रतिसन्धिं गृह्णाति।
सांसारिकदुःखं चानुभवति तत्रायं प्रतिसन्धि
(7)
क्रमः। अन्तराभवात् प्रथमम् उपायज्ञाने प्रज्ञाज्ञाने चोत्पन्ने
सति। माता कल्या भवति ऋतुमती च मातपितरौ अनुरक्तौ भवत इत्य्
उभयानुरागणं दृष्ट्वा कामोपदानात्। अन्तराभवं हित्वा वैरोचनद्वारेण
प्रविश्य ज्ञानभूमिञ् च प्राप्य सूक्ष्म धा
त्व् अनुप्रवेशात्। उत्पद्यते। तेजस् ततः सलिलं सलिलाज् जायते
पृथ्वी एवम् उभाव् अपि परमानन्दसुखेन द्रावयित्वा शुक्र
शोणिताभ्यां मिश्रीभूय योनिमध्ये बिन्दुरूपेण पतितः। इमम् अर्थं
द्योतयति। श्रीगुह्यसमाजमहायोग तन्त्रे सर्व्वतथागतकाय
वाक्चित्तवज्रयोषिद्भगेषु विजहारेति। ततः क्रमेण वर्द्धते।
प्रथमं कललाकारं ततो ऽर्ब्बुदं तस्माज् जायते पेशी ततो घणञ्
(8)
च घणात् पुनर् व्यायुना प्रेर्यमाणात्। शाखाप्रशाखापञ्चविधस्फोटाकाराः
प्रजायन्ते ततः केशरोमन
खादय इन्द्रियानि रूपाणि व्यञ्जनानि चानुपूर्व्वशः। इति
भवोत्पत्तिक्रमेण कललादिषु अक्षोभ्यादीनां यथाक्रमं न्यासः
प्रतिपत्तव्य आगमात्। तस्माद् यत्नेन कायवाक्चित्तविधिकम् अधिगम्य।
सम्यग् वज्रगुरुम् आराध्य स्वाधिष्ठानाभिमुखो
भवति। अनेन क्रमेण प्राप्तकायवाक्चित्तविवेको गुरु
तुष्ट्याज्ञां प्राप्य महतीं गणपूजां कृत्वा वज्रगुरवे षोडशाब्दिकां
कन्यां निर्यातयेत्। प्राक् रजोमण्डलादौ मालासलिलाद्य् अभिषेकेण
कायविवेकं
लब्ध्वा गुह्याभिषेकेण वाग्विवेकम् आसाद्य। तेनैव
(9)
चित्तविवेकं च। यस्माद् वायुना सूक्ष्मरूपेण चित्तं सम्मिश्रितां
गतम् इत्याद्य् आगमः। आर्यदेवपादैर् अप्य् उक्तं वाग्विवेकेन विना
चित्तविवेकः कर्तुं न पार्यते। तस्माद् गुह्याभिषेके
णैव उभयोर् अपि विवेकः। तत्रायं गुह्याभिषेकक्रमः प्रदोषाद्
आचार्य मालासलिल सम्बुद्धवज्रवज्रघण्टादर्पणनामाचार्या-
नुज्ञां दत्त्वा गुह्याभिषेकेणाभिषिञ्चेद् अर्द्धरात्रेषु शिष्यं गुरुः[। ]
तदनु अभ्रष्टयौवनां [प्रज्ञां] गुरवे निर्या
तयेत्। गुरुश् च पञ्चकुलकलापिनीं कृत्वा विरागादिक्रमेण
क्लेशविशुद्धिपदं परमानन्दसुखम् अनुभूय मुद्रा-
(10)
रविन्दस्थितबोधिचित्तं गृहीत्वा मुखपटञ् च बद्ध्वाङ्गुष्ठा-
नामिकाभ्यां शिष्यवक्त्रे निपातयेत्। शिष्यो [ऽ]पि। स्व कायस्थान्
सर्वतथागतान् सन्तर्पयामी
त्य् अभ्यवहरेत्। पुनर् अपि गृहीतबोधिचित्तेन शंखादि
स्थितगन्धोदकम् आनोद्य? मङ्गलगाथापूर्व्वकां शिष्यम् अभिषिञ्चेद्
गुरुः। यथोक्तं भगवता गुह्येन्दुतिलके उत्सृज्य रत्नोज्वलपद्ममध्यतः
संशुष्कमूर्त्तिः सकलं जिनानां अभिषिञ्च्य मूर्द्ध्नामल
रत्नवर्षैर् विशुद्धवज्रोद्भवज्ञानतोयैर् इति। गुह्याभिषेकं लब्ध्
[व्]आ स्वाधिष्ठानोपदे शार्थं सद्भूतगुणेन गुरुं स्तुनुयात्। अनेन
