१४ संसर्गपरीक्षा

१४
संसर्गपरीक्षा चतुर्दशमं प्रकरणम् ।

अत्राह- अस्त्येव भावस्वभावः, तत्संसर्गोपदेशात् । इह यन्नास्ति, न तस्य संसर्गः, तद्यथा वन्ध्यासुतदुहित्रोः । अस्ति च संस्काराणां संसर्गोपदेशः । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्, त्रयाणां सन्निपातः स्पर्शः, स्पर्शसहजा वेदनेति विस्तरः । तथा सञ्ज्ञा च वेदना च संसृष्टावेतौ धर्मौ नासंसृष्टाविति संस्काराणां संसर्गोपदेशः । तदेवं संसर्गोपदेशाद्विद्यत एव भावस्वभाव इति । उच्यते । स्यादेतदेवम्, यदि संसर्ग एव भवतो भवेत्, न त्वस्ति, यस्मात्-

विश्वास-प्रस्तुतिः

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योन्येन ब्रजन्त्युत ॥

१ ॥

मूलम्

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योन्येन ब्रजन्त्युत ॥

१ ॥

तत्र द्रष्टव्यं रूपम्,दर्शनं चक्षुः, द्रष्टा विज्ञानम् । एषां त्रयाणां द्विशो द्विशः संसर्गो नास्ति । चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति । इत्येवं द्विशो द्विशः संसर्गो न भवति । सर्वशो ऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति ॥

१ ॥

यथा च द्रष्टव्यदर्शनद्रष्टणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,

एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।

रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो नास्ति । यथा चैषाम्, एवम्-

त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥

२ ॥

अन्योन्येन संसर्गं न व्रजन्ति । त्रयः प्रकारास्त्रिधा, त्रिधाभावस्त्रैधम् । तेन त्रैधेन शेषाः क्लेशा द्वेषमोहादयः, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतृश्रोतव्यादिना च ॥

२ ॥

कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह-

विश्वास-प्रस्तुतिः

अन्येनान्यस्य संसर्गस्तच्चान्यत्वम्न विद्यते ।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥

३ ॥

मूलम्

अन्येनान्यस्य संसर्गस्तच्चान्यत्वम्न विद्यते ।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥

३ ॥

यदित्ययं यस्मादर्थे । यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदकयोरिव अन्येन अन्यस्य संसर्गः स्यात् । तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न सम्भवति, अतो नैते संसर्ग ब्रजन्ति ॥

३ ॥

अपि च ।

विश्वास-प्रस्तुतिः

न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥

४ ॥

मूलम्

न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥

४ ॥

न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न सम्भवति, घटपटादीनामपि पदार्थानां सर्वेषां नैव सम्भवतीत्यवसीयताम् ॥

४ ॥

(प्प्_१११)
यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतो ऽन्यत्वमसत्, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृते ऽन्यतः ।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥

५ ॥

मूलम्

अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृते ऽन्यतः ।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥

५ ॥

इह यदेतद् घटाख्यं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति । अन्यवस्तुनः ऋते, ऋते ऽन्यतः, विना अन्यत्, अन्यदन्यन्न भवति । यच्च पटाख्यं वस्तु अन्यद् घटाख्यं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुनः तद् घटाख्यं वस्तु नान्यद्भवतीत्यवसीयताम् । यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षत्वाद् बीजाङ्कुरवत् ह्रस्वदीर्घवच्चेति । तथा च वक्ष्यति-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतत् ॥

इति ॥

५ ॥

अत्राह- यदि घटादन्यः पटः स्यात्, तं च पृथग्भूतं पटमपेक्ष्य अन्यो घटः स्यात्, तदा को दोष इति । उच्यते-

विश्वास-प्रस्तुतिः

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् ।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥

६ ॥

मूलम्

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् ।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥

