युक्तिषष्टिकारिका

युक्तिषष्टिकारिका अथ युक्तिषष्टिकारिका नाम मञ्जुश्रिकुमारभुताय नमः नमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने।
येनानेना विधानेन निषिद्धावुदयव्ययौ॥

भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता।
तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते॥

१ सर्वदोषाकरस्तावदभावो विनिवारितः।
निर्वर्त्यते यथा युक्तया भावोऽपि श्र्ववणं कुरु॥

२ भावो यदि भवेत्सत्य् यथा बालैर्विकल्पितः।
विमोक्षस्तदभावेन को नेच्छेत् किम् न कार्नात्॥

३ विमोक्षो नास्ति भावेन भावो नास्ति ह्यभावतः।
भावाभावपरिज्ञानान्महात्माऽपि विमुच्यते॥

४ निर्वाणम् चैव लोकं च मन्यन्ते तत्त्वदर्शिनः।
नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः॥

५ निर्वानं च भवश्चैव द्वयमेव न विद्यते।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते॥

६ सम्भवविभवे भावे निरोधः कल्पितो यथा।
मायाकृतो निरोधोऽयम् सद्भिस्तथैवमिष्यते॥

७ सम्स्कृतो न परिज्ञातो निरोधो विभवे सति।
प्रत्यक्षम् भूयते कस्मिन् विभवो ज्ञायते कथम्॥

८ यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः।
यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति॥

९ अविद्या प्रत्ययोत्पन्नम् सम्यग्ज्ञानेन पश्यतः।
नोत्पादश्च निरोधस्च युक्तः कोऽप्युपलभ्यते॥

१० एवम् पश्यति धर्मः यो निर्वानम् वा कतम् तथा।
धर्मज्ञानम् परं यत्र भेदस्तु तत्र विद्यते॥

११ अतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता।
प्रत्ययोद्भवमर्थम् न पश्यति सोऽविचक्षणः॥

१२ सम्क्लेसक्षीनभिक्षूणाम् सम्साराच्चेन्निवार्यते।
कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः॥

१३ आरम्भे सति चैकान्ते भवेदृष्टिपरिग्रः।
यः प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम्॥

१४ समुत्पन्नं कथं पुर्वं पश्चात् पुनर्निवार्यते।
पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः॥

१५ भवतीदम् यदा माया नम्क्ष्यतीति तदैव हि।
मायाज्ञानपराभूतो मायाज्ञानेन मोहितः॥

१६ यथा मरीचिका माया भवम् बुद्धया हि पश्यति।
पुर्वान्तम् वाऽपरान्तम् वा न दृष्टया परिक्लिश्यते॥

१७ सम्स्कृतम् ये हि मन्यन्ते भन्गोत्पादविकल्पितम्।
प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत्॥

१८ तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि।
स्वयम् यदा यदुत्पन्नमुत्पन्नम् नाम तत् कथम्॥

१९ शान्तम् हेतुक्षयादेव क्षीणम् नामावबुध्यते।
स्वभावेन हि यत्क्षीणम् तत् क्षीणमुच्यते कथम्॥

२० न कश्चिदनुत्पन्नम् निरोधोऽपि न वै तथा।
उत्पादभन्गकर्मणाऽभिप्रायार्थः प्रदर्शितः॥

२१ उत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता।
अनित्यत्वाऽवबोधाच्च सद्धर्मो हि विबोधितः॥

२२ यः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम्।
परिजानाति तेनैवनुत्तीर्यत भवाबुधिः॥

२३ सदसद्भिर्विपर्यस्ता आत्मभावाः पृथग्जनाः।
क्लेशवम्शगताः सत्त्वा आत्मचिन्त्तेन वञ्चिताः॥

२४ विवुधैर्भाव्यते भावेह् शुन्योऽनित्योऽनात्मकः।
मोषधर्मचयश्चैव विविक्त इति दृश्यते॥

२५ अमूलत्वात् स्थितिर्नैव निरालम्बो निराश्रयः।
अविद्याहेतुसम्भूत आदिमध्यान्तवर्जितः॥

२६ कदलीवसारम् यद्गन्धर्वनगरम् यथा।
मोहपुर्यामिविवन्नौ यो मायावत् पश्यति जगत्। २७ अत्र ब्रह्मादिलोको वै सत्य इवावभासने।
सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा॥

२८ लोकोऽविद्याऽन्धभूतोऽसौ तृष्नास्त्रोतसा चालितः।
तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः॥

२९ आदौ तत्त्वमिदं दृष्टम् सर्वम्स्तीति कथ्यते।
जानन्नर्थान्नसक्तोऽपि पश्चान्नुनम् विविच्यते॥