स्तोत्रराजेन शौशीर्यं नास्ति ते काये माम्सास्थिरुधिरं न च।
इन्द्रायुधम् इवाकाशे कायं दर्शितवान् असि॥
नाम[ये] [ना]शुचिः काये क्षुत्तृषासम्भवो न च। त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया॥
उदकचन्द्रवद् ग्राह्यः सर्व्वधर्म्मेष्व् अनिश्रितः। अनहंकार निर्मोह निरालम्ब नमो [ऽ]स्तु ते॥
सदासमाहितश् चासि
गच्छन् तिष्ठ
(11)
न् स्वपन् तथा ईर्यापथेषु सर्व्वेषु निरालम्ब नमो [ऽ]स्तु ते।
विकुर्व्वसि महार्द्ध्या मायोपमसमाधिना। निर्नानात्व समापन्न
निरालम्ब नमो [ऽ]स्तु ते॥
ततो वज्रगुरुः स्वाधिष्ठानं प्रतिपादयेत्।
विमलादर्शगतप्रति
बिम्बात्। सद्गुरूपदर्शितं यत् ज्ञानं तत्। स्वाधिष्ठानं
भावाभावविनिर्मुक्तं अविद्याप्रतिपक्षं असेचनकविग्रहम् आभासत्रय-
रूपम् अलीकाकायाद्यभेद्यरूपं शिष्यसन्ताने स्वसम्वेद्यं तच् च
निरुपलम्भदेवतारूपं अत्र
एव निर्दोषमायालक्षणं आलोकोपलब्धसंज्ञकं द्वादश-
मायादृष्टान्तैर् उपलक्षितं अयं पुनर् ब्बुद्धानां मनोमय
कायः तथा चोक्तम् आर्य नागार्जुनपादैः॥
दर्पणे विमले व्यक्तं दृश्यते प्रतिबिम्बतः। भावाभाव विनिर्मुक्तो वज्रसत्व[ः] सुचित्रितः॥
सर्व्वाकारवरोपेतस् त्व् असेचनकविग्रहः। दर्शयेत् तं स्वशिष्याय स्वाधिष्ठानं तद् उच्यते॥
(12) मायैव संवृतेः सत्यं कायः साम्भोगिकश् च सः। सैव गन्धर्व्वसत्वः स्याद् इति विस्तरः। कथं सुखमयं तदालोको पलब्धम् अपररूपाद्य् आलम्बकज्ञानाविशेषात् सत्यं किन्तु स्त्रीमायास्पर्शविषये ऽस्ति विशेषः। तत्र ज्ञानत्रय प्रभेदस्य सुखमयस्य स्फुटताप्रचारत्वात्। तन् निदर्शनेनात्रापि प्रतिपादयितुं शक्यते। मायोपमत्वा वि शेषात् तथा चोक्तं सर्व्वशुद्धि विशुद्धिक्रमे सर्व्वासाम् एव मायानां स्त्रीमायैव विशिष्यते। ज्ञानत्रयप्रभेदो ऽयम् प्रभेदो ऽयम् स्फुटम् अत्रैव लक्ष्यते। रागश् चैव विरागश् च तयोर् अन्तर् इति त्रयम्॥
द्वयेन्द्र्यसमायोगाद् वज्रपद्म समागमः। ज्ञानद्वयसमायोगः समापत्तिः प्रकीर्त्तिता। ज्ञान द्वयसमापत्त्या यथोक्तकरणेन तु। यत्(सिच्) ज्ञानं प्राप्यते यत्नात् तद् आलोकोपलब्धकं॥
यस्य वज्राब्जसंयोगः संवृत्यापि न विद्यते।
(13)
योगसाम[र्]थ्यात् सकृद् अप्य् अनुभूतवान्॥
यथा प्रभेदं विज्ञाय
ज्ञानवृत्तिः स्वभावतः। लक्षयेत् सततं योगी ताम् एव प्रकृतिं
पुनः। कथं पुनर् ज्ञानमात्रेण हस्तपादादि सर्व्वलक्षेणोपेतम् मनो
मयः कायो निष्पाद्यते। वर्न्णसंस्थानादि रहितत्वाच् चित्तस्य।
सत्यं सूक्ष्म धातुसहितत्वाच् चित्तस्य सर्व्वलक्षणोपेतदेवतारूपम्
उपजायते। उक्तञ् च सूत्रके चित्तं वर्ण्णसंस्थानरहितं
खसमस्वभावं परमार्थसत्यम् इव दुः
स्पर्शं किन्तु आभासम् आलोकत्रयं यस्माद् वायुधातुर् अरूपी।
ज्ञानं चारूपि। अत एव वायुना विज्ञानाञ् च सम्बध्यते। तस्माद्
