२३ विपर्यासपरीक्षा

२३
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् ।

अत्राह- विद्यत एव भवसन्ततिः, तत्कारणसद्भावात् । इह हि क्लेशेभ्यः कर्म प्रवर्तते । कर्मक्लेशहेतुका जन्ममरणपरम्परा उपजायते । सा च भवसन्ततिर्व्यपदिश्यते । तस्याश्च प्रधानं कारणं क्लेशाः, प्रहीणक्लेशानां भवसन्ततेरभावात् । ते च रागादयः क्लेशाः सन्ति । तस्मात् कार्यभूतापि जन्ममरणपरम्परा अविच्छेदप्रबन्धेन भवसन्ततिरपि भविष्यतीति । उच्यते । स्याद् भवसन्ततिः, यदि तद्धेतुभूताः क्लेशाः स्युः । न तु सन्ति । कथं कृत्वा? इह भगवद्भिर्बुद्धैः सकलत्रिभुवनजनसङ्क्लेशशत्रुविध्वंसिभिश्चतुर्मारारातिसमरपराजयैः-

विश्वास-प्रस्तुतिः

सङ्कल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य हि ॥

१ ॥

मूलम्

सङ्कल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य हि ॥

१ ॥

सङ्कल्पो वितर्कः । सङ्कल्पात् प्रभवतीति सङ्कल्पप्रभवः ।

काम जानामि ते मूलं सङ्कल्पात्किल जायसे ।
न त्वां सङ्कल्पयिष्यामि ततो मे न भविष्यसि ॥

इति गाथाभिधानात्

सङ्कल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।

एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेषामेवोपादानं त्रयाणाम् । एते च त्रयः क्लेशाः-

शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य हि ।

तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेषः, विपर्यासान् प्रतीत्य मोह उत्पद्यते । सङ्कल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ । कथं पुनर्मोहः सङ्कल्पप्रभवः? उच्यते । उक्तं हि प्रतीत्यसमुत्पादे भगवता-

अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवः अविद्याया हेतुः? अयोनिशो भिक्षवो मनस्कारो ऽविद्याया हेतुः । आविलो मोहजो मनस्कारो भिक्षवो ऽविद्याया हेतुः ॥

इत्यतः अविद्या सङ्कल्पप्रभवा भवति ॥

१ ॥

ततश्च-

विश्वास-प्रस्तुतिः

शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः ॥

२ ॥

मूलम्

शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः ॥

२ ॥

इति । यदि रागादयः स्वभावसिद्धाः स्युः, नैव ते शुभाशुभविपर्यासान् प्रतीत्य सम्भवेयुः, स्वभावस्य अकृत्रिमत्वात् परनिरपेक्षत्वाच्च । भवन्ति च शुभाशुभविपर्यासान् प्रतीत्य, तस्मान्निःस्वभावा एव ते । तत्त्वतो न विद्यन्ते, परमार्थतः स्वभावतो न विद्यन्ते इत्यर्थः ॥

२ ॥

(प्प्_१९८)
अपि च-

विश्वास-प्रस्तुतिः

आत्मनो ऽस्तित्वनास्तित्वेन कथञ्चिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥

३ ॥

मूलम्

आत्मनो ऽस्तित्वनास्तित्वेन कथञ्चिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥

३ ॥

आत्मनो यथा अस्तित्वनास्तित्वे न स्तः, तथा उक्तं विस्तरेण । ततश्च- तदाश्रितस्य धर्मस्य कुतो ऽस्तित्वनास्तित्वे भविष्यतः? ॥

३ ॥

अथ स्यात्- यदि अस्तित्वनास्तित्वे आत्मनो न स्तः, तदा किमत्र क्लेशानामायातम्, यतस्तेषामपि अस्तित्वनास्तित्वे न स्तः इति? उच्यते-

विश्वास-प्रस्तुतिः

कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कञ्चित्सन्ति क्लेशा न कस्यचित् ॥

४ ॥

मूलम्

कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कञ्चित्सन्ति क्लेशा न कस्यचित् ॥

४ ॥

इह अमी रागादयः कुडयं चित्रवत् फलं पक्वतादिवच्च उत्पत्तौ आश्रयमपेक्षन्ते । ततश्च कस्यचिदेते भवन्ति, न विना कञ्चिदाश्रयम् । स च आश्रयः परिकल्प्यमानः आत्मा वा चित्तं वा भवेत् । स चैषामाश्रयः पूर्वमेव प्रतिषिद्धत्वान्नास्ति । तं च कञ्चिदाश्रयं विना कस्य क्लेशा भवन्तु? नैव कस्यचिद्भवन्ति, तस्याविद्यमानत्वात्, आहो विना कञ्चित् सन्ति क्लेशा न कस्यचित् ॥

