श्रीमदिन्द्रभूतिविरचिताज्ञानसिद्धिः। प्रथमः परिच्छेदः॥
नमो वज्रसत्त्वाय। प्रणिपत्य जगन्नाथं सर्वजिनवरार्चितम्। सर्वबुद्धमयं सिद्धिव्यापिनं गगनोपमम्॥
१॥
सर्वदं सर्वसत्त्वेभ्यः सर्वज्ञं वरवज्रिणम्। भक्त्याऽहं सर्वभावेन वक्ष्ये तत्साधनं परम्॥२॥
अशेषयोगतन्त्रोक्तं वज्रयानमनुत्तरम्। ये न जानन्ति मुढास्ते भ्रमन्तीह भवार्णवे॥
३॥
ये तु सत्त्वाः समारुढाः सर्वसङ्कल्पवर्जिताः। ते स्पृशन्ति परां बोधिं जन्मनीहैव साधकाः॥
४॥
मुद्रामण्डलमन्त्राद्यैर्जापभावनतत्परैः। नैव सिद्धिं परां यान्ति कल्पासङ्ख्येयकोटिभिः॥
५॥
रूपयौवनसम्पत्तेर्भोगैश्वर्यबलस्य च जन्मगोत्रप्रवृत्तस्य न चित्ते मानमुद्वहेत्॥
६॥
(1)मतिमान् पण्डितोऽस्मीति सर्वशिल्पकलासु च। कुशलः पार्थिवश्चाहमिति चित्ते न योजयेत्॥
७॥
शीलवान् श्रुतवान् वीरो [रूपा] द्यैरपि संयुतः। [स्वमुक्तेः] परमुक्तेश्च नात्मानमुपलभ्यते॥
८॥
सर्वसत्त्वमनोव्यापी वज्रसत्त्वः स्वयं स्थितः। इति सञ्चिन्त्य योगात्मा न कञ्चिदवकल्पयेत्॥९॥
बाला मूर्खा दरिद्रश्च दुःशीला रोगपीडिताः। एवमाद्यैरनेकैश्च संयुक्तान् नावमानयेत्॥
१०॥
भक्तो रत्नत्रये श्राद्धो बोधिचित्तविभूषितः। सर्वसत्त्वानुकम्पी च समयी संवरे स्थितः॥
११॥
शुष्कलोहितमांसं च बोधिचित्तविमिश्रितम्। महोदकसमायुक्तं भक्षयेत् तत्त्ववित् सदा॥
१२॥
नरश्वहयगोदीपं करिणां गर्दभस्य च। भक्षयेत् तत्त्वसिद्ध्यर्थं सर्वसङ्कल्पवर्जितम्॥
१३॥
घातयेत् त्रिभवो[त्पत्तिं] परवित्तानि हारयेत्। कामयेत् परदारान्वै मृषावादमुदीरयेत्॥
१४॥
कर्मणा येन वै सत्त्वाः कल्पकोटिशतान्यपि। पच्यन्ते नरके घोरे तेन योगी विमुच्यते॥
१५॥
महोपायसमायुक्तो योगी लोकार्थकारकः। [नाकार्यं] विद्यते तस्य सर्वसत्त्वजुगुप्सितम्॥
१६॥
(2)प्रज्ञोपायसमायोगात् नास्ति पापं प्रकीर्त्तितम्। इत्युवाच स्वयं वज्री वज्रसत्त्वविकुर्वितः॥
१७॥
भक्षाभक्ष्यविनिर्मुक्तः पेयापेय विवर्जितः। गम्यागम्यविनिर्मुक्तो भवेद् योगी समाहितः॥
१८॥
प्रतीत्योत्पन्नसद्भावान् सर्वभावान् विचारयेत्। गतागतिविनिर्मुक्तो[ऽनुपपन्नान्] निरात्मकान्॥
१९॥
मायोपमादिदृष्टान्तैर्योज्यते प्रतिजानता। अहं मम विकल्पं च न कुर्याद् योगतत्त्ववित्॥
२०॥
सर्वव्यापी महावज्रः सर्वाकाशप्रतिष्ठितः। सर्वसत्त्वमनोव्यापी सर्वपुण्यमहोदयः॥
२१॥
अन्योन्यव्यापको वज्रः सर्ववित् लोकनायकः। एष वज्रधरो राजा सर्वमन्त्रेषु वर्णितः॥२२॥
गुरुप्रसादो यस्यास्ति स लभेत् तत्त्वमुत्तमम्। अन्यथा क्लिश्यते बालः चिरकालविमोहितः॥
२३॥
गुरुर्बुद्धो भवेद् धर्मः सङ्घश्चापि स एव हि। प्रसादाद् ज्ञायते तस्य यस्य रत्नत्रयं वरम्॥
२४॥
अज्ञानतिमिरान्धानामेष मार्गप्रदर्शकः। स भवेत् सर्वसौख्याग्र्यः सर्वकामप्रदायकः॥
२५॥
धर्मगम्भीरनिष्ठात्मा विविक्तकरुणात्मकः। रत्नत्रयप्रतिष्ठार्थी धर्मदाने निरामिषः॥
२६॥
(3)स गुरुः शिष्यसद्ग्राही सर्वबुद्धानुकारकः। इत्युवाच जगन्नाथो नान्ये वै गुरवः स्मृताः॥
२७॥
यस्मान्न तत्समो ह्यस्ति पूजनीयो महामुनिः। तस्मात् सर्वप्रयत्नेन पूजयेद् गुरुवरं व्रती॥
२८॥
तत्समो विद्यते लोके मान्यो न त्रिभवे जनः। वज्रसत्त्वः स्वयं लोके सर्वसम्पत्तये स्थितः॥
२९॥
आराध्योऽनेकधा शिष्यैः सत्सम्पदमभीप्सुभिः। अक्षीण पुण्यकामैश्च सर्वविघ्नविनायकैः॥
३०॥
सर्वेषां समयानां हि समयोऽयं निरुत्तरः। रक्ष्योऽयं भवता नित्यं सर्वस[म्पत्प्र]दायकः॥
३१॥
लब्धुं ज्ञानवरं दिव्यं सर्वसङ्कल्पवर्जितम्। वज्रज्ञानाभिषिक्तो हि साधयेद् बोधिमुत्तमाम्॥
३२॥
सम्यग् ज्ञानसमायुक्तो लेख्यमृण्मयमण्डले। गृह्णीयादभिषेकं चेत् समायाद् भ्रश्यते ह्यसौ॥
३३॥
समयभ्रं[शतो] दुःखं कायिकं मानसं तथा। अर्थनाशो भवेत् तस्य मरणं शीघ्रमेव च॥
३४॥
मृते च नारकं दुःखं कल्पकोटिशतान्यपि। अनुभूय य दोत्तिष्ठेत् चाण्डाले हीनजे कुले॥
३५॥
(4)उत्पद्यते स मूढात्मा मुको वा विकलोऽथवा॥
जात्यन्धो हि भवेद् जातो जातौ जातौ म संशयः॥
३६॥
सर्वताथागतं ज्ञानं वज्रयानमिति स्मृतम्। तेनाभिषिक्तो मतिमान् अभिषिक्तोऽभिधीयते॥
३७॥
स योगी सर्वबुद्धात्मा सर्वदेवान्तिके गणैः। कृताञ्जलिपुटैर्भूत्वा अभिवन्द्यो जगत्पतिः॥
३८॥
[कुर्वन्ति रक्षणं] वीरा बोधिसत्त्वा महाबलाः। बुद्धाश्चापि महात्मानो वज्रकायाः सदा स्थिताः॥
३९॥
सत्य धर्मपरो ह्येष बुद्धवर्त्मप्रवर्त्तकः। सगौरवाः प्रशंसन्ति अधिष्ठानसमन्विताः॥
४०॥
लोकपालास्तथा चान्ये महाबलपराक्रमाः। सर्वस्थानगतस्यापि रक्षमाणाः प्रतिष्ठिताः॥
४१॥
ये चापि सर्वलोकेषु मारविघ्नाः प्रतिष्ठिताः। तेऽपि तस्य न कुर्वन्ति विघ्नं भीताः प्रयान्ति च॥
४२॥
सर्वदेवादयः सिद्धाः सर्वाकाशचराचराः। न लङ्घयन्ति च तं तेऽप्यपायगतिभीरवः॥
४३॥
वीर्यस्य ज्ञानविज्ञानसिद्धेर्हा निर्भवत्यपि। यदि मोहवशादेव लङ्घयन्ति विमोहिताः॥
४४॥
सर्वज्ञो वरदो वादी वर्णसंस्थानके विना। गतागतिविनिर्मुक्तो अचाल्यः सर्ववायुभिः॥
४५॥
(5)दह्यते नाग्निस्कन्धेन प्लाव्यते न जलेन च। भिद्यते नहि शस्त्रेण तीक्ष्णेनापि प्रयत्नतः॥
४६॥
अप्रतिष्ठिं यथाकाशं व्यापि लक्षणवर्जितम्। इदं तत् परमं तत्त्वं वज्रज्ञानमनुत्तरम्॥
४७॥
ख्याता समन्तभद्रेति महामुद्रा च संज्ञिता। धर्मकायमिदं ज्ञेयमादर्शज्ञानमित्यपि॥
४८॥
प्रतिबिम्बं यथादर्शे स्वकीयं दृश्यते ध्रुवम्। धर्मकायस्तथा ज्ञाने दृश्येतादर्शमंस्थिते॥
४९॥
सर्वताथागतं ज्ञानमात्मनः प्राणिनामपि। एकस्वभावसम्बोधौ समताज्ञानमुच्यते॥
५०॥
आदिशुद्धमनुत्पन्नं प्रकृत्यैव प्रभास्वरम्। अन्यान्यव्यापकज्ञानात् प्रत्यवेक्षणकं स्मृतम्॥
५१॥
सर्वत्र सर्वदा सर्वं बुद्धकृत्यप्रवर्त्तनम्। सर्वबुद्धैककार्यत्वात् कृत्यानुष्ठानमुच्यते॥
५२॥
क्लेशज्ञेयावृतं सर्वं यदा मुक्तं भवेत् तदा। सुविशुद्धमिति ख्यातं वज्रिणां वरयोगिनाम्॥
५३॥
तथा वैनेयधर्मेषु सर्वकाममगणेषु च। सर्वबुद्धैकसम्भोगात् कायः साम्भोगिको मतः॥
५४॥
सर्वलक्षणसंयुक्तो नानाकायो ह्यलक्षणः। निर्मितत्वात् च बुद्धानां कायो नैर्माणिको मतः॥
५५॥
(6)ज्ञात्वा तद्भावतो योगी महामुद्राप्रसिद्धये। सिध्यते जन्मनीहैव सर्वसङ्कल्पवर्जितः॥
५६॥
महामुद्रेति विज्ञेया सर्वबुद्धमया शिवा। सिद्धा साऽनेकतन्त्रेषु देशिता वरयोगिना॥
५७॥
गर्भचक्रं मानयेत् च क्षेत्रे क्षेत्रे प्रतिक्षणम्। सर्वताथागतं सम्यक् तत्र सन्धारयेद् व्रती॥
५८॥
कुमारक्रीडनं सर्वं शिल्पसन्दर्शनं तथा। अन्तःपुरात् निष्क्रमणं मारधर्षणमेव च॥
५९॥
देवावतारणं चैव धर्मचक्रप्रवर्तनम्। महानिर्वाणं [सन्दृश्यं य ] च्चान्यत् सर्वक्रीडनम्॥
६०॥
सर्ववज्रमयं सर्वं योगी नित्यं प्रभावयेत्। नापूर्वं दृश्यते ह्य[स्य] नायोज्यं पूर्वसंस्थितम्॥
६१॥
सर्वताथागतं कृत्यं सर्ववज्रमयं शिवम्। त्रैकाल्यं यत्तु पर्यन्तं सर्वमेवावलोकयेत्॥
६२॥
सर्ववाग्विषयातीतं सर्वलक्षणवर्जितम्। ईदृशं चिन्तयेद् योगी [सर्वबुद्धत्वदायकम्॥६३॥
सर्वभूमिविनिर्मुक्तं कार्यकारणवर्जितम्। सिद्धं विभावयन् योगी] जन्मनीहैव सिद्ध्यति॥
६४॥
सर्वोपायविधिज्ञस्य योगिनः सर्ववज्रिणः। सिध्यतेऽनुत्तरं तत्त्वं वज्रसत्त्ववरो यथा॥
६५॥
(7)स्थितः सुप्तो निषस्मश्च चंक्रमेदथवापि च। भाषणे वज्रवाक्ये च वज्रसत्त्वत्वमावहेत्॥
६६॥
रूपशब्दरसस्पर्शानुपभुज्य सदा व्रती। पूजां तु सर्वबुद्धानां करोमीति समारभेत्॥
६७॥
सत्त्वेभ्योऽपि तदा दद्याद् भक्तवस्त्रादिकं तथा। अन्यद् वापि च यत् किञ्चित् तथैव विधिमाचरेत्॥
६८॥
नृत्यगीतैस्तथा वाद्यैः पुष्पमाल्यादिभूषणैः। स्रग्दामचामरैः छत्रैः परात्मानं प्रपूजयेत्॥
६९॥
सुगन्धि गन्धलेपाद्यैरपि लिप्तं यथाविधि। आत्मानं पूजयेद् योगी सर्वबुद्धमनुस्मरन्॥
७०॥
व्रती वा मुण्डितो वाऽथ गृही वा सेवकोऽथ वा। राजा वा सेवकाध्यक्षो यथाऽसौ रोचयेद् व्रती॥
७१॥
तथासौ कुरुते योगी सर्वथा न प्रदुष्यति। सर्वकल्पविनिर्मुक्तो यथाकामक्रियाकरः॥
७२॥
सर्वभावस्वभावोऽसौ सर्वबुद्धमयो विभुः। स्वयम्भूः कामचारी च सर्वसत्त्वहृदि स्थितः॥
७३॥
भावयेत् तत्त्वयोगी स सर्वतत्त्वमनुस्मरन्। सर्ववज्रमयं सिद्धं लघु वज्रत्वमाप्नुयात्॥
७४॥
नात्र विघ्ना न माराश्च सर्वे वश्या भवन्ति च। सर्वदुःखविनिर्मुक्तमात्मानं साधयेद् व्रती॥
