२१ सम्भवविभवपरीक्षा

२१
सम्भवविभवपरीक्षा एकविंशतितमं प्रकरणम् ।

अत्राह- विद्यत एव स्वभावतः कालः, सम्भवविभवनिमित्तत्वात् । इह कञ्चित् कालविशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कञ्चित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम्- इत्यतो विद्यत एव कालः, सम्भवविभव निमित्तत्त्वात् । उच्यते । स्यात् सम्भवविभवनिमित्तता कालस्य यदि सम्भवविभवावेव स्याताम् । न तु स्तः । यथा च न स्तः, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

विना वा सह वा नास्ति विभवः सम्भवेन वै ।
विना वा सह वा नास्ति सम्भवो विभवेन वै ॥

१ ॥

मूलम्

विना वा सह वा नास्ति विभवः सम्भवेन वै ।
विना वा सह वा नास्ति सम्भवो विभवेन वै ॥

१ ॥

इह यदि सम्भवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा । उभयथा च विचार्यमाणौ न सम्भवतः । कथं कृत्वा? तत्र तावद् यथा विना सम्भवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

भविष्यति कथं नाम विभवः सम्भवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥

२ ॥

मूलम्

भविष्यति कथं नाम विभवः सम्भवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥

२ ॥

सम्भवं विना कथं नाम विभवो विनाशो भविष्यति? कथं नामेत्यनेन प्रसिद्धमत्यन्तासम्भवं दर्शयति । कथं नाम भविष्यति, नैव एतत्सम्भवतीत्यभिप्रायः । यदि पुनर्विनैव सम्भवं विभवः स्यात्, को दोषः स्यात्? उच्यते । विनैव जन्म मरणं स्यात्, अजातस्य मरणं स्यात् । न च अजातस्य मरणं दृष्टमिति । तस्माद्विभवो नोद्भवं विना भवितुमर्हति । आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम् ॥

२ ॥

एवं तावद्विना सम्भवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह सम्भवेनापि विभवो न सम्भवति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

सम्भवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥

३ ॥

मूलम्

सम्भवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥

३ ॥

यदि हि सम्भवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत् स्याताम् । न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति । तस्मात् सहापि सम्भवेन विभवस्य नास्ति सिद्धिरिति स्थितम् ॥

३ ॥

यदा चैवं सम्भवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं सम्भवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह-

भविष्यति कथं नाम सम्भवो विभवं विना
अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥

४ ॥

नैव हि सम्भवो विभवेन विना युज्यते । यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद धर्मकेषु न कदाचिन्न विद्यते, किं तर्हि सर्वदैव विद्यते । उक्तं हि-

(प्प्_१७९)
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥

इति ।

यदा चैवं नित्यमनित्यतानुगताः सर्वे भावाः, तदा कुतः सा काचिदवस्था या विनाशरहिता स्यादिति? अतो नास्ति विभवेन विना उत्पाद इति । एवं तावद्विना विभवेन नास्ति सम्भवः । शेषमत्र संस्कृतपरीक्षायां विचारितत्त्वान्न विचार्यते ॥

यस्तु सहेतुको विनाशः, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्यचित्तचैत्तक्षणैरनैकान्तिकतामाह, स न युक्तमाह, तद्विनाशस्यापि जातिप्रत्ययत्वेन सहेतुकत्वात् साध्यसमत्वाच्च अनैकान्तिकताभावात् । यदपि निर्दिष्टम्- भावात्मभाव एव अभूत्वा भावादुत्पाद उच्यते, तस्माद् द्रव्यसदुत्पादसिद्धेर्व्यवहारतो दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां प्रतिबिम्बादीनां सहेतुकत्वाभ्युपगमात् । यथोक्तमाचार्यपादैः-

हेतुतः सम्भवो येषां तदभावान्न सन्ति ये ।
कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥

इति ।

अस्मादा[गमात्] कुतो व्यवहारतो दृष्टान्तासिद्धिः? यदि च भावात्, यत् तत्त्वान्यत्वेन न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते । नीलादिकमपि नास्तीत्युच्यते । यथोक्तं रत्नावल्याम्-

