२२ तथागतपरीक्षा

२२
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् ।

अत्राह- विद्यत एव भवसन्ततिः, तथागतसद्भावात् । इह हि भगवता महाकरुणोपायप्रज्ञाद्वयधारिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासङ्ख्येयैः सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोदयैकक्रियालक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहतत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात उपभोग्यतामात्मानमुपगमयता महाकालेन सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम् । स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते । यदि भवसन्ततिर्न स्यात्, तदा तथागतो ऽपि न स्यात् । न हि एकेन जन्मना शक्यं तथागतत्वमनुप्राप्तुम् । तस्माद्विद्यत एव भवसन्ततिः, तथागतसद्भावादिति । उच्यते । भवदीयमेव हि इदमतिमहदज्ञानं भवसन्तानस्य अविच्छेदवर्तितां च अतिदीर्घकालं च गमयति, यस्य नाम भवतः अतिमहदज्ञानधनान्धकारमेव विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्वस्यमानमपि अतिचिरतरकालाभ्यासवासनाविस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते । यदि हि तथागतो नाम कश्चित् स्यात् स्वभावतः, तदा तस्य महता कालेनाभिनिष्पत्तेर्भवसन्ततिः स्यात् । न च तथागतो नाम कश्चिद् भावस्वभावत उपलभ्यते । केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशमशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते । यथा च तथागतो नास्ति स्वभावतः, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः ॥

१ ॥

मूलम्

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः ॥

१ ॥

यदि हि तथागतो नाम कश्चित् पदार्थो ऽमलो निष्प्रपञ्चः स्यात्, स स्कन्धस्वभावो वा भवेत्, रूपवेदनासञ्ज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत् । यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभावः, तद्वयतिरिक्तो वा भवेत् । पूर्वका एव पञ्च स्कन्धाः सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावित त्वादिति ॥

यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धाः स्युः, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्तः? सर्वथा च विचार्यमाणो न सम्भवति । कथं कृत्वा? तत्र तावत् स्कन्धा एव न तथागतः । किं कारणम्? उक्तं हि-

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।

(प्प्_१८८)
भवेदिति, तदिहापि योज्यम्,

स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः ।

भवेदिति । तथा-

आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।

इत्युक्तम्, तदिहापि योज्यम्,

बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । इति ।

एवं तावत् स्कन्धा न तथागतः ॥

इदानीं नान्यः स्कन्धेभ्यस्तथागत इति । किं कारणम्? उक्तं हि-

अन्यश्चेदिन्धनादग्निरिन्धनादष्यृते भवेत् ।

तथा-

परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥

इति,

तथा इहापि योज्यम्,

बुद्धो ऽन्यश्चेदुपादानादुपादानं विना भवेत् ।

तथा-

परत्र निरपेक्षत्वादनुपादानहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥

तथा-

स्कन्धेभ्यो ऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः । इति ।

अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते ॥

नापि स्कन्धेषु तथागत इति उपपद्यते । उक्तं चैतन्मध्यमकावतारे पक्षद्वयव्याख्यानम्-

स्कन्धेष्वात्मा विद्यते नैव चामी सन्ति स्कन्धा आत्मनीतीह यस्मात् ।
सत्यन्यत्वे स्यादियं कल्पना वै तच्चान्यत्वं नास्त्यतः कल्पनैषा ॥

स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम्-

इष्टो नात्मा रूपवान्नास्ति यस्मादात्मा वत्त्वार्थोपयोगो हि नातः ।
(प्प्_१८९)
भेदे गोमान् रूपवानष्यभेदे तत्त्वान्यत्वे ऽरूपतो नात्मनः स्तः ॥

तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुतः । सत्कायदृष्टिप्रवृत्त्यपेक्षया तु पञ्च पक्षाः समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम् । यश्चैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागतः, स केनान्येन आत्मना भविष्यतीति, सर्वथा न सम्भवत्येव तथागत इति भावस्वभावादपश्यन्त आचार्यपादाः प्राहुः- कतमो ऽत्र तथागत इति । नास्त्येव स कश्चित् सकलत्रैलोक्यवस्तुविपश्चिद्भावस्वभाव इत्यभिप्रायः । तथागताभावाच्च भवसन्ततिरपि द्रव्यसन्ततिर्नास्तीति सिद्धम् ॥

