१६
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् ।
अत्राह- विद्यत एव भावानां स्वभावः, संसारसद्भावात् । इह संसरणं संसृतिः गतेर्गत्यन्तरगमनं संसार इत्युच्यते । यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः स्यात्? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम् । तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि संसार एव भवेत् । न त्वस्ति । इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चातः? उभयथा च दोष इत्याह-
विश्वास-प्रस्तुतिः
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः ॥
१ ॥
मूलम्
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः ॥
१ ॥
तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः? तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात् । अथ अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः । ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः ॥
अथापि स्यात्- अनित्या एव सन्तो हेतुफलसम्बन्धपरम्परया अविच्छिन्नक्रमाः सन्तानेन च प्रवर्तमानाः संस्काराः संसरन्तीति । एतदपि नोपपद्यते । कुतः? यत् तावदुत्पद्यते कार्यम्, तस्य संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । यच्च कारणं नष्टम्, तस्यापि संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । संस्कारमात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्, नष्टाजातत्वेन अविद्यमानत्वात् ॥
उत्तरस्मिन् क्षणे उत्पन्ने पूर्वः संसरतीति चेत्, यदि पूर्वोत्तरयोः क्षणयोरेकत्वं स्यात्, स्यादेतदेवम् । न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरूपचक्षुर्विज्ञानानां नास्ति च । किं च एकत्वे सति पूर्वोत्तरक्षणवाच्यतैव न स्यात् । न हि एको देवदत्तः एकदा पूर्वश्चोत्तरश्चेति व्यपदिश्यते । एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात् । अपि च पूर्वक्षणो नष्ट इति न स्यादुत्तरक्षणवदव्यतिरिक्तत्वात् । उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवदव्यतिरिक्तत्वात् । अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात् । अन्यस्य पृथग्जनस्य संसारोत्पत्तिसद्भावात् । निर्वृतश्च प्रदीपः प्रदीपान्तरे ज्वलतीति स्यात् । किं चान्यत् । नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्योदयः स्यादनष्टान्नश्यमानाद्वा? तत्र यदि नष्टादिष्यते, वह्निदग्धादपि बीजादङ्कुरोदयः स्यात्, ततश्च निर्हेतुकः स्यात् । अथ अनष्टात्, एवमपि अविकृते ऽपि बीजे ऽङ्कुरोदयः स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, निर्हेतुकश्चोत्पादः स्यात् । नश्यमानादिति चेत् । नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्च (प्प्_१२४) विहितदोषत्वान्नश्यमानादपि नास्त्युत्पत्तिरिति, कुतः कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था वा भविष्यति? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था च नास्ति, तदा सन्तानो ऽपि नास्ति, तदभावान्नास्ति भवतां संसार इति अनित्यानामपि संस्काराणां नास्ति संसार इति ॥
अत्रैके वर्णयन्ति- सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति । उच्यते । सत्त्वे ऽप्येष समः क्रमः । सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वे ऽपि समो निपतति । तस्मात्सत्त्वो ऽपि न संसरति ॥
१ ॥
अत्राह- नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम् । न चैवमात्मा नित्यानित्यभूतः । तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते । तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति । उच्यते-
विश्वास-प्रस्तुतिः
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति ॥
२ ॥
मूलम्
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति ॥
२ ॥
यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत् । न त्वस्ति । यस्मात् स्कन्धायतनधातुषु पञ्चधा मृग्यमाणो नास्ति । कथं कृत्वा?