रूपस्याभावमात्रत्वादाकाशं नाममात्रकम् ।
भूतैर्विना कुतो रूपं नाममात्रकमप्यतः ॥

इति ॥

अपि च । कुतो माध्यमिकानां स्वभावरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पादः स्यात्? अतः अयुक्तमेव दृष्टान्तासिद्धतोद्भावनम् । यच्चोक्तम्- न सहेतुको विनाशः, अविनाशवत्त्वात्, यथा असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवति । यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं साधयति, एवं संस्कृतलक्षणत्वाभावमपि साधयति । तथा संस्कारस्कन्धसङ्ग्रहप्रतीत्यसमुत्पादाङ्गसङ्ग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम् । तथा । न विज्ञानं विषयस्वरूपच्छेदकम्, अविज्ञानवत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वनिषेधान्महती अनिष्टापत्तिरुपपद्यते ऽस्य, इति नास्थेयमेतत् ॥

४ ॥

इदानीं विभवेन सह यथा सम्भवस्य नास्ति सिद्धिः, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

सम्भवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥

५ ॥

मूलम्

सम्भवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥

५ ॥

यदि हि सम्भवो विभवेनैव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात् । न च [सा] सम्भवति । तस्मात् सहभावेनापि सम्भवविभवयोर्नास्ति सिद्धिः ॥

५ ॥

(प्प्_१८०)
अथ स्यात्- यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तथापि विद्येते एव सम्भवविभवौ, वाच्यत्वात्, विज्ञानवत्, इति । उच्यते । यदि वाच्यत्वेन अनयोः सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम् ॥

अपि च-

विश्वास-प्रस्तुतिः

सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥

६ ॥

मूलम्

सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥

६ ॥

सहभावासहभावरहितं नास्ति पक्षान्तरं यतः सम्भवविभवयोः सिद्धिः स्यात् । अवाच्यतया सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम? यदि मिश्रीभावः, सो ऽनुपपन्नः, पृथक्पृथगसिद्धयो मिश्रीभावाभावात् । अनिर्धार्यमाणौ स्वरूपत्वात् बन्ध्यापुत्रश्यामगौरतादिवन्न स्तः एव सम्भवविभवाविति । यदा चैवं सम्भवविभवौ न स्तः, तदा तद्धेतुरपि कालो नास्तीति सिद्धम् ॥

६ ॥

किं चान्यत्- इहेमौ सम्भवविभवौ परिकल्प्यमानौ क्षयधर्मिणो वा भावस्य परिकल्प्येयातामक्षयधर्मिणो वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

क्षयस्य सम्भवो नास्ति नाक्षयस्यापि सम्भवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥

७ ॥

मूलम्

क्षयस्य सम्भवो नास्ति नाक्षयस्यापि सम्भवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥

७ ॥

तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् सम्भवो न युक्तः । अक्षयस्यापि भावलक्षणवियुक्तत्वात् खरविषाणस्येव सम्भवो न युक्तः । एवं क्षयस्य विभवो नास्ति । क्षयधर्मो हि अविद्यमानः, तस्य निराश्रयो विभवो न युक्तः । तथा विभवो नाक्षयस्य च । अक्षयधर्मो हि भावाभावलक्षणविलक्षणः । तस्य अविद्यमानस्य कुतो विभवो भविष्यति? यौ च सम्भवविभवौ न क्षयधर्मिणो नाक्षयधर्मिणो भावस्य सम्भवतः, तौ न सम्भवतः । इति न स्तः सम्भवविभवौ । ७ ॥

अत्राह- विद्येते एव भावानां सम्भवविभवौ, तदाश्रयिधर्मिसद्भावात् । इह भावाश्रयौ सम्भवविभवौ, स च तावद् भावो ऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यतः इति । उच्यते । स्यातां भावाश्रितावेतौ धर्मौ, यदि भावः स्यात् । यदा तु भावो नास्ति, तदा-

सम्भवो विभवश्चैव विना भावं न विद्यते ।

कस्मात्पुनर्भावो नास्तीति चेत्, यस्मात्-

सम्भवं विभवं चैव विना भावो न विद्यते ॥

८ ॥

भावस्य हि लक्षणभूतौ सम्भवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ । यदा च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं सम्भवं विभवं च विना कुतो भावलक्षणविलक्षणो भावो भविष्यति? भावं च विना न स्तः सम्भवविभवौ ॥

अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते । स्तः एव सम्भवविभवौ, भावधर्मत्वात् । इह यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणेः । भावधर्मौ च सम्भवविभवौ, (प्प्_१८१) तस्मात् स्तः एव तौ इति । यदि कस्यचित् परमार्थतः सम्भवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम् । तौ च न स्तः, इति

