१५ स्वभावपरीक्षा

१५
स्वभावपरीक्षा पञ्चदशमं प्रकरणम् ।

अत्राह- विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो हेतुप्रत्यया अङ्करसंस्कारादीनां निष्पादकाः, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते । यदि भावानां संस्काराङ्कुरादीनां स्वभावो ऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम् । यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते एवमन्यदपि तदुत्पत्तये न कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

न सम्भवः स्वभावस्य
युक्तः प्रत्ययहेतुभिः ।

मूलम्

न सम्भवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।

अथ स्यात्- नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावो ऽस्ति यतो ऽस्य विद्यमानत्वादुत्पत्तिवैयर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो भवतीति । एवमपीःयमाणे-

विश्वास-प्रस्तुतिः

हेतुप्रत्ययसम्भूतः
स्वभावः कृतको भवेत् ॥

१ ॥

मूलम्

हेतुप्रत्ययसम्भूतः स्वभावः कृतको भवेत् ॥

१ ॥

अथ स्यात्- इष्यत एव हेतुप्रत्ययसम्भूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह-

विश्वास-प्रस्तुतिः

स्वभावः कृतको नाम भविष्यति पुनः कथम् ।

मूलम्

स्वभावः कृतको नाम भविष्यति पुनः कथम् ।

कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसङ्गतार्थमेतत् । इह हि स्वो भावः स्वभाव इति व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्प्यं धातुपिशाचप्रत्ययनिष्पादितः कर्केटनादीनां पद्मरागादिभावश्च । यस्तु अकृतकः स स्वभावः, तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च । स हि तेषां पदार्थान्तरसम्पर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं ब्रूमः- यदेतदौष्ण्यं तदष्यग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात्, इह मणीन्धनादित्यसमागमादरणिनिर्धर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तमौष्ण्यं सम्भवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत् स्वभावो नैव भवतीति स्फुटमवसीयते ॥

ननु च गोपालाङ्गना-जन-प्रसिद्धम् एतद्
अग्नेर् औष्ण्यं स्वभाव इति ।
किं खलु अस्माभिर् उक्तं न प्रसिद्धम् इति?

एतत्तु वयं ब्रूमः-
नायं स्वभावो भवितुम् अर्हति
स्वभाव-लक्षण-वियुक्तत्वात् ।
अ-विद्या-विपर्यासानुगमात्तु
लोको निःस्वभावम् एव भाव-जातं
स-स्वभावत्वेन प्रतिपन्नः ।

यथा हि (प्प्_११५) तैमिरिकाः
तिमिर-प्रत्ययाद्
असन्तम् एव केशादि-स्वभावं स-स्वभावत्वेनाभिनिविष्टाः,
एवम् अविद्या-तिमिरोपहत-मति-नयनतया बाला
निःस्वभावं भावजातं
सस्वभावत्वेनाभिनिविष्टा
यथाऽभिनिवेशं लक्षणम् आचक्षते - “अग्नेरौष्ण्यं स्वलक्षणम्” -
ततो ऽन्यत्रानुपलम्भाद्,
अ-साधारणत्वेन स्वम् एव लक्षणम् इति कृत्वा ।

बाल-जन-प्रसिद्धयैव च भगवता
तद् एवैषां सांवृतं स्वरूपम् अभिधर्मे व्यवस्थापितम् ।
साधारणं त्व् अनित्यत्वादिकं
सामान्य-लक्षणम् इति चोक्तम् ।

यदा तु विगताविद्या-तिमिरावदात-प्रज्ञा-चक्षुषां दर्शनम् अपेक्ष्यते,
तदा वितिमिरैः तैमिरिकोपलब्ध-केशादर्शनवत्
बाल-जन-मति-परिकल्पितानुपलब्ध-स्वभावैर् आर्यैः
पुर उच्यते परहित-व्यापारैः,
“नायं स्वभावो भावानाम्” इति ।
यथोक्तम् आर्यलङ्कावतार-सूत्रे-

केशोण्डुकं+++(=केशपिण्डम्)+++ यथा मिथ्या
गृह्यते तैमिरिकैर् जनैः ।
तथा भावविकल्पो ऽयं
मिथ्न्नया बालैर्विकल्प्यते ॥