आभासत्रयरूपं आलोकोपलब्धं पञ्च रश्मिसहितं सर्व्व
बुद्धगुणोपेतं। मायोपमदेवतारूपम् उत्पद्यते।
(14)
अत एव सूत्रान्तादिनये प्रवृत्ताः। उत्पत्तिक्रमभावकाश् च माया
स्वप्नादिं उपमां वदन्ति। औपम्यं स्वाधिष्ठानोपदेशं न
प्रजानन्ति। कर्म्मान्तविभागे चोक्तं। आभासस्य परिज्ञानं।
तार्किकाणाम् अगोचरं। आभासमीलनञ् चापि पुनर् अ
त्यन्तदुर्लभं॥
रजस् तमश् च सत्वञ् चेत्य् एवं संकल्प्यते परैः।
आभासत्रयम् एवैतत् स्वाभावज्ञानहाणितः। भवनिर्व्वाणहेतुश् च
ज्ञानत्रयम् इदं मतं। आभासप्रकृतीर् यत्र स्थानं तत्र पुण्यपापयोः।
आभासत्रयशुद्धस्य नि
यतं सौगतपदं॥
ब्रह्मा विष्णुश् च रुद्रश् च ये चान्ये कपिलादयः। प्रकृत्याभाससंमूढाः विशुद्धौ चापि सर्व्वथा॥
तस्माद्
यत् मतो वक्तव्यम् कायं विना ज्ञानं नोत्पद्यते। ज्ञानेन विना कायो
नोपल
भ्यते। अत एवालीककायाकारां ज्ञानकायबोधस्वभावं
नात्मवित्तिरूपं ग्रह्याकारव्यतिरिक्तस्वाकाराभावात्। तद् वेदनम्
(15)
एवात्मवेदनम् उपचारात्। आभासत्रयरूपम् उत्पद्यते। स्वा
धिष्ठानं सुखमयं। इमम् अर्थं द्योतयति मूलसूत्रे
उत्पादयन्तु भवन्तश् चित्तं कायाकारेण। कायं चित्ताकारेण चित्तं
वाक्प्रव्याहारेणेति। एवम् इदं विज्ञानं प्रथमव्यूहं शरीरं परित्यज्य
बिन्द्वाकृति
वद् भवति एतत् पृथग्जनानाम् अन्तराभवाभिधानं सं
सारहेतुकं भवति तद् एव गुरुपर्वक्रमेण। सर्व्वबुद्धो-
पदेशप्राप्तानां स्वाधिष्ठानाभिधानं यथा दर्प्पणमध्यवर्त्ति-
चित्रपटात् ज्ञानम् उपलक्षितं। तथैवात्मा ऽभिनिर्म्मितो
वज्रकायस्वभावेन द्वात्रिंशन्महापुरुषलक्षणाद्यलङ्कृतगात्रः
संक्षेपतः सर्व्वबुद्धगुणालङ्कृत इति यावत्। अनेन न्यायेन
वायुधातुविज्ञानयोर् अरूपत्वात्। घृते घृतं न्यस्तम् इव संमिश्री
भूयाशेषलौकिकलोको
त्तरकृत्यं करोति विज्ञानधातुः यथोक्तम् अनुत्तरसन्धौ।
संवित्तिमात्रकं ज्ञानं आकाशवद् अलक्षणं। किम् तु तस्य
(16)
प्रभेदो ऽस्ति सन्ध्या रात्रिदिवात्मना॥
आलोकालोकाभासौ च तथालोकोपलब्ध- कं चित्तं त्रिविधम् इ त्य् उक्तम्। आधारस् तस्य कथ्यते। वायुना सूक्ष्म रूपेण ज्ञानं सन्मिश्रतां गतं। निःसृत्येन्द्रियमार्ग्गेभ्यो विषयान् अवलम्भते॥
आभासेन यदा युक्तो वायुर् वाहनतां गतः। तदा तत् प्रकृतीः सर्व्वा अस्तव्यस्ताः प्रवर्त्तयेत्॥
यत्र यत्र स्थितो वायु स् तां तां प्रकृतिम् उद्वहेत्। इति विज्ञानत्रयप्रकृत्याभास- वायुधातूनां कर्म्मणाम् अपि अरूपत्वात्। एषां अन्योन्यमन्यनाभावात्॥
शून्यम् इत्य् उकतं भगवता तत् कथं शुभाशुभकर्म्मणा तन् मनोमयदेहं बध्यते॥
