२४
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् ।
अत्राह-
विश्वास-प्रस्तुतिः
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥
१ ॥
मूलम्
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥
१ ॥
यदि युक्त्या नोपपद्यते इति कृत्वा सर्वमिदं बाह्यमाध्यात्मिकं भावजातं शून्यमिति प्रतिपादितम्, ननु च एवं सति बहवश्च महान्तश्च दोषा भवत आपद्यन्ते । कथं कृत्वा? यदि सर्वमिदं शून्यं स्यात्, तदा यच्छून्यं तन्नास्ति, यच्च नास्ति, तदविद्यमानत्वाद् वन्ध्यापुत्रवन्नैवोत्पद्यते न चापि निरुध्यते, इति न कस्यचित्पदार्थस्य उदयो व्ययश्च । तदभावाच्च चतुर्णामार्यसत्यानामभावः ते शून्यवादिनः प्रसज्यते । कथं कृत्वा? इह हि पूर्वहेतुजनिताः प्रतीत्यसमुत्पन्नाः पञ्चोपादानस्कन्धाः दुःखदुःखतया विपरिणामदुःखतया संस्कारदुःखतया च प्रतिकूलवर्तित्वाच्च पीडात्मकत्वेन दुःखमित्युच्यते । एतच्च दुःखमार्या एव विपर्यासप्रहाणे सति दुःखमिति सञ्जानते, न अनार्याः, विपर्यासानुगतत्वात्, यथादर्शनं च पदार्थस्वभावव्यवस्थानात् । यथा हि विपर्यस्तेन्द्रियाणां मधुरस्वभावमपि गुडशर्करादिकं तिक्ततया उपलभमानानां ज्वरादिरोगातुराणां तिक्ततैव सत्यं तज्ज्ञानापेक्षया, माधुर्यम्, तेनात्मना तस्य वस्तुनो ऽनुपलभ्यमानत्वात्, एवमिहापि यद्यपि पञ्चोपादानस्कन्धा दुःखस्वभावा भवन्ति, तथापि ये एतान् दुःखात्मकान् पश्यन्ति, तेषामेव दुःखं व्यवस्थाप्यते, न विपर्यासानुगमादन्यथोपलभमानानामिति । अतः आर्याणामेव दुःखात्मता सत्यमिति कृत्वा दुःखमार्यसत्यमित्युच्यते । ननु च अनार्यैर्दुःखा वेदना दुःखमिति परिच्छिद्यते इति, एवं तत्कथं दुःखमार्याणामेव सत्यम्? सत्यम् । न हि दुःखैव वेदना केवलं दुःखसत्यम्, किं तर्हि पञ्चाप्युपादानस्कन्धाः, इत्यतः आर्याणामेव तत् सत्यमिति कृत्वा आर्यसत्यमिति व्यवस्थाप्यते । यथोक्तम्-
ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वि(वे?)द्यते पुम्भिः ।
अक्षिगतं तु तदेव हि जनयत्यरतिं च पीडां च ॥
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म ।
अक्षिसदृशस्तु विद्वान् तेनैवोद्वेजते गाढम् ॥
इति ।
तस्मादार्याणामेव तद्दुःखसत्यमिति दुःखमार्यसत्यमिति व्यवस्थाप्यते ॥
कदा च तद्दुःखमार्यसत्यं युज्यते? यदा संस्काराणामुदयव्ययौ सम्भवतः । यदा तु शून्यत्वान्न किञ्चिदुत्पद्यते नापि किञ्चिन्निरुध्यते, तदा नास्ति दुःखम् ॥
असति च दुःखे कुतः समुदयसत्यम्? यतो हि हेतोर्दुःखम्, समुदेति समुत्पद्यते स हेतुः तृष्णाकर्मक्लेशलक्षणः समुदय इत्युच्यते । यदा तु फलभूतं दुःखसत्यं नास्ति, तदा फलरहितस्य हेतुकत्वानुपपत्तेः समुदयो ऽपि नास्ति ॥
(प्प्_२१०)
दुःखस्य च विगमः अपुनरुत्पादः निरोध इत्युच्यते । यदा तु दुःखमेव नास्ति, तदा कस्य निरोधः स्यादिति? अतो दुःखनिरोधो ऽपि न सम्भवति । असति हि दुःखे निरोधसत्यस्याप्यभावः । असति च दुःखनिरोधे कुतो दुःखनिरोधगामिनी आर्याष्टाङ्गमार्गानुगा प्रतिपद् भविष्यतीति मार्गसत्यमपि नास्तीति । तदेवं शून्यत्वं भावानां ब्रुवतः चतुर्णामार्यसत्यानामभावः प्रसज्यते ॥
१ ॥
ततश्च को दोष इति? उच्यते-
विश्वास-प्रस्तुतिः
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते ॥
२ ॥
मूलम्
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते ॥
२ ॥
चतुर्णामार्यसत्यानामभावप्रसङ्गे सति यदेतदनित्यादिभिराकारैर्दुःखसत्यपरिज्ञानं दुःखसमुदयस्य च प्रहाणं दुःखनिरोधगामिन्याश्च प्रतिपदो भावना दुःखनिरोधस्य च साक्षिकर्म साक्षात्करणम्, तन्नोपपद्यते ॥
२ ॥
यदि दुःखादीनामार्यसत्यानामभावे सति परिज्ञानादिकं नास्ति, तदा को दोष इति? उच्यते-
विश्वास-प्रस्तुतिः
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च ।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ॥
३ ॥
मूलम्
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च ।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ॥
३ ॥
विश्वास-प्रस्तुतिः
सङ्घो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः ।
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ॥
४ ॥
मूलम्
सङ्घो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः ।
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ॥
४ ॥
यदा चैवं दुःखपरिज्ञानादिकं नास्ति, तदा, अस्मिन्नसति स्रोतआपत्तिसकृदागाम्यनागाम्यर्हत्फलाख्यं फलचतुष्टयं नोपपद्यते । कथं कृत्वा? इह क्लेशानां प्रहाणं सम्पिण्डितं फलाख्यं प्रतिलभते । तद्यथा- संयोजनत्रयप्रहाणे सति षोडशे मार्गे अन्वयज्ञानक्षणे यत् क्लेशप्रहाणं तत् स्रोतआपत्तिफलम् । कामावचराणां भावनाप्रहातव्यानां क्लेशानामधिमात्रमध्यमृदूनां प्रकाराणां पुनरधिमात्रमध्यमृदुप्रकारभेदेन प्रत्येकं भिद्यमानानां नव प्रकारा भवन्ति । तत्र कामावचरषष्ठक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तत् सकृदागामिफलम् । तेषामेव कामावचराणां नवमप्रकारक्लेशपरिक्षये विमुक्तिमार्गे यत् क्लेशप्रहाणं तदनागामिफलम् । रूपारूप्यावचराणां क्लेशानां भावनाप्रहातव्यानां भूमौ भूमौ नवप्रकारभेदभिन्नानां यावन्नैवसञ्ज्ञानासञ्ज्ञायतनभूमिकनवमक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तदर्हत्फलम् । इत्येतानि चत्वारि फलानि । तान्येतानि कथं युज्यन्ते? यदि दुःखस्य परिज्ञानं सम्भवति, समुदयस्य प्रहाणम्, निरोधस्य साक्षात्करणम्, आर्यमार्गस्य च भावना भवति । यदा तु दुःखादीनामार्यसत्यानामभावे सति दुःखपरिज्ञानादिकं नास्ति, तदा न सन्ति तानि चत्वारि फलानि । चतुर्णा च फलानामभावे सति ये तेषु व्यवस्थिताः फलस्थाश्चत्वार आर्यपुद्गलाः, ते न सन्ति । अत एव च प्रतिपन्नका अपि चत्वार आर्यपुद्गला न संविद्यन्ते ॥
(प्प्_२११)
