२६ द्वादशाङ्गपरीक्षा

२६
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् ।

अत्राह- यदुक्तम्-

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥

इति,

कः पुनरसौ प्रतीत्यसमुत्पादः, यः शून्यतेत्युच्यते?

अथवा । यदेतदुक्तम्-

यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥

इति,

तत्कतमो ऽसौ प्रतीत्यसमुत्पादः इति? अतस्तदङ्गप्रभेदविवक्षयेदमुच्यते-

विश्वास-प्रस्तुतिः

पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥

१ ॥

मूलम्

पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥

१ ॥

तत्र अविद्या अज्ञानं तमो यथाभूतार्थप्रच्छादकं स्तिमितता । अविद्यया निवृतः छादितः पुद्गलः पुनर्भवाय पुनर्भवार्थं पुनर्भवोत्पत्त्यर्थमभिसंस्करोति उत्पादयति यान् कुशलादिचेतनाविशेषांस्ते पुनर्भवाभिसंस्कारात् संस्काराः । ते च त्रिविधाः- कुशला अकुशला आनेज्याश्च, यदि वा- कायिका वाचिका मानसाश्चेति । तांस्त्रिविधान् कर्मलक्षणान् संस्कारानविद्यानिवृतः पुद्गलः करोति । तैश्च संस्कारैरभिसंस्कृतैः कर्मभिः कर्मसञ्ज्ञितैः तद्धेतुकां गतिं गच्छति ॥

१ ॥

ततो ऽस्य-

विज्ञानं सन्निविशते संस्कारप्रत्ययं गतौ ।

कृतोपचितसंस्कारस्यास्य पुद्गलस्य संस्कारानुरूपायां गतौ देवादिकायां संस्कारहेतुकं विज्ञानं सन्निविशते प्रविशति उपपद्यते संसारानर्थबीजभूतम् । तत उत्तरकालम्-

सन्निविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते ॥

२ ॥

तत्र कर्मक्लेशाविद्धं तस्मिंस्तस्मिन्नुपपत्त्यायतने नामयतीति नाम, सञ्ज्ञावशेन वा अर्थेषु नामयतीति नाम ।

चत्वारो ऽरूपिणः स्कन्धा नामेति व्यपदिश्यते ।

रूप्यत इति रूपम् । बाध्यत इत्यर्थः । इदं च रूपं पूर्वकं च नाम, उभयमेतदभिसङ्क्षिप्य नामरूपमिति व्यवस्थाप्यते । तत्र बिम्बप्रतिबिम्बन्यायेन स्वाध्यायदीपमुद्राप्रतिमुद्रादिन्यायेन वा मारणान्तिकेषु स्कन्धेषु निरुध्यमानेषु एकस्मिन्नेव क्षणे तुलादण्डनामोन्नामन्यायेनैव औपपत्त्यांशिकाः (प्प्_२३९) स्कन्धा यथाकर्माक्षेपत उपजायन्ते । एवं च बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रान्यायेन प्रतीत्यसमुत्पादः सिध्यति । तुलादण्डनामोन्नामन्यायेन तु यद्विज्ञानं सन्निविशते इत्युक्तम्, तद् बाललोकबोधानुरोधेन, समानकाल एव भवप्रतिसन्धिरिति ।

तथा समानेन समानकालं लोकस्य दुःखं च सुखोदयं च ।
हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः ॥

इति ।

न तु पुनः प्रतीत्यसमुत्पादस्वरूपविचक्षणानामेवं वक्तुं युज्यते साहचर्यादित्वमेकक्षणे तुलादण्डनामोन्नामदृष्टान्तेनेति ।

जन्मोन्मुखं न सदिदं यदि जायमानन्नाशोन्मुखं सदपि नाम निरुध्यमानम् ।
इष्टं तदा कथमिदं तुलया समानं कर्त्रा विना जनिरियं न च युक्तरूपा ॥