४ ॥

अत्राह- नैव हि क्लेशानां कश्चिदाश्रयः पूर्वं सिद्धो ऽभ्युपगम्यते । न च आत्मा नाम कश्चिदस्ति, यः आश्रयत्वेन व्यवस्थाप्येत, निर्हेतुकत्वाद् व्योमचूततरुवत् । किं तर्हि क्लिष्टं चित्तं प्रतीत्य क्लेशा उपजायन्ते, तच्च चित्तं सहैव क्लेशैरुपजायत इति । एतदपि न युक्तमित्याह-

विश्वास-प्रस्तुतिः

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥

५ ॥

मूलम्

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥

५ ॥

स्वकायो हि नाम रूपादिलक्षणसंहतिः । स्वकायदृष्टिः स्वकाये आत्मदृष्टिः आत्मीयाकारग्रहणप्रवृत्ता । यथेयं पञ्चधा विचार्यमाणा स्वकाये न सम्भवति,

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः ॥

इत्यनेन । एवं क्लिष्टे ऽपि क्लेशा विचार्यमाणाः पञ्चधा न सम्भवन्ति । तत्र क्लिश्यन्तीति क्लेशा क्लिश्यते इति क्लिष्टम् । तत्र यदेव क्लिष्टं तदेव क्लेशा इति न युज्यते दग्धृदाह्ययोरप्येकत्वप्रसङ्गात् । अन्यत् क्लिष्टम्, अन्ये क्लेशा इति न युज्यते । परत्र निरपेक्षत्वात्, अक्लिष्टहेतुक क्लेशप्रसङ्गात् । अत एव च एकत्वान्यत्वाभावादाधाराधेयतद्वत्पक्षाणां च अभावान्न क्लेशेषु क्लिष्टम्, न क्लिष्टे क्लेशाः, नापि क्लेशवत् क्लिष्टम् । इत्येवं क्लिष्टे पञ्चधा विचार्यमाणाः क्लेशा न सम्भवन्ति । यथा च क्लिष्टहेतुकाः क्लेशा न सम्भवन्ति, एवं क्लेशहेतुकमपि क्लिष्टं क्लेशेषु विचार्यमाणं पञ्चधा न सम्भवति । न हि क्लेशा एव क्लिष्टम्, कर्तृकर्मणोरेकत्वप्रसङ्गात्, नान्ये क्लेशा अन्यत् क्लिष्टम्, निरपेक्षत्वप्रसङ्गात्, न च क्लिष्टे क्लेशाः न च क्लेशेषु क्लिष्टम्, न क्लिष्टवन्तः (प्प्_१९९) क्लेशाः । इत्येवं स्वकायदृष्टिवदेव क्लिष्टं क्लेशेष्वपि पञ्चधा नास्ति । यतश्चैवम्, अतः परस्परापेक्षयापि क्लेशाक्लिष्टयोर्नास्ति सिद्धिः ॥

५ ॥

अत्राह- यद्यपि त्वया क्लेशाः प्रतिषिद्धाः, तथापि क्लेशहेतवः शुभाशुभविपर्यासास्तावत् सन्ति, तत्सद्भावाच्च क्लेशाः सन्तीति । उच्यते । स्युः क्लेशाः, यदि शुभाशुभविपर्यासा एव स्युः, यावता एते ऽपि प्रतीत्य ससुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा च ते न सन्ति स्वभावतः, तदा-

स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।

प्रतीत्यसमुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा च ते न सन्ति स्वभावतः, तदा-

प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥

६ ॥

नैव सन्ति क्लेशाः, तद्धेतुशुभाशुभविपर्ययाभावादित्यभिप्रायः ॥

६ ॥

अत्राह- विद्यन्त एव क्लेशाः, तदालम्बनसद्भावात् । इह हि यन्नास्ति, न तस्यालम्बन मस्ति, तद्यथा वन्ध्यासूनोः । अस्ति च रूपशब्दगन्धरसस्प्रष्टव्यधर्माख्यं षड्विधमालम्बनम् । तस्मादालम्बनसद्भावाद्विद्यन्त एव क्लेशा इति । उच्यते । अस्त्येतत्, यद् भवद्भिः-