इह हि षोडशात् मार्गे ऽन्वयज्ञानक्षणात् पूर्वे ये पञ्चदश क्षान्तिज्ञानक्षणाः, तद्यथा- त्रैधातुकदुःखाभिसमये दुःखसत्यालम्बनाश्चत्वारः क्षान्तिज्ञानक्षणाः । तत्र कतमे त्रैधातुकदुःखाभिसमये चत्वारः क्षान्तिज्ञानक्षणाः? तद्यथा- कामावचरदुःखदर्शनप्रहातव्यसत्कायान्तग्राहमिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शविचिकित्सारागप्रतिघमानाविद्याख्यदशानुशयप्रतिपक्षः अनित्यदुःखशून्यानात्माकारोत्पन्नः कामावचरदुःखसत्यालम्बनः आनन्तर्यमार्गलक्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः एकः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखे धर्मज्ञानक्षणः द्वितीयः । एवं रूपारूप्यावचरदुःखसत्यालम्बनः प्रतिघवर्जितानन्तरोक्ताष्टादशानुशयप्रतिपक्षः दुःखाद्याकारोत्पन्नः आनन्तर्यमार्गलक्षणः दुःखे अन्वयज्ञानक्षान्तिक्षणस्तृतीयः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखे ऽन्वयज्ञानक्षणश्चतुर्थः ॥
यथा चैते त्रैधातुकावचरदुःखसत्याभिसमये क्षान्तिज्ञानक्षणाश्चत्वारः, एवं कामावचरसमुदयदर्शनप्रहातव्यमिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सारागप्रतिघमानाविद्याख्यसप्तानुशयप्रतिपक्षः हेतुसमुदयप्रभवप्रत्ययाकारोत्पन्नः कामावचरसमुदयसत्यालम्बनः आनन्तर्यमार्गलक्षणः समुदये धर्मज्ञानक्षान्तिक्षणः एकः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः समुदये धर्मज्ञानक्षयो द्वितीयः । एवं रूपारूप्यावचरसमुदयसत्यालम्बनः प्रतिघवर्जितानन्तरोक्तद्वादशानुशयप्रतिपक्षः समुदयसत्याकारोत्पन्नः आनन्तर्यमार्गलक्षणः समुदये ऽन्वयज्ञानक्षान्तिक्षणस्तृतीयः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः समुदये ऽन्वयज्ञानक्षणश्चतुर्थः । इत्येते त्रैधातुकावचरदुःखसमुदयसत्याभिसमये चत्वारः क्षणाः ॥
यथा चैते चत्वारः क्षणाः त्रैधातुकदुःखसमुदयसत्याभिसमये, एवं कामावचरदुःखनिरोधदर्शनप्रहातव्यसमुदयोक्तसप्तानुशयप्रतिपक्षः निरोधशान्तप्रणीतनिःसरणाकारोत्पन्नः कामावचरदुःख निरोधसत्यालम्बनः आनन्तर्यमार्गलक्षणः निरोधे धर्मज्ञानक्षान्तिक्षणः एकः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः निरोधे धर्मज्ञानक्षणः द्वितीयः । एतैरेव आकारैः रूपारूप्यावचरदुःखनिरोधसत्यालम्बनः प्रतिघवर्जितद्वादशानुशयप्रतिपक्षः आनन्तर्यमार्गलक्षणः निरोधे अन्वयज्ञानक्षान्तिक्षणस्तृतीयः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः निरोधे अन्वयज्ञानक्षणश्चतुर्थः । इत्येते त्रैधातुकावचरदुःखनिरोधसत्याभिसमये चत्वारः क्षणाः ॥
एवं कामावचरदुःखनिरोधगामिमार्गदर्शनप्रहातव्यनिरोधोक्तानुशयेषु शीलव्रतपरामर्शमष्टमं प्रक्षिप्य अष्टानुशयप्रतिपक्षः मार्गन्यायप्रतिओपन्नैर्याणिकाकारोत्पन्नः कामावचरदुःखनिरोधगामिमार्गालम्बनः आनन्तर्यमार्गलक्षणः मार्गे धर्मज्ञानक्षान्तिक्षणः एकः । तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः मार्गे धर्मज्ञानक्षणः द्वितीयः । एतैरेवाकारैः रूपारूप्यावचरदुःखनिरोधगामिमार्गालम्बनः प्रतिघवर्जितचतुर्दशानुशयप्रतिपक्षः आनन्तर्यमार्गलक्षणो मार्गे ऽन्वयज्ञानक्षान्तिक्षणः तृतीयः । इत्येते पञ्चदश क्षणाः दर्शनमार्गाभिधानाः ॥
एवं व्यवस्थितः आर्यः स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः इत्युच्यते । षोडशे तु मार्गे ऽन्वयज्ञानस्थितः स स्रोतआपन्न इत्युच्यते ॥
(प्प्_२१२)
त एते अष्टाशीतिरनुशयाः सत्यानां दर्शनमात्रेण भावनामनपेक्ष्यैव प्रहीयन्ते इति कृत्वा दर्शनप्रहातव्या इत्युच्यन्ते । यथादृष्टसत्याकारभावनया तु ये पश्चात्प्रहीयन्ते ते भावनाप्रहातव्याः । ते च दशानुशया भवन्ति । कामावचरा रागप्रतिघमानाविद्याः । रूपावचरा एव प्रतिघवर्जितास्रयः । आरूप्यावचराश्च त्रयः एते एवेति दश भवन्ति । एते च यथोक्तेन न्यायेन भूमौ भूमौ नवधा भिद्यन्ते, कामधातौ चतुर्षु ध्यानेषु, चतुर्ष्वारूप्येषु । एकैकस्य च क्लेशप्रकारस्य प्रहाणार्थमानन्तर्यविमुक्तिमार्गभेदेन द्वौ द्वौ ज्ञानक्षणौ व्यवस्थाप्येते क्लेशक्षणविपर्ययेण । अधिमात्राधिमात्रो हि क्लेशप्रकारः मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यां प्रहीयते । यावन्मृदुमृदुक्लेशप्रकारो ऽधिमात्राधिमात्राभ्यां ज्ञानक्षणाभ्यां प्रहीयते । स्थूलं हि मलमल्पप्रयत्नसाध्यम्, सूक्ष्मं तु महायत्नसाध्यं रजकवस्त्रधावनसाधर्म्येणेति विज्ञेयम् ॥
तत्र दर्शनमार्गादूर्ध्वं कामावचरभावनाप्रहातव्यषष्ठक्लेशप्रकारप्रतिपक्षविमुक्तिमार्गाख्यज्ञानक्षणादर्वाग् ज्ञानक्षणावस्थितः आर्यः सकृदागामिफलप्रतिपन्नक इत्युच्यते । सकृदिमं लोकमागत्य परिनिर्वाणात् सकृदागामीत्युच्यते, तत्फलार्थम्प्रतिपन्नकः प्रयोगस्थः सकृदागामिफलप्रतिपन्नक इत्युच्यते । षष्ठे तु क्षणे सकृदागामीत्युच्यते ॥
षष्ठात् क्षणादूर्ध्व नवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमानः आर्यः अनागामिफलप्रतिपन्नक इत्युच्यते । अनागत्य इमं लोकं तत्रैव परिनिर्वाणादनागामीत्युच्यते । तत्फलार्थं प्रतिपन्नकः प्रयोगस्थः अनागामिफलप्रतिपन्नक इत्युच्यते । नवमे तु क्षणे अनागामीत्युच्यते ॥
कामावचरनवमविमुक्तिमार्गक्षणादूर्ध्वं नैवसञ्ज्ञानासञ्ज्ञातयनभूमिकनवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमानः आर्यः अर्हत्फलप्रतिपन्नकः इत्युच्यते । सदेवमानुषासुराल्लोकात् पूजार्हत्वादर्हन्नित्युच्यते । तत्फलार्थं प्रतिपन्नकः प्रयोगस्थः अर्हत्फलप्रतिपन्नकः इत्युच्यते । भवाग्रिकनवमक्लेशप्रकारप्रहाणात्तु नवमविमुक्तिमार्गे व्यवस्थितः अर्हन् भवति ॥
त एते चत्वारः प्रतिपन्नकाः पुद्गलाः, चत्वारश्च फलस्थाः इत्येते अष्टौ महापुरुषपुद्गला भवन्ति । परमदक्षिणार्हा उक्ता भगवता । यथोक्तं सूत्रे-
पृष्टः स देवराजेन शक्रेण वशवर्तिना ।
कृषतां यजमानानां प्राणिनां पुण्यकाङ्क्षिणाम् ॥
कुर्वतां श्रद्धद्दधानानां पुण्यमौपधिकं सदा ।
सुक्षेत्रं ते प्रवक्ष्यामि यत्र दत्तं महत्फलम् ॥
प्रतिपन्नकाश्चत्वारश्चत्वारश्च फलस्थिताः ।
एष सङ्घो दक्षिणीयो विद्याचरणसम्पदा ॥
इति ।
यदि चत्वारि आर्यसत्यानि न सन्ति तेषां च परिज्ञानानि, तदा सत्यदर्शनभावनालभ्यानां फलानामभावात् प्रतिपन्नकफलस्थपुद्गलानामभाव एव । अतश्च सङ्घो नास्ति । तत्र (प्प्_२१३) अधिगमधर्मेण प्रत्यक्षधर्मतया सर्वमारैरपि बुद्धे भगवति अभेद्यत्वादवेत्य प्रसादलाभेन सङ्घः, स न स्यात् । न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः ॥