१ ॥

अत्रैके वदन्ति- नैव हि स्कन्धास्तथागत इति ब्रूमः, यथोक्तदोषप्रसङ्गात् । नापि स्कन्धव्यतिरिक्तः । नापि तथागते अनास्रवान् स्कन्धान् वर्णयामः, हिमवति पर्वते इव तरुखण्डम् । नापि स्कन्धेषु, तरुखण्डे एव सिंहम् । नापि स्कन्धवन्तं वर्णयामः, लक्षणवन्तमिव चक्रवर्तिनम्, एकत्वान्यत्वानभ्युपगमादेव । किं तर्हि स्कन्धानमलानुपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यवस्थापयामः । तस्मान्नायं विधिरस्माकं बाधक इति । अत्रोच्यते-

विश्वास-प्रस्तुतिः

बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥

२ ॥

मूलम्

बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥

२ ॥

यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न तर्हि स्वभावतः सो ऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात् । यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो भविष्यतीति? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते ॥

२ ॥

अथ स्यात्- यथैव हि प्रतिबिम्बकं स्वभावतो ऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य भवति, एवं च तथागतो ऽपि स्वभावतो ऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि-

विश्वास-प्रस्तुतिः

प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥

३ ॥

मूलम्

प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥

३ ॥

यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतो ऽनात्मेत्युपपद्यते । न तु स्वभावत इति युज्यते । आत्मशब्दो ऽयं स्वभावशब्दपर्यायः । यश्च अनात्मा निःस्वभावः प्रतिबिम्बवदेव, स कथं तथागतः स्वभावरूपतो भविष्यति? अविपरीतमार्गगतो न भविष्यतीत्यभिप्रायः ॥

३ ॥

किं चान्यत्- इह यदि तथागतस्य कश्चित् स्वभावः स्यात्, तदा तत्स्वभावापेक्षया स्कन्धस्वभावः परभाव इति स्यात्, तं च परभावं प्रतीत्य तथागतः स्यात् । यदा तु तथागतस्य स्वभाव एव नास्ति, तदा कुतः स्कन्धानां परत्वं स्यादिति प्रतिपादयन्नाह-

(प्प्_१९०)
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।

यदा चैवं स्वभावपरभावौ न स्तः, तदा

स्वभावपरभावाभ्यामृते कः स तथागतः ॥

४ ॥

पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा । ताभ्यां तु विना को ऽसौ अपरः पदार्थो ऽस्ति, यस्तथागत इति व्यवस्थाप्यते? तस्मान्नास्ति स्वभावतस्तथागत इति ॥

४ ॥

किं चान्यत्-

विश्वास-प्रस्तुतिः

स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानीम्मुपादद्यादुपादाय ततो भवेत् ॥

५ ॥

मूलम्

स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानीम्मुपादद्यादुपादाय ततो भवेत् ॥

५ ॥

यदि मन्यसे- स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति, तत् कदा युज्यते? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स स्कन्धानुपादद्यात् । व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत् ॥

५ ॥

विचार्यमाणस्तु सर्वथा-

स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।

निर्हेतुकत्वप्रसङ्गात् ।

यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥

६ ॥

अविद्यमानत्वादित्यभिप्रायः । यदा चैवं न किञ्चिदप्युपादत्ते, तदा स्कन्धानुपादाय तथागतो नाम भविष्यतीति नोपपद्यते ॥

६ ॥

यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किञ्चिदुपादत्ते, तदा तदुपादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न सम्भवत्येवेति प्रतिपादयन्नाह-

न भवत्यनुपादत्तमुपादानं च किञ्चन ।

यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह-

न चास्ति निरुपादानः कथञ्चन तथागतः ॥

७ ॥

इति ॥

७ ॥

तदेवं यथोपपादितन्यायेन-

विश्वास-प्रस्तुतिः

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्येत तथागतः ॥

८ ॥

मूलम्

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्येत तथागतः ॥

८ ॥

यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेनस्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वासत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो (प्प्_१९१) यो नास्ति, स कथमत्यन्तो ऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम्? इत्यतो ऽपि नास्ति तथागतो नाम स्वभावतः ॥

