१७
कर्मफलपरीक्षा सप्तदशमं प्रकरणम् ।
अत्राह- विद्यत एव संसारः, कर्मफलसम्बन्धाश्रयत्वात् । यदि इह सन्तानाविच्छेदक्रमेण जन्ममरणपरम्परया हेतुफलभावप्रवृत्त्या संस्काराणामात्मनो वा संसरणं स्यात्, स्यात्तदानीं कर्मफलसम्बन्धः । यथावर्णिते संसाराभावे तु उत्पत्त्यनन्तरविनाशित्वाच्चित्तस्य कर्माक्षेपकाले च विपाकस्यासद्भावात् कर्मफलसम्बन्धाभाव एव स्यात् । संसारसद्भावे तु सति इह कृतस्य कर्मणे जन्मान्तरे ऽपि विपाकफलसम्बन्धात् कर्मणां फलसम्बन्धो न विरोधितो भवति । तस्माद्विद्यत एव संसारः कर्मफलसम्बन्धाश्रयत्वादिति । कानि पुनस्तानि कर्माणि किं वा तत्फलमिति तत्प्रभेद विवक्षयेदमुच्यते-
विश्वास-प्रस्तुतिः
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च ॥
१ ॥
मूलम्
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च ॥
१ ॥
तत्र आहितः उत्पादितः अहम्मानो ऽस्मिन्नित्यात्मा । स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलआत्मेत्युच्यते । चिनोति उपचिनोति शुभमशुभं कर्म विपाकदानसामर्थ्ये नियमयतीति चेतः । चित्तं मनः विज्ञानमिति तस्यैव पर्यायाः । आत्मानं संयमयति विषयेष्वस्वतन्त्रयति रागादिक्लेशवशेन प्रवृत्तिं निवारयतीत्यात्मसंयमकम् । तदेतदात्मसंयमकं कुशलं चेतः प्राणातिपातादिषु प्रवृत्तिविधारकं दुर्गतिगमनाद्धारयतीति धर्म इत्युच्यते ॥
धर्मशब्दो ऽयं प्रवचने त्रिधा व्यवस्थापितः । स्वलक्षणधारणार्थेन कुगतिगमनविधारणार्थेन पाञ्चगतिकसंसारविधारणार्थेन । तत्र स्वलक्षणधारणार्थेन सर्वे सास्रवा अनास्रवाश्च धर्मा इत्युच्यन्ते । कुगतिगमनविधारणार्थेन दशकुशलादयो धर्मा इत्युच्यन्ते ।
धर्मचारी सुखं शेते अस्मिंल्लोके परत्र च ॥
पाञ्चगतिकसंसारगमनविधारणार्थेन निर्वाणे धर्म इत्युच्यते, धर्मं शरणं गच्छतीत्यत्र। इह तु कुगतिगमनविधारणार्थेनैव धर्मशब्दो ऽभिप्रेतः ॥
किं पुनरात्मसंयमकमेवैकं चेतः धर्म इति? नेत्याह । किं तर्हि परानुग्राहकं च मैत्रं च यच्चेतः, असावपि धर्मः । मैत्रमित्यत्र चशब्दो लुप्तनिर्दिष्टो वेदितव्यः । तत्र परमनुगृह्णातीति परानुग्राहकं चेतः, चतुःसङ्ग्रहवस्तुप्रवृत्तं भयपरित्राणप्रवृत्तं च यच्चेतः, असावपि धर्मः । मित्रे भवमविरुद्धं सत्त्वेषु यच्चेतः, तन्मैत्रं चेतः । मैत्रं यच्चेतः, तन्मैत्रचेतः, मैत्रमेवं वा । यच्चैतत् त्रिविधं चेतो निर्दिष्टम्, स धर्म इत्युच्यते। विपर्ययादधर्मो योज्यः ॥
(प्प्_१३३)
यच्चैतन्निर्दिष्टप्रभेदं चेतः, तद्बीजं फलस्य । असाधारणं फलाभिनिर्वृत्तौ यत्कारणम्, तदेव बीजमित्युच्यते । तद्यथा शाल्यङ्कुरस्य शालिबीजम् । यत्तु साधारणं क्षित्यादि न तद्बीजं कारणमेतत् । यथैतदेवम्, इहापि इष्टस्य विपाकस्याभिनिर्वृत्तौ त्रिविधं चेतो भवति बीजम् । पुरुषकारादयस्तु कारणमेव ॥
कस्मिन् पुनः काले बीजस्य फलनिष्पत्तिरित्याह- प्रेत्य चेह च । प्रेत्येति अदृष्टे जन्मनि, इहेति दृष्टे जन्मनीत्यर्थः । एतच्च आगमाद्विस्तरेण बोद्धव्यम् ॥
१ ॥
एवं तावत् चित्तात्मकमेवैकं धर्मं व्यवस्थाप्य पुनरपि द्विविधं भगवता-
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
परमार्थदर्शनादृषिः । परमश्चासौ ऋषिश्चेति परमर्षिः सर्वाकारतया परमार्थगमनात् श्रावकप्रत्येकबुद्धभ्यो ऽपि उत्कृष्टत्वात् परमर्षिः सम्बुद्धो भगवान् । तेन परमर्षिणा चेतना कर्म, चेतयित्वा च कर्मेत्युक्तं सूत्रे ॥
यच्चैतद् द्विविधं कर्मोक्तम्-
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥
२ ॥
कथं कृत्वा?
विश्वास-प्रस्तुतिः
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥
३ ॥
मूलम्
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥
३ ॥
मनसि भवं मानसम् । मनोद्वारेणैव निष्ठागमनात् कायवाक्प्रवृत्तिनिरपेक्षत्वाच्च मनोविज्ञानसम्प्रयुक्तैव चेतना मानसं कर्मेत्युच्यते । तत्रशब्दो निर्धारणे । यत्तु द्वितीयं चेतयित्वा च कर्मेत्युक्तम्, तत्पुनः कायिकं वाचिकं च वेदितव्यम् । एवं च एवं च कायवाग्भ्यां प्रवर्तिष्ये इत्येवं चेतसा सञ्चिन्त्य यत् क्रियते, तच्चेतयित्वा कर्मेत्युच्यते । तत्पुनर्द्विविधम्, कायिकं वाचिकं च । कायवाचोर्भवत्वात् तद्द्वारेण च निष्ठागमनात् । एवं च त्रिविधम्- कायिकं वाचिकं मानसं च ॥
३ ॥
एतदपि त्रिविधं कर्म पुनर्भिद्यमानं सप्तविधं सञ्जायते, इत्येवं तस्य कर्मणो भगवता बहुप्रकारो भेदो ऽनुवर्णितः । कथं कृत्वा?