आर्यसत्यानां च अभावात् सद्धर्मो ऽपि न सम्भवति । सतामार्याणां धर्मः सद्धर्मः । तत्र निरोधसत्यं फलधर्मः, मार्गसत्यं तु फलावतारधर्मः । एष तावदधिगमधर्मः । तत्सम्प्रकाशिका देशना आगमधर्मः । सर्व एष आर्यसत्यानामभावे सति नास्तीति-
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ।
धर्मे चासति सङ्घे च कथं बुद्धओ भविष्यति ॥
यदि हि यथोक्तो धर्मः स्यात्, तदा तद्धर्मप्रतिपत्त्या सर्वाकारसर्वधर्माभिसम्बोधाद् बुद्धो भवतीति युक्तं स्यात् । यदि च सङ्घः स्यात्, तदा तदुपदेशैरुपचीयमानज्ञानसम्भारः तद्दानमानशरणगमनादिभिश्च उपचीयमानपुण्यसम्भारः क्रमाद् बुद्धो भवेत् ॥
अथवा । असति सङ्घे स्रोतआपत्तिफलप्रतिपन्नकादीनामभावः स्यात् । न च प्रतिपन्नकादित्वमप्राप्य बुद्धत्वमाप्यते । अवश्यं हि पूर्वं भगवता कस्मिंश्चित् फले व्यवस्थातव्यम् । तत्र च फले व्यवस्थितः सङ्घान्तःपात्येव भगवान् भवति । सङ्घे चासति नियतं नास्ति भगवान् बुद्धः । अथ भगवानपि अशैक्षान्तर्भावात् सङ्घान्तर्गत एव । तथा च बुद्धप्रमुखो भिक्षुसङ्घः इत्यभिधानात् सङ्घान्तर्गत एव भगवान् इति केचिद्वर्णयन्ति । तेषां मतेन स्पष्टमेवैतत्-
धर्मे चासति सङ्घे च कथं बुद्धो भविष्यति । इति ।
मध्योद्देशिकाश्च महावस्तूपदिष्टभूमिव्यवस्थया प्रथमभूमिस्थितं बोधिसत्त्वमुत्पन्नदर्शनमार्गं व्याचक्षाणाः सङ्घान्तःपातिनं व्याचक्षते । तदा सङ्घे चासति बोधिसत्त्वो ऽपि नास्तीति कथं बुद्धो भविष्यतीति स्पष्टमेवैतत् । तद्-
एवं त्रीण्यपि रत्नानि ब्रुवाणः प्रतिबाधसे ॥
५ ॥
शून्यतामित्येवं वदन् बुद्धधर्मसङ्घाख्यानि त्रीण्यपि दुर्लभत्वात् कदाचिदेव उत्पत्तितः अल्पपुण्यानां च तदप्राप्तेः महार्घमूल्यत्वाद् रत्नानि प्रतिबाधसे ॥
५ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
शून्यतां फलसद्भावमधर्मं धर्ममेव च ।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥
६ ॥
मूलम्
शून्यतां फलसद्भावमधर्मं धर्ममेव च ।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥
६ ॥
शून्यतां ब्रुवाण इत्यनेन सम्बन्धः । यदि सर्वमिदं शून्यम्, यदा सर्वमेव नास्ति, तदा सर्वान्तः पातित्वात् धर्माधर्मौ सह तद्धेतुकेन इष्टानिष्टफलेन न सम्भवतः । सर्व एव चामी लौकिका व्यवहाराः- कुरु, पच, खाद, तिष्ठ, गच्छ, आगच्छ इत्येवमादयो ऽपि सर्वान्तर्गतत्वात् सर्वधर्माणां च शून्यत्वान्नैव युज्यन्ते इति । अतो नायं यथोपवर्णितो न्यायो ज्यायानिति ॥
६ ॥
विश्वास-प्रस्तुतिः
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥
७ ॥
मूलम्
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥
७ ॥
(प्प्_२१४)
स भवान् स्वविकल्पनयैव नास्तित्वं शून्यतार्थ इत्येवं विपरीतमध्यारोप्य “यदि सर्वमिदं शून्यमुदयो नास्ति न व्ययः” इत्यादिनोपालम्भं ब्रुवाणो ऽस्मासु महान्तं खेदमापन्नो ऽतीव विहन्यते विविधैर्भूतैः परिकल्पैर्हन्यते इत्यर्थः । न त्वयमस्माभिरत्र शास्त्रे शून्यतार्थं उपवर्णितो यस्त्वया परिगृहीतः, शून्यतार्थं चाजानानः शून्यतामपि न जानासि । न चापि शून्यताया यत्प्रयोजनं तद्विजानासि । ततश्च यथावस्थितवस्तुस्वरूपापरिज्ञानेन एतत् त्वया बहुचायुक्तमस्मद्वयाख्यानासम्बद्धमेवोपवर्णितम् ॥
अथ किं पुनः शून्यतायां प्रयोजनम्? उक्तमेव तदात्मपरीक्षायाम्-
कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः ।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥
इति ॥
अतो निरवशेषप्रपञ्चोपशमार्थं शून्यतोपदिश्यते, तस्मात्सर्वप्रपञ्चोपशमः शून्यतायां प्रयोजनम् । भवांस्तु नास्तित्वं शून्यतार्थं परिकल्पयन् प्रपञ्चजालमेव संवर्धयमानो न शून्यतायां प्रयोजनं वेत्ति ॥
अथ का पुनः शून्यता? सापि तत्रैवोक्ता ।
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ॥
निर्विकल्पमनानार्थमेतत्तत्वस्य लक्षणम् ॥
इति ।
अतः प्रपञ्चनिवृत्तिस्वभावायां शून्यतायां कुतो नास्तित्वमिति शून्यतामपिन जानाति भवान् । यं चार्थमुपादाय शून्यताशब्दः प्रवर्तते, तमपीहैव प्रतिपादयिष्यामः-
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
इति ॥
यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति ।
यः प्रत्ययाधीनु स शून्यु उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥
इति भगवतो गाथावचनात् । एवं प्रतीत्यसमुत्पादशब्दस्य यो ऽर्थः, स एव शून्यताशब्दस्यार्थः, न पुनरभावशब्दस्य यो ऽर्थः स शून्यताशब्दस्यार्थः । अभावशब्दार्थं च शून्यतार्थमित्यध्यारोप्य भवानस्मानुपालभते । तस्माच्छून्यताशब्दार्थमपि न जानाति । अजानानश्च त्वमेवमुपालम्भं कुर्वन् नियतं विहन्यसे ॥
७ ॥
कश्चास्माकं यथोक्तमुपालम्भं करोति? यो भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयविभागं न जानाति, केवलं ग्रन्थमात्राध्ययनपर एवेति । अत आचार्यः करुणया परस्य मिथ्याप्रवचनार्थावबोधनिरासार्थं भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयव्यवस्थामेव तावदधिकृत्याह-
(प्प्_२१५)
विश्वास-प्रस्तुतिः
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥
८ ॥
मूलम्
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥
८ ॥
इह हि भगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशना प्रवर्तते । कतमत्सत्यद्वयम्? लोकसंवृतिसत्यं च परमार्थसत्यं च । तत्र
स्कन्धात्मा लोक आख्यातस्तत्र लोको हि निश्रितः ।
इति वचनात्पञ्च स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलो लोक इत्युच्यते । समन्ताद्वरणं संवृतिः । अज्ञानं हि समन्तात्सर्वपदार्थतत्त्वावच्छादनात्संवृतिरित्युच्यते । परस्परसम्भवनं वा संवृतिरन्योन्यसमाश्रयेणेत्यर्थः । अथवा संवृतिः सङ्केतो लोकव्यवहार इत्यर्थः । स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः । लोके संवृतिर्लोकसंवृतिः । किं पुनरलोकसंवृतिरप्यस्ति यत एवं विशिष्यते लोकसंवृतिरिति? यथावस्थितपदार्थानुवाद एषः, नात्रैषा चिन्तावतरति । अथवा । तिमिरकामलाद्युपहतेन्द्रियविपरीतदर्शनावस्थानास्ते ऽलोकाः, तेषां या संवृतिरसावलोकसंवृतिः । अतो विशिष्यते लोकसंवृतिरिति । एतच्च मध्यमकावतारे विस्तरेणोक्तं ततो वेदितव्यम् । लोकसंवृत्या सत्यं लोकसंवृतिसत्यम् । सर्व एवायमभिधानाभिधेयज्ञानज्ञेयादिव्यवहारो ऽशेषो लोकसंवृतिसत्यमित्युच्यते । न हि परमार्थत एते व्यवहाराः सम्भवन्ति । तत्र हि-