इत्यादिवचनात् । यथा बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रादिन्यायेन क्षणिकत्वं नेष्यते भवद्भिः, तथा अन्यस्यापि भावस्य उत्पादसमनन्तरध्वंसिनः क्षणिकत्वं न युक्तम् । यतः जातिजरास्थित्यनित्यताख्यानि चत्वारि संस्कृतलक्षणानि उत्पद्यमानस्य भावस्य बाह्यस्य आध्यात्मिकस्य वा एकस्मिन्नेव क्षणे भवन्तीत्यभिधर्मपाठः । तत्र जातिजरयोः परस्परविरोधात् स्थित्यनित्यतयोश्च एकस्मिन्नेव भावे न युगपत्सम्भव इष्यते सद्भिः ।

क्षणिके सर्वथाभावात्कुतः काचित्पुराणता ।
स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता ॥

यथान्तो ऽस्ति क्षणस्यैवमादिमध्यं च कल्प्यताम् ।
अन्तकत्वात्क्षणस्यैवं न लोकस्य क्षणस्थितिः ॥

आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः ।
आदिमध्यावसानत्वं न स्वतः परतो ऽपि वा ॥

इति मध्यमकसिद्धान्तपाठात् क्षणिकपदार्थासिद्धेरसिद्धिरवसेया । न च जातिमरणयोः परस्परभिन्नलक्षणयोः एकस्मिन् क्षणे सम्भवो भवेत्, संशयनिश्चयज्ञानयोरालोकान्धकारयोर्ज्ञानाज्ञानयोर्बीजाङ्कुरयोर्मरणभवोपपत्तिभवयोर्भिन्नलक्षणयोरित्यादिवत् । परस्परनिरपेक्षयोरेव स्वहेतुप्रत्ययसिद्धयोः सहभावो युज्यते सव्येतरगोविषाणयोर्युवतिस्तनयोर्नरकर्णयोरित्यादिवत्, न तु पुनः कदाचिदपि परस्परविरुद्धयोर्विनाशोत्पादयोः । यथोक्तं रागरक्तपरीक्षायाम्-

(प्प्_२४०)
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥

नैकत्वे सहभावो ऽस्ति न तेनैव हि तत्सह ।
पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति ॥

एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥

इति प्रतिषेधात् कुतः समानकालता भावानां मरणभवोपपत्तिभवयोरिति? अतः सहभावो विनेयजनबोधानुरोधप्रवृत्त एवेति लक्ष्यते । तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलायाः सम्भवतः नामोन्नामयोः कालभेदात् । बलवत्पुरुषाच्छटामात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीति पाठात्, उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति । तथापि अत्र उत्पलपत्रशतसहस्रवेधः सूच्यग्रेण क्रमशो वेधो ऽवसेयः क्षणानामतिसूक्ष्मत्वात् । एकक्षणेन श्लोकाक्षरपदोदाहरणवत् ॥

किं च-

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥

यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।

इति पाठादुत्पादनिरोधयोरसम्भव एव प्रतिपादितः शास्त्रे मध्यमके । आगमसूत्रेषु-

अविनाशमनुत्पन्नं धर्मधातुसमं जगत् ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥

त्रीषु अध्वसु सत्त्वानां प्रकृतिं नोपलम्भति ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥

इत्यादि ।

तथा-

फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी सञ्ज्ञा संस्काराः कदलीनिभाः ।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥

एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् ।
दिवा वा यदि वा रात्रौ सम्प्रजानन् प्रतिस्मृतः ।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥

इति ।

एताश्च गाथाः सर्वनिकायशास्त्रसूत्रेषु पठयन्ते । अतः फेनपिण्डादीनां हेतुप्रत्ययसामग्रीं प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुतः क्षणिकाक्षणिकचिन्तेति? महायानसूत्रेषु च-

सुपिनोपमा भवगती सकला न हि कश्चि जायति न चो म्रियते ।
(प्प्_२४१)
न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥

न च शाश्वतं न च उच्छेद पुनो न च कर्मसञ्चयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरास्पृशती न च अन्यु कृत्व पुन वेदयते ॥

यथा कुमारी सुपिनान्तरस्मिं स्वपुत्र जातं च मृतञ्च पश्यति ।
जाते ऽतितुष्टा मृति दौर्मनस्यिता तथोपमान् जानथ सर्वधर्मान् ॥

यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः ।
न लेखसङ्क्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् ॥

मुद्रात्प्रतिमुद्र दृश्यते मुद्रसङ्क्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कार ऽनुच्छेदशाश्वताः ॥

बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तत् एवमनुच्छेद अशाश्वत धर्मता ॥

यथ मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता ।
घटियन्त्र सचक्र वर्तते तेषु एकैकसु नास्ति वर्तना ॥

तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता ।
एकैकेषु तेषु वर्तनी पूर्वमपरान्ततु नोपलभ्यते ॥

(प्प्_२४२)
अत एवोक्तमाचार्यनागार्जुनपादैः-

स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः ।
स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरुपधार्यौ ॥

इति ।

शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितैः-

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तः प्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥

इति ॥

तदेवं बिम्बप्रतिबिम्बादिन्यायेन मातुः कुक्षौ विज्ञाने सम्मूर्च्छिते विज्ञानप्रत्ययं नामरूपं निषिच्यते, क्षरति प्रादुर्भवतीत्यर्थः । यदि इह गतौ विज्ञानं न सम्मूर्छितं स्यात्, तदा नामरूपप्रादुर्भावो न स्यात् ।

सचेदानन्द विज्ञानं मातुः कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत । इति वचनात् ॥

२ ॥

तदेवम्-

निषिक्ते नामरूपे तु षडायतनसम्भवः ।

दुःखोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसस्पर्शमनआख्यं षडायतनं नामरूपहेतुकमुपजायते । स चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्टः सन् रागजं द्वेवजं मोहजं कर्म करोतीत्यादिना दुःखोत्पत्तावायद्वारत्वं षण्णामायतनानाम् । तदेवं सम्भूते षडायतने उत्तरकालम्-

षडायतनमागम्य संस्पर्शः सम्प्रवर्तते ॥

३ ॥

कः पुनरयं संस्पर्शः, कथं वा सम्प्रवर्तते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं सम्प्रवर्तते ॥

४ ॥

मूलम्

चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं सम्प्रवर्तते ॥

४ ॥

सन्निपातस्रयाणां यो रूपविज्ञानचक्षुषाम् । स्पर्शः सः

चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादिविलक्षणं समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुश्च रूपायतनं च रूपम् । समन्वाहारश्चतुःस्कन्धलक्षणं नाम । तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते । तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां यः सन्निपातः सहोत्पादः अन्योन्योपकारेण तुल्यं या प्रवृत्तिः, स स्पृष्टिलक्षणः स्पर्शः । तत उत्तरकालम्-

तस्मात्स्पर्शाच्च वेदना सम्प्रवर्तते ॥

५ ॥

इष्टानिष्टोभयविपरीतविषयानुभूतिर्विषयानुभवो वेदनं वित्तिर्वेदनेत्युच्यते । दुःखा सुखा अदुःखासुखा च त्रिविधा । यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां सन्निपातलक्षणं स्पर्शमागम्य (प्प्_२४३) वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसन्निपातलक्षणस्पर्शहेतुका वेदना व्याख्येया ॥

५ ॥

तत उत्तरकालम्-

वेदनाप्रत्यया तृष्णा

सम्प्रवर्तते इति वर्तते । वेदना प्रत्ययो यस्यास्तृष्णायाः सा वेदनाप्रत्यया । किंविषया पुनः सा तृष्णा? वेदनाविषयैव । किं कारणम्? यस्मादसौ तृष्णालुः

वेदनार्थं हि तृष्यते ।

वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थः । कथं कृत्वा? यदि तावत् सुखा वेदना अस्योपजायते, स तस्याः पुनः पुनः संयोगार्थं परितृष्यते । अथ दुःखा, तदा तस्या विसंयोगार्थं परितृष्यते । अथ अदुःखासुखा, तस्या अपि नित्यमपरिभ्रंशार्थं परितृष्यते । स एवम्-

तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥

६ ॥

स एवं वेदनास्वभिनिविष्टः सक्तः तृष्णाप्रत्ययं कामदृष्टिशीलव्रतात्मवादोपादानाख्यं चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति । तदेवमस्य तृष्णाप्रत्ययमुपादानं भवति ॥

६ ॥

तत उत्तरकालम्-

विश्वास-प्रस्तुतिः

उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥

७ ॥

मूलम्

उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥

७ ॥

पञ्च स्कन्धाः स च भवः

चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता । तस्य उपादातुः उपादानप्रत्ययो भवः उपजायते । किं कारणम्? यस्मात्, यो हि अनुत्पादितवेदनातृष्णः प्रतिसङ्ख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसम्मुखीभावात् स्याद्धि यद्यनुपादानो मुच्येत सः । तदानीं तस्य न भवेद्भवः ॥

कः पुनरयं भवः? पञ्च स्कन्धाः स च भवः । यः उपादानात् प्रवर्तते, स पञ्चस्कन्ध स्वभावो वेदितव्यः । त्रिविधमपि कायिकं वाचिकं मानसिकं च कर्म भवत्यस्मादनागतं स्कन्ध पञ्चकं भवः इति व्यपदिश्यते । तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात् । मानसं तु चतुःस्कन्धस्वभावमिति । एवं स भवः पञ्च स्कन्धा इति विज्ञेयम् । तस्मात्-

भवाज्जातिः प्रवर्तते ।

अनागतस्कन्धोत्पादो जातिः । सा च भवात् प्रवर्तते । तत उत्तरकालम्-

जरामरणदुःखादि शोकाः सपरिदेवनाः ॥

८ ॥

दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।

जातिहेतुका एते जरामरणादयः प्रवर्तन्ते । एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम् । तत्र स्कन्धपरिपाको जरा । जीर्णस्य स्कन्धभेदो मरणम् । म्रियमाणस्य विगच्छतः सम्मूढस्य सामिषङ्गो हृदयसन्तापः शोकः । शोकसमुत्थितो वाक्प्रलापः परिदेवः । पञ्चेन्द्रियासातनिपातो (प्प्_२४४) दुःखम् । मनोनिष्टनिपातो दौर्मनस्यम् । दुःखदौर्मनस्यबहुत्वसम्भूता उपायासाः । इति । तदेवं यथोपवर्णितेन न्यायेन

केवलस्यैवमेतस्य दुःखस्कन्धस्य सम्भवः ॥

९ ॥

केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य । दुःखात्मकस्य सुखाव्यामिश्रस्यैवेत्यर्थः । एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थः । दुःखस्कन्धस्येति दुःखसमुदायस्य दुःखसमूहस्य दुःखराशेरित्यर्थः ॥

९ ॥

यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्तिः, अतः-

विश्वास-प्रस्तुतिः

संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥

१० ॥

मूलम्

संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥

१० ॥

तत्र संसारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्काराः । ततश्च संसारमूलान् संस्कारानविद्वान् संस्करोति ॥

अविद्यानुगतो यः पुद्गलो भिक्षवः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्करोति ॥

इति भगवद्वचनात् । यतश्चैवमविद्वान् कारकः, तस्मादविद्वानेव पुद्गलः कारको भवति संस्काराणाम्, न विद्वांस्तत्त्वदर्शी प्रहीणाविद्यः । किं कारणम्? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थनामेवानुपलम्भात् नास्ति किञ्चिद् यदालम्ब्य कर्म कुर्यादिति ॥

१० ॥

यतश्चैवमविद्यायामेव सत्यां संस्काराः प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अतः-

अविद्यायां निरुद्धायां संस्काराणामसम्भवः ।

हेतुवैयर्थ्यात् । तस्याः पुनरविद्यायाः कुतो निरोधः इत्याह-

अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥

११ ॥

अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनातः अविद्या प्रहीयते । यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते । प्रतिबिम्बस्वप्रालातचक्रमुद्गादिवत्तु स्वभावशून्यतां सर्वेषां भावानामवतरति । स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किञ्चिद्वस्तु उपलभते बाह्यमाध्यात्मिकं वा । सो ऽनुपलभमानो न क्वचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति । एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति । तत्त्वदर्शिनोयोगिनो नियतमेव अविद्या प्रहीयते । प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते ॥