विश्वास-प्रस्तुतिः
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसञ्ज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥
४ ॥
मूलम्
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसञ्ज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥
४ ॥
विश्वास-प्रस्तुतिः
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥
५ ॥
मूलम्
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥
५ ॥
तत्र व्यक्तवर्णोच्चारणं वाक् । विष्पन्दः शरीरञ्चेष्टा । तत्र कुशलाकुशला वा वाक् सर्वैव विरत्यविरतिलक्षणा विज्ञप्तिसमुत्थापिका सामान्येन वागिति गृह्यते । एवं कुशलो ऽकुशलो वा विरत्यविरतिलक्षणो विज्ञप्तिसमुत्थापको विष्पन्दः सामान्येन गृह्यते ॥
यथा चैतद्विज्ञप्तेर्द्विधा भेदः, (प्प्_१३४) एवमविज्ञप्तेरपि । अविरतिलक्षणा अविज्ञप्तयः विरतिलक्षणाश्चेति कृत्वा । तत्र अविरतिलक्षणा अविज्ञप्तयः तद्यथा अद्यप्रभृति मया प्राणिनं हत्वा चौर्यं कृत्वा जीविका परिकल्पयितव्येति पापकर्माभ्युपगमात्प्रभृति तदकारिणो ऽपि अकुशलकर्माभ्युपगमहेतुकाः सततसमितमविज्ञप्तयः समुपजायन्ते । कैवर्तादीनाञ्च जालादिपरिकर्मकालात्प्रभृति तदकारिणामपि या अविज्ञप्तय उपजायन्ते, ता एता अविरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । यथा चैतास्तथा अन्याः विरतिलक्षणाः कुशलस्वभावा अविज्ञप्तयः । तद्यथा- अद्यप्रभृति प्राणातिपातादिभ्यः प्रतिविरमामीति कायवाग्विज्ञप्तिपरिसमाप्तिकालक्षणात्प्रभृति तदुत्तरकालं प्रमत्ताद्यवस्थस्यापि याः कुशलोपचयस्वभावा अविज्ञप्तय उपजायन्ते, ता एता विरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । एता रूपक्रियास्वभावा अपि सत्यो विज्ञप्तिवत् परान्न विज्ञापयन्तीत्यविज्ञप्तयः ॥
तथा परिभोगान्वयं पुण्यम्, कुशलमित्यर्थः । परिभोगेन अन्वयः अस्येति परिभोगान्वयम् । परिभोगः परित्यक्तस्य वस्तुनः सङ्घादिभिरुपभोगः । अन्वयः अनुगमः । दायकसन्तानजः कुशलोपचय इत्यर्थः ॥
अपुण्यं च तथाविधम्, परिभोगान्वयमित्यर्थः । तद्यथा देवकुलादिप्रतिष्ठापनम्, यत्र सत्त्वा हन्यन्ते । यथा यथा हि तत्कीर्तौ प्राणिनो हन्यन्ते, तथा तथा तद्देवकुलाद्युपभोगात् तत्कर्तृणां सन्ताने परिभोगान्वयमपुण्यमपि जायते, इत्येवमपुण्यं च तथाविधं भवति ॥
चित्ताभिसंस्कारमनस्कर्मलक्षणा चेतना चेति ॥
सङ्क्षेपेण एतत्सप्तविधं कर्म भवति- कुशलाकुशला वाक्, कुशलाकुशलो विष्पन्दः, कुशलमविज्ञप्तिलक्षणम्, अकुशलमविज्ञप्तिलक्षणम्, परिभोगान्वयं पुण्यम्, परिभोगान्वयमपुण्यम्, चेतना चेति ॥
एते च सप्त धर्माः कर्माञ्जनाः कर्मत्वेनाभिव्यक्ताः कर्मलक्षणाः स्मृताः ॥
५ ॥
अत्रैके परिचोदयन्ति- यदेतत् कर्म बहुविधमुक्तम्, तत् किमा विपाककालादवतिष्ठते, अथ न तिष्ठति उत्पत्त्यनन्तरविनाशित्वात्? यदि तावत्-
विश्वास-प्रस्तुतिः
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति ॥
६ ॥
मूलम्
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति ॥
६ ॥
यदि उत्पन्नं सत् कर्म आविपाककालं स्वरूपेणावतिष्ठते इति परिकल्प्यते, तद् इयन्तं कालमस्य नित्यता आपद्यते विनाशरहितत्वात् । पश्चाद्विनाशसद्भावान्न नित्यत्वमिति चेत्, नैतदेवम्, पूर्वं विनाशरहितस्य आकाशादिवत् पश्चादपि विनाशेन सम्बन्धाभावात् । विनाशरहितस्य च असंस्कृतत्वप्रसङ्गात्, असंस्कृतानां च विपाकादर्शनात्, अविपाकत्वेन सदैवावस्थानात् नित्यताभ्युपगम एव कर्मणामुपपद्यते । इत्येवं तावन्नित्यत्वे दोषः । अथ उत्पादानन्तरविनाशित्वमेव कर्मणामभ्युपेतम्, ननु एवं सति-
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ।
अभावीभूतं सत् कर्म अविद्यमानस्वभावत्वान्नैव फलं जनयिष्यतीत्यभिप्रायः ॥
६ ॥
(प्प्_१३५)
तत्रैके निकायान्तरीयाः परिहारं वर्णयन्ति- उत्पत्त्यनन्तरविनाशित्वात्संस्काराणाम्, अनित्यत्वदोषस्तावदस्माकं नोपपद्यते । यच्चाप्युक्तम्-
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ।
इति, अत्रापि परिहारं ब्रूमः-
विश्वास-प्रस्तुतिः
यो ऽङ्कुरप्रभृतिर्बीजात्सन्तानो ऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥