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे ।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥
इति कृत्वा कुतस्तत्र परमार्थे वाचां प्रवृत्तिः कुतो वा ज्ञानस्य? स हि परमार्थो ऽपरप्रत्ययः शान्तः प्रत्यात्मवेद्य आर्याणां सर्वप्रपञ्चातीतः । स नोपदिश्यते न चापि ज्ञायते । उक्तं हि पूर्वम्-
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥
इति ।
परमश्चासावर्थश्चेति परमार्थः । तदेव सत्यं परमार्थसत्यम् । अनयोश्च सत्ययोर्विभागो विस्तरेण मध्यमकावतारादवसेयः । तदेतत्सत्यद्वयमाश्रित्य बुद्धानां भगवतां धर्मदेशना प्रवर्तते । एवं व्यवस्थिते देशनाक्रमे-
विश्वास-प्रस्तुतिः
ये ऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः ।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने ॥
९ ॥
मूलम्
ये ऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः ।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने ॥
९ ॥
अत्राह- यदि तर्हि परमार्थो निष्प्रपञ्चस्वभावः स एवास्तु, तत्किमनया अपरया स्कन्धधात्वायतनार्यसत्यप्रतीत्यसमुत्पादादिदेशनया प्रयोजनमपरमार्थया? अतत्वं हि परित्याज्यम् । यच्च परित्याज्यं किं तेनोपदिष्टेन? उच्यते । सत्यमेतदेवम् । किं तु लौकिकं व्यवहारमनभ्युपगम्य अभिधानाभिधेयज्ञानज्ञेयादिलक्षणम्, अशक्य एव परमार्थो देशयितुम्, अदेशितश्च न शक्यो ऽधिगन्तुम्, अनधिगम्य च परमार्थं न शक्यं निर्वाणमधिगन्तुमिति प्रतिपादयन्नाह-
(प्प्_२१६)
विश्वास-प्रस्तुतिः
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥
१० ॥
मूलम्
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥
१० ॥
तस्मान्निर्वाणाधिगमोपायत्वादवश्यमेव यथावस्थिता संवृतिरादावेवाभ्युपेया भाजनमिव सलिलार्थिनेति ॥
१० ॥
तदेवं यः संवृतिपरमार्थलक्षणसत्यद्वयस्य व्यवस्थामपाकृत्य शून्यतां वर्णयति, तं तथाविधं पुद्गलम्-
विश्वास-प्रस्तुतिः
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् ।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥
१९ ॥
मूलम्
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् ।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥
१९ ॥
संवृतिसत्यं हि अज्ञानमात्रसमुत्थापितं निःस्वभावं बुद्धा तस्य परमार्थलक्षणां शून्यतां प्रतिपद्यमानो योगी नान्तद्वये पतति । किं तदासीद्यदिदानीं नास्तीत्येवं पूर्वं भावस्वभावानुपलम्भात् पश्चादपि नास्तितां न प्रतिपद्यते । प्रतिबिम्बाकारायाश्च लोकसंवृतेरबाधनात् कर्मकर्मफलधर्माधर्मादिकमपि न बाधते । न चापि परमार्थं भावस्वभावत्वेन समारोपयति । निःस्वभावानामेव पदार्थानां कर्मफलादिदर्शनात् सस्वभावनां चादर्शनात् ॥
यस्तु एवं सत्यद्वयविभागमपश्यन् शून्यतां संस्काराणां पश्यति, स शून्यतां पश्यन् मुमुक्षुर्नास्तितां वा संस्काराणां परिकल्पयेद्, यदि वा शून्यतां काञ्चिद्भावतः सतीम्, तस्याश्चाश्रयार्थं भावस्वभावमपि परिकल्पयेत् । उभयथा चास्य दुर्दृष्टा शून्यता नियतं विनाशयेत् । कथं कृत्वा? यदि तावत्सर्वमिदं शून्यं सर्वं नास्तीति परिकल्पयेत्, तदास्य मिथ्यादृष्टिरापद्यते । यथोक्तम्-
विनाशयति दुर्दृष्टो धर्मो ऽयमविपश्चितम् ।
नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति ॥
अथ सर्वापवादं कर्तुं नेच्छति, तदा नियतमस्य शून्यतायाः प्रतिक्षेप आपद्यते- कथं हि नाम अमी भावाः सकलसुरासुरनरलोकैरुपलभ्यमाना अपि शून्या भविष्यन्ति? तस्मान्न निःस्वभावार्थः शून्यतार्थः, इत्येवं प्रतिक्षिप्य सद्धर्मव्यसनसंवर्तनीयेन पापकेन कर्मणा नियतमपायान्वयात् । यथोक्तमार्यरत्नावल्याम्-
अपरो ऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः ।
प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः ॥
इति ।
एवं तावदभावेन गृह्यमाणा शून्यता ग्रहीतारं विनाशयति । अथायं भावेन शून्यतां परिकल्पयेत्, तदाश्रयाणां च संस्काराणामस्तित्वम्, एवमपि निर्वाणगामिनि मार्गे विप्रतिपन्नत्वाच्छून्यतोपदेशविह्वलो जायेत । तदेवं भावरूपेणापि शून्यता गृह्यमाणा ग्रहीतारं विनाशयति ॥
ननु च यदुपकारकं तदन्यथा [क्रियमाणमकालोप्तमिव बीजं न फलाय कल्पते, कालोप्तं च महते फललाभाय जायते, एवमेव मणिमन्त्रौषधादिभि] र्गृह्यमाणः [सर्पः] महान्तं धनस्कन्धमावहति शिरोमणिग्रहणात्, तेन च व्यालग्राहकाणां जीविकाकल्पनात् । यथोद्देशतिरस्कारेण (प्प्_२१७) तु गृह्यमाणो ग्रहीतारमेव विनाशयति । यथा च यथोपदेशं प्रसाधिता विद्या साधकमनुगृह्णाति, उपदेशपरिभ्रष्टा तु साध्यमाना साधकमेव विनाशयति, एवमिहापि यथोपदेशं शून्यता महती विद्या साध्यमाना गृह्यमाणा भावाभावादिग्राहतिरस्कारेण मध्यमया प्रतिपदा ग्रहीतारं परमेण जातिजरामरणादिदुःखहुताशनशमनैकरसेन निरुपधिशेषनिर्वाणजलधरधारावर्षमुखेन योजयति । यथोपदेशविशेषविगमेन तु गृह्यमाणा नियतं यथोदितेन न्यायेन ग्रहीतारमेव विनाशयति ॥
यतश्चैवं शून्यता दुर्गृहीता ग्रहीतारं विनाशयति, मन्दप्रज्ञैश्च अशक्या सम्यग्ग्रहीतुम्-
विश्वास-प्रस्तुतिः
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः ।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् ॥
१२ ॥
मूलम्
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः ।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् ॥
१२ ॥
यस्मादयं शून्यतालक्षणो धर्मो मन्दमेधसमल्पप्रज्ञं सत्त्वं विपर्यासग्रहणाद्विनाशयति, अत एव अस्य धर्मस्य मन्दैर्दुरवगाहतां मत्वा अनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य सर्वसत्त्वधातुं चावलोक्य धर्मस्य चातिगाम्भीर्यम्, सद्धर्मं देशयितुं चित्तं प्रतिनिवृत्तं मुनेर्बुद्धस्य भगवतो महोपायज्ञानविशेषशालिनः । यथोक्तं सूत्रे-
अथ भगवतो ऽचिराभिसम्बुद्धस्यैतदभवत्- अधिगतो मया धर्मो गम्भीरो गम्भीरावभासो ऽतर्को ऽतर्कावचरः सूक्ष्मः पण्डितविज्ञवेदनीयः । सचेत्तमहं परेषामारोचयेयम्, परे च मे न विभावयेयुः, स मम विघातः स्यात्, क्लमथः स्यात्, चेतसो ऽनुदयः स्यात् । यन्न्वहमेकाक्यरण्ये प्रविविक्ते दृष्टधर्मसुखविहारमनुप्राप्तो विहरेयम् । इति विस्तरः ॥