अनादिभवचक्रे तथा चाभिः ष ष्ट्युत्तरशतप्रकृतिभिः कुशलम् अकुशलम् वा उपचितं तद् इहैव जन्मनि क्षणक्षणाद् उत्पद्य प्रध्वन्सि भवतीति तत् कथं (17) जन्मान्तरेषूपलभ्यते च एषां स्वभावापरिज्ञानात् अमुक्तो भवतीति नात्र संदेहः। यस्माच् छुभाशुभप्रकृतयः शुन्य त्रयसमुद्भवा वायुवाहनवशात् क्षणे क्षणे चोत्पद्य विषयान् अनुभूय पुनः पुनः प्रभास्वरं प्रविशन्ति। यथोक्तम् अनुत्तरसन्धौ॥
पयोधरा यथा नैके नानासंस्थानवर्ण्णकाः। उद्भूताः गगनाभोगाल् लयं गच्छ न्ति तत्र वै॥
एवं प्रकृतयः सर्व्वा आभासत्रयहेतुकाः।
निर्व्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरं॥
एवं स्वभावाविज्ञानात् अज्ञानपटलावृताः कृत्वा शुभाशुभं कर्म्म भ्रमन्ति गतिपञ्चके॥
आनन्तर्यादिकं कृत्वा न रकेषु विपच्यते॥
शुभं दानादिकं कृत्वा स्वर्गादिषु महीयते॥
अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः। पूर्व्वकर्म्मविपाको [ऽ]यम् इति शोचति मोहतः॥
प्रकृत्याभा ष सयोगेन येन येन क्लिष्यन्ति (18) जन्तवः। ज्ञात्वा तम् एव मुच्यन्ते ज्ञानि नो भवपञ्जराद् इति॥
तथा च। गुह्यकोशसूत्रे
[ऽ]प्य् उक्तं। आदिशुद्धान् सर्व्वधर्म्मान् इति। श्रद्धातव्यान् अधिमुच्यते।
न तस्य सत्त्व स्यापायगमनं वदामि। तत् कस्य हेतोः। नास्ति
क्लेशानां राशीभावो विलीना हि सर्व्वक्लेशा
हेतुप्रत्ययसामग्रीसं योगात् उत्पद्यन्ते। उत्पन्नमात्रश् च
निरुध्यन्ते। यश् चोत्पादः स एव क्लेशानां भङ्ग इति तद् अनेन
न्यायेनागमाधिगमाभ्यां विनेयजनान् प्रबोध्य स्वाधिष्ठान-
क्रमानुसारेण क्लेशस्वभाव
[परिज्ञानेन शुभकर्मविशुद्धिं प्रतिपाद्य स्वाधिष्ठा] नम् अपि
(19)
प्रभास्वरेण विशोध्य ततो व्युत्थानञ् च संप्रदर्श्य
युगनद्धसमाधौ प्रतिष्ठापयतीति। तां स्वाधिष्ठानक्रमः॥
[॥
उत्पत्तिक्रमा]
नुसारेण कायस्यालीकत्वं त्रिवज्रा विना भाविलक्षणम्
अधिमुक्तिमात्रमतः। काये सर्व्वाकारवरोपेतादिदेवतारूपं नोपलभ्यते।
परमाणु समूहमात्रत्वात् कायस्य। एवं वाक्परिज्ञानं
प्रवेशादिक्रमेण वज्रजापमा
त्रम्। तत्रापि नास्ति देवतारूपं प्रतिश्रुत्कोपमस्वभावत्वात्।
वाचश् चित्तस्य परिज्ञानं प्रकृत्याभासमात्रं। तत्रापि वज्रबिम्बोपम-
देवतारूपं नोपलभ्यते। आभासमात्रत्वाच् चित्तस्य त्रिवज्राभेद्य-
मायोपमलक्षने
स्वाधिष्ठाने [ऽ]पि बलाभिज्ञावशिताकरुणोपायमण्डितदेवतारूपं न
विद्यते। प्रभास्वरेण विशुद्धत्वात् मायोपमसमाधिः यथोक्तं।
(20)
लङ्कावतारसूत्रे मायोपमसमाधिसमापन्नो [ऽ]पि यावत् पर
मार्थसत्याधिगमं न लभते तावत् वैवर्त्तिको भवति तस्मात्
विशुद्धम् आभासत्रयं यावत् विज्ञानसंकल्पः तावत् क्लेशप्रबन्धः
क्लेशप्रबन्धात् पुनर्भवः प्रभास्वरे [ऽ]पि तावन् नोपलभ्यते।
सर्वाकारवरोपेतदे
वतारूपं सर्व्व शून्यत्वात् तस्मात् सर्व्वशून्यं।
प्रत्यात्मवेद्य लक्षणं प्रभास्वरं प्रतिपाद्य ततो व्युत्थानात्मके