७५॥
(8)सिध्यते सर्वबुद्धत्वं दिने विधिविवर्जितम्। आत्मानं सर्वसंयुक्तं सदा पश्यन् महाव्रती॥
७६॥
सर्वपूजाविशेषैश्च आत्मानं पूजयेत् सदा। अन्येभ्योऽपि तथा देयं वज्रसत्त्वमनुस्मरन्॥
७७॥
सर्वसत्त्वान्नसम्भूतान् प्राणिनोऽपि [विडु]द्भवान्। संगृह्य च महायोगी भक्षयेत् तत्त्वसिद्धये॥
७८॥
महाप्रदीपसंयुक्तैः समयेऽन्यैर्जुगुप्सितैः। पञ्चामृतं सदा भक्षं पूज्याश्चैव तथागताः॥
७९॥
सर्वाङ्गकुत्सितायां वा न कुर्यादवमाननाम्। स्त्रियं सर्वकुलोत्पन्नां पूजयेद् वज्रधारिणीम्। ८०॥
अजातपुष्पसंयुक्तां बोधिचित्तसमन्विताम्। [सेव]येत् तत्त्वसिद्ध्यर्थं निर्विकल्पविधिस्थितः॥
८१॥
चण्डालकुलसम्भूतां डोम्बिकां वा विशेषतः। जुगुप्सितकुलोत्पन्नां सेवयन् सिद्धिमाप्नुयात्॥
८२॥
द्विजातिकुलसम्भूताः कन्याः काम्यास्तु योगिनः। यथा चित्तं न प्रदुष्येत तथा कार्यं सुशोभनम्॥
८३॥
मञ्चकैः च्छदि (?) सम्मिश्रैः पुरोषादिविमिश्रितैः। पूजयेद् वज्रसत्त्वात्मा निर्विकल्पेन चेतसा॥
८४॥
यथाकामक्रियाकारी यथारुचितचेष्टितः। साधयेद् वज्रसत्त्वत्वमन्यथा क्लिश्यते ध्रुवम्॥
८५॥
(9)व्रतोपवासनियमैर्देवतारुपभावनैः। नानाभुजसमायुक्तैः सिध्यते नहि साधनैः॥
८६॥
जम्बूद्वीपरजःकल्पमन्त्रजापविभावनैः। सिध्यते नहि बुद्धत्वं महावीर्यवतामपि॥
८७॥
एवमाद्यैरनेकैश्च शिशुभिः कल्पितैर्नयैः। दुर्लभं सुगतौ जन्म वज्रसत्त्वं कथं भवेत्॥
८८॥
महामण्डलमुद्रादीन् जगाद भगवान् मुनिः। सम्यग्ज्ञानसमायोगभव्यताविगतात्मनाम्॥
८९॥
स्वसंवेद्यस्वभावं यत् तत्त्वरत्नमनुत्तरम्। युक्त्यागमविचारैस्तु ग्रहीतुं ये तु न क्षमाः॥
९०॥
अज्ञानमोहसंच्छन्ना अपरीक्षकबुद्धयः। आदिकर्मिकग्रा[ह्या]स्ते हीनधर्मस्य भाजनाः॥
९१॥
तान् प्रत्युक्ता जगन्नाथैः वज्रसत्त्वविभावनैः। भुजवर्णसमायुक्तमुद्रामण्डलकैस्तथा॥
९२॥
अपरप्रत्युपायैर्ये गम्भीरज्ञानभाजनाः। अकम्प्याः पापमित्रैश्च मारविघ्नविनायकाः॥
९३॥
तेषां तत्त्वमिदं शुद्धं सर्वकल्पविवर्जितम्। अगम्यं सर्वसत्त्वानां ब्रह्मादीनां च सर्वथा॥
९४॥
देशितं लोकनाथैस्तु ज्ञानम[त्य]द्भुतं परम्। सिद्धिदं जन्मनीहैव सर्वबुद्धमयं शिवम्॥
९५॥
इति ज्ञानसिद्धौ तत्त्वनिर्देशः प्रथमः परिच्छदः। (10)द्वितीयः परिच्छेदः। पञ्चबुद्धस्वभावत्वात् पञ्चस्कन्धा जिनाः स्मृताः। धातवो लोचनाद्यास्तु बुद्धकायस्ततो मतः॥
१॥
एवं चेत् प्राणिनः सर्वे सम्बुद्धास्त्रिभवे सदा। बुद्धत्वाय क्रियाः सर्वा वृथैव श्रुतभावनाः॥
२॥
बुद्धत्वात् सर्वलोकस्य सर्वेऽपि त्रिभवेन तु। सुखदुःखपिपासादिबाधा तस्य न युज्यते॥
३॥
षडभिज्ञादयश्चापि बोधौ गुणविभूतयः। कथं ते न प्रवर्त्तन्ते बुद्धकायो भवेद् यदि॥४॥
यस्त्वेवं न प्रजानाति स सम्बुद्धो भवेत् कथम्। एवं जानाति चेत् कश्चिदसौ बुद्धो भविष्यति॥
५॥
क्रमादभ्यासयोगेन यस्य चिन्ता प्रवर्त्तते। बुद्धो भवेदसौ योगी नान्ये बुद्धत्वसाधकाः॥
६॥
स्वभावाद् यदि ते बुद्धा नाभ्यासेन प्रयोजनम्। सयुक्तिकसदाभ्यासं युक्तितोऽयुक्तिवर्जितम्॥
७॥
यद्यनाथो जनः कश्चित् राजाऽहमिति भावयेत्। कल्पकोटिशतेनापि नासौ राज्यमवाप्नुयात्॥
८॥
मिथ्याकल्पनया यस्माद् राज्यं तस्य न विद्यते। मिथ्याभावनया तस्माद् बुद्धत्वं न भविष्यति॥
९॥
(11)तन्त्रराजेषु संबद्धैः स्कन्धद्यायतनादिषु। तत्त्वं नामभिरुद्दिष्टं संयुक्तं समभाषया॥
१०॥
[शुक्रं] वैरोचनं ख्यातं वज्रोदकं तथाऽप्रम्। स्त्रीन्द्रियं च यथा पद्मं वज्रं पुंसेन्द्रियं तथा॥
११॥
स्वभावाद् देवताकायं तस्माद् वक्तुं न युज्यते। युक्त्यागमानुसारेण यस्माद् वक्तुं न शक्यते॥१२॥
कृतकं देवतारूपं वज्रसत्त्वो भवेद् यदि। संस्कृतो जायते तस्मात् नश्यते तु घटादिवत्॥
१३॥
ततो निष्फलतां यायात् बोधिचर्या त्वनेकधा। भावनाऽपि किमर्थं स्याद् यदि भूत्वा विनश्यति॥
१४॥
मनोमयकृतं रूपं कथं संस्कृतमुच्यते। कथं विनश्यति चैतत् श्रृणु मोहार्णवाधुना॥
१५॥
चित्तस्य कल्पना ह्येषा सापि संस्कृतलक्षणा। मनसा कल्पितं यत् तदविनाशि कथं भवेत्॥
१६॥
भुजवर्णसमायुक्तं यथापूर्वव्यवस्थितम्। अकृतं देवतारूपं भाव्यते तन्मयाऽधुना॥
१७॥
अकृतं देवतारूपं भाव्यते तत् त्वया यदि। स्थितं पूर्वमनुत्पन्नं भाव्यते किं प्रयोजनम्॥
१८॥
भवेयं तादृशं रूपं मत्वा हमिति भावना। भावने द्वे विचार्येऽत्र योगिना रूपसाधने॥
१९॥
(12)तादृशोऽहं भवेयमिति यदि ध्यानं प्रकल्प्यते। यदा ध्यानं स्फुटीभूतं दृश्यते देवता तु सा॥
२०॥
पटादौ रूपमालोक्य यदा ध्यानं [ प्रकल्प्यते। तदा] ………………………. जातस्य ते बुधाः (?)॥
२१॥
अजातं देवतारूपं ध्याने तत्र गतं यदि। सर्वाभिज्ञाप्रवृत्तेस्तु [त]द् रूपं चैव तत्क्षणात्॥
२२॥
एवं चेत् नास्ति ते सम्यक् तद् ध्यानेनागतं भवेत्। त्वया निष्पादितं रूपं कृतकं किं न बुध्यसे॥
२३॥
अहं तदिति पक्षे तु द्वयं तत्र न विद्यते। सिद्धस्य साधनं नास्ति कथं ध्यानप्रकल्पना॥
२४॥
सर्वज्ञत्वं हि सर्वज्ञो न भूयः प्राप्तुमिच्छति। बुद्धकृत्यं त्वया कार्यं बुद्धत्वं नान्यकारिता॥
२५॥
एवं ते नास्ति सम्यक्त्वं कथं मिथ्या प्रकल्प्यते। अकृतं बुद्धकृत्यं यत् तदेवाहम्मतिर्वृथा॥
२६॥
अकृतं देवतारूपं तदिदानीं विचार्यते। अकृतं शक्यते वक्तुं रूपित्वान्न घटादिवत्॥
२७॥
अत एव जगन्नाथा बालानां प्रतिबोधने। निर्वाणं दर्शयन्त्येव रूपस्यानित्यदर्शकाः॥
२८॥
तस्मात् त्वरूपवान बुद्धः क्वचित् लोके प्रवर्त्तते। बुद्धरूपप्रसिद्ध्यर्थं न कार्या रूपभावना॥
२९॥
(13)न रूपिणो यथा बुद्धा युक्त्या यस्त्वजडात्मकः। प्रदेशस्थो भवेद् रूपी षडभिज्ञः कथं भवेत्॥
३०॥
लोकधातुषु [कायाद्या] रूपाद्यायतनादिषु। न तेषामागतिस्तत्र नेत्राद्यायतनादिषु॥
३१॥
गमनं चक्षुरादीनां यदा नैवोपलभ्यते। कथं तेषां समायोगोऽयोगित्वान्न च सर्ववित्॥३२॥
गत्वा चेत् तत् प्रज्ञानाति क्रमाद् ज्ञातुं कथं क्षमः। ज्ञेयस्तानन्तसद्भावात् सर्वज्ञो न तथापि सः॥
३३॥
बुद्धानां चक्षुरादिभिरतो नैव प्रयोजनम्। चक्षुरादिविनिर्मुक्तः कायोऽन्यो नोपलभ्यते॥
३४॥
प्रतिमेव तु निश्चेष्टो बुद्धकायो हि लभ्यते। यस्मात् संवेदानाभावात् बुद्धरूपं न सर्ववित्॥
३५॥
दिव्यं चक्षुः कृपालूनां बुद्धानामस्ति सम्मतम्। दिव्यश्रोत्रादिसर्वाणि सर्वज्ञास्ते कथं नहि॥
३६॥
यदि ज्ञानेन जानीयाद् बुद्धकायेन किं तदा। कायस्थं वेत्ति तद् ज्ञानमतः कायो हि सर्ववित्॥
३७॥
कायाद् भिन्नमभिन्नं वा बुद्धज्ञानं भविष्यति। कायेन सह संयुक्तं निर्वाणे नश्यते [हि] तत्॥
३८॥
कायस्य नाशधर्मित्वात् ज्ञानं चापि विनश्यति। अतो नैवत्रता युक्ता बुद्धानां ज्ञानकाययोः॥
३९॥
(14)कायस्थं चेद् भवेद् ज्ञानं कायाभावे न सर्ववित्। प्रतीत्यसम्भवं ज्ञानमतो नाशमवाप्नुयात्॥४०॥
विनाशिज्ञानकायानां सर्वज्ञत्त्वं न युज्यते। अतोऽपि बुद्धकायो हि सर्वज्ञो न विधीयते॥
४१॥
ज्ञानादन्यत्वपक्षे तु बुद्धकायः कथं भवेत्। बुद्धस्य प्रतिमेत्येवं वक्तुं युक्तं हि योगिना॥
४२॥
तस्मात् मूढतरो लोको यो रूपं ध्यातुमिच्छति। बुद्धज्ञानप्रसिद्ध्यर्थमाकाशे भोक्तुमिच्छति॥
४३॥
सत्त्वेषु करुणाहीनाः श्रद्धाप्रज्ञाविवर्जिताः। गम्भीरोदारधर्मेषु बुद्धिस्तेषां भवेन्नहि॥
४४॥
एतेषां धर्महीनानामितश्चेतश्च धावताम्। उन्मत्तवत् प्रयातेषु [यु]गपद् धर्ममोहिताम्॥
४५॥
करुणा महती कार्या सत्त्वेभ्योऽपि विशिष्टता। नापमानमतो युक्तं सम्यग्ज्ञानोपदेशकैः॥
४६॥
ज्ञानसिद्धौ रूपभावनानिषेधो द्वितीयः परिच्छेदः। (15)तृतीयः परिच्छेदः। रूपभावनया तावत् वज्रसत्त्वो न मिध्यति। साकारकल्पनाऽप्येवं वज्रसत्त्वं न साधयेत्॥
१॥
आकार एव तद् ज्ञानमाकाराद् वा तिरस्कृतम्। यद्याकारो भवेद् ज्ञानमेवं तावन्न युज्यते॥
२॥
आकारं चेद् न तद् ज्ञानं ज्ञानस्याकारता नहि। यथाकाशो घटो न स्यात् नैवाकाशो घटो भवेत्॥
३॥
अरूपं न भवेत् रूपं [अरूपी] रूपवान् नहि। अरूपि ज्ञानमाख्यातमाकारा रूपिणः स्मृताः॥
४॥
कथं तयोरेकता हि भवेदिति प्रकल्प्यते। आकारं ज्ञानमेवेति कल्पना नैव युज्यते॥
५॥
अन्यदोषप्रसङ्गाच्च शृणु संक्षेपतोऽधुना। यद्याकारो हि तद् ज्ञानं संस्कृतत्वं प्रसज्यते॥
६॥