१२ ॥
तदेवं सत्यद्वयाविपरीतव्यवस्थामविज्ञाय-
विश्वास-प्रस्तुतिः
शून्यतायामधिलयं यं पुनः कुरुते भवान् ।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥
१३ ॥
मूलम्
शून्यतायामधिलयं यं पुनः कुरुते भवान् ।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥
१३ ॥
यो ऽयं भवता महान् दोषप्रसङ्गो ऽस्मासु प्रक्षिप्तः-
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
इत्यादिना, स यस्मात् सत्यद्वयव्यवस्थानभिज्ञेन सता शून्यतां शून्यतार्थं शून्यताप्रयोजनं च यथावदबुद्धा उपक्षिप्तः, सो ऽस्माकं शून्ये शून्यतावादे नोपपद्यते । यतश्च नोपपद्यते, अतो यं भवान् दोषप्रसङ्गं शून्यतायामुद्भावयन् शून्यतायामधिलयमधिक्षेपं निराकरणं प्रतिक्षेपं करोति, सो ऽधिलयो ऽस्माकं नोपपद्यते । अभावार्थं हि शून्यतार्थमध्यारोप्य प्रसङ्ग उद्भावितो भवता । न च वयमभावार्थं शून्यतार्थं व्याचक्ष्महे, किं तर्हि प्रतीत्यसमुत्पादार्थम् । इत्यतो न युक्तमेतत् शून्यतादर्शनदूषणम् ॥
१३ ॥
न च केवलं यथोक्तदोषप्रसङ्गो ऽस्मत्पक्षे नावतरति, अपि खलु सर्वमेव सत्यादि व्यवस्थानं सुतरामुपपद्यते इति प्रतिपादयन्नाह-
(प्प्_२१८)
विश्वास-प्रस्तुतिः
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वम्न युज्यते तस्य शून्यं यस्य न युज्यते ॥
१४ ॥
मूलम्
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वम्न युज्यते तस्य शून्यं यस्य न युज्यते ॥
१४ ॥
यस्य हि सर्वभावस्वभावशून्यतेयं युज्यते, तस्य सर्वमेतद् यथोपवर्णितं युज्यते । कथं कृत्वा? यस्मात् प्रतीत्यसमुत्पादं हि वयं शून्यतेति व्याचक्ष्महे-
यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥
इति गाथावचनात् । “शून्याः सर्वधर्मा निःस्वभावयोगेन” इति प्रज्ञापारमिताभिधानात् ॥
तस्माद्यस्येयं शून्यता युज्यते रोचते क्षमते, तस्य प्रतीत्यसमुत्पादो युज्यते । यस्य प्रतीत्यसमुत्पादो युज्यते, तस्य चत्वार्यार्यसत्यानि युज्यन्ते । कथं कृत्वा? यस्मात् प्रतीत्यसमुत्पन्नं हि दुःखं भवति नाप्रतीत्यसमुत्पन्नम् । तच्च निःस्वभावत्वाच्छून्यम् । सति च दुःखे दुःख समुदयो दुःखनिरोधो दुःखनिरोधगामिनी च प्रतिपद् युज्यते । ततश्च दुःखपरिज्ञानं समुदयप्रहाणं निरोधसाक्षात्करणं मार्गभावना च युज्यते । सति च दुःखादिसत्यपरिज्ञानादिके फलानि युज्यन्ते । सत्सु च फलेषु फलस्था युज्यन्ते । सत्सु च फलस्थेषु प्रतिपन्नका युज्यन्ते । सत्सु च प्रतिपन्नकफलस्थेषु सङ्घो युज्यते । आर्यसत्यानां च सद्भावे सति सद्धर्मो ऽपि युज्यते । सति च सद्धर्मे सङ्घे च बुद्धो ऽपि युज्यते । ततश्च त्रीण्यपि रत्नानि युज्यन्ते । लौकिकलोकोत्तराश्च पदार्थाः सर्वे विशेषाधिगमा युज्यन्ते । धर्माधर्मं तत्फलं सुगतिदुर्गतिः लौकिकाश्च सर्वसंव्यवहारा युज्यन्ते । तदेवम्-
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
यस्य सर्वभावस्वभावशून्यता युज्यते, तस्य सर्वमेतद् यथोदितं युज्यते, सम्पद्यते इत्यर्थः । यस्य तु शून्यता यथोदिता न युज्यते, तस्य प्रतीत्यसमुत्पादाभावात् सर्वं न युज्यते । यथा च न युज्यते, तथा विस्तरेण प्रतिपादयिष्यति ॥
१४ ॥
तदेवमास्माकीने सुपरिशुद्धतरे सर्वव्यवस्थासु अविरुद्धे व्यवस्थिते, अतिस्थूले अत्यासन्ने तद्विरुद्धे च स्वकीये पक्षे दोषवति अतिमोघो यथावदवस्थितौ गुणदोषावपश्यन्-
विश्वास-प्रस्तुतिः
स त्वं दोषानात्मनीनानस्मासु परिपातयन् ।
अश्वमेवाभिरुढः सन्नश्वमेवासि विस्मृतः ॥
१५ ॥
मूलम्
स त्वं दोषानात्मनीनानस्मासु परिपातयन् ।
अश्वमेवाभिरुढः सन्नश्वमेवासि विस्मृतः ॥
१५ ॥
(प्प्_२१९)
यथा हि कश्चिद् यमेवाश्वमारूढः, तमेव विस्मृतः सन्, तदपहारदोषेण परानुपालभते, एवमेव भवान् प्रतीत्यसमुत्पादलक्षणशून्यतादर्शनाश्वमारूढ एव अत्यन्तविक्षेपात्तमनुपलम्भमानो ऽस्मान् परिवदति ॥
१५ ॥
के पुनस्ते परस्य दोषाः, याननुपलभमानः शून्यतावादिनमेव उपालभते इति, तान् प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥
१६ ॥
मूलम्
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥
१६ ॥
यदि त्वं स्वभावेन विद्यमानान् भावान् पश्यसि, तदा स्वभावस्य हेतुप्रत्ययनिरपेक्षत्वात् अहेतुप्रत्ययान् अविद्यमानहेतुप्रत्ययान् पदार्थान् बाह्याध्यात्मिकभेदभिन्नान् निर्हेतुकान् त्वमेवं सति पश्यसि ॥
१६ ॥
सति च अहेतुकत्वाभ्युपगमे-
विश्वास-प्रस्तुतिः
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥
१७ ॥
मूलम्
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥
१७ ॥
कथं कृत्वा? यदीह घटः स्वभावतो ऽस्तीति परिकल्पयसि, तदा अस्य स्वभावतो विद्यमानस्य किं मृदादिभिर्हेतुप्रत्ययैः प्रयोजनमिति तेषामभावः स्यात् । निर्हेतुकं च कार्यं घटाख्यं नोपपद्यते । असति चास्मिंश्चक्रादिकस्य करणस्य, कर्तुः कुम्भकारस्य घटकरणक्रियायाश्चाभावा दुत्पादनिरोधयोरभावः । असतोश्चोत्पादनिरोधयोः कुतः फलम्? इति सस्वभावाभ्युपगमे सति सर्वमेतत् कार्यादिकं प्रतिबाधसे । तदेवं भवतः सस्वभावाभ्युपगमे सति सर्वमेव न युज्यते ॥
१७ ॥
अस्माकं तु भावस्वभावशून्यतावादिनां सर्वमेतदुपपद्यते । किं कारणम्? यस्माद्वयम्-
विश्वास-प्रस्तुतिः
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
१८ ॥
मूलम्
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
१८ ॥
यो ऽयं प्रतीत्यसमुत्पादो हेतुप्रत्ययानपेक्ष्य अङ्कुरविज्ञानादीनां प्रादुर्भावः, स स्वभावे नानुत्पादः । यश्च स्वभावेनानुत्पादो भावानां सा शून्यता । यथा भगवतोक्तम्-
यः प्रत्यत्यैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥
इति ।
तथा आर्यलङ्कावतारे- “स्वभावानुत्पत्तिं सन्धाय महामते सर्वधर्माः शून्या इति मया देशिताः” ॥
इति विस्तरेणोक्तम् ॥
द्वयर्धशतिकायाम्- “शून्याः सर्वधर्मा निःस्वभावयोगेन” ॥
इति ॥
