भगवतः शास्तुर्गम्भीरप्रतीत्यसमुत्पाददेशनामाध्यमेन स्तुतिः सुभाषितहृदयन्नाम।
(1)
। नमो गुरवे मञ्जुघोषाय।
यं दृष्ट्वा देशितुर्ज्ञानं देशनं स्यादनुत्तरम्।
जिनः प्रतीत्यजं दृष्ट्वा (तं) वक्ता प्रणमामि तम्॥१॥
(2)
तस्याः मूलमविधोक्ता यावती लोक आपदा।
(सः) प्रतीत्यसमुत्पादो यं दृष्ट्वा सा निवर्तते॥
२॥
(3)
(सः)प्रतीत्यसमुत्पाद-मार्गो बुद्धिमतां तदा।
भवच्छासनमर्मत्वं कथं नाधिगतो भवेत्॥३॥
(4)
तथाभूते च ते नाथ ! स्तुतिद्वारं तु केनचिद्।
आख्यानतः प्रतीत्यस्य विचित्रं किमवाप्स्यते॥४॥
(5)
आशितं प्रत्यये यद्यत् तत्तच्छून्यं स्वभावतः।
इत्यस्माद्देशिताच्चित्रः को वा सद्देशना-विधिः॥
५॥
(6)
यद्ग्रहेण दृढं बाले स्यादन्तग्रहबन्धनम्।
प्रपञ्चाशेषजालानां छेदद्वारं तु तद्विदाम्॥६॥
(7)
नैषाऽन्यत्रेक्ष्यते वाणी तस्माच्छास्ता त्वमेव तु।
तैर्थिकेऽपि पदं चाटु यथा सिंहः शृगालजे॥
७॥
(8)
अहो शास्तः ! शरण्याहो ! नाथाहोऽहो परंवद।
प्रतीत्यस्य सुवक्तारं शास्तारं तं नमाम्यहम्॥
८॥
(9)
जगद्धिताय यः प्रोक्तो हितकारिन् त्वया तु तम्।
शासने शून्यतासारनिश्चये हेतुमुक्तमम्॥
९॥
(10)
(ते)प्रतीत्यसमुत्पादनयं बोद्धुं क्षमाः कथम्।
ये विरुद्धमसिद्धं च पश्यन्ति तावकं मतम्॥
१०॥
(11)
शून्यं दृष्टं प्रतीत्यार्थेऽविरुद्धे त्वन्मते तदा।
कार्यकारणसिद्धिश्च स्वभावेन च शून्यता॥
११॥
(12)
विपरीते ततो दृष्टे शून्ये कार्यं न युज्यते।
पातं मन्येऽसमे गर्ते शून्याभावाच्च सक्रिये॥
१२॥
(13)
तस्मात्त्वच्छासने दृष्टिः सुप्रशस्या प्रतीत्यजा।
साऽपि नात्यन्तताभावो वा स्वभावेन चास्तिता॥१३॥
(14)
यतोऽनाश्रितभावो नास्त्यनपेक्षः खपुष्पवत्।
सिद्धे स्वभावे तत्सिद्धो हेतुकार्याश्रयोऽमतः॥
१४॥
(15)
तस्मात् प्रतीत्यजादन्यो धर्मः कश्चिन्न विद्यते।
स्वभावेन च शून्यत्वात् धर्मोऽन्यो कोऽपि नोच्यते॥१५॥
(16)
कश्चिद्धर्मस्वभावः स्यात् स्वभावस्यानपयितः।
उक्तं युक्तं न निर्वाणं प्रपञ्चेऽप्यनिवर्त्यता॥१६॥
(17)
तस्मात् स्वभावराहित्यं सिंहनादैः पुनः पुनः।
विद्वत्संघे समाख्यातं तं को लङ्घयितुं क्षमः॥
१७॥
(18)
स्वभावो नास्ति वै कश्चिदाश्रित्यैनं भवेदिदम्।
युक्ता सर्वा व्यवस्था द्वेऽविरुद्धे संगते किमुत्॥१८॥
(19)
प्रतीत्यजनिमित्तत्वादन्तदृष्टावनाश्रयः।
वचोऽनुत्तरताहेतुर्नाथेयं ते सुदेशना॥१९॥
(20)
भावशून्यमिदः सर्वमस्माच्चेदं फलं भवेत्।
निश्चयौ द्वौ तु निर्बाधौ परस्परसहायकौ॥
२०॥
(21)
