१३
संस्कारपरीक्षा त्रयोदशमं प्रकरणम् ।
यतश्चैवं समनन्तरातिक्रान्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पनत्वं च निरूप्यमाणं भावानामसत्, अन्यश्चोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां बालपृथग्जनानां ख्यान्ति, तस्मान्निःस्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत् तदनभिज्ञानां न तु विज्ञानाम् । अत एव सर्वधर्मस्वाभावाव्यापरोक्षधीनयनः समुन्मूलिताशेषाविद्यावासनः चतुर्विपर्यासविपर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनैः स्वाभाव्योपदेशतत्परो बुद्धो जगद्विबोधको महाकारुणिकः-
विश्वास-प्रस्तुतिः
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥
१ ॥
मूलम्
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥
१ ॥
सूत्रे उक्तम्- तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षवः परमं सत्यं यदिदममोषधर्म निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा- नास्त्यत्र तथता अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत् इति । तदनेन न्यायेन यन्मोषधर्म तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन ते संस्कारा मृषा भवन्ति चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथख्यात्यालातचक्रवत् । अतो निःस्वभावत्वेन मृषा सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत् । यत्तु सत्यं न तन्मोषधर्मकम्, तद्यथा निर्वाणमेकम् । ततश्च विहितया उपपत्त्या अस्माच्चागमात् सिद्धं सर्वभावानां नैःस्वाभाव्यम् । शून्याः सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता- अर्धशतिकापाठात् ॥
१ ॥
अत्राह- यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मकाः सर्वसंस्काराः, ये ऽद्यापि भवन्तं मुष्णन्ति । ननु च भोः,
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते? किं तत्राभावो भवति? कश्चिद्यदि पदार्थो ऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः । यदा तु पदार्थमेव कञ्चिन्न पश्यामः, तदा किं तत्र मुष्यते? नैव किञ्चिदभावो भवतीत्ययुक्तो ऽयमुपालम्भो भवतः ।
अत्राह- यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति? उच्यते-
एतत्तूक्तं भगवता शून्यतापरिदीपकम् ॥
२ ॥
यदेतदुक्तं भगवता, तन्न भावानामभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम् स्वभावानुत्पादपरिदीपकमित्यर्थः । यथोक्तमनवतप्तह्रदापसङ्क्रमणसूत्रे-
(प्प्_१०५)
यः प्रत्ययैर्जायति स ह्यजातो नो तस्य उत्पादु सभावतो ऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥
इति ॥
२ ॥
अत्राह- नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभावस्यानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्,
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः । एतदुक्तं भवति- यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्यते च परिणामः । तस्मात्स्वभावानव स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥
इतश्चैतदेवम् । यस्मात्-
अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥
३ ॥
यो ह्यस्वभावो भावः, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छयामतोपपद्यत इति । तस्मादस्त्येव भावानां स्वभाव इति ॥
३ ॥
अपि च-
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
यदि भावानां स्वभावो न स्यात्, यो ऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति? अत्रोच्यते । एवमपि परिकल्प्यमाने
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥
४ ॥
इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसम्भूतत्वात्कृत्रिमत्वान्न स्वभाव इति । यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः । न हि अग्निः शैत्यं प्रतिपद्यते । एवं भावानां सति स्वभावाभ्युपगमे ऽन्यथात्वमेव न सम्भवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति स्वभावः ॥
४ ॥
अपि च । अयमन्यथाभावो भावानां नैव सम्भवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च न सम्भवति, तथा प्रतिपादयन्नाह-
(प्प्_१०६)
विश्वास-प्रस्तुतिः
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥
५ ॥
मूलम्
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥
५ ॥
तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जरायाः पर्यायः । तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया सम्बन्धः, निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया सम्बन्धः कुर्यात्? तदागमनान्तरेण जीर्णताभावाज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात् ॥
५ ॥
अपि च ।
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
अथ स्यात्- क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति । उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात्-
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥
६ ॥