या चेयं स्वभावशून्यता सा प्रज्ञप्तिरुपादाय, सैव शून्यता उपादाय प्रज्ञप्तिरिति व्यवस्थाप्यते । चक्रादीन्युपादाय रथाङ्गानि रथः प्रज्ञप्यते । तस्य या स्वाङ्गान्युपादाय प्रज्ञप्तिः, सा (प्प्_२२०) स्वभावेनानुत्पत्तिः, या च स्वभावेनानुत्पत्तिः, सा शून्यता । सैव स्वभावानुत्पत्तिलक्षणा शून्यता मध्यमा प्रतिपदिति व्यवस्थाप्यते । यस्य हि स्वभावेनानुत्पत्तिः, तस्य अस्तित्वाभावः, स्वभावेन चानुत्पन्नस्य विगमाभावान्नास्तित्वाभाव इति । अतो भावाभावान्तद्वयरहितत्वात् सर्वस्वभावानुत्पत्तिलक्षणा शून्यता मध्यमा प्रतिपत्, मध्यमो मार्ग इत्युच्यते । तदेवं प्रतीत्यसमुत्पादस्यैवैता विशेष सञ्ज्ञाः- शून्यता, उपादाय प्रज्ञप्तिः, मध्यमा प्रतिपद् इति ॥
१८ ॥
विचार्यमाणश्च सर्वथा-
विश्वास-प्रस्तुतिः
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते ॥
१९ ॥
मूलम्
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते ॥
१९ ॥
यो हि अप्रतीत्यसमुत्पन्नो धर्मः, स न संविद्यते । यथोक्तं शतके-
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् ।
न कदाचित्क्वचित्कश्चिद्विद्यते तेन शाश्वतः ॥
आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनैः ।
लौकिकेनापि तेष्वर्थान्न पश्यन्ति विचक्षणाः ॥
इति ।
उक्तं च भगवता-
प्रतीत्य धर्मानधिगच्छते विदू न चान्तदृष्टीय करोति निश्रयम् ।
सहेतु सप्रत्यय धर्म जानति अहेतु अप्रत्यय नास्ति धर्मता ॥
एवम्-
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
अप्रतीसमुत्पन्नश्च शून्यः । तस्मादशून्यो धर्मो नास्ति । यत एतदेवम्, अतो ऽस्माकं सर्वधर्माश्चशून्याः, न च परोक्तदोषप्रसङ्गः ॥
१९ ॥
भवतस्तु सस्वभाववादिनः-
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
तदा नियतमुदयव्यययोरभावे सति-
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥
२० ॥
किं कारणम्? यस्मात्-
विश्वास-प्रस्तुतिः
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते ॥
२१ ॥
मूलम्
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते ॥
२१ ॥
यद्धि सस्वभावम्, न तत्प्रतीत्योत्पद्यते । यच्च अप्रतीत्य समुत्पन्नम्, न तदनित्यं भवति । न हि गगनकुसुममविद्यमानमनित्यम् । अनित्यं च दुःखमुक्तं भवगता- यदनित्यं तद्दुःखमिति । तथा च शतकशास्त्रे-
(प्प्_२२१)
अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् ।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते ॥
इति ।
यच्च अनित्यं स्वाभाव्ये सस्वभावत्वे ऽभ्युपगम्यमाने भावानाम्, तन्न विद्यत इति ॥
२१ ॥
एवं तावत् सस्वभावत्वे सति भावानां दुःखं न युज्यते । न च केवलं दुःखमेव न युज्यते, सति सस्वभावाभ्युपगमे समुदयो ऽपि न युज्यते इति प्रतिपादयन्नाह-
स्वभावतो विद्यमानं किं पुनः समुदेष्यते ।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः ॥
२२।
इह समुदेत्यस्माद्दुःखमिति दुःखस्य हेतु [तः] समुदय इत्युच्यते । तदस्य दुःखस्य शून्यतां प्रतिबाधमानस्य सस्वभावं दुःखमभ्युपगच्छतः तस्य पुनरुत्पादवैयर्थ्यात् तद्धेतुकल्पनावैयर्थ्यमेव, इत्येवं शून्यतां प्रतिबाधमानस्य समुदयो ऽपि भवतो न युज्यते ॥
२२ ॥
स्वाभाविकमेव दुःखमभ्युपगच्छतो दुःखनिरोधो ऽपि न युज्यते इति प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥
२३ ॥
मूलम्
न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥
२३ ॥
यदि हि स्वभावतो दुःखं स्यात्, तदा स्वभावस्यानपायित्वात् कुतो ऽस्य निरोधत्वमिति? एवं स्वभावपर्यवस्थानात् स्वभावं गृहीत्वा प्रत्यवतिष्ठमानो दुःखनिरोधमपि प्रतिबाधसे ॥
२३ ॥
इदानीमार्यमार्गो ऽपि सस्वभाववादिनो यथा नोपपद्यते तथा प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥
२४ ॥
मूलम्
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥
२४ ॥
यदि हि सस्वभावा भावा भवेयुः, तदा मार्गो ऽपि सस्वभाव एवेति कृत्वा अभावित एवासावस्ति । तस्य किं पुनर्भावनयेति? एवम्-
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथ अस्य मार्गस्य भावना अभ्युपगम्यते भवता, एवं तर्हि स्वभावता आर्यमार्गस्य न स्यात्, कार्यत्वादित्यभिप्रायः ॥
२४ ॥
अपि च- दुःखस्य निरोधप्राप्त्यर्थं समुदयस्य च प्रहाणार्थं भावना मार्गस्येष्यते । पूर्वोक्तेन तु न्यायेन सस्वभाववादिनो भवतः-
विश्वास-प्रस्तुतिः
यदा दुःखं समुदयो निरोधश्च न विद्यते ।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति ॥
२५ ॥
मूलम्
यदा दुःखं समुदयो निरोधश्च न विद्यते ।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति ॥
२५ ॥
नास्त्येव असौ दुःखनिरोधः, यन्निरोधान्मार्गो भावितः सन् प्रापयिष्यति । तस्मादार्यमार्गो ऽप्येवं नोपपद्यत इति । एवं सस्वभाववादिनः चतुर्णामार्यसत्यानामभावः प्राप्नोति ॥
२५ ॥
इदानीं दुःखादिपरिज्ञानादिकमपि यथा परस्य न सम्भवति, तथा प्रतिपादयन्नाह-
(प्प्_२२२)
विश्वास-प्रस्तुतिः
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः ॥
२६ ॥
मूलम्
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः ॥
२६ ॥
यदि पूर्वं दुःखमपरिज्ञातस्वभावं तत् पश्चात् परिज्ञायत इति कल्प्यते, तदयुक्तम् । किं कारणम्? यस्मान्ननु किल स्वभावः समवस्थितः । यो हि स्वभावः, स किल लोके समवस्थितः, नैवान्यथात्वमापद्यते, वह्नेरौष्ण्यवत् । यदा च स्वभावस्यान्यथात्वं नास्ति, तदा पूर्वमपरिज्ञातस्वभावस्य दुःखस्य पश्चादपि परिज्ञानं नोपपद्यत इति । अतो दुःखपरिज्ञानमपि न सम्भवति ॥
२६ ॥
यदा चैतद्दुःखपरिज्ञानमपि न सम्भवति, तदा-
विश्वास-प्रस्तुतिः
प्रहाणसाक्षात्करणे भावना चैवमेव ते ।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ॥
२७ ॥
मूलम्
प्रहाणसाक्षात्करणे भावना चैवमेव ते ।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ॥
२७ ॥
यदेतत् समुदयस्य प्रहाणं निरोधस्य च साक्षात्करणम्, ते एते द्वे प्रहाणसाक्षात्करणे या च मार्गस्य भावना, एषापि । एवमेव ते दुःखपरिज्ञानासम्भवान्न युज्यन्ते । समुदयस्य स्वभावेनाप्रहीणस्य स्वभावस्यानपायित्वात् पश्चादपि प्रहाणं नोपपद्यते । एवं भावनासाक्षात्करणे ऽपि योज्यम् । न च केवलं परिज्ञानादिकमेव न सम्भवति सस्वभाववादे, अपि च-
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ।