असंस्कृतो भवेद् भावो नहि लोके स विद्यते। कृतकत्वाद् विनाशित्वं बुद्धज्ञाने कथं भवेत्॥
७॥
अनादिनिधनं शान्तमित्युवाच तथागतः। तत्सुताश्च महाभागा आहुर्ज्ञानमसंस्कृतम्॥
८॥
मायोपमं हि तत्सर्वं प्रतिभासं निरुच्यते। उत्पादविरती न स्तः कथं ज्ञानं [हि] तद् भवेत्॥
९॥
(16)चक्षुर्विज्ञान[मार्गं] यत् तद् ज्ञानेन विकल्प्यते। विकारित्वं प्रसज्येत बुद्धज्ञानस्य नान्यथा॥
१०॥
अविकारं तु तद् ज्ञानं सर्वबुद्धेः प्रदर्शितम्। तस्मान्न युज्यते वक्तुमेकत्वमिति निश्चयः॥
११॥
ज्ञानस्य प्रतिभासोऽयं न तद् ज्ञानं प्रकल्प्यते। प्रतिभामनिरोधेन ज्ञानं कस्मान्निरुध्यते॥
१२॥
तस्मादसिद्धमेकत्वं त्वद्वाचैव सुनिश्चितम्। एकत्वं तु किमर्थं हि परिकल्पयसे [वृथा॥
१३॥
युक्त्यागमविरुद्धत्वात् निष्फलत्वाच्च सर्वथा। ज्ञानं तदेव साकारमित्येवं नहि युज्यते॥
१४॥
आकाराद् व्यतिरिक्ते तु ज्ञाने ज्ञानं न युज्यते। ज्ञेये सति भवेद् ज्ञानं न तु ज्ञेये तिरस्कृते॥
१५॥
आकारेभ्यः पृथग्भूतं ज्ञानं चेद् यदि कल्प्यते। आकाराश्च पृथग्भूता ज्ञानादेव निराश्रयात्॥
१६॥
ज्ञानस्योत्पादकाले तु नाकाराणां ममुद्भवः। आकाराणां समुत्पादे ज्ञानं नैवोपपद्यते॥
१७॥
यथा घटस्य निष्पत्तौ न पटस्योद्भवो भवेत्। पृथक्त्वादेव धर्माणामेवं लोके प्रदृश्यते॥
१८॥
(17)न ह्यजातेन पुत्रेण पुत्री भवितुमर्हति। एवं निराश्रये ज्ञाने साकारं कथमिष्यते॥
१९॥
किमपेक्ष्य भवेद् ज्ञानं साकारं येन तेद्भवेत्। साकारज्ञानमित्येव आकाररहितं न तु॥
२०॥
आकाररहिते ज्ञाने साकारत्वं कथं भवेत्। आकारैः सहितं यत् तु तत् साकारं प्रकल्पते॥
२१॥
सर्वाकारविनिर्मुक्तं बुद्धज्ञानं कथं भवेत्॥
आकारेण विनाऽपीह साकारत्वं भवेद् यदि। बुद्धज्ञानं विना बुद्धः कथं तत्त्वं भविष्यति॥२२॥
न तद् ज्ञानं न सर्वज्ञः पृथग्ज्ञाने विकल्पते। अथ साकारता ज्ञाने सिद्धिं नैवोपपद्यते॥
२३॥
आकारेण समायुक्तं साकारत्वं भवेद् यदि। न संयोगतया दृष्टं बुद्धवत् संप्रवर्त्तके॥
२४॥
रूपिणो नहि संयोगा अरूपेणैव सर्वथा। यथाकाशेन संयोगात् न [घटस्योद्भवो भवेत्]॥
२५॥
आकारेण च युक्तं [हि] साकारत्वं भवेद् यदि। सापेक्षत्वाद् विनाशित्वं विषामग्र्यं भविष्यति॥
२६॥
प्रतीत्यसम्भवं यत् तद् बुद्धज्ञानं भवेन्नहि। संस्कृतत्वं यथा ज्ञाने साकारत्वं न सिध्यति॥
२७॥
(18)आकारज्ञानयोश्चैव अन्यत्वं तु तयोर्यदि। अन्योन्यकं मयोक्तं च कथं ज्ञानं भविष्यति॥
२८॥
आकाराश्च पृथग्ज्ञानादित्येवं यदि कल्पते। ज्ञानादन्यतया तेषामज्ञानत्वं प्रसज्यते॥
२९॥
आकारेभ्यो यथाऽन्यत्तु निराकारमतो भवेत्। तथा ज्ञानं निराकारं कथमेवं न कल्पते॥
३०॥
ज्ञानसिद्धौ साकारनिराकरणस्तृतीयः परिच्छेदः। (19)चतुर्थः परिच्छेदः। प्रतिषिद्धं तु साकारं यथायुक्तिप्रकल्पितम्। निराकारं भवेन्नैवं यथा तदुच्यतेऽधुना॥
१॥
निराकारमिपि ज्ञानं भवेद् यदि विकल्पितम्। आकारैर्विगतत्वात्तु किमसौ वेत्ति सर्ववित्॥
२॥
सर्वज्ञत्वं न तस्यास्ति न ज्ञानत्वात् च कल्पना। जडत्वं च प्रसज्येत सर्वाकारमपश्यतः॥
३॥
अजडं बोधरूपं तु निराकारमिति स्मृतम्। वेत्ति सर्वन्तु यत् सत्यमभूतं वेत्त्यसौ कथम्॥
४॥
सर्वकल्पविनिर्मुक्तान् सर्वधर्मान् निरात्मकान्। एवं जानाति तद् ज्ञानमलीकं वेत्त्यसौ कथम्॥
५॥
मायोपमादिदृष्टान्तैः सर्वधर्मान् प्रबुध्य तैः। देशितं सर्वबुद्धैश्च तत्र तत्र जगद्धितैः॥
६॥
मायाद्या ये तु दृष्टान्ता मिथ्याकल्पेन कल्पिताः। न विद्यन्ते स्वभावेन स कथं वेत्ति सर्ववित्॥
७॥
शशशृङ्गं न तद् वेत्ति नापि वन्ध्या सुतं तथा। अभावत्वात् कथं वेत्ति निराकारमतो भवेत्॥
८॥
मायोदयो हि दृष्टान्ता निर्दिष्टाः ससुतैर्जिनैः॥
अभावं कल्पनामात्रं सर्वथा नहि सिध्यति॥
९॥
(20)दृष्टान्तैरेव ते तुल्या धर्माश्चेत् सर्वथा स्मृताः। भवेयुर्न च दृष्टान्ताः साध्यत्वात् सर्वयत्नतः॥
१०॥
पुरुषे सिंहदृष्टान्तो यथा लोके प्रवर्त्तते। शौर्यादिगुणसंयोगात् न तु पुच्छादिसम्भवैः॥११॥
तस्मान्न सर्वथाऽभावाः सर्वभावाः स्वभावतः। युक्त्यागमानुसारेण बोद्धव्यं पुरुषोत्तमैः॥
१२॥
तस्मात् त्वया युदुद्दिष्टं बालोल्लापनगामिना। न तद्भूतं वदन्त्येव जगदुद्धरणोद्यमाः॥
१३॥
शशशृङ्गं यथाऽभावं वन्ध्यायाः पुत्रवत् तथा। न क्वचित् सर्वभावानामभावो देशितो जिनैः॥
१४॥
यदि रूपादयो भावा विद्यन्ते नैव सर्वथा। दिव्यचक्षुः कथं सिद्धं बुद्धानां करुणात्मनाम्॥
१५॥
दिव्यश्रोत्रादयः सर्वे न भवन्ति ततस्तथा। सर्वज्ञो हि ततो न स्यादभिज्ञानामभावतः॥
१६॥
निराकारेण ज्ञानेन बुद्धकाये सुसंयुते। सर्वाभिज्ञाः प्रवर्त्तेन्ते सर्ववित्त्वं कथं नहि। १७॥
चक्षुरादिभिरेवैते रूपाद्यायतनादयः। अनुभाव्याः सचेतस्कैरेवं लोके प्रवर्त्तते॥
१८॥
रूपादयो न सन्तीति त्वयैवोक्तं पुनः पुनः। अभावेन कथं योगो भवेदिति प्रकल्प्यते॥
१९॥
(21)यद्यभावेन योगः स्याद् युक्तं वक्तुं त्वयेदृशम्। अभावः सर्वथा येषां तद्योगः कथमिष्यते॥
२०॥
अयोगेऽपि भवेद् ज्ञानं प्रणिधानवशात् तथा। करोति सर्वसत्त्वार्थं यथा वैनेयभाजने॥
२१॥
नासौ किञ्चिद् यदा वेत्ति सत्त्वार्थं कुरुते कथम्। नावेदको हि सर्वज्ञो न कृपा सत्त्वसङ्ग्रहे॥
२२॥
प्रणिधानेन सत्त्वार्थः चिन्तामणिरिवापरः। करोतीति न तद्भक्त्या प्रतिभाति सतामिह॥२३॥
सर्वसत्त्वार्थसंसिद्धौ नियतत्वं सदा यतः। चिन्तामणिरतः ख्यातं ज्ञानं तदजडात्मकम्॥२४॥
अदृष्टेऽप्यकृतं यत्र स्वकीया ज्ञानकल्पना। सर्वज्ञोऽहं जगत्स्वाम्य प्यभूवमिति किं नहि॥
२५॥
बोधिचित्तं समुत्पाद्य सर्वसम्भारसंवृतः। महोत्साहो महावीर्यो भावनाचिन्तनादिभिः॥
२६॥
सद्धर्मश्रवणाद्यैस्तु दुःखे नैव प्रयोजनम्। अपूर्वस्यादयो नास्ति स्थितपूर्वं च नश्यति॥
२७॥
ईदृशं यदि बुद्धत्वं वृथा सर्वमतोऽखिलम्। भयेभ्यो मरणादिभ्यो मुक्तो नारकपीडनात्॥
२८॥
प्रियाप्रियादिदुःखैश्च रहितस्त्वजडात्मकः। सर्वधर्मस्वभावज्ञः सर्वज्ञो हि निरुच्यते॥
२९॥
(22)स्वभावज्ञानसर्वज्ञ इति सम्बुद्धदेशितः। सर्वं प्रत्यक्षतो वेत्ति सर्वज्ञस्तेन कथ्यते॥
३०॥
[निहन्ति] नारकं दुःखं संसारेऽपि प्रवर्त्तकम्। चक्रवर्त्त्यादिसौख्यं च लभते नात्र संशयः॥
३१॥
ज्ञानसिद्धौ निराकारनिराकरणश्चतुर्थः परिच्छेदः। (23)पञ्चमः परिच्छेदः। एवं दोषसमूढत्वात् निराकारमतो न चेत्। ततो निश्चित्ततातत्त्वमधुना प्रतिषिध्यते॥
१॥
किञ्चिन्मूढतरावस्थं ज्ञानमिच्छन्ति मोहिनः। मूढभावनया मूढं प्राप्नुवन्त्येव दुर्णयाः॥
२॥
हेतुना सदृशं ज्ञानं फलं लोके तु युज्यते। कोद्रवा नहि जायन्ते शालयः क्वचिदेव तु॥
३॥
निर्विकल्पमतो ज्ञानं नहि युक्तं विधीयते। ज्ञानस्य निर्विकल्पत्वमन्यथा नहि युज्यते॥
४॥
ज्ञानस्य निर्विकल्पत्वं सत्यमुक्तं तथागतैः। तत्त्वज्ञानस्य मूढस्य निर्विकल्पत्वकल्पना॥५॥
ज्ञानं बौद्धमनाभोगं निर्विकल्पमतः स्मृतम्। सञ्चिन्त्य करुणाभावात् नतु निश्चित्तता भवेत्॥
६॥
निर्विकल्पत्वमज्ञानं क्वचिदेव न देशितम्। नहि धर्माः परा वोऽस्ति अन्यथा तत्त्वग्राहिणाम्॥
७॥
सर्वज्ञः सर्वदर्शो च सर्वलोकार्थकारकः। तत्र तत्र जगन्नाथैर्देशितः करुणात्मभिः॥
८॥
(24)निर्विकल्पनमात्रत्वं स्मरणं क्रियते यदि। पदान्येतानि सर्वाणि स्मर्यन्ते तु कथं नहि॥
९॥
उभयार्थविहीनत्वात् न ज्ञानं नापि सर्ववित्। प्रतिषिद्धमिदं तत्त्वं मिथ्याज्ञानं तु मोहिनाम्॥
१०॥
ज्ञानसिद्धौ मूढभावनानिषेधः पञ्चमः परिच्छेदः। (25)षष्ठः परिच्छेदः। नाश्वासं नापि प्रश्वासं तत्त्वं भवितुमर्हति। तयोर्मध्ये भवन्नापि वायुस्तत्त्वं कथं भवेत्॥१॥
मध्ये न किंचिदप्यस्ति कथं तत्त्वं भविष्यति। वायुर्यदि भवेत्तत्त्वं भस्त्रापार्श्वे भविष्यति॥
२॥
प्रेरणे भस्त्रया वायोः तथैव क्षेपणेऽपि च यथा कश्चित् धमेद् भस्त्रां तद्वद्देहो धमेन्मनः॥
३॥
न वायुधमकः कश्चित् न वायुध्मामकस्तथा। कायस्य धमकेनेव भस्त्राया धमकेन च॥
४॥
न विशेषः तयोर्दृष्टो योगिभिः तत्त्वदर्शिभिः। नरेण मनसा तुल्यं धमकत्वक्रियां प्रति॥
५॥
भ्रस्त्राया वायुना तुल्यं श्वासप्रश्वासवायुना। भस्त्रावातं यथा तत्त्वं देहवायुस्तथा भवेत्॥
६॥
देहवायुः यदा तत्त्वं सर्वद्वारविनिर्गतम्। न तत्त्वं युज्यते वक्तु [मावेश]त्वात् प्रभंजनः॥
७॥