११ ॥

यथा चैवमविद्यानिरोधात् संस्कारा निरुध्यन्ते, एवम्-

विश्वास-प्रस्तुतिः

तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते ॥

१२ ॥

मूलम्

तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते ॥

१२ ॥

(प्प्_२४५)
पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उतरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम् । अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनायासनिरस्तः कारकवेदकविरहितं भावस्वभावशून्यं दुःखराशिं पुनरनुत्पत्त्या सम्यङ्निरोधयति । यथोक्तमार्यशालिस्तम्बसूत्रे-

एवमाध्यात्मिको ऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते । कतमाभ्यां द्वाभ्याम्? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । एवं यावज्जातिश्चेन्नाभविष्यज्जरामरणं न प्रज्ञास्यते । अथवा, सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति । अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति । एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति । जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति । अथ च सत्यामविद्यायां संस्काराणाभिनिर्वृत्ति र्भवति प्रादुर्भावः । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥

कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः । यः कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यते ऽब्धातुः । यः कायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः । यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः । यः कायस्यान्तः शौषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः । यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः । तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति । यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातोर्नैवं भवति- अहं कायस्य कठिनभावमभिनिर्वर्तयामीति । अब्धातोर्नैवं भवति- अहं कायस्यानुपरिग्रहकृत्यं करोमीति । तेजोधातोर्नैवं भवति- अहं कायस्याशितपीतखादितं परिपाचयामीति । वायुधातोर्नैवं भवति- अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर्नैवं भवति- अहं कायस्यान्तःशौषीर्यमभिनिर्वर्तयामीति । विज्ञानधातोर्नैवं भवति- अहं कायस्य नामरूपमभिनिर्वर्तयामीति । कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति । अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्ति र्भवति । तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् । एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुर्नात्मा (प्प्_२४६) न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् ॥

तत्र अविद्या कतमा? या एषामेवं षण्णां धातूनायमैक्सञ्ज्ञा पिण्डसञ्ज्ञा नित्यसञ्ज्ञा ध्रुवसञ्ज्ञा शाश्वतसञ्ज्ञा सुखसञ्ज्ञा आत्मसञ्ज्ञा सत्त्वसञ्ज्ञा जीवपुद्गलमनुजमानवसञ्ज्ञा अहङ्कारसञ्ज्ञा ममकारसञ्ज्ञा एवमादि विविधमज्ञानम् । इयमुच्यते ऽविद्येति । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते । तत्र ये रागद्वेषमोहा विषयेषु, अमी संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम् । तच्च नाम रूपम् । ऐकध्यमभिसङ्क्षिप्य तन्नामरूपम् । नामरूपसन्निश्रितानीन्द्रियाणि षडायतनम् । त्रयाणां धर्माणां सन्निपातः स्पर्शः । स्पर्शानुभवो वेदना । वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुइपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जातस्य स्कन्धस्य परिपाको जरा । जीर्णस्य स्कन्धस्य विनाशो मरणम् । म्रियमाणस्य सम्मूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः । शोकोत्थमालपनं परिदेवः । पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम् । मनसा संयुक्तं मानसं दुःखं दार्मनस्यम् । ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति ॥

तत्र मोहान्धकारार्थेनाविद्या । अभिसंस्कारार्थेन संस्काराः । विज्ञापनार्थेन विज्ञानम् । अन्योन्योपस्तम्भनार्थेन नामरूपम् । आयद्वारार्थेन षडायतनम् । स्पर्शनार्थेन स्पर्शः । अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा । उपादानार्थेनोपादानम् । पुनर्भवार्थेन भवः । जन्मार्थेन जातिः । परिपाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोकः । परिदेवनार्थेन परिदेवः कायपरिपीडनार्थेन दुःखम् । चित्तसम्पीडनार्थेन दौर्मनस्यम् । उपक्लेशार्थेनोपायासाः ॥