यथा स्वभावेनापरिज्ञातस्य दुःखस्य परिज्ञानं न युक्तम्, एवं स्वभावेनाविद्यमानस्य पूर्वं स्रोतआपत्तिफलस्य पश्चादस्तित्वं न सम्भवति । यथा स्रोतआपत्तिफलस्य, एवं सकृदागाम्यनागाम्यर्हत्फलानामभावो वेदितव्यः ॥
२७ ॥
न च केवलमेतानि फलानि परिज्ञावन्न युज्यन्ते, किं तर्हि अधिगमो ऽप्येषां न युज्यत इति प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् ।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः ॥
२८ ॥
मूलम्
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् ।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः ॥
२८ ॥
स्वभावस्याविजहनप्रकृतिकत्वाद्भावस्वभाववादमभ्युपगच्छतः पूर्वमनधिगतस्वभावानां पश्चादप्यधिगमो नोपपद्यते ॥
२८ ॥
ततश्च-
विश्वास-प्रस्तुतिः
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
सङ्घो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः ॥
२९ ॥
मूलम्
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
सङ्घो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः ॥
२९ ॥
विश्वास-प्रस्तुतिः
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ।
धर्मे चासति सङ्घे च कथं बुद्धो भविष्यति ॥
३० ॥
मूलम्
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ।
धर्मे चासति सङ्घे च कथं बुद्धो भविष्यति ॥
३० ॥
अनयोश्च श्लोकयोः पूर्ववदेवार्थो वेदितव्यः ॥
२९-३० ॥
अपि च- सस्वभावाभ्युपगमे सति-
(प्प्_२२३)
विश्वास-प्रस्तुतिः
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥
३१ ॥
मूलम्
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥
३१ ॥
यदि हि स्वभावतो बुद्धो नाम कश्चिद् भावः स्यात्, स बोधिं सर्वज्ञज्ञानमप्रतीत्यापि अनपेक्ष्यापि स्यात् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इति वचनात् । तथा विनापि बुद्धेन बोधिः स्यात्, अनपेक्ष्यापि बुद्धं निराश्रया बोधिः स्यात् ॥
३१ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि ।
न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति ॥
३२ ॥
मूलम्
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि ।
न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति ॥
३२ ॥
इह हि बुद्धत्वात्पूर्वमबुद्धस्वभावस्य सतः पुद्गलस्य सत्यामपि बोधिसत्त्वचर्यायां बोध्यर्थं घटमानस्यापि नैव बोधिः स्यात्, अबुद्धस्वभावस्य व्यावर्तयितुमशक्यत्वात् ॥
३२ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति ।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥
३३ ॥
मूलम्
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति ।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥
३३ ॥
सति हि स्वभाववादाभ्युपगमे धर्माधर्मयोः करणं नोपपद्यते । किं हि अशून्यस्य कर्तव्यम्? न हि स्वभावस्याशून्यस्य कारणमुपपद्यते विद्यमानत्वात् ॥
३३ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
विना धर्ममधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥
३४ ॥
मूलम्
विना धर्ममधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥
३४ ॥
यदेतद्धर्माधर्मनिमित्तकमिष्टानिष्टफलम्, यदि तत् स्वभावतो ऽस्ति, तद् विनापि धर्माधर्माभ्यां स्यात् । यदा च विना धर्माधर्मं फलं तवास्ति, तदा धर्माधर्मजं फलं तव न सम्भवति । धर्माधर्मोपार्जनवैयर्थ्यं स्यात्,
धर्माधर्मनिमित्तं च फलं तव न विद्यते । इति ।
अथ धर्माधर्मनिमित्तकं फलं भवतीति परिकल्प्यते, न तर्हि तत्फलमशून्यमिति प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥
३५ ॥
मूलम्
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥
३५ ॥
शून्यमेवैतत्, प्रतीत्यसमुत्पन्नत्वात्, प्रतिबिम्बवत्, इत्यभिप्रायः ॥
३५ ॥
अपि च । सर्व एव ह्येते ऽगच्छ, कुरु, पच, पठ, तिष्ठऽ; इत्येवमादयो लौकिका व्यवहाराः प्रतीत्यसमुत्पन्नाः । तान् यदि सस्वभावानिच्छति भवान्, तदा भवता प्रतीत्यसमुत्पादो बाधितो भवति । तद्बाधनाच्च सर्व एव लौकिका व्यवहारा बाधिता भवन्तीति प्रतिपादयन्नाह-
(प्प्_२२४)
विश्वास-प्रस्तुतिः
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥
३६ ॥
मूलम्
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥
३६ ॥
यच्छब्दः क्रियाविशेषणम् । यद्बाधसे इत्यनेन सम्बध्यते ॥
३६ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
न कर्तव्यं भवेत्किञ्चिदनारब्धा भवेत्क्रिया ।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः ॥
३७ ॥
मूलम्
न कर्तव्यं भवेत्किञ्चिदनारब्धा भवेत्क्रिया ।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः ॥
३७ ॥
यदि हि स्वरूपशून्याः पदार्था न भवेयुः, सस्वभावा एव भवेयुः, तदा स्वभावस्य विद्यमानत्वान्न केनचित् कस्यचित् किञ्चित् कर्तव्यं स्यात् । न हि नभसो ऽनावरणत्वं केनचित् क्रियते । अक्रियमाणा च क्रिया स्यात् । क्रियां चाकुर्वाणस्य कारकत्वं स्यात् । न चैतदेवमिति । तस्मान्नाशून्याः पदार्थाः ॥
३७ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
अजातमनिरुद्धं च कूटस्थं च भविष्यति ।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् ॥
३८ ॥
मूलम्
अजातमनिरुद्धं च कूटस्थं च भविष्यति ।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् ॥
३८ ॥
[विचित्राभिरवस्थामिः स्वभावरचितं स्वभावेनैव रचितमप्रतीत्यसमुत्पन्नं जगत् स्वभावशून्यवादिनाम् । ] स्वभावेनैव यदि भावाः [सस्वभावाः] स्युः, तदा स्वभावस्याकृत्रिमत्वादव्यावर्तनत्वाच्च सर्वमिदं जगदजातमनिरुद्धं च स्यात् । अजातानिरुद्धत्वाज्जगत् कूटस्थं स्यात् । हेतुप्रत्ययानपेक्षं विचित्राभिरवस्थाभी रहितमप्रतीत्यसमुत्पन्नं जगदशून्यवादिनां स्यात् । यथोक्तं पितापुत्रसमागमे-
स्याद्यदि किञ्चिदशून्यं न वदेज्जिनु तस्य व्याकरणम् ।
तथाहि स्थितं तत् स्वके स्वके भावे ।
कूटस्थमविकारं न तस्य वृद्धिर्न परिहाणिः ॥
इति ॥
तथा आर्यहस्तिकक्ष्यसूत्रे-
विश्वास-प्रस्तुतिः
यदि कोचि धर्माण भवेत्स्वभावः तत्रैव गच्छेय जिनः सश्रावकः ।
कूटस्थधर्माण सिया न निर्वृती न निष्प्रपञ्चो भवि जातु पण्डितः ॥
इति ॥
३८ ॥
मूलम्