‘अस्मादाश्चर्यभूतं च किं वाऽस्मादद्भुतं तथा’।
स्तुतिस्तेऽनेन रूपेण नान्यथा भवता स्तुतिः॥
२१॥
(22)
मोहदासगृहीतत्वात् केचित् ते स्युर्विरोधिनः।
तैर्निःस्वभावताघोषः किमाश्चर्यं न सह्यते॥
२२॥
(23)
स्वीकृत्य तु प्रतीत्यं हि वचःकोशं तव प्रियम्।
शून्यतायाः सहन्ते नो स्वरं तेभ्योऽस्मि विस्मितः॥
२३॥
(24)
निःस्वभावे समानेतुं द्वारस्यानुत्तरस्य च।
प्रतीत्यस्य तु नाम्नैव स्वभावो गृह्यते तदा॥
२४॥
(25)
सुयाते परमैरायैरद्वितीये तरतटे।
त्वत्तत्प्रीणनसम्नार्गे केनोपायेन नीयते॥२५॥
(26)
missing
(27)
विविक्तो यः स्वभावेन भासतेऽप्यत्र चादितः।
सः प्रतीत्यसमुत्पादः सर्वं मायेव भाषितम्॥२७॥
(28)
यथादिष्टे त्वया वादी कश्चिद्धर्मानुसारतः।
वक्तुं नावसरं लब्धा सुविज्ञातं ह्यनेन तु॥
२८॥
(29)
कस्माच्चेत् ते वचोऽनेन समारोपापवादयोः।
दृष्टादृष्टेषु भावेषु कालो दूरीकृतो यतः॥
२९॥
(30)
वचने तेऽद्वितीयत्वं द्रष्टुं हेतुः प्रतीत्यजः।
अन्यद्वचः प्रमाणत्वं मार्गेणानेन निश्चितम्॥
३०॥
(31)
सम्भाषिणा त्वया दृष्ट्वा यथार्थमनुशिक्षिते।
दूरे स्युर्विपदः सर्वाः दोषमूलनिवारणात्॥
३१॥
(32)
त्वच्छासनप्रतीपेन सेवितोऽपि चिरं श्रमः।
आत्मदृष्टेः स्थिरत्वात्तु दोषानुह्वानवत् पुनः॥
३२॥
(33)
अहो (यदा) परिज्ञातो विशेषो विदुषाऽनयोः।
तदाऽन्तर्हृदयाद् भूयात् कस्मात्ते न समादरः॥
३३॥
(34)
अंशमात्रस्य सामान्योऽप्यर्थो निश्चयतां गतः।
तस्मै दद्यात् परं सौख्यं का तेऽनेकवचः कथा॥३४॥
(35)
हा ! मे बुद्धिर्हतामोहाच्चिरेण शरणं गते।
एतादृग्गुणराशेस्तु ज्ञातोंऽशोऽपि गुणस्य न॥
३५॥
(36)
अन्तकाभिमुखी यावल्लुप्ता न प्राणसन्ततिः।
यस्त्वय्यल्पोऽपि विश्वासो मन्ये सौभाग्यमेव तम्॥
३६॥
(37)
शास्त्रस्य मध्ये प्रतीत्योपदेशः
प्रज्ञानमध्ये प्रतीत्यस्य बोधः।
श्रेष्ठौ जिनेन्द्रेण तुल्यौ च लोके
सुष्ठु त्वया ज्ञायते नैव चान्यैः॥
३७॥
(38)
तव यावत्समुद्दिष्टं प्रतीत्यादेव रभ्यते।
तस्यापि मुक्तिहेतुत्वात् ते कृतं न नशङ्करम्॥
३८॥
(39)
अहो त्वच्छासनं येषां कर्णमार्गं गमिष्यति।
सर्वेषां शान्तभूतत्वात् कस्य त्वद्वाग्ग्रहेऽरुचिः॥
३९॥
(40)
पूर्वापरविरोधेन शून्ये वादिविघातके।
प्रजाभ्यो द्वयर्थदे मेऽस्मिन्नुत्साहो वर्धते नये॥
४०॥
(41)
त्यक्तश्चैतत्कृते कायः क्वचित्प्राणास्त्वयाऽन्यतः।
भोगराशिः प्रियो बन्धुः कल्पेऽसंख्ये पुनः पुनः॥
४१॥
(42)
त्वन्मनो यद्गुणैर्दृष्टैः कृष्टं मत्स्यो यथाऽङ्कुशैः।
मन्दभाग्यो (ऽस्मि) तं धर्मं त्वत्तो न श्रुतवानहम्॥