विश्वास-प्रस्तुतिः

रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥

७ ॥

मूलम्

रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥

७ ॥

तत्र वस्तु आलम्बनम्, वसतीति वा अस्मिन् रागादिकम्, तदुत्पत्तेः इति कृत्वा । तच्च तदालम्बनं षोढा भवति, इन्द्रियाणां षण्णां परिच्छेदकराणामन्योन्यभेदात् । रूपं शब्दा गन्धा रसाः स्प्रष्टव्यानि धर्माश्चेति । तत्र इदमिहामुत्रेति निरूपणात्, रूपणाच्च रूपम् । तेन शब्देन शब्द्यन्ते प्रकाश्यन्ते पदार्था इति शब्दः । गन्ध्यन्ते हिंस्यन्ते यत्र प्राप्ताः ततो ऽन्यत्रागमनाद् गन्धाः । रस्यते आस्वाद्यते इति रसः । स्पृश्यते इति स्पर्शः । स्वलक्षणासाधारणान्निर्वाणाग्रधर्माधारणाद्धर्माः । तदेतत् षड्विधं वस्तु भवति । कस्य? रागस्य द्वेषस्य मोहस्य । तत्र रञ्जनं रागो रक्तिरध्यवसानम् । रज्यते वा अनेन चित्तमिति रागः । दूषणं दोषः, आघातः सत्त्वविषयो ऽसत्त्वविषयो वा दूष्यते वा अनेन चितमिति दोषः । मोहनं मोहः सम्मोहः पदार्थस्वरूपापरिज्ञानम् । मुह्यते वा अनेन चित्तमिति मोहः । तदेषां क्लेशानां रूपादिकं षड्विधं वस्तु आलम्बनं भवति । तत्र शुभाकाराध्यारोपेण यथा रूपादिभ्यो राग उपजायते, अशुभाकाराध्यारोपेण द्वेषः, नित्यात्माद्यध्यारोपेण मोहः सम्भवतीति ॥

७ ॥

सत्यं विकल्प्यते एतद्बालजनैः षड्विधं वस्तु । किं तु अविद्यमानस्वभावसत्ताकमेतद् रागादीनामालम्बनत्वेन परिकल्प्यते भवता तैमिरिकैरिव असत्केशमशकमक्षिकाद्विचन्द्रादिकमिति प्रतिपादयन्नाह-

रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।

(प्प्_२००)
केवला इति परिकल्पितमात्रा निःस्वभावा इत्यर्थः । यदि निःस्वभावाः, कथं तर्हि उपलभ्यन्ते इति? उच्यते-

गन्धर्वनगराकारा मरीचिस्वप्नसन्निभाः ॥

८ ॥

इति एते उपलभ्यन्ते ॥

८ ॥

यथा गन्धर्वनगरादिप्रख्या एते केवलं विपर्यासादुपलभ्यन्ते, तदा-

विश्वास-प्रस्तुतिः

अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥

९ ॥

मूलम्

अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥

९ ॥

तदनेन मिथ्याश्रयसमुत्पन्नत्वाच्छुभाशुभयोरपि निमित्तयोर्मृषात्वमेव भवति । यथोक्तम्-

अहङ्कारोद्भवाः स्कन्धाः सो ऽहङ्कारो ऽनृतो ऽर्थतः ।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥

स्कन्धानसत्यान् दृष्ट्वैवमहङ्कारः प्रहीयते ।
अहङ्कारप्रहाणाच्च न पुनः स्कन्धसम्भवः ॥

इति ॥

९ ॥

न च केवलमाश्रयमिथ्यात्वे शुभाशुभयोर्निमित्तयोर्मिथ्यात्वम्, अपि च अनयाप्युपपत्त्या अनयोर्मिथ्यात्वमिति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥

१० ॥

मूलम्

अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥

१० ॥

इह यदि शुभं नाम किञ्चित् स्यात्, नियतं तदशुभमपेक्ष्य भवेत्, पारावारवत्, बीजाङ्कुरवत्, ह्रस्वदीर्घवद्वा, शुभस्य सम्बन्ध्यन्तरपदार्थसापेक्षत्वात् । तच्चाप्यपेक्षणीयमशुभं शुभेन विना नास्ति । [अनपेक्ष्य शुभं नास्त्यशुभम्] शुभं निरपेक्ष्याशुभं नास्तीत्यभिप्रायः । यदशुभं प्रतीत्य यदशुभमपेक्ष्य शुभं प्रज्ञपयेमहि व्यवस्थापयेमहि । यच्छब्देन अनन्तरस्याशुभस्य परामर्शः । प्रज्ञपयेमहीत्यनेन उत्तरस्य शुभस्य सम्बन्धः । यतश्च एवं शुभस्य प्रज्ञप्तौ सम्बन्ध्यन्तरमपेक्षणीयमशुभाख्यं पदार्थान्तरं नास्ति, तस्माच्छुभं नैवोपपद्यते ह्रस्वासम्भवादिव दीर्घम्, पारासम्भवादिव अवारमित्यभिप्रायः ॥

१० ॥

इदानीमशुभमपि यथा न सम्भवति, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥

११ ॥

मूलम्

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥

११ ॥

यदि हि अशुभं नाम किञ्चित् स्यात्, नियतमेव तच्छुभमपेक्ष्य भवेत्, पारावारवत्, ह्रस्वदीर्घवद्वा, अशुभस्य सम्बन्ध्यन्तरपदार्थसापेक्षत्वात् । तच्चाप्यपेक्षणीयं शुभमशुभेन विना नास्ति, अनपेक्ष्याशुभं नास्ति शुभम् । अशुभं निरपेक्ष्य शुभं न सम्भवतीत्यभिप्रायः । यच्छुभं प्रतीत्य यच्छुभमपेक्ष्य अशुभं प्रज्ञपयेमहि, अशुभं व्यवस्थापयेमहि । अत्रापि यच्छब्देन अनन्तरस्य (प्प्_२०१) शुभस्य परामर्शः । प्रज्ञपयेमहीत्यनेन च उत्तरस्याशुभस्य सम्बन्धः । यतश्चैवमशुभस्य प्रज्ञप्तौ सम्बन्ध्यन्तरमपेक्षणीयं शुभाख्यं पदार्थान्तरं नास्ति, तस्मादशुभं नैव विद्यते ॥