३० न जानाति विविक्तार्थ श्रुतिमात्रम् प्रवर्तते।
येषाम् पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः॥

३१ कर्मानि फलयुक्तानि प्रोक्तम् सम्यगिदम् जगत्।
तत्स्वभावपरिज्ञानमनुत्पन्नम् हि देसितम्॥

३२ अहम् ममेति कथितम् यथाकर्यवशाज्जनैः।
तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः॥

३३ महाभूतादय ख्याता विज्ञाने निचयस्तथा।
तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम्॥

३४ निर्वानम् सत्यमेकम् हि जिनैर्यदभिधीयते।
नाव शिष्टम् तदा सत्यमेवम् विज्ञेन कल्पितम्॥

३५ यावचित्तस्य विक्षेपस्तावन्मारस्य गोचरः।
एवम्भूतो भवेद्यत्र ना दोषो जायते कथं॥

३६ अविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः।
विकल्पस्तेन लोकोऽयमिति किम् नोपपद्यते॥

३७ अविद्यायाम् निरुद्धायाम् निरोधो जायते यथा।
अज्ञानतो हि सम्कल्प इति किम् न विधीयते॥

३८ हेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना।
विगमः प्रत्ययाभावात् सोऽस्तीत्यवगतः कुतः॥

३९ परमम् भावामश्रित्य स्थितिश्चेद्भाववादिनः।
तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्ततः॥

४० बुद्धमार्गे श्रिताः सर्वेऽनित्यमिति वादिनः।
केन वादेन गृह्यन्ते भावाः सन्ति परा इति॥

४१ एष वाऽसाविति यत्र विमर्शो नोपलभ्यते।
इदम् सत्यमदो वेति पण्डितैः कथमुच्यतै॥

४२ नानुपादाय तैश्चापि लोको वाऽत्माऽभिकाङ्क्षते।
नित्यानित्यादेरूत्पादह् मिथ्यादृष्ट्या तु हारितः॥

४३ येषाम् भावास्मुपादाय तत्त्वा स्तेषाम् प्रसादिताः।
तत्र लिङ्गादयो दोषाः प्रजायन्ते न वा कथं॥

४४ यान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा।
तत्र सत्यम् मृषा नैव कामं दृष्ट्या न हारितः॥

४५ रागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्रः।
विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति॥

४६ स हेतुः सर्वदृष्टीनाम् क्लेशोत्पत्ति र्न तम् विना।
तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः॥

४७ परिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात्।
प्रतीत्य जातञ्चऽजातमाऽऽह तत्त्वविदाम् वरः॥

४८ मिथ्याज्ञाने परिभूय योऽसत्ये सत्यधारकः।
परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता॥

४९ महात्मनाम् न पक्षो वा वितर्को वा न विद्यते।
येषाम् न विद्यते पक्षेः परपक्षः कुतस्तेषाम्॥

५० यस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह्।
चलं वाऽनिष्ठितम् चित्तं न तिष्ठत्यनाश्रितम्॥

५१ साश्रय चित्तवान सत्त्वेः क्लेशोद्भूतो विषो महान्।
सदा पृथगजनो हीनः क्लेशसर्पेन गृहीतः॥

५२ प्रतिविम्बे यथा रागो लोके च मोहवन्धनात्।
विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया॥

५३ चक्षुर्भ्याम् विषयान्नाम विम्बज्ञानेन पश्यति।
कर्मपङ्केष्वनासक्तो भावो यथा महात्मनः॥

५४ रूपासक्ता जना मुढा मध्यमा रागवर्जिताः।
रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः॥

५५ विवृत्य सुखचिन्तायाः वीतरागविवर्जितः।
मायापुम्वद्विपश्यनान्निवृतः स भविष्यति॥

५६ मिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत्।
भावाभावौ विकल्पनादर्थज्ञानम् न जायते॥

५७ नाश्रय्ः वीतरागा वै भवन्ति रागवर्जिताः।
अरागे रागवर्धास्ते न साश्रया महात्मनः॥

५८ येषाम् विविक्तचेतसाम् चलम् चित्तम् चञ्चलम्।
क्लेशसर्पेर्मथितोऽपि तीणोऽखिन्नो भवाम्बुद्धेः॥

५९ शास्त्रेणानेन जनानाम् पुन्यम् ज्ञानम् च सन्चितम्।
पुन्यज्ञानक्रियोद्भूतम् द्वावाप्तोतु परम् तथा॥

६० इति युक्तिषष्टिकारिका समाप्ता।
आर्यनागार्जुनमुखनिः सतम् , शास्त्रमिदं भारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम् च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम भोटपण्डितेन लिखितं भोटभाषायमिति॥

शुभमस्तु।