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ॥
इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति । नापि तेभ्यो व्यतिरिक्तः । न स्कन्धायतनधातुमान् । न स्कन्धायतनधातुष्वात्मा । नात्मनि स्कन्धायतनधातवः । इत्येवं पञ्चधा मृग्यमाण आत्मा न सम्भवति पूर्वोदितेन न्यायेन । यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा न सम्भवति, स कथमविद्यमानः सन् संसरिष्यतीति? एवमात्मनो ऽपि नास्ति संसारः, वन्ध्यासुतस्येव अविद्यमानत्वात् ॥
२ ॥
अपि च । अयमात्मा-
विश्वास-प्रस्तुतिः
उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥
३ ॥
मूलम्
उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥
३ ॥
(प्प्_१२५)
भवतु काममात्मनः संसारः, यदि अनुपादानस्य सतो ऽस्य संसारो युक्तः स्यात् । कथं पुनरस्य अनुपादानता प्रसज्यत इति प्रतिपादयन्नाह-
उपादानादुपादानं संसरन् विभवो भवेत् इति ।
इह हि मनुष्योपादानाद्देवोपादानं गच्छन् परित्यज्य वा मनुष्योपादानं देवोपादानं गच्छेदपरित्यज्य वा? यदि तावत्परित्यज्य गच्छतीत्युच्यते, तदा पूर्वोपादानस्य परित्यागादुत्तरस्य चानुपादानात्तदन्तराले विभवः स्यात् । विगतो भवो विभवः । भवः पञ्चोपादानस्कन्धाः, तद्रहितः स्यात् । यश्च विभवो ऽनुपादानः, स स्कन्धरहितत्वात् प्रज्ञप्त्युपादानकारणरहितत्वान्निर्हेतुकः स्यात् । यश्च अनुपादानो निरञ्जनो ऽव्यक्तो निर्हेतुकः, कः सः? न कश्चित् सः । नास्त्येव स इत्यर्थः । तस्मिंश्चासति तदभावादेव उपादानमपि निरुपादातृकं नास्तीति किं संसरिष्यति? नास्त्येव तत्, यत्संसरिष्यतीत्यर्थः । अथवा, किमित्येतत् संसरणक्रियाविशेषणम् । ततश्च अविद्यमानत्वात् नैव संसरणक्रियां करिष्यति । एवं तावत्पूर्वोपादानपरित्यागेन संसरणमयुक्तम् । अथ अपरित्यागेन, तथापि नोपपद्यते । किं कारणम्? पूर्वस्यापरित्यागादुत्तरस्य च ग्रहणाद् यस्मादेकस्यात्मनो द्वयात्मकता स्यात् । न चैतदिष्यत इति । तस्मादपरित्यागेनापि संसरणं नास्ति ॥
अथ पूर्वोत्तरयोर्भवयोर्मध्ये आन्तराभविकस्कन्धसम्भवात्, तैश्च सोपादानत्वात् सोपादानं संसरतो ऽपि न विभवताप्रसङ्ग इति । तदपि न युक्तम्, पूर्वभवपरित्यागापरित्यागाभ्यामान्तरामविकस्कन्धसंसारे ऽपि तुल्यप्रसङ्गत्वात् ॥
युगपत्त्यागोपादानाददोष इति चेत्, उच्यते । किमेकदेशेन पूर्वोपादानं त्यजते एकदेशेनान्तराभवोपादानं सञ्चरति, अथ सर्वात्मना? तत्र यदि अवयवेनेति परिकल्प्यते, तदा द्वयात्मकताप्रसङ्गादित्युक्तदोषः । अथ सर्वात्मना, एवमपि स एव विभवताप्रसङ्ग आपद्यते । एतावांस्तु विशेषः यदन्तराभवसञ्चारे ऽतिसामीप्यात् सूक्ष्मं कालमनुपादानः स्यात् । न च सर्वात्मना एकस्य पदार्थस्य अभिन्नपदार्थस्य विषये युगपत् त्यागोपादाने दृष्टे । न हि एकस्य देवदत्तस्य सर्वात्मना गृहाद्गृहं सञ्चरतः एकदा त्यागोपादानक्रिये द्वे सम्भवतः । अथ एकेन पादेन एकस्य परित्यागादपरस्य चोपादानाद् युगपत्त्यागोपादाने परिकल्प्येते, ननु एवं सति पादद्वयवद् द्वयात्मकता आत्मनः स्यात् । अंशेन पूर्वत्रावस्थानादंशेन चोत्तरत्रावस्थानादनेकावयवता प्रसज्येत । तस्माद् यौगपद्येनापि त्यागोपादाने न सम्भवतः इत्यपरिहार एवायम् । तस्मादन्तराभवोपादाने ऽपि स एव दोषप्रसङ्ग इति सर्वथा आत्मनो ऽपि नास्ति संसारः ॥