११ ॥

यतश्चैवं शुभाशुभयोरसम्भवः, अतः-

विश्वास-प्रस्तुतिः

अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति ॥

१२ ॥

मूलम्

अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति ॥

१२ ॥

शुभाशुभनिमित्तकयो रागद्वेषयोः शुभाशुभनिमित्ताभावे सति निर्हेतुकत्वान्नास्ति सम्भव इत्यभिप्रायः ॥

१२ ॥

तदेवं शुभाशुभनिमित्ताभावेन रागद्वेषयोरभावमुपपाद्य विपर्यासस्वभावाभावप्रतिपादनेन मोहस्याप्यधुना स्वभावाभावं प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥

१३ ॥

मूलम्

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥

१३ ॥

इह चत्वारो विपर्यासा उच्यन्ते । तद्यथा- अनित्ये प्रतिक्षणविनाशिनि स्कन्धपञ्चके यो नित्यमिति ग्राहः, स विपर्यासः । तथा-
अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् ।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते ॥

इत्यमुना न्यायेन यदनित्यं तद्दुःखम्, सर्वसंस्काराश्च अनित्याः, तस्माद्दुःखात्मके स्कन्धपञ्चके यः सुखमिति विपरीतो ग्राहः, सो ऽपरो विपर्यासः । तथा-

शुक्रशोणितसम्पर्कबीजं विण्मूत्रवर्धितम् ।
अमेध्यरूपमाजानन् रज्यसे ऽत्र कयेच्छया ॥

अमेध्यपुञ्जप्रच्छन्ने तत्क्लेदार्द्रेण चर्मणा ।
यः शयीत स नारीणां शयीत जघनोदरे ॥

इत्यादि ।

एवमिदं शरीरं सर्वात्मना सततमशुचिस्वभावम् । तत्र यो मोहाच्छुचित्वेन ग्राहो ऽभिनिवेशः, स विपर्यासः । तथा पञ्चस्कन्धकमात्मलक्षणविलक्षणमस्थिरत्वादुदयव्ययधर्मित्वाच्च निरात्मकमात्मस्वभावशून्यम्, तस्मिन् य आत्मग्राहो ऽभिनिवेशः अनात्मनि आत्माभिनिवेशः, स विपर्यासः । इत्येते चत्वारो विपर्यासाः सम्मोहस्य हेतुभूताः ॥

अत्रेदानीं विचार्यते- यदि नित्यत्वं नित्यदर्शनं स्वभावशून्येषु नित्यग्राहो विपर्यास इत्येवं व्यवस्थाप्यते, ननु च स्वभावशून्येषु स्कन्धेषु अनित्यत्वमपि नास्ति, इति

नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ।

अनित्यत्वं हि विपरीतमपेक्ष्य नित्यत्वं विपर्यास इति व्यवस्थाप्यते । न च अनित्यत्वं विद्यते शून्ये । यदा अनित्यत्वस्याभावः, तदा कुतस्तद्विरोधि नित्यत्वं नित्यदर्शनविपर्यासो भविष्यतीति भावः । (प्प्_२०२) तस्मान्नास्ति विपर्यासः । यथा च अनित्यत्वं शून्ये न सम्भवति भावस्वभावरहिते सस्वभावेन अनुत्पन्ने, एवं दुःखत्वमपि न सम्भवति, अशुचित्वमपि नास्ति । अनात्मकत्वमपि नास्ति । यदा च स्वभावशून्यत्वाद्दुःखत्वादिकं नास्ति, तदा कुतस्तद्विपक्षभूता नित्यसुखशुच्यात्मविपर्यासा भविष्यन्ति? तस्मात् सन्ति विपर्यासाः स्वरूपतः । तदभावे कुतो भविष्यत्यविद्या? हेत्वभावात् । यथोक्तं भगवता-

अविद्यया नैव कदाचि विद्यते अविद्यत प्रत्ययसम्भवश्च ।
अविद्यमानेयमविद्य लोके तस्मान्मया उक्त अविद्य एषा ॥

तथा-

कथं भगवन् मोहो धारणीपदम्? भगवानाह- अत्यन्तमुक्तो हि मञ्जुश्रीः मोहः, तेनोच्यते मोहः ।

इत्यादिना विपर्यय इति व्यवस्थाप्यते ॥

१३ ॥

ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न सम्भवति इति असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥

१४ ॥

मूलम्

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥

१४ ॥

यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्वयतिरिक्तं तृतीयमपरं नास्ति यन्न विपर्ययः स्यात् । यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यासः स्यादिति । तस्मादमुनापि न्यायेन नास्ति विपर्ययः । तस्याभावाच्च नास्त्यविद्या स्वरूपतः । यथा च अनित्ये नित्यमित्येवं ग्राहो विपर्यासो न सम्भवति, एवं शेषविपर्यासासम्भवे ऽपि योज्यम् । अत एवोक्तं भगवता आर्यदृढाशयपरिपृच्छायाम्-

भगवानाह- किमेतत् कुलपुत्र तस्य भवति यो मार्गेण निःसरणं पर्येषते? न कुलपुत्र तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञप्तम् । तत् कस्माद्धेतोः? न कुलपुत्र तथागताः कस्यचिद्धर्मस्य उत्सर्गाय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न निर्वाणगमनतायै नोत्क्षेपाय न प्रभेदाय । न हि कुलपुत्र द्वयप्रभाविता तथागतधर्मता । तत्र ये द्वये चरन्ति, न ते सम्यक्प्रयुक्ताः । मिथ्याप्रयुक्तास्ते वक्तव्याः । कतमच्च कुलपुत्र द्वयम्? अहं रागं प्रहास्यामीति द्वयमेतत् । अहं द्वेषं प्रहास्यामीति द्वयमेतत् । अहं मोहं प्रहास्यामीति द्वयमेतत् । ये एवम्प्रयुक्ताः, न ते सम्यक्प्रयुक्ता । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥

(प्प्_२०३)
तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो मायाकारनाटके प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा रागचित्तमुत्पादयेत् । स रागपरीतचित्तः पर्षच्छारद्यभयेन उत्थायासनादपक्रमेत् । सो ऽपक्रम्य तामेव स्त्रियमशुभतो मनसि कुर्यादनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसि कुर्यात् । भगवानाह- एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये ऽनुत्पन्नान् धर्मानजातानशुभतो मनसि कुर्वन्ति, अनित्यतो दुःखतो ऽनात्मतो मनसि कुर्वन्ति । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥

तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरे स्वगृहे राजभार्यां पश्येत् । स तया सार्धं शय्यां कल्पयेत् । स्मृतिसम्मोषाच्चैवं कल्पयेत्- विरुद्धो ऽस्मीति । स भीतस्रस्तः पलायेत्, मा मां राजा विध्येत्, स मा मां जीविताद् व्यवरोपयेत् । तत् किं मन्यसे कुलपुत्र अपि नु स पुरुषो भीतस्रस्तः पलायमानस्ततो राजभार्यानिदानभयात्परिमुच्येत? आह- नो भगवन् । तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण अस्त्रियां स्त्रीसञ्ज्ञा उत्पादिता, अभूतं च परिकल्पितम् । भगवानाह- एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये अरागे रागसञ्ज्ञामुत्पाद्य रागभयभीता रागनिःसरणं पर्येषन्ते । एवमदोषे दोषसञ्ज्ञामुत्पाद्य दोषभयभीता दोषनिःसरणं पर्येषन्ते । अमोहे मोहसञ्ज्ञामुत्पाद्य मोहभयभीता मोहनिःसरणं पर्येषन्ते । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥

तद्यथापि नाम कुलपुत्र स पुरुषः अभये भयसञ्ज्ञामुत्पादयेदसत्समारोपेण । एवमेव कुलपुत्र सर्वबालपृथग्जना रागकोटिं विरागकोटिमप्रजानन्तो रागकोटिभयभीता विरागकोटिं निःसरणं पर्येषन्ते । दोषकोटिमकिञ्चनकोटिमप्रजानन्तो दोषकोटिभयभीता अकिञ्चनकोटिं निःसरणं पर्येषन्ते । मोहकोटिं शून्यताकोटिमप्रजानन्तो मोहकोटिभयभीताः शून्यताकोटिं निःसरणं पर्येषन्ते । नाहं तेषां कुलपुत्र मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥

इति विस्तरः ॥

१४ ॥

अत्राह- यद्यपि अनित्ये नित्यमित्येवं ग्राहो विपर्ययो न सम्भवति, तथापि एष तावत् ग्राहो ऽस्ति । ग्राहश्च नाम सङ्ग्रहणं भावरूपः । तस्य च अवश्यं साधनेन करणेन भवितव्यं साधकतमेन नित्यत्वादिना । कर्त्रा च भवितव्यं स्वतन्त्रेण नित्यात्मना चित्तेन वा । कर्मणा च कर्तुरीप्सिततमेन विषयेण रूपादिना । सत्यां च भावकरणकर्तृकर्मणां सिद्धौ सर्वसिद्धेरिष्टसिद्धिः स्यादस्माकमिति । उच्यते । अलीकेयं प्रत्याशा । ननु च यथोपवर्णितेन न्यायेन-

विश्वास-प्रस्तुतिः

येन गृह्णाति योग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥

१५ ॥

मूलम्

येन गृह्णाति योग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥

१५ ॥

इह हि कश्चिद् ग्रहीता येन विशेषेण नित्यत्वादिना करणभूतेन किञ्चित् कर्मभूतं रूपशब्दादिकं वस्तु गृह्णाति, तद्यथा न सम्भवति तथा पूर्वं प्रतिपादितम् । कथं कृत्वा?