७ ॥
मूलम्
यो ऽङ्कुरप्रभृतिर्बीजात्सन्तानो ऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥
७ ॥
इह बीजं क्षणिकमपि सत् स्वजातीयभाविफलविशेषनिष्पत्तिसामर्थ्यविशेषयुक्तस्यैव सन्तानस्य अङ्कुरकाण्डनालपत्राद्यभिधानस्य हेतुभावमप्युपगम्य निरुध्यते । यश्चायमङ्कुरप्रभृतिर्बीजात्सन्तानः प्रवर्तते, तस्मात् क्रमेण सहकारिकारणवैकल्ये सति स्वल्पादपि हेतोर्विपुलफलप्रचय उपजायते । ऋते बीजात् विना बीजात् स च अङ्कुरादिसन्तानः नाभिप्रवर्तते । तदेवं तद्भावे भावित्वेन तदभावे च अभावित्वेन बीजहेतुकत्वमङ्कुरादिसन्तानस्य फलस्योपदर्शितं भवति ॥
७ ॥
तदेवम्-
विश्वास-प्रस्तुतिः
बीजाच्च यस्मात्सन्तानः सन्तानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
८ ॥
मूलम्
बीजाच्च यस्मात्सन्तानः सन्तानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
८ ॥
यदि इह बीजमप्रसूय अङ्कुरादिसन्तानं ज्वालाङ्गारादिविरोधिप्रत्ययसान्निध्यान्निरुध्येत, तदा तत्र कार्यसन्तानप्रवृत्त्यदर्शनात् स्यादुच्छेददर्शनम् । यदि च बीजं न निरुध्येत, अङ्कुरादिसन्तानश्च प्रवर्तेत, तदा बीजस्यानिरोधाभ्युपगमाच्छाश्वतदर्शनं स्यात्, न चैतदेवम्, इत्यतो नास्ति बीजस्य शाश्वतोच्छेददर्शनप्रसङ्गः ॥
८ ॥
यथा च बीजे अयं क्रमो ऽनुवर्णितः, एवम्-
विश्वास-प्रस्तुतिः
यस्तस्माच्चित्तसन्तानश्चेतसो ऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥
९ ॥
मूलम्
यस्तस्माच्चित्तसन्तानश्चेतसो ऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥
९ ॥
तस्मात् कुशलाकुशलचेतनाविशेषसम्प्रयुक्ताच्चित्ताद् यः चित्तसन्तानस्तद्धेतुकः प्रवर्तते, तस्मात् कुशलाकुशलचेतनापरिभाविताच्चित्तसन्तानात् सहकारिकारणसन्निधानावैकल्ये सति इष्टमनिष्टं फलमुपजायते सुगतिदुर्गतिषु । ऋते तु तच्चितात् चित्तमन्तरेण स च नाभिप्रवर्तते ॥
९ ॥
तदेवम्-
विश्वास-प्रस्तुतिः
चित्ताच्च यस्मात्सन्तानः सन्तानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
१० ॥
मूलम्
चित्ताच्च यस्मात्सन्तानः सन्तानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
१० ॥
यदि अर्हच्चरमचित्तमिव तद्धेतुफलपारम्पर्याविच्छिन्नक्रमवर्तिनो भाविनश्चित्तसन्तानस्य हेतुभावमनुपगम्य कुशलं चित्तं निरुध्येत, तदा उच्छिन्नं तत्कर्म स्यात् । अथापि अनागतसन्तानस्य हेतुभावमुपगम्य स्वरूपादप्रच्युतं स्यात्, स्यात्तदानीं कर्म शाश्वतम् । न चैतदेवमिति । तस्मात् क्षणिककर्माभ्युपगमे ऽपि नास्ति उच्छेदशाश्वतदर्शनद्वयप्रसङ्ग इति ॥
१० ॥
(प्प्_१३६)
तदत्र यथोदितकर्मप्रभेदव्याख्याने दश कुशलाः कर्मपथा व्याख्याताः । ते च-
विश्वास-प्रस्तुतिः
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥
११ ॥
मूलम्
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥
११ ॥
त एते दश कुशलाः कर्मपथा धर्मस्य साधनोपाया निष्पत्तिहेतुभूता इत्यर्थः ॥
कः पुनरसौ कुशलकर्मपथव्यतिरिक्तो धर्मो नाम, यस्यैते साधनोपायत्वेन व्यवस्थाप्यन्ते? उच्यते । चित्तविशेष एव कश्चित् धर्मशब्देनोक्तः ॥
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मः
इत्यनेन । अथवा । परिनिष्ठितरूपा एते दश कुशलाः कर्मपथा धर्मशब्दवाच्या भवन्ति, क्रियमाणरूपास्तु कुशलकर्मपथवाच्या भवन्ति । तदस्य उक्तलक्षणस्य एते दश कुशलाः कर्मपथा निष्पत्तौ हेतुत्वेन व्यवस्थाप्यन्ते । कथं पुनरत्र प्रक्रान्ते कर्मविभागे दश कुशलाः कर्मपथा इति? उच्यते-
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसञ्ज्ञिताः ।
इत्यादिना कायिकास्रयः कर्मपथाः वाचिकाश्चत्वारो व्याख्याताः। चेतना चेत्यनेन अभिध्याव्यापादसम्यग्दृष्टयाख्यास्रयो मानसा व्याख्याताः । इत्येवं दशापि कुशलाः कर्मपथा अत्र व्याख्याताः । ते च यथोदितस्य धर्मस्य निष्पत्तिहेतवो भवन्ति । अस्य च धर्मस्य रूपशब्दगन्धरसस्प्रष्टव्यलक्षणाः पञ्च कामगुणाः । प्रेत्य च अदृष्टे परलोके इत्यर्थः, इह चेति इहलोके इत्यर्थः, फलमुपभुज्यते इति ॥
११ ॥
एवं तावदैकनिकायिकैराक्षेपपरिहारे वर्णिते सति, तान् प्रति अपरे दोषमुद्भाव्य अन्याक्षेपपरिहारं वर्णयन्तः आहुः-