४२॥
(43)
तस्य शोकस्य वेगस्तु मन्मनो नैव मुञ्चति।
अनुयातं प्रियं पुत्रं जनन्यास्तु मनो यथा॥
४३॥
(44)
त्वद्वचश्चिन्तनेऽत्रापि प्रोतो लक्ष्माञ्जनश्रिया।
प्रभाजालपरिव्याप्तः शास्ता ब्रह्मस्वरेण सः॥
४४॥
(45)
नूनं त्वित्थमुवाचेदं छायामात्रोदयो मुनेः।
चित्ते तापेन सन्तप्ते चद्ररश्मिवदौषधम्॥
४५॥
(46)
अद्भुतस्तादृशो भद्रो नयो बल्वजवत्तथा।
अविज्ञैः पुरुषैः सोऽपि सर्वथाऽऽलुलितीकृतः॥
४६॥
(47)
एतद्विधिं मया दृष्ट्वा तेऽभिप्रायः पुनः पुनः।
विदुषामनुसारेण नैकयत्नैर्विविच्यते॥
४७॥
(48)
तदा स्वापरवर्गस्य बहून् ग्रन्थानधीत्य तु।
पुनः सन्देहजालेन सन्तप्तं हृदयं मम॥
४८॥
(49)
त्यक्त्वा सदसतोरन्तं यानन्यायमनुत्तरम्।
व्याकर्त्ता ते ययार्थं तन्नागाख्यो गीःकुमुद्वनम्॥
४९॥
(50)
निर्मलज्ञानवृत्तस्य प्राख्याखेऽसंगचारिणः।
अन्तधृद्-हृत्तमोघ्नस्य मिथ्यावाक्खेटसंवृतः॥
५०॥
(51)
श्रीचन्द्रस्य सदूक्तीनां शुभ्रांशुमालया स्फुटं।
दृष्ट्वा गुरोः प्रसादेन मन्मनः शान्तिमाप्तवत्॥
५१॥
(52)
वाचः कर्म तु सर्वेभ्यः कर्मभ्यः परमं तथा।
इयं चापि तदेवास्ति बुद्धः स्मर्योऽनया बुधैः॥५२॥
(53)
तञ्चैव शास्तारमनुप्रव्रज्य
वाणीं जिनस्याप्यधिकामधीत्य।
योगस्य चारे कृतवीर्यभिक्षोः
तस्मिन् महर्षो च तथाऽऽदरोऽभूत्॥
५३॥
(54)
अनुत्तरा शासकशासनेदृशी
गुरोः प्रसादादभवत्समागता।
इदं शुभं सर्वजगद्गुरोः सतोऽ
प्यनुग्रहे हेतुतया नतं भवेत्॥
५४॥
(55)
कल्याणकर्त्तुर्वचनं भवान्ते
दुस्तर्कवायोरविनिश्चलं स्यात्।
ज्ञात्वा सदा शासनसारनीतिं
विश्वासिनः शास्तरि सन्तु पूर्णाः॥५५॥
(56)
प्रतीत्यतत्त्वस्य विकाशकारिणीं
मुनेः सुनीतिं सकलेषु जन्मसु।
वपुश्च प्राणांश्च विहाय धारणे
भवेन्न शैथिल्यमपि क्षणस्य तु॥
५६॥
(57)
तन्नायकापारपरातपस्याऽ
नुष्ठानसारैर्विरचय्य सिद्धम्।
कैरित्युपायैस्तदियात् संमृद्धिं
नक्तंदिवं यातु विचारणायाम्॥
५७॥
(58)
शुद्धाशयैस्तन्नयसत्प्रयासे
ब्रह्मा तथेन्द्रः खलु लोकपालाः।
कालादिसौभाग्यमयाश्च रक्षाः
नित्यं निरालस्यसहायकाः स्युः॥५८॥
(59)
सर्वलोकस्य अपरिचितमहाबान्धवम् अनुत्तरशास्तारं भगवन्तं बुद्धं प्रति
गम्भीरप्रतीत्यसमुत्पादकथनद्वारेण बुहुश्रुतभिक्षु-सुमतिकिर्तिश्रिया हिमवतो
मध्ये पर्वतेन्द्र’वोते- गुङग्यल’स्य ‘ल्हयोलवेन- नस्- ल्हादिङ’ अपराभिधेये ’ नम्परग्यल-प-ई-लिङ’ (विजयद्वीप) इत्यत्र रचितस्य एतत्सुभाषित-हृदयनाम- स्तवस्य लिपिकारः तु ‘नम्खापल’ (गगनश्रीः)।
(60)