न स्वभावो न विज्ञप्तिर्
न च वस्तु न चालयः ।
बालैर् विकल्पिता ह्येते
शवभूतैः कुतार्किकैः ॥

इति ।

तथा-

स्वभावानुत्पत्तिं सन्धाय महामते
मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः ॥

इति विस्तरः ॥

अत्राह- यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसम्भूतत्वेन कृतकत्वान्निःस्वभावमित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते-

विश्वास-प्रस्तुतिः

अ-कृत्रिमः स्वभावो हि
निरपेक्षः परत्र च ॥

२ ॥

मूलम्

अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥

२ ॥

इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपामौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि । यत्तु यस्य परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वतन्त्रम् । यतश्चैवं कृत्रिमस्य परसापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वम्मभूत्वा पश्चादुत्पादेन कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रये ऽप्यव्यभिचारि निजं रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाद्यन्न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत् पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्नेः तदित्थं स्वरूपमस्ति? न तदस्ति, न चापि नास्ति स्वरूपतः । यद्यपि एवम्, तथापि श्रोतृणामुत्त्रासपरिवर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः । यथोक्तं भगवता-

अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ।
श्रूयते देश्यते चापि समारोपादनक्षरः ॥

इति ।

इहापि च वक्ष्यति-

(प्प्_११६)
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥

यदि खलु तदध्यारोपाद्भवद्भिरस्तीत्युच्यते, कीदृशं तत्? या सा धर्माणां धर्मता नाम, सैव तत्स्वरूपम् । अथ केयं धर्माणां धर्मता? धर्माणां स्वभावः । को ऽयं स्वभावः? प्रकृतिः । का चेयं प्रकृतिः? येयं शून्यता । केयं शून्यता? नैःस्वाभाव्यम् । किमिदं नैःस्वाभाव्यम्? तथता । केयं तथता? तथाभावो ऽविकारित्वं सदैव स्थायिता । सर्वथानुत्पाद एव ह्यग्न्यादीनां परनिरपेक्षत्वादकृत्रिमत्वात्स्वभाव इत्युच्यते ॥

एतदुक्तं भवति- अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगताविद्यातिमिराणामार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते । तस्य चेदं लक्षणम्-
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इति व्यवस्थापयाम्बभूवुराचार्या इति विज्ञेयम् । स चैष भावानामनुत्पादात्मकः स्वभाव अकिञ्चित्त्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम् । यथोक्तं भगवता-

भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥

इति ॥

२ ॥

अत्राह- यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात् सति च परभावे स्वभावो ऽपि भविष्यति । स्वभावमन्तरेण परभावाप्रसिद्धेरिति । उच्यते-

विश्वास-प्रस्तुतिः

कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥

३ ॥

मूलम्

कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥

३ ॥

इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते । यदि हि अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यपदिश्येत । यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात्? परभावाच्च स्वभावो ऽपि नास्ति इति सिद्धम् ॥

३ ॥

अत्राह- यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात् । स च भावो भवन् स्वभावो वा भवेत्, परभावो वा । तस्मात्स्वभावपरभावावपि भविष्यत इति । उच्यते-

विश्वास-प्रस्तुतिः

स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे वा सति भावो हि सिध्यति ॥

४ ॥

मूलम्

स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे वा सति भावो हि सिध्यति ॥

४ ॥

(प्प्_११७)
भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा । तौ च पूर्वोक्तविधिना न स्तः, इति तयोरभावाद्भावो ऽपि नास्तीत्यवधार्यताम् ॥

४ ॥

अत्राह- यद्यपि भवता भावः प्रतिषिद्धः, तथाप्यभावो ऽस्ति, प्रतिषेधाभावात् । ततश्च भावो ऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति । उच्यते । स्याद्भावः, यदि अभाव एव स्यात् । न त्वस्तीत्याह-