भ्रष्ट[मार्गग]मूढानां मिथ्यातत्त्वप्रभाविनाम्। न तेषां सुगतौ जन्म गतिरेकैव नारकी॥
८॥
ज्ञानसिद्धौ आश्वासप्रतिषेधः षष्ठः। (26)सप्तमः परिच्छेदः। मुखं द्वीन्द्रियजं केचित् तत्त्वमाहुर्नराधमाः। [तत्त्वं] महासुखं नैव प्रवदन्ति जिनोत्तमाः॥
१॥
प्रतीत्योत्पादसम्भूतं न तत्त्वं जायते क्वचित्। न तत्सुखं स्वभावेन विद्यते सर्वदा यतः॥
२॥
सर्वताथागतं ज्ञानं स्वसंवेद्यस्वभावकम्। सर्वसौख्याग्रभूतत्वात् महासुखमिति स्मृतम्॥३॥
अनित्यं महासुखं नैव सदा नित्यं महासुखम्। कच्छकण्डूयनोत्पन्नं कथं महासुखं नहि॥
४॥
रागतुल्यं सुखं नास्ति तज्जिनेभ्यः समाददन्। भुञ्जीत सर्वकामांश्च जुगुप्सां नैव कारयेत्॥५॥
योगभद्रषु सर्वेषु वज्रसत्त्वेन देशितम्। योगिनां चित्तसौख्यार्थं न तत्त्वं परमार्थतः॥
६॥
ज्ञानसिद्धौ महासुखप्रतिवर्णिकाप्रतिषेधः सप्तमः। (27)अष्टमः परिच्छेदः। [स्वसं]वेद्यं प्रतिषिद्धं सम्यग्ज्ञानमतो नहि। मिथ्या तत्त्वानि सर्वाणि कल्पितानि सुमोहिनाम्॥१॥
स्वबुद्धेर्न निषेध्यानि अन्यान्यपि विचक्षणैः। सम्यक् तत्त्वं यथा लभ्यं तदिदानीं प्रकथ्यते॥२॥
परीतबुद्धयः सत्त्वा अल्पपुण्याल्पवीर्य्यकाः। कथं ते प्राप्नुयुर्ज्ञानं सर्वताथागतं परम्॥३॥
[अ]नुक्रमं व्रवीम्येष सर्वबुद्धैस्तु देशितम्। जानुनी संप्रतिष्ठाप्य धरण्यां सुप्रतिष्ठितः॥
४॥
वदेदेवं ततः श्राद्धो ऋजुकायः कृताञ्जलिः। संबुद्धाः शासनो लोके भविष्यन्तोऽप्यनागताः॥
५॥
वर्त्तमाना गताश्चैव सद्धर्म्मप्रतिदेशकाः। सर्वबुद्धानहं वन्दे एतान् तत्त्वप्रदेशकान्॥६॥
अहं निर्य्यातयाम्येष पूजोपस्थानकर्म्मणि। आत्मानं सर्वबुद्धानां प्रतिगृह्णन्तु नायकाः॥७॥
सर्वपूजाविशेषैस्तु पूज[यंश्च] जगद्गुरून्। आकाशधातुपर्य्यन्तै[रा] सुमेरुपरिग्रहैः॥८॥
धर्म्मधातुसमुत्पन्नैरर्चितैर्वि[वि]धैर्वरैः। अतीतानागतैः सर्वैर्वज्रसत्त्वविकुर्वितैः॥
९॥
(28)समुत्पन्नानि पापानि सर्वाण्यपि [स तत्त्व ]वित्। प्रतिदेश्य समादध्यादकरसम्बरं पुनः॥
१०॥
यत् पुण्यं सर्वबुद्धानां तत्सुतानां च धीमताम्। श्रावकसङ्घबुद्धानां यच्चान्यत् सर्वदेहिनाम्॥११॥
अनुमोदे तथा पुण्यं सर्वजन्मसु यत्कृतम्। स्वकीयं परकीयं च संहृष्टेन तु चेतसा॥
१२॥
धर्म्मतत्त्वरथारूढा दशादिक्सर्वतः स्थिताः। धर्म्मद्योतनदक्षास्तु महाकारुण्यचेतसः। प्रकाशयन्तु ते धर्म्मा विज्ञप्तिं तत्करोम्यहम्॥
१३॥
कृताञ्जलिपुटो भूत्वाऽसौ निर्वान्तु कदा कथम्। भवेयुः प्राणिनो बुद्धाः सर्वे यावत् प्रतिष्ठिताः॥
१४॥
तावत् तिष्ठन्तु ते नाथाः सर्वसत्त्वार्थकारकाः। कायवाङ्मनमं पुण्यं कृतं कारितमेव वा॥
१५॥
यच्चानुमोदितं किंचित् तेन लोकोऽस्तु सर्ववित्। त्रिकालं तु यथाशक्त्या पुष्पादिभिः प्रपूज्य च॥
१६॥
मण्डलं सर्वबुद्धेभ्यो वज्रसत्त्वेभ्य एव च। कृत्वा पञ्चामृतं मिश्रं अमिश्रं वा प्रकल्पितम्॥
१७॥
सर्वकल्पविमुक्तात्मा गृह्णीयात् समयादिकम्। तत्त्वसंग्रहतन्त्रादौ स्थितं समयसम्बरम्॥
१८॥
प्रणिनश्च [न] ते घात्या अदत्तं नैव चाहरेत्। नाचरेत् काममिथ्या वा मृषां नैव हि भाषयेत्॥१९॥
(29)सर्वानर्थस्य मूलत्वात् मद्यपानं विवर्जयेत्। पैशुन्यमथ पारुष्यं सम्भिन्नालापभाषणम्॥२०॥
अविद्यासत्त्वविद्वेषमिथ्यादृष्टिं च सर्वथा। उत्पादयाम्यपूर्वं तु स्थापयिष्यामि निर्वृतौ॥
२१॥
समाध्यङ्गं ततः सर्वं गृह्णीयात् संवरं परम्। बोधिचित्तं तथोत्पाद्यं सर्वपुण्यमहोदयम्॥२२॥
सर्वसत्त्वं महान्तं च स्थाप्य सर्वज्ञभूमिषु। सर्वदुःखहरो ह्येषां भवेयं करुणात्मकः॥
२३॥
सर्वसम्पत्प्रदाता च बोधिमार्गोपदेशकः। सम्यक् चित्तं समुत्पाद्यं समत्वं सर्वदेहिषु॥
२४॥
बोधिचित्तमिदं ज्ञेयं अन्यथा वितथं भवेत्। बोधिचित्तं न तन्नाम विषमत्वं यदा स्थितम्॥
२५॥
न तदुत्पद्यते ज्ञानं आदिमध्यान्तवर्ज्जितम्। नाधिष्ठानं प्रकुर्वन्ति सर्वदा सर्ववज्रिणः॥
२६॥
सर्वदेवादयश्चापि न तं रक्षन्ति विद्विषः। तस्मादुपायविद्योगी सर्वसत्त्वैकबान्धवः॥२७॥
अविसंवा[द]कं चित्तं समुत्पाद्य ततो दृढम्। कृतेनानेन सम्बुद्धाः तुष्टाः सर्वकृतात्मकाः॥
२८॥
अधिष्ठानं प्रकुर्वन्ति महाबलपराक्रमाः। मारविघ्नापदश्चापि नावतारगवेषकाः॥
२९॥
वज्रपाण्यादयो हृष्टा रक्षां कुर्वन्ति नित्यशः। सर्वपापविशुद्धिं च लभतेऽसौ नरोत्तमः॥
३०॥
(30)सर्वपुण्योदयश्चापि सम्यक्ज्ञानोदयं भवेत्। अन्यथा नहि तत्त्वानां उ[द]यं सर्वथा भवेत्॥
३१॥
तस्मादादौ विधानज्ञो य[द्]ज्ञानं प्राप्तुमिच्छति। जन्मनीहैव सिद्ध्यर्थ [नि]रुपद्रवतां प्रति॥
३२॥
सर्वविघ्नविनाशार्थं आयुरारोग्यवर्द्धनम्। करणीयमतोऽवश्यं योगिना फलकाङ्क्षिणा॥३३॥
नानातन्त्रेषु निर्द्दिष्टं कृपया बुद्धवज्रिणा। एष मार्गस्थितो योगी शुक्लपक्षे यथा शशी। वृद्धिक्रमं ममायाति क्षयं न तु कदाचन॥
३४॥
हीनवीर्य्यो यदा कश्चित् बुद्धत्वं प्राप्नुयान्नहि। चक्रवर्त्तिसुखं राज्यं सर्वजन्मसु कारयेत्॥३५॥
यत्पुण्यं सर्वबुद्धानां सर्वदिक्कालभाविनाम्। तत्तस्य रोमकूपाग्रे प्रवदन्ति जिनोत्तमाः॥३६॥
ज्ञानसिद्धौ पुण्यज्ञानसम्भारप्राप्त्युपायोऽष्टमः॥
(31)नवमः परिच्छेदः। कथं देशनया पापं क्षयं गच्छेत् सुदारुणम्। अनुमोदनया पुण्यं कथं सम्भुज्यते तथा॥
१॥
प्रणान्तपातकादीनि कर्त्तव्यं क्वचिदव्रवीत्। क्वचिन्नेति च तन्त्रेषु कथं तन्न विरुध्यते॥२॥
पञ्चामृतादिकं सर्वं अभक्ष्यं गम्यते तथा। अप्रियादीन्यनेकानि कथं तैस्तु शुभोदयः॥३॥
यथाक्रमं व्रवीम्येषां तन्त्रे तन्त्रे निदर्शितम्। मन्दधीजनबोधार्थं सर्वबुद्धैः [सवज्रिभिः]॥४॥
यत्कर्म्म क्रियते किञ्चित् कायवाङ्मनसैः क्रिया। चतुर्थो विद्यते नान्यस्तेषामेवं विचार्य्यते॥
५। चित्तेन च विना कायः किञ्चित् कर्त्तुं भवेत् क्षमः। वचनं च विना तेन भवेत् नैव कदाचन॥
६॥
काये वाक्कर्म्मणी तस्माद्भवतां मानसेऽद्वयम्। चित्तेनैव जगत् सर्वं क्रियते यत् शुभाशुभम्॥
७॥
हितार्थं यद्भवेत्कर्म्म सर्वं सच्चरितं भवेत्। विपर्य्ययादपुण्यं तत् प्रवदन्ति जिनोत्तमाः॥
८॥
(32)चित्तेनैव तु तत्सर्वं क्रियते यत् शुभाशुभम्। चित्तेनैव भवेन्नाश इत्युवाच जगद्गुरुः॥
९॥
सत्त्वापकारनिष्पन्नं यत्पापं परिकीर्त्तितम्। हितचित्तं समुत्पाद्य संभ्रष्टः प्रतिदेशयेत्॥
१०॥
उत्साहेन कृतं पूर्वं अपकारसमन्वितम्। प्रतिपक्षात् भवेन्नाशो यस्मात् तेनैव तत्कृतम्॥११॥
घटमुत्पाद्य यः कश्चित् भनत्त्येव तु तत् स्वयम्। तथा पापं समुत्पन्नं नाशयेत् आत्मना स तु॥
१२॥
देशयिष्याम्यहं पश्चादिति मूढः करोति चेत्। न चास्य देशना युक्ता न पापं तस्य नश्यति॥
१३॥
तथा पुण्यविनाशश्च तद्वदेव भवत्यपि। कृते पुण्येऽपि छि[द्र]त्वाद् भवेन्नाशं न संशयः॥
१४॥
ददतश्च यदा चित्ते दातुमिच्छा न वर्त्तते। दत्तेऽपि च न तत्पुण्यं प्रभविष्यति कस्यचित्॥१५॥
सर्वेषामधिकं स्थानं यत्र सर्वं विनश्यति। कल्पकोटिसहस्रैश्च समुपात्तं शुभं महत्॥
१६॥
उत्पन्नबोधिचित्तस्य पुण्यसम्भारसञ्चयः। कल्पकोटिशतोपात्तः क्षणादेव विनश्यति॥
१७॥
तादृशेऽप्रतिघे नान्यद् द्विती[यम]नुजेऽप्रिये। ततोऽपि रक्ष्यमत्यर्थं एवमुक्तं तथागतैः॥
१८॥
तस्मिन् स्वल्पोपकारेण पुण्यराशिर्महान् भवेत्। सर्वेषां सर्वसौख्यानां आकरत्वाद्गुणोदधौ॥
१९॥
(33)केचिन्मूढतरा बाला युक्त्यागम[म]पश्यकाः। कल्पेनैव भवेत् पापं इत्या[हुः स्वा]त्मनाशकाः॥२०॥
कल्पनारहितो योगी यदि पापैर्न लिप्यते। द्वेषाद्युत्पादहेतौ तु विकारित्वं न युज्यते॥२१॥
विहाय लौकिकीं वृत्तिमन्यथा तु भवेन्न किम्। शिरसा गमनं युक्तं तथा पाषाणभक्षणम्॥
२२॥
शीतवातपिपासादिवाधा तस्य न युज्यते। आक्रोशाद्यपकारैश्च न खेदमुपसंहरेत्॥
२३॥
स्वकीयं यदि कर्त्तव्यं लोभाद्याकृष्टदुःस्त्यजम्। निर्विकल्पं प्रकल्प्येत न तथान्यत्र तद्भवेत्॥
२४॥
अनुत्पादक्षयं नैव पापानां कर्म्मणामिह। क्रोधाहङ्कारयोगाच्च न पापं परिशुध्यते॥२५॥
देवतैव च तत् सर्वं करोतीति प्रकल्प्यते। उत्पादात् पूर्वमेवासौ कारयेत् न कथं भृशम्॥२६॥
देवतैव करोतीति मिथ्येयं परिकल्पना। यस्मात् लोभाभिभूतानां क्रियेयं कर्तुमिच्छताम्॥२७॥
अनुमोदादिसर्वाणि चिन्तायत्नानि सर्वतः। पुण्यसंभारयुक्तानि ज्ञातव्यानीह धीधनैः॥
२८॥
कायवाक्सहितं हीनं तत्पुण्यं सम[म]स्तु ते। एकान्त तीव्रचित्तस्य यत्पुण्यं बुद्धवर्णितम्॥२९॥