६ ॥

एको ऽत्र अन्यशब्द उपदर्शने, अपरश्च अर्थान्तरपरामर्शी, अन्यश्च प्रसिद्धोच्चारणम्, इति अन्यशब्दत्रयोपादानम् । यदि हि एतद् घटाख्यं वस्तु पटादन्यस्मादन्यत् स्यात्, तद् घटाख्यं वस्तु अन्यस्मादपि पटाख्यादृते अन्यद्भवेत्, तदा च पटनिरपेक्षस्यैव एकैकस्य घटस्य अन्यत्वं भवेत् । यद्धि यस्मादन्यत्, तत्तेन विनापि सिद्धयति । तद्यथा । स एव घटो न स्वरूपनिष्पत्तावन्यं पटमपेक्षते । एवमन्यत्वमपि यदि घटस्य अन्यस्मात्पटादृते भवेत्, तदानीं पटनिरपेक्षस्य घटस्य परत्वं स्यात् । न तु एकैकस्य पटनिरपेक्षस्य घटस्यान्यत्वं दृष्टम्। तस्मादन्यद्भवतीति ब्रुवता यदपेक्ष्य यदन्यत्, ततस्तदन्यन्न भवतीति स्फुटमभ्युपेतं भवति ॥

अत्राह- यदि खलु अन्यत्वमेवं कुतश्चित्कस्यचिन्नास्ति, ननु इदमपि तदा न सम्भवति वक्तुम्- यस्मादन्यत्प्रतीत्य अन्यदन्यद्भवतीति, तस्मादेव तदन्यदन्यन्न भवतीति । उच्यते । यत एव हि परस्परापेक्षिकी भावानामन्यत्वसिद्धिः, अत एव अन्यदित्युच्यते लौकिके व्यवहारे स्थित्वा । वस्तुतस्तु परीक्ष्यमाणमन्यत्वं न सम्भवतीति ब्रूमः ॥

यदि तर्हि एवमप्यविद्यमाने ऽप्यन्यत्वे लोकसंवृत्या पटादन्यो घट इति व्यपदिश्यते, अथ कस्माद् बीजाङ्कुरयोरपि एवमन्यत्वं न व्यपदिश्यते? उच्यते । नैव हि लोको घटपटयोरिव बीजाङ्कुरयोरन्यत्वं प्रतिपद्यते, घटपटयोरिव जन्यजनकत्वाभावप्रसङ्गात्, यौगपद्यभावप्रसङ्गात् । अपि च । यस्माद्बीजमात्रमु त्वा बीजकार्यं वृक्षमुपदर्शयति पुमान् लोके- अयं वृक्षो मयोप्त इति, तस्माल्लोके ऽपि कार्यकारणभूतानां नास्त्येव परत्वमिति व्यवस्थाप्यते ॥

६ ॥

(प्प्_११२)
अत्राह- यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धिः स्यात्, स्यादेष दोषः- तस्मात्तदन्यन्न भवतीति । न त्वेवं ब्रूमः । किं तर्हि इह अन्यत्वं नाम सामान्यविशेषो ऽस्ति, तद्यत्र समवेतम् स पदार्थः पदार्थान्तरनिरपेक्षयापि पर इत्युच्यते, तस्मादुक्तदोषानवसरो ऽस्मत्पक्षे इति । उच्यते स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति । इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत अनन्यस्मिन् वा? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह-

नान्यस्मिन् विद्यते ऽन्यत्वमनन्यस्मिन्न विद्यते ।

तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया? अन्यव्यपदेशसिद्धयर्थं हि भवता अन्यत्वं परिकल्प्यते । स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्माल्लब्धान्यव्यपदेश एव पदार्थे ऽन्यस्मिन् अन्यत्वं कल्प्यते, इत्येवं तावदन्यस्मिन्नन्यत्वं न सम्भवति इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एकः, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति यतः विरोधादनन्यस्मिन्नपि अन्यत्वं न सम्भवति । यच्च इदानीं नान्यस्मिन्ननन्यस्मिन् विद्यते तद्वयतिरिक्तस्य पदार्थान्तरस्यासम्भवाद् एतद्वयतिरिक्ते ऽपि पदार्थे न सम्भवति, तत्रैवास्ति । यदा चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धनः अन्यबुद्धिध्वनिप्रवृत्तिहेतुरन्यो ऽपि पदार्थो नास्तीति सिद्धम् ॥

