१९ कालपरीक्षा

१९
कालपरीक्षा एकोनविंशतितमं प्रकरणम् ।

अत्राह- विद्यत एव भावानां स्वभावः, कालत्रयविज्ञप्तिहेतुत्वात् । इह अतीतानागतप्रत्युत्पन्नास्रयः काला भगवता उपदिष्टाः । ते च भावाश्रयाः । यस्मादुत्पन्नो निरुद्धो हि भावस्वभावः अतीत इति व्यपदिश्यते, उत्पन्नो ऽनिरुद्धो हि वर्तमानः, अलब्धात्मभावो ऽनागत इति । एवं भावस्वभावनिबन्धनास्रयः काला उपदिष्टाः । ते च सन्ति । तस्मात् तन्निबन्धनो ऽपि भावस्वभावो ऽस्तीति । उच्यते । स्यात् कालत्रयप्रज्ञप्तिहेतुर्भावस्वभावः, यदि कालत्रयमेव भवदभिमतं भवेत् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

प्रत्युत्पन्नो ऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नो ऽनागतश्च काले ऽतीते भविष्यतः ॥

१ ॥

मूलम्

प्रत्युत्पन्नो ऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नो ऽनागतश्च काले ऽतीते भविष्यतः ॥

१ ॥

इह तावत् यदि वर्तमानानागतौ स्याताम्, तावपेक्ष्य अतीतं कालं भवेताम्, अनपेक्ष्य वा? तत्र यदि अतीतमपेक्ष्य सिध्येते, तथा नियतमतीते काले भविष्यतः । यस्मात्, यस्य हि यत्र असत्त्वम्, तत् तेन नापेक्ष्यते। तद्यथा वन्ध्या स्री स्वतनयेन, गगनमालतीलता स्वकुसुमेन, सिकता स्वतैलेन । अविद्यमानमप्यन्धकारं प्रदीपेन, प्रदीपो ऽपि अन्धकारेण प्रतिद्वन्द्वित्वेन अपेक्ष्यते इति चेत्, नैतदेवम् । अस्यापि साध्यसमत्वात् । तदत्र यदि अतीते काले वर्तमानानागतौ कालौ इष्येते, अपेक्षासिद्धयर्थमेवं सति अतीते काले विद्यमानत्वात् अतीतकालात्मवत् तयोरप्यतीतत्वं स्यात् । ततश्च अतीतो ऽपि न स्यात् । यस्मात् वर्तमानावस्थातिक्रान्तो हि अतीतः असम्प्राप्तः अनागत इति स्यात् । यदा तु वर्तमानानागतयोरसम्भव एव, तदा कुतः कस्यचिदतीतत्वं स्यात्? इत्यतः अतीतो ऽपि न स्यात् ॥

१ ॥

अथ यथोक्तदोषपरिजिहीर्षया-

विश्वास-प्रस्तुतिः

प्रत्युत्पन्नो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नो ऽनागतश्च स्यातां कश्रमपेक्ष्य तम् ॥

२ ॥

मूलम्

प्रत्युत्पन्नो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नो ऽनागतश्च स्यातां कश्रमपेक्ष्य तम् ॥

२ ॥

तत्र अतीते काले यदि वर्तमानानागतौ कालौ न स्तः इति परिकल्प्यते, एवमपि तत्र अविद्यमानत्वात् गगनेन्दीवरवन्नास्त्यपेक्षा ॥

२ ॥

अथापि स्यात्- कालवादिनां विद्यते एव कालः, तत्र किमपेक्षया प्रयोजनमिति? उच्यते । एवमपि-

विश्वास-प्रस्तुतिः

अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते ॥

३ ॥

मूलम्

अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते ॥

३ ॥

प्रत्युत्पन्नानागतयोरसत्त्वम्, अतीतानपेक्षत्वात्, खरविषाणवत् । यतश्चैवम् प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते इति विज्ञेयम् ॥

३ ॥

(प्प्_१६४)
यदा चैवम् अतीतमपेक्ष्य वा अनपेक्ष्य वा प्रत्युत्पन्नानागतयोर्नास्ति सिद्धिः, एवं प्रत्युत्पन्नापेक्षया वा अनपेक्षया वा अतीतानागतयोः अनागतापेक्षया वा अनपेक्षया वा प्रत्युत्पन्नातीतयोः असिद्धौ इष्यमाणायां तेनैव प्रत्युत्पन्नागतयोः अतीतापेक्षया वा अनपेक्षया असिद्धिक्रमेण दूषणसाम्यमतिदिशन्नाह-

विश्वास-प्रस्तुतिः

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ॥

४ ॥

मूलम्

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ॥

४ ॥

कथं कृत्वा?