विश्वास-प्रस्तुतिः
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥
१२ ॥
मूलम्
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥
१२ ॥
यदि बीजाङ्कुरसाधर्म्येण चित्तसन्ताने शाश्वतोच्छेददर्शनद्वयदोषप्रसङ्गपरिहारः स्यात्, तदा बहवश्च दोषाः सङ्ख्याबहुत्वेन महान्तश्च दृष्टादृष्टविरोधेन परपक्षे प्राप्रुवन्ति । कथं कृत्वा? यदि हि बीजसन्तानदृष्टान्तेन शालिबीजात् शाल्यङ्कुरादिसन्तान एव प्रवर्तते, न विजातीयः, शाल्यङ्कुरादिसन्तानाच्च शालिफलमेव उपजायते, न बिल्वफलम्, भिन्नजातीयत्वात्, एवमिहापि कुशलचित्तात् कुशलचित्तसन्तान एव स्यात्, समानजातीयत्वात्, न अकुशलाव्याकृतचित्तसन्तानः, विजातीयत्वात् । एवमकुशलाव्याकृतचित्तादकुशलाव्याकृतचित्तसन्तान एव स्यान्नान्यः, भिन्नजातीयत्वात् । कामरूपारूप्यावचरानास्रवचित्तेभ्यः सदृशानामेव चित्तानां कामरूपारूप्यावचरानास्रवाणामुत्पादः (प्प्_१३७) स्यात्, न भिन्नजातीयानाम् । मनुष्यचित्तान्मनुष्यचित्तमेव स्यान्न देवनारकतिर्यगाद्यन्यचित्तम् । ततश्च यो देवः स देव एव स्यात्, यो मनुष्यः स मनुष्य एव स्यादित्यादि । ततश्च अकुशलमपि कुर्वतां देवमनुष्याणां गतियोनिवर्णबुद्धीन्द्रियबलरूपभोगादि वैचित्र्यं न स्यादपायपतनं च । इष्यते चैतत्सर्वमिति । एवं बहवश्च महान्तश्च दोषा यस्माद्बीजसन्तानसाधर्म्यकल्पनायां प्रसज्यन्ते, तस्मान्नैषा कल्पना अत्रोपपद्यते ॥
१२ ॥
विश्वास-प्रस्तुतिः
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥
१३ ॥
मूलम्
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥
१३ ॥
का चासौ कल्पनेत्याह-
विश्वास-प्रस्तुतिः
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥
१४ ॥
मूलम्
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥
१४ ॥
इह कुशलं कर्म कृतं सत् उत्पादानन्तरमेव निरुध्यते, न च तस्मिन्निरुद्धे फलाभावप्रसङ्गः । यस्माद् यदैव तत्कर्म उत्पद्यते, तदा एतस्य कर्मणो ऽविप्रणाशो नाम विप्रयुक्तो धर्मः कर्तुः सन्ताने समुपजायते ऋणपत्रस्थानीयः । तदेवं पत्रं यथा अविप्रणाशः तथा वेदितव्यः । यस्य च असौ अविप्रणाशाख्यो धर्म उत्पद्यते, ऋणमिव तत्कर्म वेदितव्यम् । यथा च ऋणपत्रावस्थानात् प्रयुक्ते ऽपि धने धनिनो न धननाशो भवति, सम्बध्यत एव स कालान्तरेण पञ्चमेन धनस्कन्धेन, तथा विनष्टे ऽपि कर्मणि अविप्रणाशाख्यधर्मान्तरावस्थानात् तन्निमित्तकेन फलेन अभिसम्बध्यत एव कर्ता । यथा च ऋणपत्रं दातुर्धनाभ्यागमं कृत्वा निर्मुक्तं सत् पुनरपि विद्यमानं वा अविद्यमानं वा न धनाभ्यागमे समर्थम्, एवमविप्रणाशो ऽपि दत्तविपाकः सन् विद्यमानो वा अविद्यमानो वा न शक्नोति निर्मुक्तपत्रवत् कर्तुः पुनरपि विपाकसम्बन्धं कर्तुम् ॥
यश्चायमविप्रणाशो ऽस्माभिरुक्तः सूत्रान्तरोक्तः, चतुर्विधो धातुतः स कामरूपारूप्यावचरानास्रवभेदात्, प्रकृत्या अव्याकृतश्च सः । कुशलाकुशलत्वेन अव्याकरणादव्याकृत एवाविप्रणाशः । यदि असौ अकुशलानां कर्मणामकुशलः स्यात्, तदा कामं वीतरागाणां न स्यात् । यदि च कुशलानाम्, कुशलः स्यात्, समुच्छिन्नकुशलमूलानां स न स्यात् । तस्मात् प्रकृत्यव्याकृत एवासौ ॥
१४ ॥
किं च ।
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
स चायमविप्रणाशः प्रहाणतो न प्रहेयः । पार्थग्जनिकानि कर्माणि दर्शनमार्गेणैव प्रहीयन्ते मा भूदार्यः पृथग्जनकर्मसमन्वागत इति । अविप्रणाशस्तु तत्कर्मप्रहाणे ऽपि दर्शनमार्गेण न प्रहीयते, किं तु भावनामार्गेण वा तस्या प्रहाणं भवति । धातुसमतिक्रमणप्रहेय एवेति वाशब्दो विकल्पार्थः ॥
यतश्चैवमविप्रणाशः कर्मविनाशे ऽपि न नश्यति, कर्मप्रहाणे ऽपि न प्रहीयते,
तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥
१५ ॥
(प्प्_१३८)
यदि पुनरपि अस्य अविप्रणाशस्य कर्मणः प्रहाणेन प्रहाणात्प्रहाणतः प्रहाणं स्यात् कर्मणश्च सङ्क्रमेण कर्मणो विनाशेन कर्मान्तरसम्मुखीभावेन विनाशः स्यात्, को दोषः स्यादिति? उच्यते-
विश्वास-प्रस्तुतिः
प्रहाणतः प्रहेयः स्यात्कर्मणः सङ्क्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥
१६ ॥
मूलम्
प्रहाणतः प्रहेयः स्यात्कर्मणः सङ्क्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥
१६ ॥
यदि दर्शनमार्गेण पार्थग्जनिककर्मवदविप्रणाशः प्रहीयेत, तदा कर्मणो विनाश एव स्यात् । कर्मविनाशाच्च आर्याणामिष्टानिष्टकर्मफलविपाकः पूर्वकर्मफलहेतुको न स्यात् । अकृतस्यैव कर्मणः फलोदयः स्यात् । कर्मफलाभावदर्शनाच्च मिथ्यादर्शनं स्यादिति । एवं कर्मवधादयो दोषाः प्रसज्यन्ते प्रहाणतः प्रहेयत्वाभ्युपगमे सति अविप्रणाशस्य । एवं कर्मणः सङ्क्रमे ऽपि योज्यम् ॥
१६ ॥
विश्वास-प्रस्तुतिः
सर्वेषां विषभागानां सभागानां च कर्मणाम् ।
प्रतिसन्धौ सधातूनामेक उत्पद्यते तु सः ॥
१७ ॥
मूलम्
सर्वेषां विषभागानां सभागानां च कर्मणाम् ।
प्रतिसन्धौ सधातूनामेक उत्पद्यते तु सः ॥
१७ ॥
भिन्नजातीयानि कर्माणि विषभागानि । सदृशानि सभागानि । तेषां सर्वेषामेव सभागानां च विषभागानां च कर्मणां कामरूपारूप्यधातुप्रतिसन्धिषु सर्वकर्मापमर्दनः एक एव अविप्रणाश उत्पद्यते । स चापि सधातूनां समानधातुकानामेव उत्पद्यते न विषभागधातुकानाम् ॥
१७ ॥
विश्वास-प्रस्तुतिः
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्के ऽपि च तिष्ठति ॥
१८ ॥
मूलम्
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्के ऽपि च तिष्ठति ॥
१८ ॥
स चायमविप्रणाशाख्यो धर्मः सर्वस्यैव कर्मणः चेतनाचेतयित्वास्वभावस्य सास्रवानास्रवभेदेन वा द्विप्रकारभिन्नस्य दृष्टे धर्मे इहैव जन्मनि कर्मणः कर्मणः एकैको ऽविप्रणाश उत्पद्यते । स चायमविप्रणाशो विपक्के ऽपि विपाके नावश्यं निरुध्यते, निर्भुक्तपत्रवच्च विद्यमानो ऽपि सन् न शक्नोति पुनरपि विपक्तुम् ॥
१८ ॥
विश्वास-प्रस्तुतिः
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥
१९ ॥
मूलम्
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥
१९ ॥
तत्र फलव्यतिक्रमान्निरुध्यते । यथोक्तम्- भावनाहेय एवेति । मरणान्निरुध्यते । यथोक्तम्-
प्रतिसन्धौ सधातूनामेक उत्पद्यते तु सः । इति ।
स चायं सास्रवाणां सास्रवः, अनास्रवाणामनास्रवः इत्येवं विभागं लक्षयेत् ॥
१९ ॥
तदेवम्-
विश्वास-प्रस्तुतिः
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणो ऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥
२० ॥
मूलम्
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणो ऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥
२० ॥
यस्मात् कर्म कृतं सत् निरुध्यते, न स्वभावेनावतिष्ठते, तस्मात् कर्मणः स्वभावेनावस्थानात् शून्यता चोपपद्यते । न चैवं कर्मणो ऽनवस्थानादुच्छेददर्शनप्रसङ्गः, अविप्रणाशपरिग्रहेण कर्मविपाकसद्भावात् । विपाकाभावे हि कर्मणः उच्छेददर्शनं स्यात् । अविप्रणाशधर्मसद्भावात् (प्प्_१३९) बीजसन्तानसाधर्म्यपरिकल्पनाभावाच्च नानागतिजातियोनिधातुभेदभिन्नश्च पाञ्चगतिकः संसारो विचित्रः सिद्धो भवति । न च शाश्वतवादप्रसङ्गः, कर्मणः स्वरूपेणावस्थानानभ्युपगमात् । कर्मणां च अविप्रणाशः, अविप्रणाशसद्भावात्, इति । एवं निरवशेषाविद्यानिद्रापगमाद्विबुद्धेन भगवता यस्मादयं धर्मो देशितः, तस्माद् यत्पूर्वम्मुक्तं परेण-
तिष्ठत्या पाककालाच्चेत् कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ॥
इति,
तदस्मत्पक्षे नोपपद्यते इति । तस्मादस्माभिरुपवर्णितकल्पनैव न्याय्या इति ॥
२० ॥
अत्रोच्यते- किमिह भवन्तो गन्धर्वनगरप्राकारपतनातिशङ्कितया अतीवोद्विग्नाः तत्परिरक्षापरिश्रमायासमापन्नाः, ये नाम यूयं कर्मण्यनुपपद्यमाने तत्फलनिमित्तं विप्रवदध्वम्? यदि हि कर्मणः स्वरूपेणैवोत्पादः स्यात्, तस्य आविपाकमवस्थानान्नित्यत्वं स्यात्, विनाशादुच्छेदः स्यात् । यदा तु कर्म नैवोत्पद्यते स्वभावशून्यत्वात्, तदा तस्य कुतो ऽवस्थानं विनाशो वा, यत एषा चिन्ता स्यात्? अत्राह-
कर्म नोत्पद्यते कस्मात्
आचार्य आह-
निःस्वभावं यतस्ततः ।
यस्मान्निःस्वभावं कर्म तस्मान्नोत्पद्यते । यदि खल्वेवं निःस्वभावत्वात्कर्म नोत्पद्यते, तत् कथमेवमुक्तं भगवता-
न प्रणश्यन्यि कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
इति?