युगनद्धसमाधौ प्रतिष्ठापयति। सत्यद्वयाद्वैदीकारलक्षणे
तत्रायं क्रमः। अस्तंगते सूर्ये यथालब्दोपकरणेन
मालाद्यभिषेकं दत्त्वा ऽर्द्धरात्रे गुह्याभिषेकं दद्याद्
अनेन क्रमेण। रूपाद्युपकरणेन च वज्रगुरुम् आराध्य शिष्यस् तस्मै
गुरवे सुशिक्षितां मुद्रां निर्यातयेत्। ततो गुरुः कुर्याद् आभासोदयं
(21)
समापत्तिविधानतः। ततश् च कल
शादिस्थितबोधिचित्तेनार्द्धरात्रे गुह्याभिषेकेण स्वशिष्यम्
अभिषिञ्चेद् गुरुः। प्राप्ताभिषेकह् प्रत्यूषसमये गुरुम् आराधयेत् पुनः।
स्त्रोत्रैः शिष्यः कृतवताञ्जलिः। त्रैधातुकविनिर्मुक्त आकाशसमतां
गतः। नो प
[रिप्यसि कामेषु] निरालम्ब नमो [ऽ]स्तु ते॥
प्रयच्छ मे महावज्र कायवाक्चित्तशोधनं अनादिनिधनं शान्तं सर्व्वक्लेशविशोधनं॥
एवम् आराधितो योगी सद्भूतगुणकीर्त्तनैः। शिष्ये कारुण्यम् उत्पाद्य क्रमम् एवम् अथारभेत्। रात्रिभागापगमे सूर्योदय प्राप्य सन्ध्याम् अतिक्रम्यास्मिन् क्षणे बाह्याभिसम्बोधिदृष्ट्या अध्यात्मसम्बोधिं प्रार्थयति यथोक्तम् अगमे। आलोको रात्रिभागः स्फुटरविकिरणह् स्याद् दिवालोकभासः। सन्ध्यालोकोपलब्धं प्रकृतिभिर् (22) असकृद् युज्यते स्वाभिर् एतत्। नो रात्रिर् [नापि सं] ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः स स्याद् बोधिक्षणो यं वरगुरुकथितो योगिनाम् एव गम्यः। नैशं ध्वान्तं विनष्टं व्यपगतम् अखिलं सान्ध्यतेजश् च यस्मिन् भास्वान् नोदेति यावत् क्षण इह विमले दर्शयेद् भूतकोटिं। शि ष्यायाचार्यमुख्यो विनिहततिमिरो बाह्य सम्बोधिदृष्ट्या प्राप्नोत्य् अध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन॥
एवं शून्यचतुष्टयस्य बाह्यनिदर्शनं प्रतिपाद्य इदानीम् अध्यात्म-
सम्बोधिं प्रत्यात्मवेद्यलक्षणं [दर्शयेद् अनेन क्रमेण। ]
तत्रायं क्रमः
प्रथमं मरीचिकाकारं पञ्चरश्मि[पुञ्जं] पश्येत्। द्वितीयम् आलो
(23)
[कं] चन्द्ररश्मिनिभं तृतीयम् आलोकाभासं सूर्यरश्मिनिभं
चतुर्थं तामसाकारं आलोकोपलब्धकं। ततस् तमो ऽपगते क्षणात्।
प्रभास्वरम् अतिस्वच्छं सततालो
क स्वभावं परमार्थसत्यलक्ष[णं ज्ञा] नचक्षुषा पश्येत्। एवं
सर्व्वशून्यं साक्षात् कृत्वा द्विविधं ध्यानम् आलम्बयेत्। अनेन
क्रमेण तत्रायं क्रमः। तोये निर्म्मलके नदीसरसि वा बिन्दुश् च यो लीनकः।
तद्वत् क्रमशो ऽनु भे [दं ग]
[दि] तं योगीश्वरे नित्यशः। आदर्शेस्थनिलक्षयं च क्रमगतं
तद्वत् संप्रेक्षते पिण्डग्राह इति [क्रमो] विधिमताम् एवं
समुत्प्रेक्षते॥
अथ वज्रशिष्यो द्विविधाभिसम्बोधिकामोपदेशद्विविध-
ध्यानं वाधिगम्य। पुष्पाञ्जलिधारितहस्तः प्रहसित [वदनो भूत्वा]
(24)
प्रज्ञाज्ञानाभिषेकेन प्रभास्वरोपदेशग्रहणार्थं वज्रगुरुम्