यदा च संस्काराणामात्मनश्च संसारो नास्ति, तदा नास्त्येव संसार इति स्थितम् ॥
३ ॥
अत्राह- विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात् । इह यो नास्ति, न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा वन्ध्यासूनोरिति । अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम् । तस्मादस्ति संसार इति । उच्यते । स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात् । न त्वस्तीत्याह-
(प्प्_१२६)
विश्वास-प्रस्तुतिः
संस्काराणां न निर्वाणं कथञ्चिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथञ्चिदुपपद्यते ॥
४ ॥
मूलम्
संस्काराणां न निर्वाणं कथञ्चिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथञ्चिदुपपद्यते ॥
४ ॥
यदि निर्वाणं नाम किञ्चित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्येत अनित्यानां वा? तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात्? अनित्यानामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम् । न कथञ्चिदिति न केनापि प्रकारेणेत्यर्थः ॥
अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते ॥
अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणे ऽप्यात्मास्तीत्यभ्युपेत भवति संसार इव । अपि च । सोपादानस्यैवात्मनः अवाच्यता युज्यते । न च निर्वाणे उपादानमस्तीति कुतो ऽस्य अवाच्यता? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपि तु किमसौ निर्वाणे ऽस्ति उत नास्ति? यदि अस्ति, तदा मोक्षे ऽपि तस्य सद्भावान्नित्यता स्यात् । अथ नास्ति, तदा अनित्य आत्मा स्यात् । ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति न स्यात् । अथ निर्वाणे ऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ विज्ञेयः, अथ न? यदि विज्ञेयः, न तर्हि निरुपादानो ऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव । अथ न विज्ञायते, तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतो ऽस्य अवाच्यता? तदेवं निर्वाणमपि नास्ति । तदभावान्नास्ति संसार इति । अत एवोक्तं भगवत्यामष्टसाहस्रिकायाम्-
निर्वाणमप्यायुष्मन् सुभूते मायोपमं स्वप्नोपमम् । बुद्धधर्मा आयुष्मन् सुभूते मायोपमाः स्वप्नोपमा इत्यादि । सचेत कुलपुत्र निर्वाणादप्यधिकतरो ऽन्यो धर्मो ऽभविष्यत्, तमप्यहं मायोपमं स्वप्नोपममिति वदामि ॥
तथा आर्यसमाधिराजभट्टारके-
परमार्थसत्य सुपिनेन समं निर्वाणं स्वप्नसमोतरती ।
मन एवमोतरति येन विदु मनसंवरः कथितु श्रेष्ठु अयम् ॥
तथा-
निरोधसत्यं सुपिनं यथैव स्वप्नस्वभावामथ निर्वृतिं च ।
येनेह वाचोत्तरि बोधिसत्त्वो अयं खु सो वुच्चति वाचसंवरः ॥
(प्प्_१२७)
अत्राह- यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्धमोक्षौ विद्येते । न चाविद्यमानस्य भावस्वभावस्य बन्धमोक्षौ सम्भवतः । तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि बन्धमोक्षावेव स्याताम् । न तु स्तः इत्याह-
विश्वास-प्रस्तुतिः
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥
५ ॥
मूलम्
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥
५ ॥