विश्वास-प्रस्तुतिः

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं व्रुवते जनाः ॥

५ ॥

मूलम्

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं व्रुवते जनाः ॥

५ ॥

इह हि यदि भावो नाम कश्चिदभविष्यत्, स्यात्तस्यान्यथाभावादभावः । घटादयो हि वर्तमानावस्थायाः प्रच्युताः सन्तः अन्यथाभावमापन्नाः अभावध्वनिवाच्या भवन्ति लोके । यदा त्वमी घटादयो भावरूपत्वेनैवासिद्धाः, तदा कुतो ऽविद्यमानस्वभावानामन्यथात्वमिति । अतः अभावो ऽपि नास्ति ॥

५ ॥

तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यातिमिरोपहतमतिनयनतया विपरीतम्-

विश्वास-प्रस्तुतिः

स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥

६ ॥

मूलम्

स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥

६ ॥

ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्याः काठिन्यं स्वभावः, वेदनाया विषयानुभवः, विज्ञानस्य विषयप्रतिविज्ञप्तिः स्वभावः, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्यद्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयन्ति, वर्तमानावस्थं च विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति । यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादीनामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थस्वभावमनुवर्णयन्ति तथागताः । स्वयमविपरीताशेषपदार्थतत्त्वसम्बोधात् । अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणाः, सोपपत्तिकत्वेनाविसंवादकत्वात् । अत एव च आप्तेभ्यः प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति समन्तात् तत्त्वं गमयतीति वा, आमिमुख्याद्गमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात् सम्बुद्धवचनस्यैव आगमत्वं व्यवस्थाप्यते । तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्, आगमाभासत्वं च व्यवस्थाप्यते ॥

६ ॥

यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, अत एव मुमुक्षूणां विनेयजनानाम्-

विश्वास-प्रस्तुतिः

कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥

७ ॥

मूलम्

कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥

७ ॥

उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे-

(प्प्_११८)
यद्भूयसा कात्यायन अयं लोको ऽस्तितां वा अभिनिविष्टो नास्तितां च । तेन न परिमुच्यते । जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो न परिमुच्यते । पाञ्चगतिकात्संसारचारकागारबन्धनान्न परिमुच्यते । मातृमरणसन्तापदुःखान्न परिमुच्यते । पितृमरणसन्तापदुःखादिति विस्तरः ॥

इदं च सूत्रं सर्वनिकायेषु पठयते । तदस्मादागमात् यथोपवर्णितायाश्चोपपत्तेर्नार्हति प्राज्ञस्वभावपरभावभावाभावदर्शनं तथागतवचनादत्यन्तविरुद्धमास्थातुम् । भगवता प्रतिषिद्धत्वात् । किंविशिष्टेन भगवता? भावाभावविभाविना । भावाभावौ विभावयितुं शीलमस्येति भावाभावविभावी । यथावस्थितभावाभावाविपरीतस्वभावपरिज्ञानाद् भावाभावविभावीति भगवानेवोच्यते । तेन भगवता भावाभावविभाविना यस्मादस्तित्वञ्च नास्तित्वं च उभयमेतत् प्रतिषिद्धम्, तस्मान्न युक्तं भावाभावदर्शनं तत्त्वमित्यास्थातुम् ॥

तथा-

अस्तीति काश्यप अयमेको ऽन्तः । नास्तीति काश्यप अयमेको ऽन्तः । यदेनयोरन्तयोर्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमां प्रतिपद् भूतप्रत्यवेक्षा इति ॥

तथा-

अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता ।
तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥

अस्तीति नास्तीति विवाद एषः शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्त्या न दुःखं प्रशाम्यति अविवादप्राप्त्या च दुःखं निरुध्यते ॥

इति ।

अत्राह- यदि पुनरेवमग्न्यादीनां स्वभावत एवास्तित्वं स्यात्, को दोषः स्यात्? उक्तदोषः-

हेतुप्रत्ययसम्भूतः स्वभावः कृतको भवेत् ।

इत्यादिना ॥

७ ॥

अपि च । यदि अयमेषामग्न्यादीनां स्वभावः स्यात्, तस्य विद्यमानस्य सतो न स्यात् पुनरन्यथात्वमिति प्रतिपादयन्नाह-

यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता ।

(प्प्_११९)
यदि अग्न्यादेर्भावस्य प्रकृत्या स्वभावतो ऽस्तित्वम्, तदा अस्य स्वभावस्य प्रकृत्या विद्यमानस्य पुनरन्यथात्वं न स्यात् । यस्मात्-

प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥

८ ॥

यदि एषामग्न्यादीनामियमेव प्रकृतिः स्यात्, स्वभावः स्यात्, तदा प्रकृतेरविकारिणीत्वान्न कदाचित्पुनरन्यथाभाव उपपद्येत । न हि आकाशस्यानावरणत्वं कदाचिदप्यन्यथात्वं प्रतिपद्यते । एवमग्न्यादीनामपि प्रकृत्या विद्यमानानां पुनरन्यथात्वं न स्यात् । उपलभते च भवानेषामन्यथात्वप्रबन्धोपरमलक्षणं विनाशम् । तस्माद्विपरिणामधर्मित्वादपामौष्ण्यवत् नायमेषां स्वभाव इति प्रतीयताम् ॥

८ ॥

अत्राह- यदि प्रकृत्या विद्यमानस्यान्यथात्वासम्भवादन्यथात्वस्य च उपलभ्यमानत्वात् प्रकृतिरेषां भावानां नास्तीत्युच्यते, ननु च एवमपि-

प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति ।

कस्य इदानीं प्रकृत्या स्वरूपेणाविद्यमानस्य खपुष्पस्येव अन्यथात्वं भविष्यति? तस्मादविद्यमानप्रकृतिकस्य अन्यथात्वानुपलम्भात्, अन्यथात्वस्य च दर्शनात्, अस्त्येव स्वभाव इति । उच्यते । यदि तावकेन मतेन प्रकृत्या स्वभावेन असंविद्यमानस्य अन्यथात्वाभावाद् अन्यथात्वस्य च दर्शनात्प्रकृतिरित्युच्यते, एवमपि-

प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति ॥

९ ॥

कस्येदानीं प्रकृत्या स्वभावेन विद्यमानस्य वर्तमानस्यैव अन्यथात्वं भविष्यति? तस्मात् प्रकृत्या विद्यमानस्य अन्यथात्वं नास्तीति सर्वथा अन्यथात्वासम्भव एव । ततश्च नास्ति प्रकृतिर्भावानामिओति विज्ञेयम् ॥

९ ॥

यच्चाप्युक्तम्- अन्यथात्वस्य दर्शनान्नास्ति प्रकृतिरिति, तदपि परप्रसिद्धया अन्यथात्वदर्शनमधिकृत्योक्तम्, न त्वस्माभिः कदाचिदपि कस्यचिदन्यथात्वमभ्युपेतम् । तदेवमत्यन्ततः प्रकृतावसंविद्यमानायां सर्वधर्मेषु असंविद्यमानेषु अस्वभावेषु तदन्यथात्वे च असंविद्यमाने यो हि इदानीमस्तित्वं नास्तित्वं च भावानां परिकल्पयति, तस्य एवं परिकल्पयतो नियतमेव-

अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।

प्रसज्यत इति वाक्यशेषः । तच्चैतत् शाश्वतोच्छेददर्शनं स्वर्गापवर्गमार्गान्तरायकरत्वाद् यस्मान्महानर्थकरम्,

तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥

१० ॥

कस्मात्पुनर्भावाभावदर्शने सति शाश्वतोच्छेददर्शनप्रसङ्गो भवतीति? यस्मात्-

विश्वास-प्रस्तुतिः

अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् ।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥

११ ॥

मूलम्

अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् ।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥

११ ॥

(प्प्_१२०)
यत् स्वभावेन अस्तीत्युच्यते, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनमापद्यते । पूर्वं च वर्तमानावस्थायां भावस्वरूपमभ्युपेत्य इदानीं तद्विनष्टत्वान्नास्तिति पश्चादभ्युपगच्छतः उच्छेददर्शनं प्रसज्यते । यस्य तु भावस्वभाव एव नोपपद्यते, न तस्य शाश्वतोच्छेददर्शनप्रसङ्गः, भावस्वभावानुपलम्भात् ॥

ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छाश्वतदर्शनम्, उच्छेददर्शनं तु नियतं प्रसज्यते इति । नैवमभावदर्शनं भवति । यो हि पूर्वं भावस्वभावमभ्युपेत्य पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापवादात् स्यादभावदर्शनम् । यस्तु तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किञ्चिदुपलभते, स नास्तीति ब्रुवन् किञ्चिन्नास्तीति ब्रूयात् प्रतिषेध्याभावात् । विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूमः- न सन्ति सर्वभावाः इति । न चैवं ब्रुवतामस्माकं परहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्गः । यथोक्तं सूत्रे-

यो हि भगवन् पूर्वं रागद्वेषमोहभावाभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोहभावा इति ब्रवीति, स भगवन् वै नास्तिको भवति । इति विस्तरः ॥

यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावादस्तित्वदर्शनं परिहरति, सङ्क्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावान्नास्तित्वदर्शनं परिहरति, तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्वनास्तित्वदर्शनद्वयस्यापि उपनिपातात् कुतो ऽन्तद्वयपरिहारः? हेतुप्रत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपादनादयुक्तमेवास्य व्याख्यानम् । तदेवं मध्यमकदर्शने एव अस्तित्वनास्तित्वद्वयदर्शनस्याप्रसङ्गः, न विज्ञानवादिदर्शनादिष्विति । विज्ञेयम् । अत एवोक्तमार्यरत्नावल्याम्-

ससाङ्ख्यौल्लूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम् ।
पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥

धर्मयौतकमित्यस्मादस्तिनास्तिव्यतिक्रमम् ।
विद्धि गम्भीरमित्युक्त बुद्धानां शासनामृतम् ॥

इति ॥

तथाविधविनेयजनबोधानुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता महाकरुणापरतन्त्रतया विज्ञानादिवादो देशितः साम्मितीयपुद्गलवादवत्, न नीतार्थः इति विज्ञेयम् । यथोक्तमार्यसमाधिराजभट्टारके-

नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता ।
यस्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतो जानति सर्वधर्मान् ॥

(प्प्_१२१)
एतच्च आर्याक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति । भावाभावदर्शनद्वयप्रसङ्गो यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरेतद्दर्शनद्वयनिरासेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथावदिति । एतच्चोक्तं भगवता-

भाव अभाव विभावयि ज्ञानं सर्वि अचिन्तिय सर्वि अभूतं ।
ये पुन चित्तवशानुग बालाः ते दुखिता भवकोटिशतेषु ॥

भावानभावानिति यः प्रजानती स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥

इति ।

तथा-

स्मराम्यहं पूर्वमतीत अध्वनि अचिन्तिये कल्पि नराणमुत्तमः ।
उत्पन्नु लोकार्थकरो महर्षी नामेन सो ऽभावसमुद्गतो ऽभूत् ॥

स जातमात्रो गगने स्थिहित्वा सर्वाण धर्माणभाव देशयि ।
तदानुरूपं कृत नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञयी ॥

देवापि सर्वे प्रमुमोचु शब्दं अभावनामेति जिनो भविष्यति ।
यो जातमात्रः पद सप्त प्रक्रमन् अभाव धर्माण समं प्रकाशयी ॥

बुद्धो यदा भेष्यति धर्मराजः सर्वाण धर्माण प्रकाशको मुनिः ।
तृणगुल्मवृक्षौषधिशैलपर्वते अभाव धर्माण रवो भविष्यति ॥

(प्प्_१२२)
यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः ।
तावन्ति खो तस्य तथागतस्य रवु निश्चरी लोकविनायकस्य ॥

इति ।

भवतीति भावः सत्ता । न विद्यते सत्ता स्वभावः सर्वभावानामित्यभावाः सर्वधर्माः, शून्याः सर्वधर्मा निःस्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्यानुपपत्तेः ।

अभाव धर्माण रवो भविष्यति

इत्यादिना सूत्रार्थो ऽवगन्तव्यः ॥

यावन्ति शब्दास्तहि लोकधातौ
सर्वे ह्यभावा न हि कश्चि भावः । इत्यादि ।

भूत्वा अभावप्रतिषेधविवक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ॥

(प्प्_१२३)