उच्यते-
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति ॥
२१ ॥
इत्येवं भगवतो ऽभिप्राय इति । अतो नायमस्माकं बाधको विधिरिति । २१ ॥
अवश्यं चैतदेवं विज्ञेयम्- निःस्वभावं कर्मेति । अन्यथा हि-
विश्वास-प्रस्तुतिः
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥
२२ ॥
मूलम्
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥
२२ ॥
यदि हि कर्म स्वभावतः स्यात्, मुक्तसंशयं तच्छाश्वतं स्यात्, स्वभावस्यान्यथाभावाभावात् । ततश्च अकृतमेव कर्म भवेत् । कर्तुः स्वतन्त्रस्य क्रियया यदीप्सिततमं तत्कर्म । एतच्च न युज्यते । किं कारणम्? यस्मात् क्रियते न हि शाश्वतम् । शाश्वतं हि नाम तद् यद्विद्यमानसत्ताकम् । यच्च विद्यमानं तस्य करणानुपपत्तेः तन्नैव कारणमपेक्षत इति ॥
२२ ॥
शुभाशुभे कर्मणि अकृत एव सकलस्य लोकस्य विपाको यस्मात्, ततश्च-
(प्प्_१४०)
विश्वास-प्रस्तुतिः
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥
२३ ॥
मूलम्
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥
२३ ॥
यदि हि अकृतं कर्म भवेत्, तदा अकृताभ्यागमभयं स्यात् । येनापि हि प्राणातिपातादिकं न कृतम्, तस्यापि अकृतमपि सत् तत् कर्म अस्त्येवेति तेनाप्यस्य सम्बन्धादकृताभ्यागमभयं स्यात् । अब्रह्मचर्यवासश्च तत्र पक्षे प्राप्नोति । किं कारणम्? परिशुद्धब्रह्मचर्यवासान्न कस्यचिन्निर्वाणेन भवितव्यं स्यात् ॥
२३ ॥
किं चातः?
विश्वास-प्रस्तुतिः
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥
२४ ॥
मूलम्
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥
२४ ॥
ये हि एते कृषिवाणिज्यगोरक्षादयः क्रियारम्भाः फलार्थमारभ्यन्ते, तेषां सर्वेषामकृतानामेव विद्यमानत्वात् प्रारम्भवैयर्थ्यं स्यात् । घटं कुरु, पटं कुरु, इत्येवमादयश्च सर्व एव लौकिकव्यवहारा विरुध्यन्ते, घटादीनां सर्वेषामेव विद्यमानत्वात् । पुण्यकृदयम्, पापकृदयम्, इति च प्रविभागो न प्राप्नोति, उभयोरपि पुण्यपापकृतोः अकृतयोरपि पुण्यपापयोः प्रत्येकं विद्यमानत्वात् ॥
२४ ॥
किं च-
विश्वास-प्रस्तुतिः
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥
२५ ॥
मूलम्
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥
२५ ॥
विपक्वविपाकस्यापि कर्मणः पुनर्विपाकदानमापद्यते स्वरूपादप्रच्युतत्वात्, अविपक्वविपाकावस्थायामिव । तदेवं यदि कर्म स्वाभाविकमिति मन्यसे, यस्मात् तत्कर्म व्यवस्थितमस्ति तस्मान्निःसंशयं यथोपवर्णिता दोषाः प्राप्नुवन्ति सस्वभावत्वे । तस्मान्निःस्वभावं कर्म, यतश्च निःस्वभावं कर्म, तस्माच्छाश्वतोच्छेददर्शनप्रसङ्गो नैवास्माकमेवं व्याचक्षमाणानामापद्यते इति ॥
२५ ॥
अत्राह- विद्यत एव स्वभावतः कर्म, तत्कारणसद्भावात् । इह यन्नास्ति, न तस्य कारणमस्ति [कूर्म] रोमकूपप्रावारस्येव । अस्ति च कर्मणः कारणं क्लेशाः । अविद्याप्रत्ययाः संस्काराः, ॥॥
। उपादानप्रत्ययो भवः, इति वचनात् । तस्माद्विद्यत एव कर्म स्वभावतः इति । उच्यते । अयुक्तमेव । किं कारणम्? यस्मात्-
विश्वास-प्रस्तुतिः
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥
२६ ॥
मूलम्
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥
२६ ॥
इहेदं कर्म क्लेशात्मकं क्लेशहेतुकम् । ते च क्लेशास्तत्त्वतो न सन्ति । वक्ष्यति हि-
शुभाशुभविपर्यासान् सम्भवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥
इति ।
तदेवं तावत् न तत्त्वतः क्लेशाः, तद्धेतुकं कर्म तदानीं कुतस्तत्त्वतो भविष्यति? तस्मान्नास्ति कर्म स्वभावतः ॥
२६ ॥
(प्प्_१४१)
अत्राह- विद्यन्त एव क्लेशा कर्माणि च, तत्कार्यसद्भावात् । इह हि क्लेशकर्मणां देहाख्यं कार्यमुपलभ्यते । यस्य च कार्यमुपलभ्यते तदस्ति, अविद्यमानस्य खपुष्पादेः कार्यादर्शनात् इति । उच्यते । स्युः क्लेशाः कर्माणि च, यदि तत्कार्यं देहा विद्येरन् । न तु विद्यन्ते इत्याह-
विश्वास-प्रस्तुतिः
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥
२७ ॥
मूलम्
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥
२७ ॥
यथा कर्म क्लेशाश्च शून्याः, तथा प्रतिपादितम् । ततश्च कर्म क्लेशा यदा न सन्ति, तदा तत्कार्याणां देहानामसत्त्वे का कथा भविष्यति? नास्तित्वं तेषां पूर्वमेव सिद्धं यस्मात्, तस्मान्नान्न कश्चिद्वक्तव्यविशेषो ऽस्तीत्यभिप्रायः ॥
२७ ॥
अत्राह- विद्यत एव स्वभावतः कर्म, तत्फलभोक्तृसद्भावात् । यन्नास्ति, न तस्य फलोपभोक्तास्ति, तद्यथा गगनचूतफलस्येति । अस्ति च कर्मणः फलोपभोक्ता-
विश्वास-प्रस्तुतिः
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥
२८ ॥
मूलम्
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥
२८ ॥
तत्र अविद्या अज्ञानं तमः सम्मोह इति पर्यायाः । अविद्यया निवृतश्छादितः । पाञ्चगतिकसंसारे पुनः पुनर्जायत इति जन्तुः । सत्त्वः पुद्गलः प्राणीति तस्यैव पर्यायाः । तृष्णा रागः सक्तिर्विसक्तिश्चेति पर्यायाः । संयोजनं बन्धनम् । तृष्णा संयोजनमस्येति तृष्णासंयोजनः तृष्णाबन्धन इत्यर्थः । यथोक्तं सूत्रे- अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाः इति । अथ च पुनरिदं पापं कर्म स्वयमेव कृतम्, अस्य स्वयमेव विपाकः प्रत्यनुभवितव्यः इति वचनात् । स च भोक्ता कर्मफलस्य । स च न कर्तुरन्यः, न च स एव सः । तत्त्वान्यत्वावाच्यत्वात् । तस्मात् फलोपभोक्तृसद्भावादस्त्येव कर्मेति ॥
२८ ॥
अत्रोच्यते- स्यात्कर्मणः कर्ता कर्मफलस्य चोपभोक्ता यदि कर्मैव स्यात् । न त्वस्ति । कथं कृत्वा?