सम्भवं विभवं चैव विना भावो न विद्यते ।

भावस्य सम्भवविभवसत्त्वे विद्यमानत्वात्, इति भावः । तदसत्त्वे च हेतोरसिद्धार्थता । तथा-

सम्भवो विभवश्चैव विना भावं न विद्यते ॥

आश्रयस्याभावादाश्रितस्य असिद्धिः इत्यभिसन्धिरिति ॥

८ ॥

किं चान्यत्- इहेमौ सम्भवविभवौ परिकल्पमानौ शून्यस्य वा भावस्य परिकल्प्येयातामशून्यस्य वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-

सम्भवो विभवश्चैव न शून्यस्योपपद्यते ।

अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्रायः । तथा-

सम्भवो विभवश्चैव नाशून्यस्योपपद्यते ॥

९ ॥

अशून्यस्य असत्त्वात् निराश्रयौ सम्भवविभवौ नोपपद्यतः ॥

९ ॥

किं चान्यत्- इह यदि सम्भवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा च नोपपद्यते इत्याह-

सम्भवो विभवश्चैव नैक इत्युपपद्यते ।

परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः ।

सम्भवो विभवश्चैव न नानेत्युपपद्यते ॥

१० ॥

उभयोः परस्परमव्यभिचारित्वात् । न हि सम्भवरहितस्य विनाशः, न विभवरहितस्य सम्भवो दृष्ट इति । एवमुभयोः परस्परमव्यभिचारित्वात्

सम्भवो विभवश्चैव न नानेत्युपपद्यते ॥

अथ स्यात्- किमनया सूक्ष्मेक्षिकया? आगोपालाङ्गनादिको हि जनः यस्मात् सम्भवं विभवं च पश्यति, तस्मात् स्तः सम्भवविभवौ । न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति । एवमपि-

दृश्यते सम्भवश्चैव विभवश्चैव ते भवेत् ।

उच्यते । अनैकान्तिकमेतत् । न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् ।
तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमानमपि पश्यति इन्द्रियोपघातात्, एवमिमावपि सम्भवविभवौ असन्तौ मोहादेव पश्यतीत्याह-

दृश्यते सम्भवश्चैव मोहाद्विभव एव च ॥

११ ॥

अथ कस्मात् पुनरेतदेवं निश्चीयते- अविद्यमानस्वरूपाविमौ सम्भवविभवौ मोहादेव वारलोकेन दृश्येते इति । युक्त्या ह्येतदेवं निश्चीयते । का पुनरत्र युक्तिः? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा । तथा यदि अभावो नाम कश्चित्, सो ऽपि भावाद्वा जायेत अभावाद्वा । उभयथा च उभयोरप्यसम्भवः इत्याह-

(प्प्_१८२)

विश्वास-प्रस्तुतिः

न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥

१२ ॥

मूलम्

न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥

१२ ॥

भावात् तावत् सम्भवाख्याद् भावस्य सम्भवाख्यस्य उत्पादो न विद्यते, कार्यकारणयोर्यौगपद्याभावात्, उत्पादस्य च लब्धजन्मनः पुनरुत्पादवैयर्थ्यात् । अभावादपि भावो न जायते । किं कारणम्? अभावो हि नाम विभवो विनाशः । स च भावविरुद्धः । तस्माद्भावविरुद्धात् कथं भावः स्यात्? यदि स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादपि भावो न भवति । इदानीमभावो ऽप्यभावान्न भवति । भावनिवृत्तिरूपो हि अभावः, तत कुतो ऽस्य कार्यकरणसामर्थ्यम्? यदि स्यात्, निर्वाणस्यापि कार्यकरणसामर्थ्यं स्यात् । यदि च अभावादभावः स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादप्यभावो न भवति । इदानीं भावादप्यभावो न भवति । भावविरुद्धो ह्यभावः । स कथं भावाद्भवेत् । यदि भवेत्, प्रदीपादन्धकारः स्यात् । यतश्चैवं विचार्यमाणौ सम्भवविभवौ न स्तः, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम् ॥

अथवा । अयमन्यः पूर्वपक्षः- इह हि यदि सम्भवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा । तौ च भावाभावौ सर्वथा विचार्यमाणौ न सम्भवतः । ततश्च कुतो निराश्रयौ सम्भवविभवाविति? अतः-