अत्राह- यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति । न च असति अन्यत्वे अन्यो भवितुमर्हति, अतो ऽन्यत्वं भविष्यतीति । उच्यते-

अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥

७ ॥

यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुतः असति अन्यत्वे अन्यद्वा तदेव वा भविष्यति? तदेवेति अनन्यत्वमित्यर्थः । तस्मान्नास्ति अन्यद्वा तदेव वा ॥

७ ॥

अत्राह- विद्यन्त एव दर्शनादयः, संसर्गसद्भावात् । इह दर्शनादीनां यद्यपि अन्यत्वं नास्तीति प्रतिपादितम्, तथापि त्रयाणां सन्निपातः सङ्गतिः स्पर्श इति संसर्गो ऽस्ति । ततश्च संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति । उच्यते । स्युरेवम्, यदि तेषां संसर्ग एव स्यात् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।

इह यदि दर्शनादीनां संसर्गः स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा? तत्र एकत्वे नास्ति संसर्गः । न हि एककं क्षीरमुदकनिरपेक्षमुदकेन संसृज्यत इत्युच्यते । पृथक्त्वे ऽपि संसर्गो नास्ति । न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते । एवं दर्शनादीनां यदि एकत्वे सति संसर्गः परिकल्प्यते, सो ऽनुपपन्नः । एककस्यापि चक्षुषः संसृष्टिप्रसङ्गात् । अथ पृथक्त्वम्, एवमप्यनुपपन्नः । एककस्यापि चक्षुषो रूपादिभ्यः पृथग्भूतस्य संसृष्टिप्रसङ्गात् । असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम् ॥

अत्राह- यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रतिषेधात् । न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च सम्भवति । तस्मात्संसर्गो ऽपि भविष्यतीति । उच्यते । एतदपि न युक्तम् । यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च (प्प्_११३) संसर्गे तदा कुतः संसृज्यमानादिकम्? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्, संसृष्टं निष्पन्नसंसर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थितः । तदत्र संसर्गाभावादेव संसृज्यमानादिकमपश्यंस्तत्प्रतिषेधं निगमयन्नाह-

संसृज्यमानं संसृष्टंसंस्रष्टा च न विद्यते ॥

८ ॥

इति । यथोक्तं भगवता [उपालिपरिपृच्छायाम्]

सर्वसयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम् ।
[नैव च] चक्षु पपश्यति [रूपम्] तेन सयोगवियोगविकल्पः ॥

आलोकसमाश्रित पश्यति चक्षु रूप मनोरम चित्रविचित्रम् ।
येन च योगसमाश्रित चक्षुस्तेन न पश्यति चक्षु कदाचि ॥

ते परिनिर्वृत लौकिक शूरा येहि स्वभावत ज्ञातिभि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः सङ्ग विवर्जिय सत्त्व विनेन्ति ॥

नो पि च सत्त्व न जीविह कश्चि सत्त्वहितं च करोन्ति जिनेन्द्राः ।
॥॥॥॥॥॥

। सत्त्वु न अस्ति करोन्ति च अर्थम् ॥

सङ्गु न विद्यति अत्र कदाचि ॥॥॥॥॥॥॥


॥॥॥॥॥॥

। तस्य न विद्यति वेदन लोके ॥

तथा-

भावितु मार्ग पवर्तितु ज्ञान शून्यक धर्म निरात्मक सर्वि ।
येन विभावित भोन्तिमि धर्मास्तस्य भवेत्प्रतिभानमनन्तम् ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥

(प्प्_११४)