अध्येषते। इत्य् अनेन प्रयच्छ मे महानाथ अभिसम्बोधिदर्शनं
कर्म्मजन्मविनिर्मुक्तं आभासत्रयवर्ज्जितं। अथ वज्राचार्यो
[निरीक्ष्यामानम् इव शिष्यं। तस्मै परमार्थनाय बोधिचित्तन् दद्याद् अनया
गाथया। ]
[सर्वभावविगतं स्कन्धधात्वायतन] ग्राह्यग्राहकवर्ज्जि तं।
धर्म्मनैरात्म्यसमतया स्वचित्तम् आद्यनुत्पन्नं शून्यतास्वभावम् इति।
[ततश् च व्याख्यानरत्नेन प्रभास्वरं प्रतिपादयेद् इति
शून्यत्रयविशुद्धिर् या प्रभास्वरम् इहोच्य]
ते। सर्व्वशून्यपदं तच् च ज्ञानत्रयविशुद्धितः। ज्ञानशुद्धिप
दं तत्वं सर्व्वज्ञत्वम् अनुत्तरं निर्व्विकारं निराभासं
निर्द्वंद्वं परमशिवं। गुह्येन्दुमणितिलके योगतन्त्रे [ऽ]प्य् आह।
सर्व्वाङ्गभावनातीतं [कल्पनाकल्पवर्जितं। मात्राबिन्दुसमातीतं एतन्
मण्डलम् उत्तम]
(25)
म् इति। महायानसूत्रं ललितविस्तरे चोक्तं। अभिसंबोधिकामो
यं शाक्यसिंहस् तथागतः। महाशून्येन बुद्धत्वं प्राप्णोतीत्य्
अभिमानतः निरञ्जनानदी तीरे निषद्यास्फानकं गतः। तिलबिम्बवद्
संपू[र्ण्णाः खमध्यस्था जिनास् तदा एकस्वरेण]
तं प्राहुर् अच्छटेन जिनौ रसं॥
अविशुद्धम् इदं ध्यानं
नचैतद् इष्टकावहं। प्रभास्वरत्वम् आलम्ब्य आकाशतलवत् परम्।
प्रभास्वरपदे प्राप्ते स्वेच्छारूपस् तु जायसे। सर्व्वैश्वर्यं तदा
प्राप्य वज्रकायः प्रमोदसे॥
एवं श्रुत्वा तु तं शब्दं विसृज्यास्फा
न कं ततः। निशार्द्धसमये तत्वम् आलम्बैव जिनौरसः।
ऋजु[र्] नैव च कायेन न चाप्य् अनृजुर् एव च। सासनो ऽसास नो नैव
(26)
मौनी नाप्य् अमौनवान्। नोन्मीलितनेत्रश् च न च मीलितलोचनः।
स्वच्छव्यक्तं महाज्ञानं सर्व्व
[द्भु]तं अथ पश्यति तद् व्यक्तं गुरुपादप्रसादतः।
अनागतम् अतीतञ् च वर्त्तमानं भवत्रयं तत् क्षणात्। निखिलं पश्येत्
प्रभास्वरं विशुद्ध धृक्। जलचन्द्रमरीच्यादिमायागुण-
विभूषितः। अरुणोद्गमकाले तु वज्रोपमसमाधिना निषद्य [बो]
[धिमूले तु ] सो ऽकरोन् मारभञ्जनं॥
। संप्राप्य
शाक्यनाथेन तत्वज्ञानम् अनुत्तरं। जगत्त्रयहितार्थाय तद् एवेह
प्रदर्शितं। तत्वज्ञानम् इति प्रोक्तम् अभिसम्बोधिदर्शनं
पञ्चानन्तर्यकर्म्मा च मन्दपुण्यो [ऽ]पि यो नरः। गुरुप्रसादात् प्राप्नोति
चिन्तामणि र् इ
[वापरं यथेष्टं कुरु] ते चर्यां सम्बुद्धो [ऽ]यम् अनागतः।
(27)
परमाद्ये [ऽ]प्य् उक्तं। रागादीनां विशुद्धिर् या पारमाद्ये प्रदर्शिता
सर्व्वशून्यं समुद्दिश्य सापि प्रोक्ता तथागतैः। नानासूत्रेषु
तन्त्रेषु यत् तत्वम् उप[दर्शितम्] सर्व्वशून्यं पदं ह्य् एतत् नान्यत्
तत्राभिधीय ते। चतु
[रशीति साहस्रे धर्म्मस्कन्धे महा] मुनेः सारात् सारतरं प्रोक्तम्
अभिसम्बोधिलक्षणं॥
जटी नग्नश् च मुण्डो वा शिखी निःसङ्गवृत्तिकः तैस् तैर् विविधैर् लिङ्गैर् अभिसम्बोधिकामिनः। तेषां तत्वविहीनानां व्रतचर्यादिकः क्रमः॥