(34)प्राणिहिंसादि यत् कर्म्म लोभाद्याविष्टचेतसः। कुशलं न भवेत् सर्वं पुण्यं तु करुणोत्थितम्॥
३०॥
यत् कर्म्म परहितार्थं क्रियते तु कृपात्मकैः। तत् सर्वं पुण्यमित्याहुर्जगदाशाप्रपूरकैः॥३१॥
निषेध्यमप्यनुज्ञातं कृपया दृढचेतसाम्। न तु स्वार्थाभिभूतानां करुणाहीनदेहिनाम्॥३२॥
कृते पुण्येऽप्यनर्थाय कस्यचिद्द्विष्यतो जनम्। पापमेव भवेत् तस्य प्रवदन्ति जिनोत्तमाः॥३३॥
उक्तं च-कल्पान्ताद्बोधिसत्त्वानां शुभं वा यदि वाऽशुभम्। सर्वं कल्याणतामेति तेषां वश्यं यतो मनः॥
३४॥
इति ज्ञानसिद्धौ पापपुण्योत्पादविनाशपरिज्ञाननिर्द्देशोनवमः॥
(35)दशमः परिच्छेदः। पञ्चामृतमविघ्नार्थं चित्तसंसाधनापरैः। अजादिमांसमप्येवं योगिनां विहितं जिनैः॥
१॥
सर्वेऽपि प्राणिनः सर्वं भक्षन्तोऽपि न बुद्धकाः। न प्रजानन्ति ते मुढाश्चिन्ता विगतबुद्धयः॥२॥
सर्वसम्पूर्णभूतत्वात् कायस्तावत् शुचिर्न हि। तत्स्रावभक्षकः कश्चित् सर्वं भुक्तं न तेन किम्॥३॥
क्षीरादिकं तथा सर्वं सर्वेषामेव [दे]हिनाम्। भक्ष्याभक्ष्यप्रसिद्धानां शुचित्वं नैव सिध्यति॥४॥
भक्तवस्तूनि सर्वाणि अशुचीनि प्रबुध्यते। यस्माज्जलेन संभूतिः तेषामिह प्रदृश्यते॥
५॥
वृष्टिर्जलसमुहेन सर्वं प्रक्षाल्य कुत्सितम्। सर्वसस्यानि निष्पाद्य समुद्रादीन् विशेत् ततः॥
६॥
तज्जैरशुचिभिर्युक्तैर्नागैरुत्थापितं जलम्। पुनर्वृष्टेः तथा सर्वसस्यं सम्पादयेज्जलम्॥७॥
पुष्करिण्यादिके तद्वत् सर्वेषां सर्व[क्षा]लनम्। शुच्यशुच्यादिकं तस्मात् सर्वं नैवात्र विद्यते॥
८॥
(36)शुचित्वं अस्ति चेत् किञ्चित् अशुचित्वं भविष्यति। शुच्यभावादशुचित्वं सर्वथा नोपलभ्यते॥९॥
आपेक्षिकत्वमन्योन्यपारापारकवद्यथा। लौकिकी कल्पनैवैषा शुच्यशुच्यादिकल्पना॥१०॥
ज्ञानसिद्धौ शुच्यशुच्यकल्पनाविविक्तो नाम दशमः॥
(37)एकादशः परिच्छेदः। अगम्यागमनस्यापि विचारः क्रियतेऽधुना। योगिनां समनुज्ञातं अविरुद्धं यथा तु तत्॥१॥
सर्वेषां देहिनामेव अस्त्येवोत्पादनाशनम्। तच्च कर्म्मवशादेव सर्वदा त्रिभवे [भवे]त्॥२॥
माता पिता च पुत्रः स्यात् पुत्रो माता पिता भवेत्। चेटी भार्य्यापि तौ स्यातां भार्य्या माता भवत्यपि॥३॥
एवमादीनि रूपाणि अनेकानि सुविस्तरैः। भवेऽनादौ भवन्तीति वज्रसत्त्वेन देशितम्॥४॥
एवं स्थिते तु संसारे दीर्घकालप्रवर्त्तिते। माता पिता न [भू]तो हि कश्चित् सत्त्वो न विद्यते॥५॥
दुहित्राद्याः तथा सर्वाः प्राग्भूताः सन्ति षड्गतौ। तस्माच्च महती कार्य्या कृपेत्युक्ता जिनोत्तमैः॥६॥
अत एव तु ते नाथाः वज्रसत्त्वादयो वराः। दुहित्रादिरनुज्ञा[तो] योगिनां चित्तसाधने॥७॥
कल्पनाजलपूर्णस्य संसारस्य महोदधेः। वज्रयानं समारुह्य को वा पारं गमिष्यति॥८॥
मिथ्याज्ञानानि सर्वाणि युक्त्यागमसमायुतैः। निषिद्धानि क्रमात् तानि सर्वदोषाकराणि हि। ९॥
ज्ञानसिद्धौ गम्यागम्यरहितो नाम एकादशः॥
(38)द्वादशः परिच्छेदः। वज्रज्ञानप्रबोधार्थं युक्तिरप्युच्यतेऽधुना। योगतन्त्रोक्तदृष्टान्तैर्हितायोत्तमयोगिनाम्॥१॥
रूपकायादयो भावास्तत्त्वरूपं यथा न ते। तद्वारणं कृतं पूर्वं अरूपत्वं ततः स्थितम्॥२॥
सर्वदोषप्रसङ्गित्वाद् भावस्तत्त्वं भवेत् नहि। अभावोऽपि न तत् तत्त्वं सर्वदुःखाकरं परम्॥३॥
भावाभावौ न तौ तत्त्वं भवेत् ताभ्यां विवर्जितम्। न देशस्थमतो युक्तं सर्वज्ञो न भवेत् तदा॥
४॥
व्यापित्वं वज्रकायत्वं अविकारित्वं एव च। सर्वज्ञत्वमतः सिद्धिं सम्यग्ज्ञानस्य युक्तितः॥
५॥
रूपिणो नहि व्यापित्वं वज्रकायमतो नहि। अविकार्य्यं न तस्यास्ति न सर्वज्ञो भविष्यति॥
६॥
क्रमात् जानाति यः कश्चित् सर्वं नासौ प्रबुद्ध्यते। ज्ञेयानामप्रमाणत्वान्नासौ सर्वज्ञ इष्यते॥
७॥
कल्पकोटिसहस्रेण नासौ ज्ञातुं भवेत् क्षमः। एकस्मिन्नेव दिग्भागे यत् ज्ञेयं परिकीर्त्तितम्॥८॥
उत्पद्य चेत् भवेन्नाशः तस्मादुत्पाद्यते नहि। सुस्थितं चैव ज्ञानं तत् भ्रममात्रविनाशनम्॥
९॥
गतागतं भवेद्यस्य [सुस्थितत्वं ] न विद्यते। चलत्वादेकदेशस्थान्नाशस्तस्य प्रयुज्यते॥१०॥
(39)अवर्ण्यो यो भवेद्धर्म्मः कस्तं नाशयितुं क्षमः। शस्त्रोदकविषाग्नीनां बुद्धो जातो भवेत् न तु॥
११॥
सर्वाकारप्रतिष्ठात्मा निश्चलो गगनोपमः। असंक्लिष्टोऽविकारश्च सर्वथा सर्वकालिकः॥१२॥
असार्वकालिको यस्तु न सर्वज्ञो भवेत् स तु। तस्मात् सर्वप्रकालं तु भवितव्यं इति स्मृतम्॥
१३॥
स्थितमेवं महाज्ञानं सर्वेषामेव देहिनाम्। न प्रज्ञानन्ति मुढास्ते बाला मोहपटावृताः॥
१४॥
लोष्टश्च धावति क्षिप्तो नासौ प्रक्षेपकस्तथा। एवं चित्तेन यद्धाव्यं तद्धावति न चित्त[कम्]॥१५॥
चित्तेन भास्यते यत्तत् तदेव तु निरीक्ष्यते। इदं तत् कीदृशं चित्तमिति चिन्ता न वर्त्तते॥
१६॥
ज्ञानसिद्धौ तत्त्वस्थापनं नाम द्वादशः॥
(40)त्रयोदशः परिच्छेदः। एष मूढतरो लोको मोक्षार्थमात्मनिश्चये। प्रपातेऽपि क्षिपत्येव पर्जन्येन प्रचोदितः॥१॥
ईदृशी दृश्यते चेष्टा बहूनामपि देहिनाम्। सन्त्यज्य सुगतौ [यानमन्यत् मार्गं समाश्रयेत्]॥
२॥
तद्विधो मनुजः कश्चित् मार्गमन्यत् प्रदर्शयेत्। पृच्छकोऽपि न तं पृच्छेत् [येन तत्त्वं] प्रबुध्यते॥
३॥
यदि मोहवशात् मार्गं दर्शयन्तमपश्यकम्। न शिवं लभ्यते गन्तुस्तन्मार्गेणैव यायिनः॥
४॥
स्वयमपश्यको मार्गं कथमन्यं नयेद्भृशम्। द्वावेव यदि गच्छेतां तयोर्दुःखं न संशयः॥
५॥
अटव्यां संप्रविष्टस्य जात्यन्धस्य यथा क्रिया। द्वितीयं तादृशं कश्चित् कथं ग्रामं प्रवेशयेत्॥६॥
एवं जात्यन्धभूतास्ते सम्यग् ज्ञानमपश्यकाः। अशक्तास्तत्पदं प्राप्तुं कथमन्यं तु प्रापयेत्॥७॥
तस्मात् परीक्ष्य कर्त्तव्यं गुरूणां पर्य्युपासनम्। शिष्यैर्भक्तिसमायुक्तैः प्रवदन्ति जिनोत्तमाः॥
८॥
रत्नत्रयेषु बुद्धात्मा कृपावान् सर्वजन्तुषु। त्यागादिसंयतो धीरः सर्वपुण्यमहोदयः॥९॥
(41)बोधिचित्तसमुत्पन्नः प्रसन्नो गुणवान् सुधीः। अक्रोधनो महोत्साही धर्म्मगम्भीरनिश्चयः॥
१०॥
सयुक्तिकं धर्म्मदानं निरा[भा]सं सदा मतम्। अल्पेच्छता सदा तस्य सम्भारद्वयसम्भृतः॥
११॥
गुरुरेष समाख्यातः सर्वबुद्धैः सवज्रिभिः। स एव सर्वसत्त्वानां शासको लोकनायकः॥
१२॥
अन्ये च गुरवः ख्याता मिथ्याज्ञानाभिमानिनः। लोभाद्यर्थं प्रकुर्वन्ति धर्म्म[स्य] देशनां पराम्॥१३॥
पापमित्रश्च ते बालाः सत्त्वनाशे प्रतिष्ठिताः। मारपाक्षिकगोत्रास्तेऽपरात्मानो विनाशकाः॥१४॥
वर्जनीया[श्च ते ] सत्त्वा न तेषां पर्य्युपासनम्। न तेषां प्रतिघं कुर्य्यात् न ते [पूज्य]तरा भवेत्॥
१५॥
श्रावकैः सह संवासो [यथा] नेष्टं तथागतैः। तथैवैवंविधैः सार्द्धं न संवासो विशिष्यते॥
१६॥
पूर्वाक्तलक्षणैः तस्मात् आचार्य्यो हि विधीयते। शिष्यस्य लक्षणं चैवं कथ्यते स यथा भवेत्॥
१७॥
ज्ञानसिद्धौ गुरुलक्षणनिर्द्देशः त्रयोदशः॥
(42)चतुर्दशः परिच्छेदः। नौकारूढो यथा कश्चित् कर्णधारः सुशिक्षितः। पारं महोदधेर्याति नान्यथा पारगो भवेत्॥१॥
तद्वद् गुरौ त्रिरत्ने च बोधिचित्ते च भक्तिमान्। करुणा च तथा लोके नौरियं संप्रकीर्त्तिता। २॥
गुरुः कर्णधरो विद्वान् नौका धर्म्मः प्रकाशितः। संसारपारगन्तॄणां वज्रसत्त्वेन देशितम्॥
३॥
कर्णधारं विना नौका पारं प्राप्तुं क्षमा नहि। गुणैः सर्वैः प्रपूर्णोपि ना गुरुर्भवपारगः॥
४॥
तस्मादेवास्य चैवेदं कार्यं सर्वं दृढव्रतैः। सदा पूजारतो योगी बाह्यैराध्यात्मिकैस्तथा॥
५॥
वन्दनादिक्रियाः सर्वाः प्रकुर्य्यात् सर्वकालिकाः। श्रद्धा प्रज्ञासमायुक्तः कृपार्द्रः सर्वजन्तुषु॥
६॥
अक्रोधनोऽविसंवादी त्यागादिगुण[भूषितः]। सुवीर्य्यश्च महोत्साही गुरोराज्ञां सदा करः॥
७॥
आज्ञप्तश्च स्वयं बुद्धा परि[चर्या]दिकं [चरे]त्। यथाशक्ति यथालाभं भोज्यभक्तादिकं तथा॥
८॥
(43)तिरस्कारे कृतेऽप्येवं स्वयमेव न दुर्म्मनाः। शिष्यः सर्वगुणोपेतो युक्त्यागमपरीक्षकः॥
९॥
अपरीक्षकजातीयः पृच्छेत् परहितञ्च यः। शिष्यो च भवितुं शक्तो बुद्धैरेवं प्रदर्श्यते॥
१०॥
मृत्पिण्डो हि यथा बालैः क्षिप्यते यत्र तत्र वै। तद्वत् परवशः कश्चित् [स शिष्यत्वस्य] भाजनम्॥
११॥
ज्ञानसिद्धौ शिष्यलक्षणपरिच्छेदः चतुर्द्दशः॥
(44)पञ्चदशः परिच्छेदः। सम्यक्तत्त्वं यथाभूतं पूर्व्वमुक्तं सयुक्तिकम्। सर्वतन्त्रे स्थितं तत्त्वं तेभ्यः किञ्चिन्निगद्यते॥