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।

(प्प्_२०४)
इत्यादिना यथा नित्यत्वादिकं करणं न सम्भवति, तथा प्रतिपादितम् । ग्रहीतापि यथा नास्ति, तथा-

आत्मनो ऽस्तित्वनास्तित्वे न कथञ्चिच्च सिध्यतः ।

इत्यनेन प्रतिपादितम्। यच्च गृह्यते तदपि नास्ति तथा-

रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।

इत्यनेन प्रतिपादितम् । यदा चैवं कर्तृकरणकर्माणि न सिद्धानि, तदा कुतो निर्हेतुको ग्राहो भविष्यति? ततश्च-

येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि

स्वभावेन अनुत्पन्नत्वानिर्वृतानि सर्वाणीत्यर्थः । यतश्च एवमेवम्-

तस्माद् ग्राहो न विद्यते ॥

अथवा । प्रत्ययपरीक्षादिभिः प्रकरणैर्यस्मात् सर्वेषामेव करणकर्तृकर्मणां सर्वथानुत्पादः प्रतिपादितः, तस्मात् सर्वाण्येतानि भावस्वरूपविरहादुपशान्तानि । अतश्च ग्राहो न विद्यते ॥

१५ ॥

अत्राह- विद्यन्त एव विपर्ययाः, विपरीतसद्भावात् । इह हि विपर्यासानुगतो देवदत्तो नाम विद्यते । न च विना विपर्यासैः स विपर्यासानुगतः सम्भवति । तस्मात् सन्ति विपर्यासाः विपर्यस्तसद्भावादिति । उच्यते । इह अस्माभिः करणकर्तृकर्मणामभावात् सर्वथा ग्राह एव नास्तीति प्रतिपादितम् । ततश्च-

विश्वास-प्रस्तुतिः

अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा ।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः ॥

१६ ॥

मूलम्

अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा ।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः ॥

१६ ॥

सम्यग्वा मिथ्या वा कस्यचित् किञ्चिदप्यगृह्णतः कुतो विपरीतत्वमविपरीतत्वं वेति । तस्मान्न सन्ति विपर्ययाः ॥

१६ ॥

अपि च । इमे विपर्ययाः कस्यचिदिष्यमाणाः विपरीतस्य परिकल्प्येरन्, अविपरीतस्य वा, विपर्यस्यमानस्य वा? सर्वथा च नोपपद्यन्ते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

न चापि विपरीतस्य सम्भवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य सम्भवन्ति विपर्ययाः ॥

१७ ॥

मूलम्

न चापि विपरीतस्य सम्भवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य सम्भवन्ति विपर्ययाः ॥

१७ ॥

विश्वास-प्रस्तुतिः

न विपर्यस्यमानस्य सम्भवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य सम्भवन्ति विपर्ययाः ॥

१८ ॥

मूलम्

न विपर्यस्यमानस्य सम्भवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य सम्भवन्ति विपर्ययाः ॥

१८ ॥

तत्र तावद्विपरीतस्य विपर्यया न सम्भवन्ति । किं कारणम्? यस्मात्, यो हि विपरीत, स विपरीत एव । किं तस्य पुनरपि विपर्ययसम्बन्धः कुर्यात्? निष्प्रयोजनत्वात् । अविपरीतस्यापि विपर्यया न युज्यन्ते, विबुद्धबुद्धिनयनानामपि अज्ञाननिद्रातिमिरोपशमाद् बुद्धानां विपर्ययप्रसङ्गात् ॥

(प्प्_२०५) तथा विपर्यस्यमानस्यापि न सन्ति विपर्ययाः, विपर्यस्यमानस्य भावस्य अभावात् । को हि नाम असावपरः पदार्थः, यो विपरीताविपरीतविनिर्मुक्तो विपर्यस्यमानो नाम भविष्यति? अर्धविपरीतो विपर्यस्यमान इति चेत्, अर्धविपरीतो हि नाम यस्य किञ्चिद्विपरीतं किञ्चिदविपरीतम् । तत्र यदस्य किञ्चिद्विपरीतं तद्विपर्यासो न विपर्यासयति, विपर्यस्तत्वात् । यदप्यस्य अविपरीतम्, तदपि विपर्यासो न विपर्यासयति, अविपर्यस्तत्वात् । तस्माद्विपर्यस्यमानस्यापि कस्यचिद्विपर्यासा न सम्भवन्ति । यदा चैवं विपरीताविपरीतविपर्यस्यमाना न सम्भवन्ति, भवानिदानीं विमृशतु स्वयं प्रज्ञया मध्यस्थः सन् कस्य सम्भवन्ति विपर्यासा इति । तदेवमाश्रयस्याभावान्न सन्ति विपर्ययाः ॥