तत्वज्ञानविहीनत्वात् तेन मुक्ति [र् न्न] लभ्यते। उक्तं चार्यनागार्जुनपादैः। यद् अस्तिनास्ति- व्यवहारमुक्तं न च पुण्यरूपं न च पापरूपं। न (28) पुण्यपापात्मकम् अग्रभूतं तत् सर्व्वशून्यं प्रवदन्ति बुद्धाः॥
एवं विधं तत्वं अवाप्य योगी चराचरात्मा जगद् एकबन्धुः। यः पर्यटेज् ज्ञानमयो नृ सिंहः कृत्स्नं जगत् सो ऽव्यव्यकायलाभी॥
इति प्रभास्वरक्रमः॥
॥
इदानीं सत्यद्वयाद्वै दीकारलक्षणः सर्व्वद्वन्द्वविवर्ज्जितः।
युगनद्धक्रमो ऽवतार्यते॥
संवृतिसत्यं पुनर् द्वादशदृष्टान्तेन प्रतिपादितं। स्वसम्वेद्यं निरुपलम्भं देवतारूपं परमार्थसत्यं तु अनाहतं [अनभि] भूतं सर्व्वशून्यं न वृद्धिर् न परिहाणिः सुविशुद्धम् खसमं निर्मलस्वभावं एवम्भूतं प्रभास्वरं प्रविश्य निःस्वभावो भूत्वा को [ऽ]सव् उत्थिष्ठते को [ऽ]सौ युगनद्ध क्रमेणासंसारं सत्सुखम् अ (29) नुभवति। को [ऽ]साव् अवैवर्त्तिको भवति। किम् अर्थो मोक्षः कुतो मुक्त इति प्रश्नः॥
अत्र वज्रयाने उत्पत्तिक्रमसाक्षात्करणेनाष्टमीं भूमिं
प्राप्य पुनः पुनः सुगताव् उपपद्य यावन् निष्पन्नक्रमं न लभते।
श्रीगुह्यसमाजत न्त्रानु
सारेण तावत् कल्याणमित्रम् आराधयेत्। [कायवा] क्चित्तविवेकप्राप्तो [ऽ]पि
दशभूमिं प्राप्य मायोपमसमाधिं लभते। तम् अधिगम्या-
भासविशुद्धिं प्रतिलभते। निराभासाद् व्युत्थाय युगनद्धवाह्यं क्रमेण
बुद्धकायं साक्षा
कृत्वा वज्रोपम[समाधि] नः सर्व्वबुद्धालंकृतो विहरति।
यो ऽनेन न्यायेनाभिसम्बोधिक्रमेण प्रभास्वरोपदेशं लब्ध्वा
निर्म्मलस्वभावं कायवाक्चित्तं प्रत्यक्षी करोति। सर्व्वशून्यत्वात् तस्य
ज्ञानत्रयविशुद्धः प्रज्ञापारमितास्वभाव
ः। नास्ति चिन्ता न तूष्णीं सो ऽपि निर्व्वा[णधातुर्
(30)
अपूर्व्वदुःस्प]र्शः कर्म्मजन्मविनिर्मुक्तः आभासत्रयाणां प्रभास्वर-
भावो ऽतिस्वच्छः। तस्मात् [स्वच्छात्] सन्ध्यास्वभावमहा-
शून्योदयो भवति। तस्मात् स्वच्छादित्यरश्म्यवभासात् स प्रभावात्
[तस्मात् स्वच्छचन्द्ररश्म्यवभासशीतलस्वभाव ]
[शून्यज्ञानोदयो भव] ति। अतश् चतुःशून्यैकीभूतम् आलोकं
पुञ्जवत्। खद्योतकाकारं। [सर्वलोकधात्ववभासिनं सूक्ष्मधातु-
सहितं छायाकारम् अच्छेद्याभेद्यं वज्रकायस्वभावम् अच्युतम्
अनास्रवं ]
[ सर्वक्लेशवासनाविनिर्मुक्तम् इच्छा ] वसिताप्राप्तं जलान् मीन
इव सुप्तप्रबुद्ध इव परमानन्दमूर्त्तिरूपं निष्पद्यते। यन्
नामरूपात्मको महावज्रधर इति। संसारबन्धनान् मुक्तत्वान्
(31)
मुक्त इत्य् उच्यते। [स एव मोक्षो युगनद्ध इति। ]
[इमम् एव ] व्युत्थानक्रमं श्रीगुह्यसमाजमहायोगतन्त्रे
सर्व्वतथागा वर्ण्णयन्ति। अहो वज्र। अहो वज्र। अहो वज्रस्य देशना यत्र न
कायवा क्चित्तं तत्र रूपं विभाव्यते। समाधिराजसूत्रे