इह य इमे रागादयः क्लेशाः बद्धानामस्वतन्त्रीकरणे बन्धनमिति व्यपदिश्यते, यैश्च बद्धाः पृथग्जनाः त्रैधातुकं नातिक्रमन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदयव्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरध्वंसिनां नष्टानामसत्त्वान्न सम्भवति । रागादिबन्धनविच्छेदलक्षणो ऽपि मोक्षः अनित्यानां संस्काराणामविद्यमानत्वान्नैव सम्भवति । पूर्ववत् पूर्वोक्तविधिनेत्यर्थः । यथा च पूर्वोक्तविधिना संस्काराणां बन्धमोक्षौ न सम्भवतः, एवं पूर्ववदेव सत्त्वो ऽपि न बध्यते नापि मुच्यते, इत्येवं बन्धमोक्षावपि न स्तः ॥
५ ॥
अत्राह- यद्यपि संस्काराणां सत्त्वस्य वा बन्धो नास्ति, तथापि रागादिकमुपादानाख्यं बन्धनभूतमस्ति, तत्सद्भावाद्बन्धो ऽपि भविष्यतीति । उच्यते । स्यादुपादानम्, बन्धनं यदि कञ्चित्पदार्थं बध्नीयात्, न तु बध्नाति । यथा च न बध्नाति, तथा प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थो ऽथ बध्यते ॥
६ ॥
मूलम्
बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थो ऽथ बध्यते ॥
६ ॥
तत्र विद्यमानोपादानः सोपादानः, स तावद्भावो न बध्यते । यो हि सोपादानः, स बद्ध एव । तस्य पुनरपि बन्धनयोगः किं कुर्यात्? यश्चापि अनुपादानः बन्धनरहितः, असावपि बन्धनरहितत्वात् तथागतवन्न बध्यते । अनुपादानः बन्धनरहितः बध्यत इति परस्परविरुद्धत्वाच्चायुक्तमेतत् । यश्चैवं निरूप्यमाणः सोपादानो निरुपादानो वा न बध्यते, स इदानीं किमवस्थो बध्यताम्? नास्त्येवासौ काचिदपरा अस्यावस्था, यस्यां बध्येतेत्यभिप्रायः । यदा चैवं निरूप्यमाणं बन्धनं न कञ्चिदपि बध्नाति, तदा कञ्चिदप्यबध्नत उपादानस्य रागादेः कुतो बन्धनत्वमिति । तस्माद् बन्धनमपि नास्ति ॥
६ ॥
अपि च ।
बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि ।
न चास्ति तत्
इह बन्ध्यव्यतिरेकेण बन्धनं निगडादिकं पूर्वसिद्धं सत् बन्ध्यं देवदत्तं बध्नातीति दृष्टम् । एवं यदि बन्ध्येभ्यः संस्कारेभ्यः पुद्गलाद्वा बन्ध्यात्पूर्वं रागादिकं बन्धनं सिद्धं स्यात्, तेन पूर्वसिद्धेन बन्धनं स्यात् संस्काराणां पुद्गलस्य वा । तच्चैतन्न सम्भवति निराश्रयस्य रागादिकस्य असिद्धत्वात् । पूर्वसिद्धस्य च बन्धनस्य पश्चाद् बन्ध्येन सह सम्बन्धस्य निष्प्रयोजनत्वात् । (प्प्_१२८) बन्ध्यस्य च बन्धनात्पृथक्सिद्धस्य पूवबन्धनापेक्षानिष्प्रयोजनत्वाच्च नास्ति बन्ध्याद्बन्धनस्य पूर्वसिद्धिः । तस्मान्नैव बन्धनं कञ्चिदपि बध्नाति । न च कञ्चिदप्यबध्नतो बन्धनत्वं युक्तमिति नास्ति बन्धनम्। बन्धनाभावाच्च बन्ध्यो ऽपि नास्तीति सिद्धम् । यत्पुनरत्र शेषं दूषणं तत्-
शेषमुक्तं गम्यमानगतागतैः ॥
७ ॥
इति वेदितव्यम् । श्लोकपाठपरिवर्तनेन-
बद्धो न बध्यते तावदबद्धो नैव बध्यते ।
बद्धाबद्धविनिर्मुक्तो बध्यमानो न बध्यते ॥
इत्यादिना योज्यम् ॥
७ ॥
अत्राह- यद्यपि भवता बन्धनं प्रतिषिद्धम्, तथापि संसारचारकागारावबद्धानामत्राणानां सत्त्वानां महाकारुणिकैस्तथागतैः शीलसमाधिप्रज्ञात्मकरकन्धत्रयोपदेशो यदर्थमुक्तः, स तावन्मोक्षो ऽस्ति । न च अबद्धस्य पुंसो मोक्षः । तस्माद् बन्धो ऽप्यस्तीति । उच्यते । स्याद्बन्धयदि मोक्ष एव स्यात् । इहायं मोक्षः परिकल्प्यमानः बद्धस्य वा परिकल्प्येत अबद्धस्य वा? किचातः? उभयथा च न युज्यत इत्याह-