१॥
चोरशब्दो [यथा] लोके भक्ष्यार्थं प्रतिपादयेत्। केषाञ्चित् चोरमेवाहुः तन्त्रेऽप्येवं पदास्तथा॥२॥
तैरेवाक्षरनिर्द्देशैर्मृदुमध्याधिमात्रकैः। धर्म्मश्रद्धोच्यते बुद्धैः सत्त्वानुग्रहकारकैः॥
३॥
केवलं तत्त्वमेवाहुः कश्चित् [मध्येन्द्रिय] स्तथा। कश्चित् मृद्विन्द्रियः कर्म केवलं वक्ति नान्यथा॥४॥
श्रीसमाजोत्तरे देशितम्-अनादिनिधनं शान्तं भावाभावाक्षयं विभुम्। शून्यताकरुणाभिन्नं बोधिचित्तमिति स्मृतम्॥
५॥
अनादिनिधनमिति उत्पादविनाशाभावम्। अनेनव्यापित्वं अविकारित्वं सार्वकालिकत्वं च कथितम्। देशस्थरूपिविकारिकालान्तरिकानां विनाशित्वात्। अरू-पित्वेऽपि देशस्थो यदि स्यात् विनाश्येव भवति। यथाकस्तूरीकादीनां सुगन्धं अरूप्यपि देशस्थत्वात् कस्तूरी-(45)कादीनां तद्वासितद्रव्यस्य वाऽभावे विनाशि स्याद्विकारिच। शान्तमिति सर्वक्लेशानामागन्तुकत्वात् प्रकृतिशान्तम्। पूर्वोक्तगुणयुक्तत्वा[त्तदेव] भावाभावाक्षयम्। विभुं प्रभुंस्वामी सर्वेषां लौकिकलोकोत्तरार्थसम्पादकत्वात्। शून्यता-करुणाभिन्नं इति। सर्वधर्म्मनिःस्वभावतया सर्वतथागत-ज्ञानपरिज्ञानं शुन्यता [तया] करुणया वा अभिन्नमेकी-भूतं यत् चित्तम्। करुणा नाम सर्वसत्त्वान् अस्मिन्नेवज्ञानराजे प्रतिष्ठापयिष्यामि, सर्वसुखोपधानैश्च परि-वारयिष्यामीति सम्यगाशयः। एतदुक्तं भवति-सर्वधर्म्मस्वभावज्ञो योगी सर्वतथागतैः। सह अन्योन्यव्यापकभावेन सदा स्थितो बुद्धकृत्यकरःसर्वसत्त्वेषु महाकरुणाप्रमाणानुगतं बोधिचित्तं वज्र इत्यर्थः। अनेन भावनाप्येवं कर्त्तव्येति निदर्शितम्। बोधि-चित्तमिति स्मृतमिति अशेषयोगतन्त्रेष्वेवं अभिप्रापयति। आदिकर्म्मिकादीनां तु बोधिचित्तं सर्वसत्त्वाननुत्तरायांसम्यक्सम्बोधौ प्रतिष्ठापयामीति चित्तमात्रम्। पुनस्तत्रैवदेशितम्-समाजं मीलनं प्रोक्तं सर्वबुद्धाभिधानकम्॥६॥
अरूपिणाम् अनादिनिधनत्वासम्भवाद्धर्म्मकाया एवबुद्धाः। तेषां मीलनं सर्वतथागतज्ञानवज्रधरत्वमेवनिर्द्दिष्टमन्यथा रूपकायेन यदि मीलनं स्यात् परमाणु-प्रमाणादि सर्वतथागतानां मीलने आकाशमपि(46)प्रपूर्य्याधिकतरा भवेयुः। सर्वशब्दस्य निरवशेषत्वात्चित्तानामल्पानां मीलनं युज्यते। पुनस्तत्रैव तथाउत्पन्नक्रमाणां अक्षतं सम्यग् ज्ञानम्। एवं च तत्रैवप्रकाशितम्-ध्यायन्ति येऽमुं सुविशुद्धमनादिभावमित्यादि। प्रथमपटलेऽपि-अथायं सर्वाकाशधातुः सर्वतथागतवज्रमयसंस्थितोऽभूत्। पुनः-अनुत्पन्नेषु धर्म्मेषु न भावो न च भावना। आकाशवदयोगेन इति भावः प्रगीयते॥
७॥
पुनः-प्रकृतिप्रभास्वरा धर्म्मा आदिशुद्धा नभःसमाः। बोधिनाऽभिसम[यमिदं] बोधिनयं दृढम्॥८॥
नवमे पटले-क्रमशोत्पत्तिकं चैव क्रमशोत्पन्नकस्तथा। तद्यथा- अपि नाम कुलपुत्रा आकाशः सर्वत्रानुगतः। आकाशानुगतानि सर्वधर्म्माणि, तानि न कामधातु-स्थितानि नारुपधातुस्थितानि न चतुर्म्महाभूतस्थितानि। एवमेव कुलपुत्राः सर्वधर्म्मा अनुगन्तव्याः। इममर्थं चमंविज्ञाय तथागताः सर्वसत्त्वानां चाश्रयं विज्ञापयन्तएवं धर्म्मं देशयन्ति। एवमेव कुलपुत्रा आकाशवद-निरुक्तास्ते तथागतसमया अनुगन्तव्याः। तद्यथा - अपि(47)नाम कुलपुत्राः काण्डं च मथनीयं च पुरुषहस्तव्याया-म[ञ्च] प्रतीत्य धूमः प्रादुर्भवति अग्निमभिनिर्वर्त्तयति। सचाग्निर्न काण्डे स्थितो न मथनीयस्थितो न पुरुषहस्त-व्यायामस्थितः। एवमेव कुलपुत्राः सर्वतथागतवज्रसमयाअनुगन्तव्याः गमनागमनाद्यैरिति। दशमे पटले-कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम्। निर्विकल्पनिरालम्बसमता न क्वचित् स्थितम्॥
९॥
द्वादशे पटले-खतुल्यसमयभूतेषु निर्विकल्पस्वभाविषु। स्वभावशुद्धधर्म्मेषु नाटकोऽयं प्रभाव्यते॥
१०॥
षोडशे पटले-पातनं वज्रसूत्रस्य रजसोऽपि निपातनम्। न कार्य्यं मन्त्रतत्त्वेन कारयेत् नापि दुर्ल्लभाः॥
११॥
मण्डलसूत्रस्वरजःपातनादिकं च न कुर्य्यात्। मन्त्र-तत्त्वेनेति मनःसन्त्राणभूतत्वात् मन्त्रज्ञानं सम्यग्ज्ञानंनिदर्शितं इत्यर्थः। यद्येवं मोहात् करोति चेत् बोधि-र्दुष्करो भवतीति। मण्डलेनादिकर्म्मिकसत्त्वकृपाकरुणा-बुद्धत्वं वज्रध[रत्वं] च दुर्लभं भवतीत्यर्थः। तस्मात् सम्यग्-ज्ञानाभियुक्तेन महायोगिना मण्डललिखनप्रवेशाभि-षेकादिकं निषिद्धं इति। (48)लोचना वज्रसत्त्वानां दीप्यमाना स्वभावतः। ज्ञानं ताथागतं शुद्धं तद्वैरोचनमुच्यते॥
१२॥
सर्वाशिष्टजनैः ज्ञानं मिथ्यागुरुजनैरपि। अप्रकम्प्यस्वभावत्वात् अक्षोभ्योऽसौ प्रकथ्यते॥
१३॥
रत्नानि प्रभवत्न्येव बुद्धादि नियतो ध्रुवम्। ज्ञानसत्त्वार्थयुक्तं तद् रत्नसम्भवमुच्यते॥
१४॥
अप्रतिष्ठितनिर्वाणं अलिप्तं भवनिर्वृतौ। असंख्यगुणसंयोगात् अमिताभः स उच्यते॥
१५॥
सर्वसत्त्वार्थकार्य्याणां प्रसाधकतमः स्वयम्। अवन्ध्यं तत् महाज्ञानं अमोघसिद्धिरुच्यते॥
१६॥
सूक्ष्ममौदारिकं रूपं त्रैकाल्यपरिभावितम्। दृश्यते सर्वक्षेत्रस्थं लोचना तेन कथ्यते॥
१७॥
सर्वताथागतं ज्ञानमात्मीयं मामकं यतः। अन्योन्यव्यापकादेव मामकी तेन तत् स्मृतम्॥
१८॥
सर्वदोषहरं ज्ञानं सर्वताथागतं परम्। मण्डलवासिनी ख्याता सर्वसंशोधनोद्यतम्॥
१९॥
महाकरुणया नित्यं जगदुद्धरणाशयम्। सत्त्वोत्तारणदक्षत्वात् ताराज्ञानं प्रकाशितम्॥
२०॥
धातुभूतान् पृथिव्यादीन् बुद्धज्ञानोपभोगिनाम्। लोचनाद्यास्तु कीर्त्त्यन्ते सर्वकामोपभोगिनाम्॥
२१॥
(49)मरणादिभ[यान्मु]क्तं सर्वताथागतं परम्। प्र[कृ]ष्टं दमनज्ञानं ततो यमान्तकः स्मृतः॥२२॥
मिथ्याज्ञानं [निवा]र्य्याशु मूढसत्त्वप्रकाशितम्। सम्यक् ज्ञानप्रतिष्ठात्मयोगात् प्रज्ञान्तकः स्मृतः॥
२३॥
जगदाह्लादनं सर्वन्नातिगृह्णन् विचारयन्। भवेष्टलिप्तसम्बोधिं तेन पद्मान्तकः स्मृतः॥२४॥
विघ्नादिभिर्विमुक्तात्मा ज्ञानं सर्वार्थसाधकम्। सर्वबुद्धमयं सिद्धं तेन विघ्नान्तकः स्मृतः॥
२५॥
ज्ञानज्ञेयं विना न स्यात् समापत्तिरतः स्मृता। त्रिभवाभिमुखं ज्ञानं रागादित्रयसाधनम्॥२६॥
सर्वबुद्धमयं शुद्धं त्रिमुखं तत् प्रकीर्त्तितम्। सुविशुद्धस्य सद्भावात् शुक्लवर्णं प्रकाशितम्॥
२७॥
सर्वदा [नानु]पीतत्वं रक्तं कारुण्यवत् सदा। रत्नत्रयोपकारादि कर्त्तुर्दमनमुच्यते॥
२८॥
ज्ञानं तत् कृष्णमित्याहुर्जगदर्थकरं परम्। नानोपायविचित्रत्वात् श्यामवर्णं प्रकाशितम्॥
२९॥
रूपाद्यायतनादीनि प्रभुज्यन्ते स्वयं यतः। षड्भुजं कथ्यते तेन ज्ञानं बौद्धं तथागतैः॥
३०॥
बोधिचित्तं भवेद् वज्रं प्रज्ञा घण्टा विधीयते। चक्रं अज्ञानच्छेदाच्च रत्नं तु दुर्ल्लभादपि॥
३१॥
(50)भवदोषैरलिप्तत्वात् ज्ञानं तत् पद्ममुच्यते। खड्गः क्लेशारिसंच्छेदात् उत्पलं प्लवनात् ततः॥३२॥
संसारजलनिमग्नैर्यस्मात् ज्ञानं न ज्ञायते। बुद्धानुगानां सत्त्वानां ताडनान्मुद्गरं स्मृतम्॥३३॥
दण्डेन शासनाद्दण्डज्ञानं तत् सत्त्वशासकम्। अन्योन्यव्यापकाभेदा[त्] विश्ववज्रमिति स्मृतम्॥
३४॥
एवम् मया श्रुतमेकस्मिन् समये भगवान् सर्वतथागत-कायवाक्चित्तहृदयवज्रयोषिद्भगेषु विजहार एकस्मिन्नेवकाले। भगवानैश्वर्य्यादिगुणयुक्तत्वात्। हृदयं ज्ञानं तदेववज्रयोषित् अभेद्यप्रज्ञास्वभावत्वात्, तदेव भगं सर्व-क्लेशभञ्जनात्, तेषु सर्वतथागतकायवाक्चित्तहृदयवज्र-योषिद्भगेषु विजहार। एतदुक्तं भवति- सर्वतथागतज्ञानेषु अन्योन्यव्याप्य-व्यापकभूतेषु योगिनो ज्ञानं तदन्तर्गतमेव सर्वथैव स्थित-मिनि तत्त्वं सर्वज्ञानेषु क्रमेण स्थितमित्यर्थः। अनभि-लाप्यानभिलाप्य इत्यादि अप्रमेयबोधिसत्त्वमहासत्त्वैःसहेत्यर्थः। तेऽप्यननैव न्यायेन संस्थिता इत्यभिप्रायः। उक्तं च तत्त्वसंग्रहे तन्त्रराजे- सर्वतथागतमहाबोधि-दृढसत्त्व इत्यारभ्य अनादिनिधनः शान्तो भगवान् महा-बोधिसत्त्ववज्रः समन्तभद्रो महाबोधिसत्त्वः सर्वतथागत-हृदयेषु विजहार। (51)अथ सर्वतथागताः प्राहुः- कथं त्वं कुलपुत्रानुत्तरांसम्यक्सम्बोधिमभिसंभोत्स्यसे यस्त्वं सर्वतथागततत्त्वान्यभि-ज्ञाय इष्टतराण्युपहससीति॥