चन्द्रप्रभकु[मारे]
[णापि ] तथागतकायो वर्ण्णितः। स खसमविरजा
वररूपधरा अशरीर अलक्षणप्रज्ञसुता सुगंभीरगुणोदधिकारुणिका
दद मूर्द्ध्नि पाणिमना प्रतिमेति॥
आर्याष्टसहस्रिकायाम् अप्य् आह।
निर्व्वाणं मायो
पमस्वप्नोपमम् इति वदामि निर्व्वाणाद् अन्यः कश्चि[द्] विशिष्टतरो
धर्म्मः स्यात् तम् अप्य् अहं मायोपमं स्वप्नोपमम् इति वदामि। तद्
ए वाप्रतिष्ठितं निर्व्वाणं मोक्षो युगनद्ध इति॥
अथ तस्यै व लक्षणं संवृतेः परमार्थस्य भेदं ज्ञात्वा यथार्थतः सम्मीलनं तु यो वेत्ति तत्वं वेत्ति स पण्डितः॥
भवनिर्व्वाणयोर् ऐक्यं ज्ञात्वा यत् प्रवर्त्तते। कल्पनाद्वयहानिश् च युगनद्धं वदन्ति तत्॥
ध (32) र्म्मपुद्गलनैरात्म्यम् इत्य् एवं नास्ति कल्पना युगनद्धं भवेत् तच् च योगिनां पदम् अव्ययं॥
साकारं च निराकारं
ज्ञात्वाभिन्नं। समासतः अभेदन् तु द्वयोर् यत्र तद् आहुर्
युगनद्धकं। प्रज्ञोपायसमायोगं ज्ञात्वा यत्र प्रवर्त्तते।
[युगनद्धपदं ] तत्र वदन्ति वरयोगिनः। शुद्धं
चाप रिशुद्धं च यत्र नास्तीति सर्व्वथा तयोर् ए क व समाजं यत् तद्
भवेद् युगनद्धकं॥
कल्पितं परतन्त्रं च द्विधारूपं न विद्यते॥
विद्यते चैकता यत्र तद् एतद् युगनद्धकं॥
एत [च् च नयं ज्ञानं निर्वाणम् अप्रतिष्ठितं। परमा ] नन्दमूर्त्तित्वं संबुद्धत्वं तथैव च। शूरंगमसमाधिश् च निष्पन्नक्रम उच्यते। वज्रोपमसमाधिस् तु मा[योपमश् च कथ्यते। सूत्रान्ततन्त्रकल्पेषु पथन्ते ह्य् अभिलापकाः॥
निरोधाद यः शब्दास् ते सर्वे चास्य सूचकाः
अस्मिंश् च यः स्थितो योगी ]
[युग] नद्धक्रमे स्थितः। उच्यते स हि तत्वज्ञो मायादर्शी च
(33)
विश्वधृक्। तथैव ज्ञानमूर्त्तिश् च सत्यद्वयनये स्थितः।
प्रज्ञोपायात्मको बुद्धः [संसारार्ण्णव] पारगः कृतकृत्यो महा[योगी
भावा ]
[भावविभावकः। मायाजालाभिसम्बुद्धः सर्वज्ञो लो ]
कनायकः। स्वस[म्वेद्यम् इदं तत्वं ] मीलनं सत्ययोर् द्वयोः। ये न
जानन्ति मूढास् ते भ्रष्टाः मुनीन्द्रशासनात्। नापूर्वम् अत्र लिखितं
किम् अपि स्वबुद्ध्या संग्रन्थितं न च सुशोभनशब्द[वृन्दैः किं त्व् एतद्
एव चकुषु प्रयमीक्य ]
[ येषाम् लाभं न शक्तिर् इह तान् प्रति ] पत् स एषः॥
अपरा [ ख धो [ऽ]यम् अल्पत्वात् क्षन्तव्यो विदूषां मम विक्षेपो पि हि वालस्यत? नोत्य् एवम् वदं गुरोः॥
आचार्यनीतिम् अतुलां बहुतन्त्रदृष्टां संगृह्य [पुण्यम् अखिलं यदि भावितं मे। तेन प्रभास्वरपदं क्रमशः प्रविश्य मारारिवृण्दविजयेन] (34) [जिनोऽ ] स्तु लोकाः॥॥
वज्राचार्यनयोत्तमः समाप्तः॥॥
कृतिर् इयं मण्डलाचार्य च पण्डितराहुलगुप्तपा[दनां ] .. तथागतो ह्य् अवदत् तेषां च यो निरोध एवं वादी महाश्रमणः॥
नमो बुद्धाय नमो धर्माय। गुरु कमरवातमा… (35)