विश्वास-प्रस्तुतिः
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥
२९ ॥
मूलम्
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥
२९ ॥
विश्वास-प्रस्तुतिः
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥
३० ॥
मूलम्
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥
३० ॥
यदि कर्म नाम किञ्चित्स्यात्, तत् प्रत्ययसमुत्पन्नं वा भवेत्, अप्रत्ययसमुत्पन्नं वा? यदि तावत् प्रत्ययसमुत्पन्नमिष्यते, तन्न युक्तम्, प्रत्ययपरीक्षायामुक्तदोषत्वात् । अथ अप्रत्ययजनितं निर्हेतुकम्, तदपि- हेतावसति कार्यं च कारणं च इत्यादिना कर्मकारकपरीक्षायां विस्तरेण प्रतिपादितम् । यतश्चैवं प्रत्ययसमुत्पन्नं वा अप्रत्ययसमुत्पन्नं वा कर्मेदं न सम्भवति, तस्मादस्य कर्मणः कर्तापि न सम्भवति । यदा चैवं कर्म च कर्ता च नास्ति, तदा निर्हेतुकं कर्मजं फलं कुतो भविष्यतीति, असति च फले कुत एव फलभोक्ता भविष्यतीति, सर्वमेतत् स्वभावतो ऽसंविद्यमानमेवेति विज्ञेयम् ॥
(प्प्_१४२)
अत्राह- यदि एवं नैःस्वाभाव्यं भावानां व्यवस्थापितं भवति, यत्तर्हि एतदुक्तं भगवता- स्वयं कृतस्य कर्मणः स्वयमेव विपाकः प्रत्यनुभवितव्यः इति, तदेतत् सर्वममुना न्यायेन अपाकृतं भवति । कर्मफलापवादाच्च प्रधाननास्तिको भवानिति । उच्यते । न वयं नास्तिकाः । अस्तित्वनास्तित्वद्वयवादनिरासेन तु वयं निर्वाणपुरगामिनमद्वयपथं विद्योतयामः । न च कर्मकर्तृफलादिकं नास्तीति ब्रूम, किं तर्हि निःस्वभावमेतदिति व्यवस्थापयामः । अथ मन्यसे- निःस्वभावानां भावानां व्यापारकरणानुपपत्तेः तदवस्थ एव दोष इति, एतदपि नास्ति । सस्वभावानामेव व्यापारादर्शनात् । निःस्वभावानामेव व्यापारदर्शनात् । तथाहि निःस्वभावा एव सन्तो घटादयः लोके स्वकार्यकृत् उपलभ्यन्ते ॥
३० ॥
अपि च । अमुष्माद् दृष्टान्तात् स्पष्टतरादयमर्थो ऽवसीयताम्-
विश्वास-प्रस्तुतिः
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसम्पदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥
३१ ॥
मूलम्
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसम्पदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥
३१ ॥
तद्यथा- एकं निर्मितकं शास्ता बुद्धो भगवान् ऋद्धिसम्पदा ऋद्धिप्रभावेण निर्मिमीत, स चापि निर्मितकः पुनः यो ऽयं बुद्धेन भगवता निर्मितः, स पुनर्भूयो ऽन्यमपरं निर्मितकं निर्मिमीत । तत्र य एष निर्मितकः अपरस्य निर्मितकस्य निर्माता, स शून्यः निःस्वभावः, तथागतस्वभावरहित इत्यर्थः । यश्चायमपरो निर्मितकः, योनिर्मितकेन निर्मितः, असावपि शून्यो निस्वभावः, तथागतस्वभावरहित इत्यर्थः । यथात्र निःस्वभावानां निस्वभावकार्यकृत्त्वं कर्मकर्तृव्यपदेशश्च भवति,
विश्वास-प्रस्तुतिः
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥
३२ ॥
मूलम्
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥
३२ ॥
यो ह्यत्र कर्मणः कर्ता स निर्मितकाकारः स्वभावशून्यः । तेन च स्वभावशून्येन स्वतन्त्रकर्त्रा यत् किञ्चित् कर्म क्रियते, तदपि स्वभावशून्यम् । तद्यथा निर्मितकेन अन्यो निर्मितको निर्मितः तथा वेदितव्यम् । यथोक्तमागमे-
एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः ।
एकस्य तूष्णीम्भूतस्य सर्वे तूष्णीम्भवन्ति हि ॥
तस्मादद्वयवादिनां माध्यमिकानां कुतो मिथ्यादर्शनम्? उक्तं च आर्यसमाधिराजे-
यद सुगतु कथां कथेति नाथो वीथिगतान् मनुजान् कृपायमानः ।
निर्मित जिनु तत्र निर्मिनित्व विचरति तेषु प्रणीतबुद्धधर्मान् ॥
प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधयिंसु वराग्रबुद्धज्ञाने ।
(प्प्_१४३)
कद वय लभि ज्ञानमेवरूपं आशय ज्ञात्व जिनो ऽस्य व्याकरोति ॥
रश्मि शतसहस्र अप्रमेयान् अवसिरि पादतलेहि धर्मराजा ।
सर्वि निरय शीतला भवन्ति दुखमपनीय सुखं च वेदयन्ति ॥
धर्म दशबलप्रभाषिते ऽत्र मरुमनुजान विशुद्ध भोति चक्षुः ।
इत्यादि ।
केचि स्पृह जनेन्ति तत्र काले परम अचिन्त्य तेहि लब्धलाभा ।
येहि जिनु निमन्त्रितो नरेन्द्रो न च परियन्त तेषु दक्षिणाया ॥
इत्यादि विस्तरः ॥
तथा आर्यविमलकीर्तिनिर्देशे-
तन्निर्मितबोधिसत्त्वेन गन्धसुगन्धायां लोकधातौ समन्तभद्रतथागतोपभुक्तशेषं भोजनमानीतं नानाव्यञ्जनखाद्यादिसम्प्रयुक्तं पृथक्पृथग्विविधरसमेकभोजनेन सर्वं तच्छ्रावकबोधिसत्त्वसङ्घराजराजामात्यपुरोहितान्तः पुरदौवारिकसार्थवाहादिजनपदं सन्तर्प्य प्रीत्याकारं नाम महासमाधिं लम्भयामास । इति ॥