विश्वास-प्रस्तुतिः
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥
८ ॥
मूलम्
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥
८ ॥
तत्र बद्धस्य मोक्षो न सम्भवति बद्धत्वात् । अथ बद्धस्य पश्चादुपायेन मोक्ष इति कृत्वा बद्ध एव मुच्यते इति स्यात्, न तर्हि बद्धो मुच्यत इति वक्तव्यम्, किं तर्हि मोक्ष्यत इति । वर्तमानसामीप्यादेव मुच्यत इति चेत्, यदि कदाचिदपि मोक्षः सम्भवेत्, तदा समीपे स्यात् यदा तु कस्याञ्चिदप्यवस्थायां मोक्षे इष्यमाणे बद्धस्य मोक्षासम्भवेन मोक्षाभावः प्रतिपिपादयिषित तदा कुतो वर्तमानसमीपता? एवं तावद् बद्धो न मुच्यते इति स्थितम् ॥
इदानीमबद्धो ऽपि न मुच्यते । स हि मुक्त एव । तस्य पुनरपि मोक्षः किं कुर्यात् । मुक्तानां चार्हतां पुनरपि मोक्षापेक्षत्वाद् बद्धतैव स्यात्, ततश्चार्हतो ऽपि बन्धः स्यात् ॥
अथ स्यात्- अबद्धस्य मोक्षासम्भवाद् बद्ध एव मुच्यते इति, एवं सति बद्धे मुच्यमाने परिकल्प्यमाने बद्धत्वान्मुच्यमानत्वाच्च यौगपद्येन बन्धमोक्षणे स्याताम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेकस्मिन् काले बन्धमोक्षणे उपपद्येते । यतश्चैवं बद्धाबद्धयोर्मोक्षासम्भव, तस्मान्मोक्षो ऽपि नास्ति, तदभावाच्च बन्धनमपि नास्तीति सिद्धम् ॥
अत्राह- यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षौ च प्रतिषिद्धौ, य एष संसारविनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासञ्छादितसत्पथं जात्यादिविविधा पर्यन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसङ्कुलं विंशतिशिखरसमुन्नततरातिपृथुसत्कायदृष्टिमहाशैलपरिवेष्टितसर्वदिङ्मुखं (प्प्_१२९) विषयसुखाशातिपिच्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीर्षूणां परमाश्वासकरः कुशलो महाधर्मच्छन्दः, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव सञ्जायते, यश्चाप्येवमुत्पादितकुशलामलविपुलधर्मच्छन्दानां कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमो निर्वाणप्राप्तये, ननु तम्यापि वैयर्थ्यं स्यादिति उच्यते । यो ह्येवं निःस्वभावेषु सर्वभावेषु प्रतिबिम्बमरीचिकाजलालातचक्रस्वप्नमायेन्द्रजालसदृशेषु आत्मात्मीयस्वभावरहितेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहङ्कारममकारसमुदाचारपरिग्रहेणोत्पाद्य मन्यते-
विश्वास-प्रस्तुतिः
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥
९ ॥
मूलम्
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥
९ ॥
अहमनुपादानः सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहङ्कारममकाराख्यं सत्कायदृष्टयुपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टानां शान्तिः सम्भाव्यते । निरवशेषग्रहप्रहाणेनैव मोक्षावाप्तये यावदहम्ममेति ग्राहाभिनिवेशः, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेशः, यावच्च उपादानत्यागाभिनिवेशः, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्व एवारम्भा व्यर्था भवन्ति । तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम् । यथोक्तं भगवता आर्यध्यायितमुष्टिसूत्रे-
अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्- चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ताः सत्वाः एवमिममभूतं संसारं नातिक्रामन्ति । एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- देशयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति । भगवानाह- आत्मात्मीयोपलम्भान्मञ्जुश्रीः सत्त्वाः संसारं नातिक्रामन्ति । तत् कस्य हेतोः? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति । बालो मञ्जुश्रीरश्रुतवान् पृथग्जनः अत्यन्तापरिनिर्वृतान् सर्वधर्मानप्रजानानः आत्मानं परं च उपलभते । उपलभ्य अभिनिविशते । अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते । स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा । सः असत्समारोपेण विकल्पयति- अहं रक्तः, अहं द्विष्टः, अहं मूढः इति । तस्य तथागतशासने प्रव्रजितस्य एवं भवति- अहं शीलवान्, अहं ब्रह्मचारीति । अहं संसारं समतिक्रमिष्यामि । अहं निर्वाणमनुप्राप्स्यामि । अहं दुःखेभ्यो मोक्ष्यामि । स विकल्पयति- इमे कुशला धर्माः, इमे ऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः । स विकल्पयति- अनित्याः सर्वसंस्काराः, आदीप्ताः सर्वसंस्काराः, यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम् । तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमित्तपुरोगतः । तस्यैवं भवति- एषा सा दुःखपरिज्ञा
(प्प्_१३०) येयमेषां धर्माणां परिज्ञा । तस्यैवं भवति- यन्न्वहं समुदयं प्रजहेयम् । स एभ्यो धर्मेभ्य आर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति सन्त्रस्यति सन्त्रासमापद्यते । तस्यैवं भवति- इयमेषां धर्माणां साक्षात्क्रिया । इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्यो ऽर्तीयना विजुगुप्सना । तस्यैव भवति- निरोधः साक्षात्कर्तव्यः । समुदयं कल्पयित्वा निरोधे सञ्जानाति । तस्यैवं भवति- एषा सा निरोधसाक्षात्क्रिया । तस्यैवं भवति- यन्नूनमहं मार्गं भावयेयम् । स एको रहोगतः तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते । तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते । तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते । तस्यैवं भवति- मुक्तो ऽस्मि सर्वदुःखेभ्यः । न मम भूय उत्तरिं किञ्चित्करणीयम् । अर्हन्नस्मि । इत्यात्मानं सञ्जानाति । समरणकालसमये उत्पत्तिमात्मनः समनुपश्यति । तस्य काङ्क्षा च विचिकित्सा च भवति बुद्धबोधौ । स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति । तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिं चोत्पादयति ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह- येन मञ्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः, तेन दुःखं परिज्ञातम् । येन असमुत्थिताः सर्वधर्मा दृष्टाः, तस्य समुदयः प्रहीणः । येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः । येन अत्यन्तशून्याः सर्वधर्मा दृष्टाः, तेन मार्गो भावितः । येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति न विकल्पयति- इमे कुशला धर्माः, इमे ऽकुशला धर्माः । इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः । दुःखं परिज्ञातव्यम् । समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य इति । तत्कस्य हेतो? तथाहि स तं धर्मं न समनुपश्यति यं परिकल्पयेत् । बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च । स न कञ्चिद्धर्ममाव्यूहति निर्व्यूहति । तस्य एवमनाव्यूहतो ऽनिर्व्यूहतः त्रैधातुके चित्त न सज्जति, अजात सर्वत्रैधातुकं समनुपश्यति ॥