किमुदकस्य दधिभावो भवतु? तस्मादसम्बद्धमेव तदन्यस्य दधिभावो भविष्यतीति । तदेवमन्यथात्वासम्भवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यथोक्तमार्यरत्नाकरमहायानसूत्रे-
यो न पि जायति नो चुपपद्यी नो च्यवते न पि जीर्यति धर्मः ।
तं जिनु दर्शयती नरसिम्ह तत्र निदेशयि सत्त्व महर्षी ॥
यस्य स्वभाव न विद्यति कश्चि नो ऽपरभावतु केनचि लब्धः ।
नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ॥
शान्त गती कथिता सुगतेन नो च गती उपपद्यति काचि ।
तत्र च व्योहरसी गतिमुक्तो मुक्तकु मोचयसी बहुसत्त्वान् ॥
(प्प्_१०७)
सर्वि वदेसि निरात्मक धर्मान् सत्त्वतु ग्राहतु मोचसि लोकम् ।
मुक्त स्वयं गतितो गतिमुक्तो तेनसि पारगतो न च तीर्णः ॥
पारगतो ऽसि भवार्णवतीर्णः पारगतो न च लभ्यति कश्चि ।
पारु न विद्यति नापि अपारु पारगतो ऽस्मि वदेसि च वाक्यम् ॥
वाच न विद्यति यां च वदेसि यं पि वदेसि न विद्यति तं पि ।
यस्य वदेसि न विद्यति सो ऽपि यो ऽपि विजानति सो ऽपि असन्तो ॥
तत्र प्रणष्टु जगं इमु सर्वं वितथविकल्पनिवेशवशेन ।
शान्त विजानति यो नरु धर्मां स्तेहि तथागतु दृष्ट स्वयम्भूः ॥
शान्त प्रजानति धर्म प्रणीतान् प्रीति स विन्दति तोषति सत्त्वान् ।
सो भवती जिनु जित्वेन क्लेशान् आत्म ॥॥॥॥॥॥
।
तेन विजानित बोधि जिनानां बुद्धिय बोधयते स जगं पि ।
इत्यादि ॥
६ ॥
यच्चोक्तम्- अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति शून्यताअश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह-
विश्वास-प्रस्तुतिः
यद्यशून्यं भवेत्किञ्चित्स्याच्छून्यमिति किञ्चन ।
न किञ्चिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥
७ ॥
मूलम्
यद्यशून्यं भवेत्किञ्चित्स्याच्छून्यमिति किञ्चन ।
न किञ्चिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥
७ ॥
यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात् । न त्वेवम् । इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव नास्ति । यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वाच्छून्यतापि (प्प्_१०८) खपुष्पमालावन्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदातदाश्रया अपि पदार्था न सन्तीति स्थितमविकलम् ॥
७ ॥
अत्राह- त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिताख्यानि विमुक्तये विनेयेभ्यो भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते । येषामुपदेशार्थमेव बुद्धा भगवन्तो ऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योपदेशाविच्छिन्नशिखा उत्पद्यन्ते । स भवांस्तथागतप्रवचनव्याख्यानव्याजेन इदानीं तामेव शून्यतां प्रतिक्षेप्तुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति । उच्यते । अहो वत भवानत्युन्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या, कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्मुमुक्षुः सन् संसाराटवीकान्तारः सद्भिरुपालभ्य एव सन् अभिमानाभिनिवेशग्रहपवरशतया तानेवोपालभते । ननु भोः, निरवशेषक्लेशव्याधिचिकित्सकैर्महावैद्यराजैः-
विश्वास-प्रस्तुतिः
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥
८ ॥
मूलम्
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥
८ ॥
इह सर्वेषामेव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यनिःसरणमप्रवृत्तिः सा शून्यता । न च दृष्टिकृतानां निवृत्तिमात्रं भावः । ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति अवाचका वयमिति कुतो ऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति? यः नकिञ्चिदपि ते पण्यं दास्यामीत्युक्तः, स चेत् ऽदेहि भोस्तदेव मह्यं नकिञ्चिन्नाम पण्यम्,ऽ; इति ब्रूयात्, स केनोपायेन शक्यः पण्याभावं ग्राहयितुम्? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति? अतो महाभैषज्ये ऽपि दोषसञ्ज्ञित्वात् परमचिकित्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे-
यन्न शून्यतया धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः । यन्नानिमित्तेन धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः । यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति, अपि तु धर्मा एवाप्रणिहिताः । यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति वदामि ॥
इति प्रवचनात् ॥
तथा-
वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यतादृष्टिः । तत्कस्य हेतोः? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लानः पुरुषः स्यात् । तस्मै (प्प्_१०९) वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत् । तत्किं मन्यसे काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत्? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत् । भगवानाह- एवमेव काश्यप सर्वदृष्टिकृतानां शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि ॥
इति ॥
८ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम् ॥
(प्प्_११०)