यद्यतीतो ऽनागतश्च प्रत्युत्पन्नमपेक्ष्य हि ।
कालो ऽतीतो ऽनागतश्च प्रत्युत्पन्ने भविष्यतः ॥

कालो ऽतीतो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
कालो ऽतीतो ऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥

अनपेक्ष्य पुनः सिद्धिर्न जातं विद्यते तयोः ।
तेनातीतो ऽनागतश्च कालो नाम न विद्यते ॥

एष तावदेकः कालपरिवर्तः ।

अतीतो वर्तमानश्च यद्यजातमपेक्ष्य हि ।
अतीतो वर्तमानश्च काले ऽजाते भविष्यतः ॥

अतीतो वर्तमानश्च न स्तस्तत्र पुनर्यदि ।
अतीतो वर्तमानश्च स्यातां कथमपेक्ष्य तम् ॥

अनपेक्ष्य पुनः सिद्धिर्नाजातं विद्यते तयोः ।
अतीतो वर्तमानश्च तस्मात्कालो न विद्यते ॥

एष द्वितीयः कालपरिवर्त इति व्याख्यानकारिका इति । एवन्द्वौ कालपरिवर्तौ बोद्धव्यौ ॥

यतश्च एवं विचारणे कालत्रयं नास्ति, तस्मात् कालो न विद्यते, कालाभावाच्च भावसद्भावो ऽपि नास्ति इति सिद्धम् ॥

यथा चैतत्कालत्रयं विचारितम्, एवम्
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ।

उत्तमाधममध्यमान् इति आदिशब्देन कुशलाकुशलाव्याकृतानि, उत्पादस्थितिभङ्गाः, पूर्वान्तापरान्तमध्यान्ताः, कामरूपारूप्यधातवः, शैक्षाशैक्षनैवशैक्षनैवाशैक्षादयो यावन्तः पदार्थाः त्रिपदार्थसम्बन्धव्यवस्थिताः, ते सर्वे गृह्यन्ते । एकत्वादींश्च इत्यनेन आदिशब्देन द्वित्वबहुत्वयो ग्रहणात् ते एव उत्तमादयः एकत्वादयश्च कालत्रयव्याख्यानेन व्याख्याता वेदितव्याः ॥

४ ॥

(प्प्_१६५)
अत्राह- विद्यत एव कालः परिमाणवत्त्वात् । इह यन्नास्ति, न तस्य परिमाणवत्त्वं विद्यते तद्यथा खरविषाणस्य । अस्ति च कालस्य परिमाणवत्त्वं क्षणलवमुहूर्तदिवसरात्र्यहोरात्रपक्षमाससंवत्सरादिभेदेन । तस्मात्, परिमाणवत्त्वाद् विद्यत एव कालः इति । उच्यते । यदि कालो नाम कश्चित् स्यात्, स्यात्तस्य परिमाणवत्त्वम् । न त्वस्ति । यस्मात्-

विश्वास-प्रस्तुतिः

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥

५ ॥

मूलम्

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥

५ ॥

इह यदि कालो नाम कश्चिदवस्थितः क्षणादिव्यतिरिक्तः स्यात्, स क्षणादिभिः परिमाणवत्त्वाद् गृह्येत । न तु अवस्थितः कूटस्थः कश्चित् कालो नाम अस्ति, यः क्षणादिभिर्गृह्येत । तदेवं नास्थितो गृह्यते कालः, अस्थितत्वान्न गृह्यते इत्यर्थः ॥

अथापि स्यात्- नित्य एव अवस्थितस्वभावः कालो नाम अस्ति, क्षणादिभिरभिव्यज्यते । तथाहि-