विनये च पठयते-
पापभिक्षुरप्रतिरूपको भगवता भिक्षुरभिनिर्मितः । तद्वचनेन शीलवतो ऽपि विशुद्धिप्रतिज्ञासंवासः प्रज्ञप्तः इति ॥
३२ ॥
न च केवलं निर्माणदृष्टान्तेन नैःस्वभाव्यदर्शनमुपपद्यमानरूपम्, अपि च अमीभ्यो दृष्टान्तेभ्यः स्फुटं नैःस्वभाव्यं भावानां प्रतीयतामिति प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसन्निभाः ॥
३३ ॥
मूलम्
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसन्निभाः ॥
३३ ॥
तत्र क्लेशा रागादयः, क्लिश्नन्ति सत्त्वचित्तसन्तानानीति कृत्वा । कर्माणि कुशलाकुशलानेञ्ज्यानि । देहाः शरीराणि । कर्तारः आत्मानः । फलानि विपाकाधिपत्यनिष्यन्दादीनि । त एते क्लेशादयो ऽर्थाः गन्धर्वनगरादिवन्निःस्वभावाः वेदितव्याः । तस्मान्माध्यमिकानामेव भावानां स्वभावानभ्युपगमाच्छाश्वतोच्छेददर्शनद्वयप्रसङ्गो नास्तीति विज्ञेयम् ॥
अत्र च कर्मफलसम्बन्धविचारे कुचोद्यशेषाक्षेपपरिहारो मध्यमकावताराद्विस्तरेणावसेयः ॥
(प्प्_१४४)
यथोक्तमार्यरत्नकूटसूत्रे-
पञ्च च भिक्षुशतानि ध्यानलाभीनि उत्थायासनेभ्यः प्रक्रान्तानि इमां गम्भीरां धर्मदेशनामनवबुध्यमानानि अनवतरन्ति अनवगाहमानानि अनधिमुच्यमानानि । भगवानाह- तथा ह्येते काश्यप भिक्षवः आभिमानिकाः इमामनास्रवां शीलविशुद्धिं नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति सन्त्रस्यन्ति सन्त्रासमापद्यन्ते । गम्भीरः काश्यप गाथाभिनिर्हारो गम्भीरा च बुद्धानां भगवतां बोधिः । सा न शक्या अनवरोपितकुशलमूलैः सत्त्वैः पापमित्रपरिगृहीतैरनधिमुक्तिबहुलैरधिमोक्तुम् । अपि च । एतानि काश्यप पञ्च भिक्षुशतानि काश्यपस्य तथागतस्य प्रवचने ऽन्यतीर्थिकश्रावका अभूवन् । तैरेव तस्य काश्यपस्य तथागतस्यान्तिकादुपालम्भाभिप्रायैरेषा धर्मदेशना श्रुता । श्रुत्वा च एकचित्तप्रसादो लब्धः । एवन्तैर्वाग् भाषिता- आश्चर्यं यावत् मधुरप्रियमाणी काश्यपस्तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति । त एतेनैकचित्तप्रसादेन प्रतिलब्धेन कालगताः त्रायस्त्रिंशेषु देवेषूपपन्नाः । ते ततश्च्युताः समानाः इहोपपन्नाः । तेनैव च हेतुना इह मम शासने प्रव्रजिताः । तान्येतानि काश्यप पञ्च भिक्षुशतानि दृष्टिप्रस्कन्धानि इमां गम्भीरां धर्मदेशनां नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति सन्त्रस्यन्ति सन्त्रासमापद्यन्ते कृतं पुनरेषामनया धर्मदेशनया परिकर्म । न भूयो दुर्गतिविनिपातं गमिष्यन्ति । एभिरेव च स्कन्धैः परिनिर्वास्यन्ति ॥
अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म- गच्छ सुभूते, एतान् भिक्षून् सञ्ज्ञपथ । सुभूतिराह- भगवत एव तावदेते भाषितं विलोमयन्ति, कः पुनर्वादो मम? अथ भगवांस्तस्यां वेलायां येन मार्गेणैते भिक्षावो गच्छन्ति स्म, तस्मिन् मार्गे द्रौ भिक्षू निर्मिमीते स्म । अथ तानि पञ्च भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षू निर्मितकौ तेनोपसङ्क्रामन्ति स्म । उपसङ्क्रम्य एतदवोचन्- कुत्र आयुष्मन्तौ गमिष्यथः? ताववोचताम्- गमिष्याव आवामरण्यायतनेषु । तत्र ध्यानसुखसंस्पर्शविहारैर्विहरिष्यावः ॥
॥॥
। तान्यपि पञ्च भिक्षुशतान्येतदवोचन्- वयमप्यायुष्मन्तौ भगवतो धर्मदेशनां नावतरामो नावगाहामहे नाधिमुच्यामहे उत्त्रस्यामः सन्त्रस्यामः सन्त्रासमापद्यामहे । तेन वयमरण्यायतनेषु ध्यानसुखसंस्पर्शविहारैर्विहरिष्याम इति । निर्मितकाववोचताम्- तेन हि आयुष्मन्तः सङ्गास्यामो न विवदिष्यामः । अविवादपरमो हि श्रमणधर्मः । यदिदमायुष्मन्त उच्यते परिनिर्वाणमिति, कतमः स धर्मो यः परिनिर्वास्यति? कश्चित्पुनरत्र कायः आत्मा वा सत्त्वो वा जीवो वा जन्तुर्वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो व, यः परिनिर्वास्यति? कस्य वा क्षयात् परिनिर्वाणम्? ते ऽवोचन् रागद्वेषमोहक्षयात् परिनिर्वाणम् । निर्मितकाववोचताम्- किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षयिष्यथ? ते ऽवोचन्- न ते अध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि ते अपरिकल्पिता उत्पद्यन्ते ॥॥
।
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मफलपरीक्षा नाम सप्तदशमं प्रकरणम् ॥
(प्प्_१४५)