इति विस्तरः ॥
९ ॥
अत एव अस्मादागमात् परमार्थसत्य उच्यते-
विश्वास-प्रस्तुतिः
न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥
१० ॥
मूलम्
न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥
१० ॥
यत्र हि नाम परमार्थसत्ये नैवं न निर्वाणसमारोपः न निर्वाणाध्यारोपः सम्भवति, अनुपलभ्यमानत्वात्, नापि संसारापकर्षणं संसारपरिक्षयो न सम्भवति, कस्तत्र संसारः यो विकल्प्यते क्षयार्थम्, किं वा तत्र निर्वाणं यत्प्राप्यर्थं विकल्प्यते? अथवा । यत्र निर्वाणे कस्यचित् सत्त्वस्य संसारादपकर्षणमपनयनं निर्वाणे च समारोपणं प्रयत्नवतापि न शक्यते कर्तुं संसारनिर्वाणयोरप्यनुपलभ्यमानत्वात्, तत्र किं निर्वाणं विकल्प्यते? नैव हि किञ्चिद्विकल्पयितुं (प्प्_१३१) युक्तम् । अविकल्पयतश्च नियतं यथोदितसंसाराटवीकान्तारातिक्रमो निर्वाणपुरप्राप्तिश्च भविष्यतीति । अत एवोक्तमार्यमारदमनसूत्रे-
अथ मञ्जुश्रीः कुमारभूतः तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म, यन्मारः पापीयानिन्द्रकीलबन्धनबद्धो धरणीतलप्रपतितः उत्क्रोशति स्म- गाढबन्धनबद्धो ऽस्मि । मञ्जुश्रीराह- अस्ति पापीयन्नेतस्माद्बन्धनाद्गाढतरं बन्धनं येन त्वं नित्यबद्धो न पुनर्बध्यसे? तत्पुनः कतमत्? यदिदमस्मिमानविपर्यासबन्धनं तृष्णादृष्टिबन्धनम्, इदं पापीयन् बन्धनम् । अतो बन्धनाद् गाढतरं बन्धनं न संविद्यते । तेन त्वं नित्यबद्धो न पुनर्बध्यसे । पेयालम् । आह- किं त्वं पापीयन्नात्तमना भूयाः यदि मुच्येथाः । आह- आत्तमना भवेयम्, परमात्तमना भवेयम् ॥
अथ खलु सुयामो देवपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्- उत्सृज मञ्जुश्रीर्मारं पापीयांसम् । गच्छतु स्वभवनम् । अथ खलु मञ्जुश्रीः कुमारभूतो मारं पापीयांसमेतदवोचत्- केनासि पापीयन् बद्धो यदात्मानमुत्सृजसि? आह- न जाने मञ्जुश्रीः- केनास्मि बद्धः इति । आह- यथा त्वं पापीयन् अबद्धो बद्धसञ्ज्ञी, एवमेव सर्वबालपृथग्जना अनित्ये नित्यसञ्ज्ञिनः, दुःखे ऽदुःख सञ्ज्ञिनः, अशुभे शुभसञ्ज्ञिनः, अनात्मनि आत्मसञ्ज्ञिनः, अरूपे रूपसञ्ज्ञिनः, अवेदनायां वेदनासञ्ज्ञिनः, असञ्ज्ञायां सञ्ज्ञासञ्ज्ञिनः, असंस्कारे संस्कारसञ्ज्ञिनः, अविज्ञाने विज्ञानसञ्ज्ञिनः । अपि तु खलु पुनः पापीयन्, यस्त्वं मोक्ष्यसे, कुतो मोक्ष्यसे? आह- नाहं जाने कुतश्चिन्मोक्ष्ये । आह- एवमेव पापीयन् ये ऽपि मोक्ष्यन्ते, नते कुतश्चिद्विमोक्ष्यन्ते, अन्यत्र या असौ असद्भूतसञ्ज्ञा । तां परिजानन्ति, तां परिज्ञाय विमुक्ता इत्युच्यन्ते ॥
इति ॥
अत एव आगमाद् असद्विपर्यासकल्पनामात्रलताबन्धनविच्छेदो विमोक्षो निर्वाणमित्युच्यते स्वप्नोपलब्धदहनज्वालानिर्वापणवत् तदनिलसलिलैरिति ॥
१० ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ बन्धमोक्षपरीक्षा नाम षोडशमं प्रकरणम् ॥
(प्प्_१३२)