सर्वार्थसिद्धिबोधिसत्त्व आह- भगवन्तः सर्वतथागताःआज्ञाप[यथ] कथं प्रतिपद्यामीदृशं तत्त्वमिति। तथागता आहुः- प्रतिपद्यस्व कुलपुत्र स्वचित्तप्रत्यवे-क्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेणेति ओंचित्तप्रतिवेधं करोमीति। महाबोधिसत्त्व आह। आ ज्ञातो भगवन्तः सर्वतथा-ग[ता]ः स्वहृदि चन्द्रमण्डलाकारं पश्यामि। प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं चन्द्रमण्डलवत्। चन्द्रमण्डलं प्रकृतिप्रभास्वरं तद्वत् ज्ञान। यथाक्रमाच्च-प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं चन्द्रमण्डलवत्। चन्द्रमण्डलं प्रकृतिप्रभास्वरं तद्वत् ज्ञानम्। यथाक्रमाच्च-[न्द्र]मण्डलं सम्पूर्णं भवति तद्वत् प्रकृतिप्रभास्वरं चित्त-रत्नमपि परिपूर्णं भवति। यथा चन्द्रमण्डलमागन्तुक-कलाभिः सूर्य्यमण्ड[ल]रशम्यपगमात् क्रमात् पूर्णं दृश्यतेतद्वत् प्रकृतिपरिशुद्धं चित्तरत्नमपि सर्वक्लेशमलकलङ्काप-गमक्रमात् परिपूर्णबुद्धगुणं दृश्यते इति। अद्वयसमताविजयेऽपि-ओं सर्वतथागतज्ञानवज्रस्वभावात्मकोऽहम्। पुनर्नवमपटले-स्वच्छं हि सर्वसत्त्वानां चित्तं शान्तं प्रभास्वरम्। अलिप्तं विविधैर्भावैश्चित्ताद्यत्तत्त्वभावना॥३५॥
(52)बुद्धकायविधानज्ञ उपभुंजीत तत्त्वतः। अन्यथा नैव सिध्यन्ति सर्वमन्त्रोदयाः शुभाः॥
३६॥
पुनश्च त्रयोदशे पटले-मण्डलं सर्वबुद्धानां तत्त्वज्ञानाच्च मण्डलम्। साधकानामिदं तत्त्वं चिन्तामणिरिवाद्भुतम्॥
३७॥
गुह्येन्दुमणितिलकं तन्त्रराजेऽपि कथितम्। सर्वाङ्गभावनाऽतीतं कल्पनाकल्पवर्जितम्॥३८॥
मात्राबिन्दुसमातीतमेतत् मण्डलमुत्तमम्। पुनस्तत्रैव-स चैव सर्वभावेन सर्वदा समवस्थितः। अनादिनिधनः सत्त्वो वज्रसत्त्वः परं सुखम्॥३९॥
पुनः-बोधिचित्तादृते नान्यत् सौख्यमस्ति त्रिधातुके। बोधिचित्तमयं सौख्यं सर्वसौख्यप्रसर्पणम्॥
४०॥
महासमयतन्त्रेऽपि निर्द्दिष्टम्-अहं च कामरूपाग्रः सर्वबुद्धैरधिष्ठितः। मयाऽपि धर्म्मकायाग्राः सर्वबुद्धा ह्यधिष्ठिताः॥४१॥
पुनश्च-सुरतो भगवान्नित्यो वज्रसत्त्वो महासुखः। अतः प्रसूतिर्य्यस्मात्तस्मादिदं न च लक्ष्यते॥
४२॥
(53)पुनश्च-महासत्त्वो महावज्रो वज्रसत्त्वस्तदुच्यते। तस्य तत्त्वम्-अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः। समन्तभद्रः सर्वात्मा बोधिबुद्धः त्रिधातुके॥
४३॥
स्थावरः सर्व एवाग्रो महावज्रो महावलः। जङ्गमश्चित्तसंस्कारात् सर्वकृत् सर्व एव हि॥
४४॥
उक्तं च मायाजालेऽपि-ज्ञानैकचक्षुरमलो ज्ञानमूर्त्तिस्तथागतः। निष्फलः सर्वगो व्यापी सूक्ष्मवीजमनाश्रवः॥
४५॥
बोधिचित्तोत्पादः सप्तमपटले-अनुत्पन्नेषु धर्म्मेषु अनक्षरमनालयम्। कल्पकल्पनया वर्ज्ज्य उत्पादोऽयं प्रगीयते॥
४६॥
पुनस्तत्रैव-प्रकृ[त्या]भास्वरा धर्म्मा आदिशुद्धा ह्यनाविलाः। न बोधिर्नापि बुद्धत्वं न सत्त्वो नापि जीविता। ४७॥
श्रीवज्रमण्डलालङ्कारे निगदितम्-सर्वत्र सर्वधातौ तु सर्वसत्त्वा[श्च] सर्वतः। सर्वकायमयं व्याप्य चित्तधारेव संस्थिता॥
४८॥
अनाश्रवा[दि]चिन्ता च निर्म्मला निर्म्ममा स्वयम्। शून्या गगनसमा चैव भावाभावविवर्जिता॥
४९॥
(54)अनादिनिधना शान्ता सर्वधर्म्मेश्वरी च सा। विभ्रती सर्वरूपाणि सत्यद्वयसमाश्रिता॥
५०॥
परमा परमार्थेन धर्म्मकायेति सा स्मृता। सर्वेन्द्रियं च विज्ञानं चित्तं सर्वत्र सर्वतः॥
५१॥
मनोज्ञानमिति ख्याता प्रज्ञा बुद्धिर्मति स्मृतिः। विपश्यना च सर्वज्ञज्ञानस्य व्यवदानतः॥
५२॥
शाश्वतोच्छेदनिर्म्मुक्ता अविन्तद्वय[वर्जिता]। संवृत्या परमार्थेन द्विधा तस्याः प्रकल्पना॥५३॥
यथेन्धनं समाश्रित्य तेजोवीजं तु संस्थितम्। तिलेषु व यथा तैलं रस इक्षोः प्रकल्पितः॥
५४॥
पुष्पेषु वा यथा गन्धो दध्नि नवनीतं यथा। सर्वत्र सर्वसत्त्वेषु स्थावरे जङ्गमेषु च। रुपारूपगता चापि महामुद्रा प्रतिष्टिता॥
५५॥
पुनः-ज्ञानममरणमलक्षणमघोषमनादिशुद्धं विमलं प्रभास्वरंअनभिलाप्यमिति। सम्बरतन्त्रे निगदितम्-न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते। बोधिचित्तमहायोगात् योगिनस्तेन देवताः॥
४६॥
(55)बोधिचित्तं इदं वज्रं सर्वबुद्धत्वमात्मनः। तस्मात् सार्वात्म्ययोगेन सर्वबुद्धत्वमाप्नुते॥
४७॥
एनं पश्यन्ति संयुक्तं सर्वथा पूजयन्ति [ये]। दृष्टास्तैः पूजिताश्चैव सर्वबुद्धा भवन्ति हि॥
४८॥
दर्शनस्पर्शनाभ्यां च सर्वबुद्धस्य वाऽस्य हि। अमण्डलप्रविष्टा[श्च] दृष्टसत्या भवन्ति हि॥
४९॥
दर्शनस्पर्शनाभ्यां च श्रवणस्मरणेन च। सर्वपापैर्विमुच्यन्ते पूज्यन्ते सर्वसिद्धिभिः॥
५०॥
सर्वयोगसमायोगैः सर्वबुद्धस्य वाऽस्य हि। [नार्योऽपि]हि विमुच्यन्ते बुद्धबोधिं स्मृशन्ति च॥
५१॥
सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्। सर्वबुद्धमयं सिद्धं स्वमात्मानं प्रपश्यति॥
५२॥
सर्वात्मसंस्थिताश्चैनं पूजयन्ति तथागताः। सर्वपूजामहामेघव्यूहप्रसरसञ्चयैः॥
५३॥
सर्वभोगोपभोगै[श्च] सेव्यमानैर्यथासुखम्। स्वाधिदैवतयोगेन स्व[मा]त्मानं प्रपूजयेत्॥५४॥
पुनश्च-विचित्रकर्म्मयोगेन विचित्रविनयात्मना। सत्त्वानां विनयार्थाय तदन्ये विधयः स्मृताः॥
५५॥
पुनः-अनादिनिधनः सत्त्वो वज्रसत्त्वः परं यतः। सुभगेति च विख्यातो सुस्थितो बुद्धमुद्रया॥
५६॥
(56)पुनश्च-विचित्रकर्म्मयोगेन विचित्रविधिकाङ्क्षिणाम्। बुद्धवज्रधराद्यास्तु कृतका विनयाः स्मृताः॥
५७॥
ग्रन्थबाहुल्यभयात्परमाद्यगुह्यघनोच्चयादि न लिखित-मिति। ज्ञानसिद्धौ तन्त्रोक्ततत्त्वाक्षरपरनिदर्शनपरिच्छेदःपंचदशः॥
(57)षोडशः परिच्छेदः। एवं ज्ञानवरं सम्यगुपायेन समायुतम्। भावयित्वा सुतीर्थ्यात्मा जन्मन्यत्रैव सिध्यति॥१॥
उपायः करुणामूलं बोधिचित्तं सुसंभृतम्। समता सर्वसत्त्वेषु त्रिरत्ने वरपूज्यता॥२॥
आसाक्षात्करणं शुन्यं सर्वकामविरागिता। परिभो[गोऽ]पि पूजार्थं सर्वताथागतं वहेत्॥
३॥
प्रणाममादितः कृत्वा यावती परिणामना। उपाय [ए]ष संबुद्धैः करुणादिः प्रदेशितः॥
४॥
एवं सोपायविद्योगी सर्वबुद्ध इवापरः। न तस्योपद्रवं किञ्चित् सदा सर्वत्र विद्यते॥
५॥
मन्त्रमुद्रादियोगेन परीक्षा परिकीर्त्तिता। सर्वागमनिबन्धेषु सर्वबुद्धैश्च [त]त्सुतैः॥
६॥
तैरव ससुतैर्बुद्धैः कल्पकोटिशतान्तरम्। रक्षा कृता तथा नैव यथैव ज्ञानभाविनः॥
७॥
चतुरीर्य्यापथैर्युक्ता भावना समुदाहृता। स्थानं च योगिना रोच्यं सर्वसौख्यप्र[दा]यकम्॥८॥
नोपवासरतो योगी न स्नानशुद्धिकल्पनः। नानाकल्पविविक्तात्मा भवेद् योगी वरात्मकः॥
९॥
कायिकं मानसं दुःखं नावकाशं प्रदापयेत्। सर्वसौख्यसमायुक्तः सिध्यते नात्र संशयः॥
१०॥
(58)ज्ञातयः सर्वसत्त्वा वै न परोऽस्त्यत्र षड्गतौ। तस्मान्न कुत्रचित् ग्राह्यविशेषो ह्युपलभ्यते॥
११॥
स्थाने देशे गृहे वाऽथ पुस्तके प्रतिमासु च। सर्वग्राह्यविनिर्म्मुक्तो योगी बुद्धैस्तु वर्णितः॥
१२॥
ज्ञानसिद्धौ उपायनिर्द्देशनपरिच्छेदः षोडशः। (59)सप्तदशः परिच्छेदः। सम्यग्ज्ञानसमुत्पन्नो योगी प्रार्थयते यदा। अभिषेकः प्रदातव्यस्त्रैधातुकनमस्कृतः॥
१॥
सर्वोपकरणैर्युक्तः सर्वपूजासुसंवृतः॥
आराधयेद्वरं वज्रगुरुं सर्वगुणार्णवम्॥२॥
भक्ष्यभोज्यादियुक्तेन पुष्पगन्धादिकेन च। सम्पूज्य मण्डलं कृत्वा कृताञ्जलिपुटो गदेत्॥३॥
सम्यग्ज्ञानवरं प्राप्तं प्रसादात् करुणात्मक। स्वसंवेद्यस्वभावं च आदत्तमपि निश्चयम्॥४॥
इदमेवाद्वयं ज्ञानं नान्यज्जगति विद्यते। पीतं धर्म्मामृतं प्राप्य प्रार्थयेत महागुरुम्॥५॥
सर्वसत्त्वार्थकार्य्याणि यथाशक्त्या करोम्यहम्। धर्म्मदाने नयेत् कोऽपि [हि]तं दास्याम्यहं यथा॥
६॥
अभिषेक[व]रं रत्नं प्रसादात् प्राप्यते यदि। गृहीतुमहमिच्छामि प्रसादं कुरुताभयम्॥७॥
गुरुणापि हि दृष्टेन गुणपूर्णा जना यदि। [एवं देयं प्रसादादि] सर्वबुद्धानुवर्त्तितम्॥८॥
वक्तव्यं कृपया युक्तं वचः सर्वार्थसम्प्रदम्। धर्म्मराज्याभिषेकाग्रमभिषेकं निरुत्तरम्॥९॥
(60)ततो दिनावधिं कृत्वा शिष्याय वचनं वदेत्। अमुकस्मिन् दिने वत्स करिष्यामि प्रपुरणम्॥१०॥
मनसा भवतो वश्यं कुरु चित्तमतो दृढम्। दुष्पूरणं यतो न स्यात्तथा कार्य्यं महामते॥११॥
ततो दिनावधिं प्राप्ते सर्वबुद्धान् प्रपूजयेत्। आर्य्यसङ्घाय भोज्यं च दद्याच्चैव सदक्षिणम्॥
१२॥
गणभोज्यमुदारं च गुरूणां च विशेषतः। यथाशक्त्या त्वनाथानां [विधिं सर्वं] समाचरेत्॥
१३॥
ततो गुरोर्दक्षिणाद्या सर्वबुद्धानुवर्णिता। सर्वतो विश्वगुरवे सिद्धिमुत्तरदक्षिणम्॥१४॥
यस्य यद्दुष्परित्याज्यं तदुत्तममिति स्मृतम्। यद्यदिष्टतरं किञ्चित् विशिष्टतरमेव वा। तत्तद्धि गुरवे देयं तदेवाक्षयमिच्छता॥