दृश्यते सम्भवश्चैव मोहाद्विभव एव च ।

इति विज्ञेयम् । यथा च भावाभावौ न सम्भवतः, तथा प्रतिपादयन्नाह-

न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥

अस्यार्थः पूर्ववत् ॥

१२ ॥

अपि च । यदि कश्चिद् भावो नाम स्यात्, तस्य उदयव्ययवत्त्वात् सम्भवविभवौ स्याताम् । न च कश्चिद् भावः स्वरूपतो ऽस्ति खरविषाणवत् स्वभावानुत्पन्नत्वात् । अनुत्पन्नत्वमसिद्धमिति चेत्, तत् सिद्धम्, यस्मात्-

विश्वास-प्रस्तुतिः

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते, जायते कुतः ॥

१३ ॥

मूलम्

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते, जायते कुतः ॥

१३ ॥

एतच्च आद्य एव प्रकरणे व्याख्यातत्त्वान्न पुनर्व्याख्यायते । यश्चैवं यथोक्तप्रकारेण जायते स इदानीं कुतो जायते? नैव कुतश्चिज्जायते इत्यभिप्रायः । अवश्यं चैतदेवमभ्युपेयम्- सर्वथा नास्ति भावस्योत्पाद इति ॥

१३ ॥

भावसद्भावताभ्युपगमे च भवतः शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्येत्याह-
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते

यस्मात्,

(प्प्_१८३)
स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत् ॥

१४ ॥

यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचनात्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते । किं कारणम्? यस्मात् स भावः परिकल्प्यमानः नित्यो वा भवेदनित्यो वा । यदि नित्यः, तदा नियतं शाश्वतवादः । अथ अनित्यः, तदा नियतमुच्छेद इति ॥

१४ ॥

अत्राह-

भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।

किं कारणम्? यस्मात्-

उदयव्ययसन्तानः फलहेत्वोर्भवः स हि ॥

१५ ॥

यो हि हेतुफलयोरुदयव्ययानुप्रबन्धः, स हि अस्माकं भवः संसारः । तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोषः । यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा स्याच्छाश्वतवाददर्शनदोषः । न चैतदेवमिति । तस्माद् भावाभ्युपगमे ऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्गः । स एव संसारः यो ऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्धः संस्काराणामिति । अतो नास्ति अस्माकमयं दोष इति ॥

१५ ॥

उच्यते-

उदयव्ययसन्तानः फलहेत्वोर्भवः स चेत् ।

ननु एवमपि-

व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥

१६ ॥

यो हि हेतुक्षणः फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते, ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते । तवायं कथं न दोष इति चेत्, भावमभ्युपपन्नस्य अयं दोषः । न च मया भावो ऽभ्युपगतः, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम् । यत्रापि मया-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम् ॥

इत्युक्तम्, तत्रापि अमुना न्यायेन नैःस्वाभाव्यमेव भावानां प्रतिपादितम् । अन्यथा हि सति भावस्वरूपे बीजाङ्कुरयोः कथमन्यत्वं न स्यात्? तस्मान्नायं प्रसङ्गो ऽस्माकं बाधक इति ॥

१६ ॥

एवं तावद् भावमभ्युपपन्नस्य हेतोः पुनरनुत्पादादुच्छेददर्शनप्रसङ्गमुद्भाव्य इदानीं शाश्वतवादे दोषप्रसङ्गमुद्भावयन्नाह-

सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।

यदि हि हेतोः सद्भावः स्वभावतः स्यात्, तस्य पश्चादसद्भावो न स्यात् स्वभावस्या नपायित्वात् । ततश्च शाश्वतदर्शनप्रसङ्गः तदवस्थ एव ॥

(प्प्_१८४)
किं चान्यत्-

निर्वाणकाले चोच्छेदः प्रशमाद्भवसन्ततेः ॥

१७ ॥

यद्यपि हेतुफलयोरुदयव्ययसन्तानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्गः परिह्रियते, तथापि यत्रास्य सन्तानस्य पुनरप्यप्रवृत्तिः, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते । उच्छेददर्शनं च प्रहातव्यमित्युक्तं भगवता । एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवता भविष्यतीति भावविच्छेदालम्बनत्वात्, निर्वाणकाले भावविच्छेदालम्बनवदित्यभिप्रायः ॥

यच्चोक्तम्-

उदयव्ययसन्तानः फलहेत्वोर्भवः स हि ।

इति, तदपि नोपपद्यते । कथं कृत्वा? इह हि चरमो भवो निवृत्तिलक्षणः, प्रथमो गतिप्रतिसन्धिलक्षणः । तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते । उपपत्तिलक्षणस्तु प्रथमो भवः फलरूपत्वेन व्यवतिष्ठते । अनयोश्च भवयोः संसार इति सञ्ज्ञा कृता ॥