१७-१८ ॥

किं चान्यत्-

विश्वास-प्रस्तुतिः

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः ॥

१९ ॥

मूलम्

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः ॥

१९ ॥

तत्र

विश्वास-प्रस्तुतिः

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः ॥

२० ॥

मूलम्

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः ॥

२० ॥

कुतो विपरीत इत्यर्थः । ततश्च यदुक्तम्- सन्ति विपर्ययाः विपर्ययगतसद्भावादिति, तन्न युक्तम् ॥

१९-२० ॥

यस्यापि कथञ्चिद्विपर्यासचतुष्टयमस्त्येवेत्यभ्युपगम्यते, तथापि तस्य विपरीतत्वमशक्यमास्थातुम् । किं कारणम्? यस्मात्-

विश्वास-प्रस्तुतिः

आत्मा च शुचि नित्यम्न सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥

२१ ॥

मूलम्

आत्मा च शुचि नित्यम्न सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥

२१ ॥

यदि एतानि आत्मशुचिनित्यसुखानि विपर्यासा इति व्यवस्थाप्यन्ते, किमेतानि सन्ति, अथ न सन्ति? यदि विद्यन्ते, न तर्हि विपर्यासाः, विद्यमानत्वादनात्मादिवत् ॥

२१ ॥

अथ न विद्यन्ते, तदा एषामविद्यमानत्वान्न केवलं नास्ति विपर्यासत्वम्, विपर्यासप्रतिबन्ध्यभावादनात्मादीनामपि अविपर्यासादीनां नास्ति सद्भाव इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते ॥

२२ ॥

मूलम्

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते ॥

२२ ॥

यदि आत्मा च शुचि नित्यं च न विद्यते इति मन्यसे, विपर्यासासम्भवात्, एवं सति आत्मादीनामप्यभावाद् यदि एतदनात्मादिकमविपर्यासत्वेन गृहीतम्, तदपि तर्हि त्यज्यताम्, प्रतिषेध्याभावे प्रतिषेधस्याभावात् । यदा चैवमनात्मादिकं न सम्भवति, तदा तदपि स्वरूपतो ऽविद्यमानत्वात् आत्मादिवत् कथं न विपर्यासः स्यात्? तस्मात् जातिजरामरणसंसारचारकागारबन्धनान्मुमुक्षुभिरष्टावप्येते विपर्यासास्त्याज्याः ॥

२२ ॥

अस्य च यथोपवर्णितविपर्यासविचारस्य अविद्यादिप्रहाणहेतुत्वेन महार्थतां प्रतिपादयन्नाह-

(प्प्_२०६)

विश्वास-प्रस्तुतिः

एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥

२३ ॥

मूलम्

एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥

२३ ॥

यदा अयं योगी यथोदितेन न्यायेन विपर्यासान् नोपलभते, तदा एवं विपर्यासानुपलम्भनेन तद्धेतुका अविद्या निरुध्यते । तन्निरोधाच्च संस्कारादयः अविद्याहेतुका जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासपर्यन्ता धर्मा निरुध्यन्ते ॥

अविद्या हि सकलस्यैव सङ्क्लेशगणस्य जात्यादिदुःखस्य च हेतुभूता । यथा हि कायेन्द्रियहेतुकानि सर्वाणि रूपीन्द्रियाणि कायेन्द्रिये निरुध्यमाने निरुध्यन्ते, एवमविद्याहेतुकानि संस्कारादीनि भवाङ्गानि प्रवर्तमानानि नियतमविद्यायां निरुद्धायां निरुध्यन्ते इति प्रतिपादयन्नाह-

अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते । इति ॥

अत्राह- यदि विपर्यासनिरोधादविद्या निरुध्यते, अस्ति तर्हि अविद्या यस्या एवं विपर्यासनिरोधान्निरोधो भवति । न तर्हि अविद्यमानाया गगनचूतलतायाः प्रहाणोपायान्वेषमस्ति । तस्माद्विद्यते एव अविद्या, तन्निरोधोपायान्वेषणसद्भावात् । ततश्च सन्ति तद्धेतुका रागादयः क्लेशाः । क्लेशासद्भावाच्च अस्त्येव संसारे भवसन्ततिः । उच्यते । अत्र हि नाम अतिमहदनर्थपाण्डित्यं परस्य, यो हि नाम सर्वात्मना अत्यन्तदुःखायासक्लेशासमञ्जसे संसारे निरन्तरफुल्लफलप्रदसङ्क्लेशविषवृक्षे परार्थोदयसम्बद्धकक्षैः साधुभिः प्रज्ञोपायमहानिलबलैर्निःशेषं तदुन्मूल्यमानैर्न केवलं न साहाय्येनावतिष्ठन्ते, अपि खलु तदुन्मूलकानामतिमहानिलबलानामिव भावसद्भाववादमहाशैलायमान इवातिविरोधितया अवस्थितो भवान् आहोपुरुषिकया तस्यैव क्लेशविषवृक्षस्य जातिजरामरणशोकायासविसरदुःखैकफलस्य सुतरां भावाभिनिवेशतोयास्रवैरारोपणमाद्रियते ॥