८ ॥

न केवलमनेन विचारेण तथागत एव नास्ति,

यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते ।

यदपि इदमुपादानं रूपवेदनासञ्ज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च विस्तरेण प्रतिषिद्धत्वात् ॥

अथापि स्यात्- यद्यपि स्वभावतः उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावा द्भविष्यतीति, तदापि नोपपद्यते इति प्रतिपादयन्नाह-

स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥

९ ॥

न हि बन्ध्यासूनुः स्वभावतो ऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति । अतः उपादानमपि नास्ति ॥

अथवा-

यदपीदमुपादानं तत्स्वभावान्न विद्यते ।

उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम् । अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न सम्भवति, एवं तदुपादात्रपेक्षमेव भवत्विति । उच्यते । एवमपि-

स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥

स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातुः परभावतो भविष्यतीति । तस्मादुपादानमपि नास्तीति ॥

९ ॥

इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह-

एवं शून्यमुपादानमुपादाता च सर्वशः ।

सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं निःस्वभावम्, उपादाता च शून्यः स्वभावरहितः । तेनेदानीमुपादानेन-

प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥

१० ॥

नैव तत्सम्भवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्तिः स्यादिति । तस्मात् स्कन्धानुपादाय तथागतः प्रज्ञप्यते इति नोपपद्यते ॥

अत्राहुः- अहो वत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पितातिकठिनकुदर्शनमालुतालताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थकरेषु अविपरीतस्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसम्प्रकाशकं सद्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेयजनमतिकमलकुङ्मलविबोधनतत्परं (प्प्_१९२) यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं सप्तबोध्यङ्गोत्तुङ्गतुरङ्गपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं चतुरसममारारातिसमरशरसम्पातविजयिनं सकलजगदसद्ग्राहराहुग्रहविग्रहोद्ग्रहनिरासिनं तथागतसवितारमज्ञानधनगहनान्धकारनिराकरणाय मोक्षार्थिनो ऽतुत्तरसम्यक्सम्बोध्यर्थिनः शरणं प्रतिपन्नाः, तस्य च त्वया-

एवं शून्यमुपादानमुपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥

इत्यादिना स्वभावतो ऽसत्त्वं व्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्सम्बोध्यागमाभिलाषः इति । तदलं भवता तथागतमहादित्यप्रच्छादकेन आकालिकधनधनावलीविसरणेन जगदन्धकारोपमेनेति । उच्यते । अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषु ये हि नाम भवन्तः मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिंहनादमसहमानाः कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोरसंसाराटवीकान्तारचारकानुगमार्गमवगाहन्ते । न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति । यथोक्तं भगवत्याम्-

बुद्धो ऽप्यायुष्मन् सुभूते मायोपमः स्वप्नोपमः । बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमाः ॥

इति ॥

तथा-

धर्म स्वभावतु शून्य विविक्तो बोधि स्वभावतु शून्य विविक्ता ।
यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तु बालजनस्य ॥

इति ।

न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रूमः, यदस्माकं तदपवादकृतो दोषः स्यात् ॥

१० ॥

अपि च । निःस्वभावं हि तथागतं व्याचक्षाणेन अविपरीतार्थाभिधित्सुना योगिनां सता सर्वथा-

शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति

सर्वमेतन्न वक्तव्यमस्माभिः । किं तु अनुक्ते यथावदवस्थितं स्वभावं प्रतिपत्ता प्रतिपत्तुं न समर्थ इत्यतो वयमपि आरोपतो व्यवहारसत्ये एव स्थित्वा व्यवहारार्थं विनेयजनानुरोधेन (प्प्_१९३) शून्यमित्यपि ब्रूमः, अशून्यमित्यपि, शून्याशून्यमित्यपि, नैव शून्यं नाशून्यमित्यपि ब्रूमः । अत एवाह