अथवा तत्त्वे ऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या । एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनेञ्ज्योपगाः । तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति । इदमुच्यते विज्ञानम् । विज्ञानप्रत्ययं नामरूपमिति वेदनादयो ऽरूपिणश्चत्वारः स्कन्धास्तत्र तत्र भवे नामयन्तीति नाम । सहरूपस्कन्धेन च नाम रूपं चेति नामरूपमुच्यते । नामरूपविवृद्धया षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते प्रज्ञायन्ते, तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतंएभ्यः षट् स्पर्शकायाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते । इयमुच्यते भिक्षवः स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाभिनन्दनाध्यवसानस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भून्नित्यमपरित्यागो भवेदिति यैवं प्रार्थना इदमुच्यते भिक्षवस्तृष्णाप्रत्ययमुपादानम् । यत्र वस्तुनि सतृष्णस्तस्य वस्तुनो ऽर्जनाय विठपनायोपादानमुपादत्ते, तत्र तत्र प्रार्थयते, एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च, स उपादानप्रत्ययो भव इत्युच्यते । (प्प्_२४७) तत्कर्मनिर्जातानां स्कन्धानामभिनिर्वृतिर्या सा भवप्रत्यया जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयनपरिपाकाद्विनाशो भवति । तदिदं जातिप्रत्ययं जरामरणमित्युच्यते ॥

एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययो नैवानित्यो नैव नित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता नावेदयिता न प्रतीत्यसमुत्पन्नो नाप्रतीत्यसमुत्पन्नो न क्षयधर्मो नाक्षयधर्मो न विनाशधर्मो नाविनाशधर्मो न निरोधधर्मो नानिरोधधर्मो ऽनादिकालप्रवृत्तो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥

यद्यप्ययं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत्, अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि सङ्घातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि? यदुत अविद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीजस्वभावत्वेन हेतुः । कर्म क्षेत्रस्वभावत्वेन हेतुः । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः । कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञानबीजमवकिरति । असतां तेषां प्रत्ययानां विज्ञानबीजस्यभिनिर्वृत्तिर्न भवति । तत्र कर्मणो नैवं भवति- अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति । तृष्णाया अपि नैवं भवति- अहं विज्ञानस्य स्नेहकार्यं करोमिति । अविद्याया अपि नैवं भवति- अहं विज्ञानबीजमवकिरामीति । विज्ञानबीजस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति ॥

अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति । तत्रतत्रोपपत्त्यांयतनप्रतिसन्धौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । स च नामरूपाङ्कुरो न स्वयं कृतोअ न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसम्भूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः । अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेष्वममेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ॥

तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिः? यदुत चक्षुः प्रतीत्य रूपं चालोकं चाकाशं च तज्जमनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानम् । तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति । रूपमालम्बनकृत्यं करोति । आलोको ऽवभासकृत्यं करोति । आकाशमनावरणकृत्यं करोति । तज्जमनसिकारः समन्वाहरणकृत्यं करोति । असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते । यदा तु चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुषो नैवं भवति- अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति । आलोकस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमिति । तज्जमनसिकारस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति । अथ च सतामेषां प्रत्ययानां समवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति । एवं शेषाणामिन्द्रियाणां यथायोगं करणीयम् ॥

(प्प्_२४८)
तत्र न कश्चिद्धर्मो ऽस्माल्लोकात्परलोकं सङ्क्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्शमण्डले मुखं सङ्क्रामति, अस्ति च मुखप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न कश्चिच्च्युतो नाप्यन्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्ते ऽप्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने सङ्क्रान्तं भवति अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो नान्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ॥

तद्यथा- अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसन्धौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥

तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः? न शाश्वततो नोच्छेदतो न सङ्क्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यनिरुद्धेषु । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति तुलादण्डोन्नाभावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न सङ्क्रान्तितः? विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न सङ्क्रान्तितः । कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । परीत्तं कर्म क्रियते, विपुलः फलविपाको ऽनुभूयते । अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाको ऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥

(प्प्_२४९)