१५॥
अथास्याभिमतं स्याद्वै चित्रं कार्य्यमथापि वा। तद्देयमथवा कार्य्यं स्वल्पमप्युत्तमं हितम्॥
१६॥
अथोत्तमं भवेद्यस्य [दद्याच्चेत् तं न दक्षिणाम्]। सर्वाचार्य्यापमानेन स नित्यं दुःखमाप्नुते॥
१७॥
सम्बरतन्त्रोक्ता दक्षिणेयम्। आत्मानमपि निर्य्यात्य पुनर्मूल्यैस्तु मोक्षयेत्। नानातन्त्रेषु निर्द्दिष्टा दक्षिणेयं निरुत्तरा॥
१८॥
(61)ततः-सर्वबुद्धमयं योगं सर्वसम्पत्सुखोदयम्। अगम्यं सर्वसत्त्वानां लोकनाथेन भाषितम्॥१९॥
सर्वताथागतं चित्तं सर्व[वाक्काय] सम्भवम्। द्वयोरप्येवमाज्ञाय अधिष्ठानं प्रयोजयेत्॥
२०॥
मानसं सर्वमेवेदं कायिकं वाक्समुद्भवम्। सर्वबुद्धमधिष्ठायानुज्ञां तस्य प्रदापयेत्॥
२१॥
अभिषिक्तमिमं बुद्धैरतीतानागतैरपि। सर्ववज्रधरैश्चापि सर्ववज्रधराय च॥
२२॥
एककायोऽसि बुद्धानां त्वमिदानीमनाहतः। धर्म्माभिषेकदानेन कुरु सत्त्वेष्वनुग्रहम्॥
२३॥
रत्नत्रये यथाशक्त्या रक्षा कार्य्या शुभोदया। वज्रसत्त्वा[दिकं] कार्य्यं सर्वबुद्धैर्निदर्शितम्॥
२४॥
मय्यवमन्यना कार्य्या न त्वया वरवज्रिणा। विषमा परिहारेण कालं कृत्वा सुदारुणम्॥२५॥
घोरं नरकदुःखौघं मा भूत् कल्पशतान्तरम्। मिथ्याधर्म्मसमाचारा ये तु लोकविडम्बकाः॥
२६॥
न तेषु सम्भवं कुर्य्यात् सद्धर्म्मप्रतिपक्षकाः। मूढा धर्म्मविहीनास्ते स्व सुखोदयमानसाः॥
२७॥
पुण्यहीनाः परां बोधिं नैव प्राप्स्यन्ति दुर्नयाः। इतस्ततश्च संसारे ते भ्रमन्ति हि षड्गतौ॥
२८॥
(62)लोकमोहनशीलाश्च सद्धर्म्मप्रतिपक्षकाः। एवंविधा अनेके च धर्म्मभ्रमसमाश्रयाः॥
२९॥
न तेषां सुगतौ जन्म बुद्धत्वं अपि दुर्लभम्। एतेभ्यस्तु सदा रक्षा भवित[व्या] महामते॥
३०॥
मारपाशनिबद्धास्ते परात्म[विधि]नायकाः। कुरु सत्त्वार्थमधुना सर्वबुद्धाधिप स्वयम्॥३१॥
यथाविनयतो धर्म्मं प्रकाशय जनेऽखिले। संशयं नहि धर्म्मे तु कर्त्तव्यमधुना त्वया॥
३२॥
नाभिषेकं पुनर्ग्राह्यं [त्वयेदानीं महामते]। सम्यक् धर्म्मपरो विद्वान् त्रैधातुकनमस्कृतः। अभिषेकं त्वया प्राप्तं विद्यते न [ह्यतः] परम्॥३३॥
सर्वताथागतज्ञानवराभिषिक्तस्य योगिनः माहात्म्यंश्रीसमाजे निर्द्दिष्टम्- तद्यथा सर्वतथागतकायवाक्-चित्तवज्रगुह्यसमभिषिक्तो भगवन्तः आचार्य्याः सर्वतथा-गतैः सर्वबोधिसत्त्वैश्च कथं द्रष्टव्यः?सर्वतथागताः प्राहुः- बोधिचित्तं वज्रं इव कुलपुत्राःसर्वतथागतैः सर्वबोधिसत्त्वैश्च द्रष्टव्यम्। तत् कस्माद्धेतोः ?बोधिचित्तवज्रश्चाचार्य्यो द्वयमेव तदधिकारं यावत्कुलपुत्राः संक्षेपतः कथयामि। यावन्तो दशदिग्लोकधातुषुबुद्धाः बोधिसत्त्वाश्च तिष्ठन्ति प्रयन्ति च सर्वे ते त्रिकाल-समयमागत्य तमाचार्य्यं सर्वतथागतपूजाभिः संपूज्य सर्व-(63)बुद्धक्षेत्रे पुनरपि प्रकाशयन्ति। एवं च वाग्वज्राक्षरंनिश्चारयन्ति। पितास्माकं सर्वतथागतानां मातास्माकंसर्वतथागतानामिति। तद्यथा- अपि नाम कुलपुत्रायावन्तो बुद्धा भगवन्तो दशसु दिक्षु प्रचरन्ति तेषां चबुद्धानां भगवतां यावन्तः कायवाक्चित्तपुण्यस्कन्धाआचार्य्यस्य रोमकूपाग्रविवरे विशिष्यते। तत् कस्मात्हेतोः ? बोधिचित्तं कुलपुत्राः सर्वबुद्धज्ञानानां सारभूत-मुत्पत्तिभूतं यावत् सर्वज्ञज्ञानाकरमिति। ज्ञानसिद्धौ वज्रज्ञानाभिषेकविधिः सप्तदशः। (64)अष्टादशः परिच्छेदः। महाज्ञानप्रभवितमहायोगीश्वरस्य प्रभावं कल्पकोटि-शतेनापि सर्वतथागतैरपि न शक्यं वर्णयितुम्। श्रीसम्बरोक्तंकिञ्चिन्मात्रं कथ्यते-सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्। सर्वबुद्धादिभि[र्लोके] सर्वभावान् भवत्यसौ॥
१॥
बुद्धक्षेत्रेषु सर्वेषु बुद्धनिर्वाणमावहन्। दर्शय बुद्धकार्याणि बुद्धनिर्माणमायया॥२॥
बुद्धवज्रधरादीनां विश्वरूपत्रिधात्मकैः। त्रैधातुकमहाराज सर्वकार्याणि दर्शय॥३॥
सन्धिविग्रहपूर्द्वारि राज्यं मायाविकुर्वितम्। त्रैधातुकमहाराज अवष्टभ्य च साहसैः॥४॥
प्रमादोऽयं जगत् सर्वं विश्वनर्त्तित दर्शय। एवमाद्यास्त्वनन्ताग्राः धर्मधातुसमागमैः॥५॥
आकाशधातुपर्यन्ताः सर्वबुद्धादयो वराः। समाविशन्ति सर्वात्मा सिद्ध्यैश्वर्यप्रसिद्धिभिः॥६॥
सर्वतो विश्वविनयं सत्त्वधातुं प्रसाधयेत्। विक्रीडति विचित्रः श्रीवज्रसत्त्वस्तथागतः॥
७॥
(65)रतिक्रीडाविकुर्वितः सर्वतो विश्वसम्बरैः। सर्वाकाशावकाशः श्रीवज्रसत्त्वः प्रतिष्ठितः॥
८॥
इत्याह भगवान् श्रीवज्रसत्त्वः-सर्वशुद्ध्यधिमोक्षेण प्रसह्य बलवानधः। पराक्रमक्रमणात् तु सर्वलोकान् प्रमर्दयेत्॥९॥
अन्यन्तु दुष्टरौद्राग्रं सत्त्वधातुमनेकधा। पापैश्चौरैरवस्कन्धैः सर्वमेव विशोधयेत्॥
१०॥
च्छलेन मायया चैव प्रसह्य बलवानधः। पञ्चायुधनिबन्धैश्च सर्वलोकान् जयत् तदा॥११॥
विजित्य सकलां सिद्धिं जगत् स्थावरजङ्गमम्। विचित्रविनयोपायैः स्वपराननुपालयेत्॥१२॥
कामिनीनां भवेत् कामो रौद्राणां रौद्रमुत्तमम्। सौम्यानां परमं सौम्यं [हठानां ] हठविक्रमः॥१३॥
परमेशं समाक्रम्य प्रसह्य बलवानधः। उमादेवीं समाकृष्य चोपभोगैर्भुनक्त्यसौ॥
१४॥
नारायणं समाक्रम्य प्रसह्य बलवानधः। रूपिणीं तु समाकृष्य उपभोगैर्भुनक्त्यसौ॥
१५॥
प्रजापतिं समाक्रम्य प्रसह्य बलवानधः। प्रशान्तदेवीमासाद्य उपभोगैर्भुनक्त्यसौ॥
१६॥
(66)कामदेवं समाक्रम्य प्रसह्य बलवानधः। रतिप्रीतिधृत्यैश्वर्य्यं समाक्रम्य भुन[क्त्यसौ]॥
१७॥
एवमाद्यास्त्वनन्ताग्रा वज्रकर्म्माग्रविक्रमाः। एवमाद्या विकुर्वन्ति नानातन्त्र [निदर्शनात्]॥
१८॥
ज्ञानसिद्धौ प्रभावनिर्द्देशो नाम अधिमात्रेन्द्रिय-विधानमष्टादशः॥
(67)उनविंशः परिच्छेदः। यस्तु सम्यक् न वेत्त्येव मिथ्यातत्त्वसुयोगवान्। [मध्येन्द्रियो] हि विख्यातस्तत्कृत्यमधुनोच्यते॥
१॥
नमस्कारादिकं सर्वं यत्पूर्वं मार्गमुक्तवान्। तत्सर्वमपि कर्त्तव्यं गाथाः सामाजिकास्तथा॥२॥
सर्वाकारवरोपेतां झटित्येव स्वदेवताम्। निष्पाद्य पूर्ववद् योगी मार्गस्थो जपमारभेत्॥३॥
अवसाने तु कर्त्तव्यं सर्वबुद्धाः स औरसाः। प्रसादं मम कर्त्तव्यं शरण्येऽस्य कृपात्मकाः॥४॥
अनादिकालमद्यापि संसारे संसरन्नहम्। खिन्नोऽस्मि सर्वदा दुःखैः सम्यग्ज्ञानमपश्यकः॥
५॥
यथा ज्ञानोदयो भूयात् तथाहं कर्त्तुमुद्यतः। क्रमेणानेन संयुक्तो यदि सम्यक् प्रवर्त्तते। भवेत् ज्ञानोदयं तस्य न मिथ्यामार्गयायिनः॥
६॥
ज्ञानसिद्धौ मध्येन्द्रियविधिनिर्द्देश एकोनविंशतितमः॥
(68)विंशतितमः परिच्छेदः। मुद्रामण्डलवर्णादिभुजस्थानविभाविताः। समाधित्रयमुद्रादिद्वाराश्चैव महद्भुजाः॥१॥
नानाप्रपञ्चनाम्नायात् सर्वे ते मृदवः स्मृताः। तेषामपि यथान्यायं व्रवीमि तत्त्वसम्भवम्॥
२॥
मध्याधिमात्रमार्गेषु प्रतिष्ठाय यथानयम्। तन्त्रोक्तं सर्वदा कार्य्यं देवतामन्त्रजापिना॥
३॥
यदि चित्तं समं यस्य ज्ञानं तस्योदयं भवेत्। अन्यथा नहि तत्प्राप्तिः कल्पकोटिशतैरपि॥
४॥
सर्वदा चिन्तया युक्तो महाकारुण्यवान् सुधीः। पूर्वोक्तलक्षणोपेतो योगी ज्ञानवरं लभेत्॥५॥
मध्यान्तयोर्द्व[यो]श्चैव भावनामात्रमुख्यता। सम्यक् ज्ञानोदयार्थाय प्रोक्ता कृत्यमपश्यता॥
६॥
तत्त्वं विना न बुद्धत्वं तत्त्वं मार्गं विना न [च]। [तन्मार्गस्थितयोरेव] प्रतिपद्ज्ञानमावहेत्॥
७॥
मार्गभ्रष्टो भवेद् यस्तु करुणाहीनचेतसाम्। लाभाद्यर्थं प्रपञ्चात्मा न तेषामुदयो भवेत्॥
८॥
ज्ञानसिद्धौ मृद्विन्द्रियनिर्द्देशपरिच्छेदः विंशतितमः॥
(69)अमुकस्य इदं गुह्यं सर्वतन्त्रेषु गोपितम्। तन्निर्द्दिष्टं मया सम्यक् योगिनां ज्ञानसिद्धये॥
१॥
वज्रज्ञानवरो योगो येषां नैव हि विद्यते। भावनां देवतारूपैः कर्त्तुमुद्यक्तचेतसाम्॥२॥
दर्शनं पुस्तकस्यापि न दातव्यं प्रजानता। वज्रज्ञानप्रतिक्षेपात् नरकं यान्ति मोहिताः॥
३॥
तेषां नरकहेतुत्वात् सोऽ[प्य]वीचिं व्रजेन्नरः। तत्परानर्थसद्भावाद्रक्षणीयमिति ध्रुवम्॥
४॥
अन्यथा समयभ्रंशो भवेदिति प्रकाशितम्। योगतन्त्रेष्वनेकेषु सर्वबुद्धैः कृपात्मकैः॥
५॥
विधूतकल्पनाजालं वज्रज्ञानमिदं परम्। साधनं वज्रसत्त्वस्य कृतमार्गं सयुक्तिकम्॥
६॥
साधनोपायिकां कृत्वा यन्मयोपचितं शुभम्। तेनास्तु सर्वसर्त्त्वानां वज्रसत्त्वत्वमुक्तमम्॥
७॥॥
श्रीमदोडियानविनिर्ग्गता ज्ञानसिद्धिर्नामसाधनोपायिका समाप्ता॥॥
कृतिरियं श्री-इन्द्रभूतिपादानाम्॥
(70)