अपि च । यदि अविद्यादीनां सङ्क्लेशानां प्रहाणं सम्भवेत्, स्यात् तत्प्रहाणोपायान्वेषणम् । न च तेषां प्रहाणं सम्भवति । यदि स्यात्, तदा तत्त्वरूपतो विद्यमानानां वा स्यात्, अविद्यमानानां वा? किं चातः? तत्र यदि स्वरूपतः सद्भतानां क्लेशानां प्रहाणमिष्यते, तन्नोपपद्यते। किं कारणम्? यस्मात्-

विश्वास-प्रस्तुतिः

यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥

२४ ॥

मूलम्

यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥

२४ ॥

स्वभावतो विद्यमानानां भावानां न शक्यः स्वभावो विनिवर्तयितुम् । न हि क्षित्यादीनां कठिनत्वादिस्वभावो निवर्तते । एवं यदि इमे क्लेशाः स्वभावतः सद्भूताः स्युः । केचिदित्यविद्यादयः । कस्यचिदिति पुद्गलस्य । कथं नाम प्रहीयेरन्? नैव ते कस्यचित् कथञ्चिन्नाम प्रहीयेरन् । कस्मात्पुनः न ते प्रहीयन्ते इत्याह- कः स्वभावं प्रहास्यतीति । स्वभावस्य विनिवर्तयितुमशक्यत्वात् । आकाशानावरणविनिवर्तनासम्भववदित्यभिप्रायः ॥

२४ ॥

अथ स्वभावेन असद्भूता इति विकल्प्यते, एवमपि प्रहाणासम्भव एवेत्याह-

(प्प्_२०७)

विश्वास-प्रस्तुतिः

यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति ॥

२५ ॥

मूलम्

यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति ॥

२५ ॥

अभूता अपि क्लेशाः स्वभावेन अविद्यमानाः अशक्या एव प्रहातुम् । न हि अग्नेः शैत्यमसंविद्यमानं शक्यमपाकर्तुम् । एवमिमे ऽपि क्लेशाः केचिद् यदि कस्यचित् स्वभावतो न विद्यन्ते, कस्तान् प्रहास्यति? नैव कश्चित् प्रहास्यति । तदेवमुभयपक्षे ऽपि प्रहाणासम्भवान्नास्ति प्रहाणं क्लेशानाम् । प्रहाणाभावाच्च कुतः क्लेशप्रहाणोपायान्वेषणमिति । अतो यदुक्तम्- विद्यन्त एव अविद्यादयः क्लेशाः, तत्प्रहाणोपायान्वेषणादिति, तदयुक्तमिति । यथोक्तमार्यसमाधिराजे-

यो रज्येत, यत्र वा रज्येत, येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत । यो मुह्येत यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्म न समनुपश्यति, तं धर्मं नोपलभते । स तं धर्ममसमनुपश्यन् अनुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते । तीर्णः पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते ॥

इति विस्तरः ।

तथा-

आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं स्वलङ्कृतम् ।
सो तत्र रागं जनयित्व बालो प्रधावितो कामि गवेषमाणो ॥

मुखस्य सङ्क्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते ।
मूढो यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥

इत्यादि ।

तथा-

रूपेण दर्शिता बोधी बोधये रूप दर्शितम् ।
विषभागेन शब्देन उत्तरो धर्मु देशितः ॥

शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः ।
समं रूपं च बोधिश्च नानात्वं न स लभ्यते ॥

यथा निर्वाणु गम्भीरं शब्देन सम्प्रकाशितम् ।
लभ्यते न च निर्वाणं स च शब्दो न लभ्यते ।
शब्दश्चापि निर्वाणं च उभयं तन्न लभ्यते ।
एवं शून्येषु धर्मेषु निर्वाणं सम्प्रकाशितम् ॥

(प्प्_२०८)
निर्वाणं निवृत्तिरेव निर्वाणं च न लभ्यते ।
अप्रवृत्तिर्हि धर्माणां यथा पश्चात्तथा पुरा ॥

सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः ।
ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धबोधये ॥

तथा-

ज्ञानेन जानाम्यहु स्कन्धशून्यतां ज्ञात्वा च क्लेशेहि न संवसामि ।
व्याहारमात्रेण हि व्याहरामि परिनिर्वृतो लोकमिमं चरामि ॥

तथा-

परिनिर्वृत लोकि ते शूरा येहि स्वभावत ज्ञातिभि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः सङ्गु विवर्जिय सत्त्व विनेन्ति ॥

इति ॥

२५ ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ विपर्यासपरीक्षा नाम त्रयोविंशतितमं प्रकरणम् ॥

(प्प्_२०९)