प्रज्ञप्त्यर्थं तु कथ्यते ॥

११ ॥

इति । यथोक्तं भगवता-

शून्याः सर्वधर्मा निःस्वभावयोगेन । निर्निमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय । अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन । प्रकृतिप्रभास्वराः सर्वधर्माः प्रज्ञापारमितापरिशुद्धया । इति ॥

अन्यत्र अशून्यमुक्तम्-

अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीतं रूपमभ्यनन्दिष्यत् । यस्मात्तर्हि भिक्षवः अस्ति अतीतं रूपम्, तस्मादार्यश्रावकः श्रुतवानतीतं रूपमभिनन्दतीति । अनागतं चेद्भिक्षवः- इत्यादि । एवं यावत् अतीतं चेद्भिक्षवो विज्ञानं नाभविष्यत्- इत्यादि पूर्ववत् ॥

तथा सौत्रान्तिकमते अतीतानागतं शून्यम्, अन्यदशून्यम् । विप्रयुक्ता विज्ञप्तिः शून्या ।
विज्ञानवादे ऽपि कल्पितस्वभावस्य शून्यत्वम्, अप्रतीत्यसमुत्पन्नत्वात्, तैमिरिकद्विचन्द्रादि दर्शनवत् ।

न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते ।
[तथा] सत्त्वादसत्त्वाच्च मध्यमा प्रतिपच्च सा ॥

इति ॥

येन त्वभिप्रायेण शून्यत्वादिकमुपदिश्यते, स आत्मपरीक्षातो बोद्धव्यः ।
यथोक्तं सूत्रे-

मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विहितम् ।
नात्मा न सत्त्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥

शून्यं च शान्तमनुपादमयं अविजानदेव जगदुद्भ्रमती ।
तेषामुपायनययुक्तिशतैरवतारयस्यपि कृपालुतया ॥

रागादिभिश्च बहुरोगशतैः सन्त्रासितं सकलमीक्षि जगत् ।
वैद्योपमो विचरसे ऽप्रतिमो परिमोचयं सुगत सत्त्वशतान् ॥

(प्प्_१९४)
रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरयेषु गताः ।
मूढा अदेशिक अनाथगताः तेषां प्रदर्शयसि मार्गवरम् ॥

इति ।

सर्वास्त्वेताः कल्पना निष्प्रपञ्चे तथागते न सम्भवन्ति ॥

११ ॥

न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न सम्भवति, अपि च-

विश्वास-प्रस्तुतिः

शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥

१२ ॥

मूलम्

शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥

१२ ॥

इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि । तद्यथा- शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्च अशाश्वतश्च लोकः, नैव शाश्वतो नाशाश्वतश्च लोकः, इति चतुष्टयम् । अन्तवान् लोकः, अनन्तवान् लोकः, अन्तवांश्च अनन्तवांश्च लोकः, नैव अन्तवान् न अनन्तवांश्च लोकः, इति द्वितीयम् । भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति च तथागतः परं मरणात्, इति तृतीयम् । स जीवस्तच्छरीरम्, अन्यो जीवो ऽन्यच्छरीरम्, इति । तान्येतानि चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते । तत्र यथोपवर्णितेन न्यायेन यथा शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते निःस्वभावे तथागते न सम्भवति, एवं शाश्वताशाश्वतादिकमपि चतुष्टयमत्र न सम्भवति । असम्भवादेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न व्याकृतं भगवता लोकस्य । यथा च एतच्चतुष्टयं तथागते न सम्भवति, एवमन्तानन्तादिकमपि शान्ते तथागते न सम्भवति ॥

१२ ॥

इदानीं भवति तथागतः परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्यसम्भव मुद्भावयन्नाह-

विश्वास-प्रस्तुतिः

येन ग्राहो गृहीतस्तु घनो ऽस्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥

१३ ॥

मूलम्

येन ग्राहो गृहीतस्तु घनो ऽस्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥

१३ ॥

येन हि घनतरो महताभिनिवेशेन अस्ति तथागतः इति ग्राहो गृहीतः, परिकल्प उत्पादितः, सः नियतं परिनिर्वृते तथागते, न भवति तथागतः परं मरणात्, मरणादुत्तरकालं न भवति, उच्छिन्नस्तथागतः, न संविद्यते, इति परिकल्पयेत् । तस्य एवं विकल्पयतः स्याद् दृष्टिकृतम् ॥

१३ ॥

यस्य तु न कस्याञ्चिदप्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्वनास्तित्वम्, तस्य पक्षे-

विश्वास-प्रस्तुतिः

स्वभावतश्च शून्ये ऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा ॥

१४ ॥

मूलम्

स्वभावतश्च शून्ये ऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा ॥

१४ ॥

आकाशे चित्ररूपकल्पनावदेषा कल्पना नास्तीत्यभिप्रायः ॥

१४ ॥

(प्प्_१९५)
तदेवं प्रकृतिशान्ते निःस्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वताशाश्वतादिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञासर्वज्ञादिकया कल्पनया-

विश्वास-प्रस्तुतिः

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥

१५ ॥

मूलम्

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥

१५ ॥

वस्तुनिबन्धना हि प्रपञ्चाः स्युः, अवस्तुकश्च तथागतः । कुतः प्रपञ्चानां प्रवृत्तिसम्भव इति? अतः प्रपञ्चातीतस्तथागतः । अनुत्पादस्वभावावाच्च स्वभावान्तरागमनादव्ययः । तमित्थंविधं तथागतं स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैरभूतैः परिकल्पविशेषैः ये बुद्धं भगवन्तं प्रपञ्चयन्ति, ते स्वकैरेव प्रपञ्चैर्हताः सन्तः तथागतगुणसमृद्धेरत्यन्तपरोक्षवर्तिनो भवन्ति । ततश्च शवभूताः एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम् । अत एवाह भगवान्-

ये मां रूपेण अद्राक्षुर्ये मां घोषेण अन्वयुः ।
मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः ॥

धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः ।
धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् ॥

इति ॥

१५ ॥

तदत्र तथागतपरीक्षायां सत्त्वलोकः सकलः ससुरासुरनरादिः परीक्षितः । यथा चायं सत्त्वलोको निःस्वभावः, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितानभवनपर्यन्तस्य नैःस्वाभाव्यमुद्भावयन्नाह-

तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।

इदं जगदिति अयं भाजनलोक इत्यर्थः । किंस्वभावस्तथागतः पुनरित्याह-

तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥

१६ ॥

इति । यथा च जगतो नैःस्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभिः प्रतिपादितम् । अत एवोक्तं सूत्रे-

अनुपादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः ।
निमित्तग्राहेण तु बालबुद्धयः असत्सु धर्मेषु चरन्ति लोके ॥

तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य ।
नैवात्र तथता न तथागतो ऽस्ति बिम्बं च सन्दृश्यति सर्व लोके ॥

इति ।

(प्प्_१९६)
उक्तं च भगवत्यां प्रज्ञापारमितायाम्-

अथ खलु ते देवपुत्राः आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन्- किं पुनरार्यसुभूते मायोपमास्ते सत्त्वाः, न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्राः सत्त्वाः, स्वप्नोपमास्ते देवपुत्राः सत्त्वाः । इति हि माया च सत्त्वाश्च अद्वयमेत दद्वैधीकारम् । इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् । सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः । स्त्रोतआपन्नो ऽपि मायोपमः स्वप्नोपमः । स्त्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम् । एवं सकृदागाम्यपि सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि मायोपमः स्वप्नोपमः । अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धो ऽपि मायोपमः स्वप्नोपमः । प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम् । सम्यक्सम्बुद्धो ऽपि मायोपमः स्वप्नोपमः इति । सम्यक्सम्बुद्धत्वमपि मायोपमं स्वप्नोपममिति वदामि ॥

अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्- सम्यक्सम्बुद्धो ऽपि मायोपमः स्वप्नोपम इति, सम्यक्सम्बुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि? सुभूतिराह- निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम्? देवपुत्रा आहुः- निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह- यद्यपि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम् ॥

(प्प्_१९७)