१७ ॥

अत्र च इदं विचार्यते- य एष प्रथमो भवः फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसारः स्यात्? सर्वथा च विचार्यमाणो न सम्भवतीति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥

१८ ॥

मूलम्

चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥

१८ ॥

तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुक स्यात् । दहनदग्धबीजादपि अङ्कुरोदयः स्यात् । न चैतदिष्टम् । तस्माच्चरमे निरुद्धे प्रथमो भवो न युज्यते ॥

इदानीमनिरुद्धे ऽपि चरमे भवे प्रथमो भवो न युज्यते । यदि स्यात्, निर्हेतुकः स्यात्, द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे च बीजे अङ्कुरोदयः स्यात् । न चैतदेवमिष्टमिति । अतः-

चरमे नानिरुद्धे च प्रथमो युज्यते भवः ।

इति स्थितम् ॥

१८ ॥

इदानीं निरुध्यमाने ऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत् ॥

१९ ॥

मूलम्

निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत् ॥

१९ ॥

तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते वर्तमानशब्दवाच्यत्वात् । अथवा निरुध्यमानो निरोधक्रियाकारकः । यश्चापि जायते, असावपि जनिक्रियाकारकः, तौ च एककालाविष्यमाणौ यौगपद्येनैव स्तः । ततश्च निरुध्यमानः एको भवः स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुतः । न चैकस्य युगपद् द्वौ भवौ सम्भवतः इत्युक्तमेतत् ॥

१९ ॥

(प्प्_१८५)
तदेवं यथोक्तेन विचारकमेण-

विश्वास-प्रस्तुतिः

न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥

२० ॥

मूलम्

न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥

२० ॥

चशब्दः समुच्चयार्थः । पृथक्पृथक् चेति एतत्सन्निधापयति । यदा एवं यथोदितन्यायेन निरुद्धे चरमे प्रथमो भवो न सम्भवति, अनिरुद्धे ऽपि चरमे प्रथमो भवो न सम्भवति, सार्धं चैकस्मिश्च काले चरमेन भवेन सह प्रथमो भवो न सम्भवति, तत् किमिदानीं येषु एव स्कन्धेषु म्रियते तेषु एव जायते इति स्यात् । येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति अत्यन्तविरुद्धमेतत् । न हि म्रियमाणो जायते इति दृष्टम् ॥

२० ॥

तत्-

एवं त्रिष्वपि कालेषु न युक्ता

भवदभिमता

भवसन्ततिः ।

चरमे भवे निरुद्धे ऽनिरुद्धे निरुध्यमाने यस्मात् प्रथमो भवो न सम्भवति, तस्मात् त्रिष्वपि कालेषु भवसन्तिर्नास्ति ।

त्रिषु कालेषु या नास्ति सा कथं भवसन्ततिः ॥

२१ ॥

या च इदानीं त्रिषु कालेषु नास्ति, कुतः सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति भवन्मता भवसन्ततिः । ततश्च यदुक्तम्-

उदयव्ययसन्तानः फलहेत्वोर्भवः स हि ।

इति, तन्न युक्तम् । ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो भवताम्, इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम् । यथोक्तमार्यसमाधिराजभट्टारके-

तथा-

बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥

मुद्रात्प्रतिमुद्र दृश्यते मुद्रसङ्क्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कार अनुच्छेदशाश्वताः ॥

(प्प्_१८६)
अत एवोक्तमार्यनागार्जुनपादैः
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्रैः ।
स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ ॥

इति ।

तथा भगवान्-

जायते च्यवते चापि न च जातिर्न च च्युतिः ।
यस्य विजानत एष समाधिर्नास्य दुर्लभः ॥

इति।

तथा-

सूसुखिता सद ते नर लोके येहि अचिन्तिय ज्ञातिभि धर्माः ।
न च धर्म अधर्म विकल्पो चित्तपपञ्च विभावित सर्वि ॥

भाव अभाव विभावयि ज्ञानं सर्वमचिन्तयि सर्वमभूतम् ।
ये पुन चित्तवशानुग बालास्ते दुखिता भवकोटिशतेषु ॥

यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बालः ।
अक्षर कीर्तित शून्यक धर्मास्ते च अनक्षर अक्षर उक्ताः ॥

शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चित्तु न जातु न भूतः ।
चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥

इति ॥

२१ ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ सम्भवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ॥

(प्प्_१८७)