यदि कोचि धर्माण भवेत्स्वभावः तत्रैव गच्छेय जिनः सश्रावकः ।
कूटस्थधर्माण सिया न निर्वृती न निष्प्रपञ्चो भवि जातु पण्डितः ॥
इति ॥
३८ ॥
न च केवलं सस्वभाववादाभ्युपगमे लौकिका एव व्यवहारा नोपपद्यन्ते, अपि च लोकोत्तरा एव [अपि?] नोपपद्यन्ते इति प्रतिपादयन्नाह-
(प्प्_२२५)
विश्वास-प्रस्तुतिः
असम्प्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च ।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥
३९ ॥
मूलम्
असम्प्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च ।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥
३९ ॥
यदि हि अशून्यं सस्वभावं सर्वमेतत् स्यात्, तदा यदसम्प्राप्तं तदसम्प्राप्तमेव, इति असम्प्राप्तस्य च फलस्य प्राप्तिर्न स्यात् । तदा दुःखपर्यन्तकारणं च पूर्वं नाभूदिति साम्प्रतमपि न स्यात् । सर्वेषां च क्लेशानां पूर्वं प्रहाणं नाभूदिति पश्चादपि प्रहाणं न स्यात् ॥
३९ ॥
तदेवं यस्मात् सस्वभाववादाभ्युपगमे सति सर्वमेतन्न युज्यते, अतः-
विश्वास-प्रस्तुतिः
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥
४० ॥
मूलम्
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥
४० ॥
यो हि सर्वधर्मप्रतीत्यसमुत्पादलक्षणां स्वभावशून्यतां सम्यक् पश्यति, स चत्वारि आर्यसत्यानि पश्यति यथाभूतानि तत्त्वतः ।
यथोक्तमार्यमञ्जुश्रीपरिपृच्छायाम्-
येन मञ्जुश्रीरनुत्पादः सर्वधर्माणां दृष्टः, तेन दुःखं परिज्ञातम् । येन नास्तिता सर्वधर्माणां दृष्टा, तस्य समुदयः प्रहीणः । येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः । येन मञ्जुश्रीरभावः सर्वधर्माणां दृष्टः, तेन मार्गो भावितः ॥
इति विस्तरः ॥
उक्तं च आर्यध्यायितमुष्टिसूत्रे-
अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्- चतुर्णा मञ्जुश्रीरार्यसत्यानां यथाभूतादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ताः सत्त्वा एवभिममभूतं संसारं नातिक्रामन्ति । एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- देशयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति? भगवानाह- आत्मात्मीयोपलम्भतो मञ्जुश्रीः सत्त्वाः संसारं नातिक्रामन्ति । तत् कस्य हेतोः? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति । बालो मञ्जुश्रीरश्रुतवान् पृथग्जनो ऽत्यन्तपरिनिर्वृतान् सर्वधर्मानप्रजानानः आत्मानं परं च उपलभते, उपलभ्य अभिनिविशते, अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते । स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा । सः असत्समारोपेण विकल्पयति- अहं रक्तः, अहं दुष्टः, अहं मूढः इति । तस्य तथागतशासने प्रव्रजितस्य एवं भवति- अहं शीलवान्, अहं ब्रह्मचारी, संसारं समतिक्रामिष्यामि, अहं निर्वाणमनुप्राप्स्यामि, अहं दुःखेभ्यो मोक्ष्यामि । स कल्पयति- इमे धर्माः कुशलाः, इमे धर्मा अकुशला इति, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः । स कल्पयति अनित्याः सर्वसंस्काराः, आदीप्ताः सर्वसंस्काराः । यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम् । तस्यैव मवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमित्तपुरोगतः । तस्यैवं भवति- एषा सा दुःखपरिज्ञा, येयमेषां धर्माणां परिज्ञा । तस्यैवं भवति- यन्न्वहं समुदयं प्रजहेयम् । स सर्वधर्मेभ्य अर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति सन्त्रस्यति सन्त्रासमापद्यते । तस्यैवं भवति- इयमेषां धर्माणां साक्षात्क्रिया, इदं समुदयप्रहाणम्, यदिदमेभ्यो धर्मेभ्यो ऽर्तीयना । तस्यैवं भवति- निरोधः साक्षात्कर्तव्यः । समुदयं कल्पयित्वा निरोधं सञ्जानाति । तस्यैवं (प्प्_२२६) भवति- एषा सा निरोधसाक्षात्क्रिया । तस्यैवं भवति- यन्नूनमहं मार्गं भावयेयम् । स एको रहोगतस्तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते । तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते । तस्य सर्वधर्मेषु चित्तं न प्रलीयते प्रतिवहति प्रत्युदावर्तते । तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तं समुत्पद्यते । तस्यैवं भवति- मुक्तो ऽस्मि सर्वदुःखेभ्यः, न मम भूयः उत्तरिं किञ्चित्करणीयम्, अर्हन्नस्मीत्यात्मानं सञ्जानाति । स मरणकालसमये उत्पत्तिमात्मनो देवेषु पश्यति । तस्य काङ्क्षा विचिकित्सा च भवति बुद्धबोधौ । स विचिकित्सामापतितः कालगतो महानिरयेषु प्रपतति । तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिमुत्पादयति ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- कथं पुनर्भगवन् चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह- येन मञ्जुश्रीरनुत्पन्नाः सर्वधर्मा दृष्टाः, तेन दुःखं परिज्ञातम् । येन असमुत्थिताः सर्वधर्मा दृष्टाः, तस्य समुदयः प्रहीणः । येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः । येन अत्यन्तशून्याः सर्वधर्मा दृष्टाः, तेन मार्गो भावितः । येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति- इमे धर्माः कुशलाः, इमे धर्मा अकुशलाः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः इति । तत् कस्य हेतोः? तथाहि स तं धर्मं न समनुपश्यति नोपलभते यं परिकल्पयेत् । बालपृथग्जनास्त्वेतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विष्यन्ति च मुह्यन्ति च । स न कञ्चिद्धर्ममाव्यूहति निर्व्यूहति । तस्यैवमनाव्यूहतो ऽनिर्व्यूहतस्त्रैधातुके चित्तं न सज्जति । अजातं सर्वत्रैधातुकं समनुपश्यति मायोपमं स्वप्नोपमं प्रतिश्रुत्कोपमम् ॥
एवंस्वभावान् सर्वधर्मान् पश्यन् अनुनयप्रतिधापगतो भवति सर्वसत्त्वेषु । तत् कस्य हेतोः? तथाहि स तान् धर्मान् नोपलभते यत्रानुनीयेत वा प्रतिहन्येत वा । स आकाशसमेन चित्तेन बुद्धमपि न समनुपश्यति, धर्ममपि न समनुपश्यति, सन्धमपि न समनुपश्यति । सर्वधर्मान् शून्यानिति समनुपश्यन् न क्वचिद्धर्मे विचिकित्सामुत्पादयति । अविचिकित्सन् निरुपादानो भवति । निरुपादानो ऽनुपादाय परिनिर्वातीति विस्तरः ॥
४० ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ आर्यसत्यपरीक्षा नाम चतुर्विंशतितमं प्रकरणम् ॥
(प्प्_२२७)