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥

इति ।

यश्चैवंलक्षणः सो ऽवस्थितस्वभावो ऽस्तीति । उच्यते । एवमपि स्थितः कालो न विद्यते यः क्षणादिभिरभिव्यज्यमानो गृह्येत । कस्मात् पुनः स्थितः कालो नास्तीति चेत्, क्षणादिव्यतिरेकेणागृह्यमाणत्वात् ॥

अपि च । अयं कालः संस्कृतस्वभावः सन् अस्तीति, असंस्कृतस्वभावो वा? उभयं च संस्कृतपरीक्षायां प्रतिषिद्धम्-

उत्पादस्थितिभङ्गानामसिद्धौ नास्ति संस्कृतम् ।
संस्कृतस्याप्यसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥

इत्यनेन । तदेवं नास्ति व्यवस्थितः कालः, यो गृह्येत । यश्च इदानीं कालो न गृह्यते अस्थितत्वादविद्यमानस्वरूपत्वात्, सो ऽगृह्यमाणः सन् कथं क्षणादिभिः प्रज्ञपयितुं भावतः पार्यत इत्याह- अगृहीतश्च कालः प्रज्ञप्यते कथमिति । तस्मान्नास्त्येव कालः ॥

५ ॥

अत्राह- सत्यं नास्ति नित्यः कालो नाम कश्चिद् रूपादिव्यतिरिक्तः स्वभावसिद्धः, किं तर्हि रूपादीनेव स संस्कारानुपादाय प्रज्ञप्तः कालः क्षणादिवाच्यो भवति, तस्माददोष इति । उच्यते । एवमपि-

भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः ।

यद्येवं भावं प्रतीत्य कालो भवतीति भवता व्यवस्थाप्यते, यदा खलु भावो नास्ति, तदा नियतं तद्धेतुको ऽपि कालो नास्तीति प्रतिपादयन्नाह-

(प्प्_१६६)
न च कश्चन भावो ऽस्ति

इति पूर्वं विस्तरेण प्रतिपादितत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा चैवं न कश्चिद्भावो ऽस्ति भावतः, तदा-

कुतः कालो भविष्यति ॥

६ ॥

कालाभावाच्च न सन्ति क्षणलवमुहूर्तादयः कालभेदाः तत्परिणामभूताः, इत्यतः कुतः परिणामवत्त्वेन कालसिद्धिर्भविष्यति? तस्मान्नास्त्येव भावानां स्वभावः इति ॥

उक्तं हि भगवता आर्यहस्तिकक्ष्यसूत्रे-

यदि कोचि धर्माण भवेत्स्वभावः तत्रैव गच्छेय जिनः सश्रावको ।
कूटस्थधर्माण सिया न निर्वृती न निष्प्रपञ्चो भवि जातु पण्डितः ॥

इति ।

तथा-

बुद्धसहस्रशता य अतीता धर्मसहस्रशतानि भणित्वा ।
नैव च धर्म न चाक्षर क्षीणा नास्ति समुद्भवु तेन अक्षीणा ॥

इति ।

तथा-

उत्पादकाले हि तथागतस्य मैत्रेयनामा त्विह यो भविष्यति ।
भविष्यतीयं कनकावृता मही तस्या इदानीं कुत आगमो ऽसौ ॥

उल्लापनाः कामगुणा हि पञ्च विभ्रामणा मोहन मोषधर्मिणः ।

मध्याह्नकाले हि यथैव ग्रीष्मे जलं मरीच्यां हि तथैव कामाः ॥

एकेन कल्पेन भवेद्धि लोको आकाशभूतो गगनस्वभावो ।
(प्प्_१६७)
दाहं विनाशं च पयान्ति भे[भी?]रवः कुत आगमः कुत्र गतिश्च तेषाम् ॥

इति ॥

तद्यथा-

पञ्चेमानि भिक्षवः सञ्ज्ञामात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुत अतीतो ऽध्वा अनागतो ऽध्वा आकाशं निर्वाणं पुद्गलश्चेति ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कालपरीक्षा नाम एकोनविंशं प्रकरणम् ॥

(प्प्_१६८)